अभिसमयालंकरनामप्रज्ञापारमितोपदेशशास्त्र · अध्याय 4
॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे
सर्वज्ञताधिकारस् तृतीयः ॥
वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् ।
सर्वज्ञतानां त्रैविद्यात् त्रिविधा एव ते मताः
असदाकारमारभ्य यावन्निश्चलताकृतिः ।
चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः
हेतौ मार्गे च दुःखे च निरोधे च यथाक्रमम् ।
अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः
स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः ।
शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम्
सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मताः ।
त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः
कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः ।
मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम्
बुद्धोपासनसंप्रश्नदानशीलादिचर्यया ।
उद्ग्रहधारणादीनां भाजनत्वं सतां मतम्
रूपादिष्वनवस्थानात्तेषु योगनिषेधतः ।
तत्तथतागम्भीरत्वात्तेषां दुरवगाहतः
तदप्रामाण्यतः कृच्छाच्चिरेण प्रतिबोधतः ।
व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे
आसन्नबोधे क्षिप्रं च परार्थे ऽवृद्ध्यहानितः ।
धर्माधर्माद्यदृष्टौ च रुपाचिन्त्याद्यदर्शने
रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः ।
फलरत्नप्रदाता च शुद्धकः सावधिश्च सः
माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः ।
दोषाश्च षड्विबोद्धव्याश्चतुर्भिर्दशकैः सह
लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् ।
ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते
तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके ।
सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ
अक्षयाकारतायां च सरागादौ प्रविस्तृते ।
महद्गते ऽप्रमाणे च विज्ञाने चानिदर्शने
अदृश्यचितज्ञाने च तदुन्मिञ्जादिसंज्ञकम् ।
पुनस्तथताकारेण तेषां ज्ञानमतः परम्
तथतायां मुनेर्बोधे तत्पराख्यानमित्ययम् ।
सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः
शून्यत्वे सानिमित्ते च् प्रणिधानविवर्जिते ।
अनुत्पादनिरोधादौ धर्मताया अकोपने
असंस्करे ऽविकल्पे च प्रभेदालक्षणत्वयोः ।
मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते
स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ ।
गुरूत्वे माननायां च तत्पूजाकृतकत्वयोः
सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् ।
लोकस्य शून्यताकारसूचकज्ञापकाक्षगम्
अचिन्त्यशान्ततादर्शि लोकसंज्ञानिरोधि च ।
ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये
अचित्यादिविशेषेण विशिष्टैः सत्यगोचरैः ।
विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः
अचिन्त्यातुल्यते मेयसंख्येयासमतिक्रमौ ।
सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते
क्षिप्रज्ञान्युनपूर्णत्वे प्रतिपत्समुदागमौ ।
आलम्बनं च साधारं साकल्यं संपरिग्रहः
अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः ।
विशेषमार्गा मार्गेभ्यो येनान्येभ्यो विशिष्यते
हितं सुखं च त्राणं च शरणं लयनं नृणाम् ।
परायणं च द्वीपं च परिणायकसंज्ञकम्
अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् ।
पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम्
क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः ।
विवेको दुष्करैकान्तावुद्देशो ऽनुपलम्भकः
निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः ।
विप्रत्ययो ऽविघाती च सो ऽपदागत्यजातिकः
तथतानुपलम्भश्च स्वभावः षोडशात्मकः ।
लक्ष्मेव लक्ष्यते चेतिचतुर्थं लक्षणं मतम्
अनिमित्तप्रदानादिसमुदागमकौशलम् ।
सर्वाकारावबोधे ऽस्मिन् मोक्षभगीयमिष्यते
बुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम् ।
स्मृतिराशयसंपत्तिः समाधिरविकल्पना
धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा ।
तीक्ष्णै सुबोधा संबोधिर्दुर्बोधा मृदुभिर्मता
आलम्बनं सर्वसत्त्वा ऊष्मणामिह शक्यते ।
समचित्तादिराकारस्तेष्वेव दशधोदितः
स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च ।
तयोर्नियोजनान्येषां वर्णवादानुकुलते
मूर्धगम् स्वपराधारं सत्यज्ञानं तथा क्षमा ।
तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः
निर्वेधङ्गान्युपादय दर्शनाभ्यासमार्गयोः ।
ये बोधिसत्त्वा वर्तन्ते सो ऽत्रावैवर्तिको गणः
रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विंशतिधेरितैः ।
निर्वेधाङ्गस्थितस्येदमवैवर्तिकलक्षणम्
रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयौ ।
आत्मनः कुशलस्थस्य परेषां तन्नियोजनम्
पराधारं च दानादि गम्भिरे ऽर्थे ऽप्यकाङ्क्षणम् ।
मैत्रं कायाद्यसंवासः पञ्चधावरणेन च
सर्वानुशयहानं च स्मृतिसंप्रज्ञता सुचि ।
चिवरादिशरीरे च कृमीणामसमुद्भवः
चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता ।
धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा
परैरनेयता मारस्यान्यमार्गोपदेशिनः ।
मार इत्यवबोधश्च चर्या बुद्धानुमोदिता
ऊष्ममूर्धसु स क्षान्तिष्वग्रधर्मेष्ववस्थितः ।
लिङ्गैरमीभिर्विशत्या संबोधेर्न विवर्तते
क्षान्तिज्ञानक्षणः षट् च पञ्च पञ्च च दृक्पथे ।
बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम्
रूपादिसंज्ञाव्यावृत्तिर्दार्ढ्यं चित्तस्य हिनयोः ।
यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः
कायचेतोलघुत्वं च कामसेवाभ्युपायिकी ।
सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता
स्कन्धादवन्तरायेषु संभारे सेन्द्रियादिके ।
समरे मत्सरादौ च नेति योगानुयोगयोः
विहारप्रतिषेधश्च धर्मस्याणोरलब्धता ।
निश्चितत्वं स्वभुमौ च भूमित्रितयसंस्थितिः
धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः ।
अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः
गम्भिरो भावनामार्गो गाम्भीर्यं शुन्यतादिकम् ।
समारोपापवादान्तमुक्तता सा गभीरता
चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः ।
निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च
प्राबन्धकत्वादिष्टो ऽसौ नवधा च प्रकारतः ।
मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः
असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः ।
कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः
हानिवृद्धी न युज्येते निरालापस्य वस्तुनः ।
भावनाख्येन किं हिनं वर्त्मना किमुदागतम्
यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः ।
तथतालक्षणा बोधिः सो ऽपि तल्लक्षणो मतः
पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा ।
दीपदृष्टान्तयोगेनगम्भीरा धर्मताष्टधा
उत्पादे च निरोधे च तथतायां गभीरता ।
ज्ञेये दाने च चर्यायामद्वयोपायकौशले च
स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना ।
कर्माभावादिचोद्यानां परिहारा यथोदिताः
सत्त्वलोकस्य या शुद्धिस्तस्याः सुद्ध्युपहारतः ।
तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता
विषयो ऽस्य प्रयोगश्च शात्रवाणामतिक्रमः ।
अप्रतिष्ठो यथावेधमसाधारणलक्षणः
असक्तो ऽनुपलम्भश्च निमित्तप्रणिधिक्षतः ।
लल्लिङ्गश्चाप्रमाणश्च दशधोपायकौशलम्
मूल पाठ: Abhisamayālaṃkaranāmaprajñāpāramitopadeśaśāstra · Edition: unknown · Data entry Christian Coseru · GRETIL (Göttingen) · CC BY-NC-SA 4.0