अभिसमयालंकार · अध्याय 4
इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे तृतीयाधिकारः ।
4 सर्वाकाराभिसम्बोधाधिकारः चतुर्थः
1 - आकाराः
वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् ।
सर्वज्ञतानां त्रैविध्यात् त्रिविधा एव ते मताः
असदाकारमारभ्य यावन्निश्चलताकृतिः ।
चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः
हेतौ मार्गे च दुःखे च निरोधे च यथाक्रमम् ।
अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः
स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः ।
शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम्
सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मताः ।
त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः
कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः ।
मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम्
बुद्धोपासनसम्प्रश्नदानशीलादिचर्यया ।
उद्ग्रहधारणादीनां भाजनत्वं सतां मतम्
2 - प्रयोगाः
रूपादिष्वनवस्थानात् तेषु योगनिषेधतः ।
तत्तथतागम्भीरत्वात् तेषां दुरवगाहतः
तदप्रामाण्यतः कृच्छ्राच्चिरेण प्रतिबोधतः ।
व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे
आसन्नबोधे क्षिप्रं च परार्थे ऽवृद्धयहानितः ।
धर्माधर्माद्यदृष्टौ च रूपाचिन्त्याद्यदर्शने
रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः ।
फलरत्नप्रदाता च शुद्धकः सावधिश्च सः
3 - गुणाः
माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः ।
4 - दोषाः
दोषाश्च षड् विबोद्धव्याश्चतुर्भिर्दशकैः सह
5 - लक्षणानि
लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् ।
ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते
तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके ।
सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ
अक्षयाकारतायां च सरागादौ प्रविस्तृते ।
महद्गते ऽप्रमाणे च विज्ञाने चानिदर्शने
अदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम् ।
पुनस्तथताकारेण तेषां ज्ञानमतः परम्
तथतायां मुनेर्बोधतत्पराख्यानमित्ययम् ।
सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः
शून्यत्वे सानिमित्ते च प्रणीधानविवर्जिते ।
अनुत्पादानिरोधादौ धर्मताया अकोपने
असंस्कारे ऽविकल्पे च प्रभेदालक्षणत्वयोः ।
मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते
स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ ।
गुरुत्वे माननायां च तत्पूजाकृतकत्वयोः
सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् ।
लोकस्य शून्यताकारशूचकज्ञापकाक्षगम्
अचिन्त्यशान्ततादर्शि लोकसंज्ञनिरोधि च ।
ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये
अचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः ।
विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः
अचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ ।
सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते
क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ ।
आलम्बनं च साधारं साकल्यं सम्परिग्रहः
अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः ।
विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते
हितं सुखं च त्राणं च शरणं लयनं नृणाम् ।
परायणं च द्वीपं च परिणायकसंज्ञकम्
अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् ।
पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम्
क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः ।
विवेको दुष्करैकान्तावुद्देशो ऽनुपलम्भकः
निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः ।
विप्रत्ययो ऽविघाती च सो ऽपदागत्यजातिकः
तथतानुपलम्भश्च स्वभावः षोडशात्मकः ।
लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम्
6 - मोक्षभागीयम्
अनिमित्तप्रदानादिसमुदागमकौशलम् ।
सर्वाकारावबोधे ऽस्मिन् मोक्षभागीयमिष्यते
बुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम् ।
स्मृतिराशयसम्पत्तिः समाधिरविकल्पना
धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा ।
तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता
7 - विर्वेधभागीयम्
आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते ।
समचित्तादिराकारस्तेष्वेव दशधोदितः
स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च ।
तयोर्नियोजनान्येषां वर्णवादानुकूलते
मूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा ।
तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः
8 - अवैवर्तिको गणः
निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः ।
ये बोधिसत्त्वा वर्तन्ते सो ऽत्रावैवर्तिको गणः
रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विशतिधेरितैः ।
निर्वेधाङ्गशितस्येदमक्वैर्तिकलक्षणम्
रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयो ।
आत्मनः कुशलस्थस्य परेषां तन्नियोजनम्
पराधारं च दानादि गम्भीरे ऽर्थे ऽप्यकांक्षणम् ।
मैत्रं कायाद्यसंवासः पंचधावरणेन च
सर्वानुशयहानं च स्मृतिसम्प्रज्ञता शुचि ।
चीवरादि शरीरे च कृमीणामसमुद्भवः
चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता ।
धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा
परैरनेयता मारस्यान्यमार्गोपदेशिनः ।
मार इत्येव बोधश्च चर्या बुद्धानुमोदिता
ऊष्ममूर्धसु सक्षान्तिष्वग्रधर्मेष्ववस्थितः ।
लिङ्गैरमीभिर्विशत्या सम्बोधेर्न निवर्तत्ते
क्षान्तिज्ञानक्षणाः षट् च पञ्च पञ्च च दृक्पथे ।
बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम्
रूपादिसंज्ञाव्यावृत्तिर्दाढर्यं चित्तस्य हीनयोः ।
यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः
कायचेतोलघुत्वं च कामसेवाभ्युपायिकी ।
सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता
स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके ।
समरे मत्सरादौ च नेति योगानुयोगयोः
विहारप्रतिषेधश्च धर्मस्याणोरलब्धता ।
निश्चितत्त्वं स्वभूमौ च भूमित्रितयसंस्थितिः
धर्मार्थः जीवितत्याग इत्यमी षोडश क्षणाः ।
अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः
गम्भीरो भावनामार्गो गाम्भीर्यं शून्यतादिकम् ।
समारोपापवादान्तमुक्तता सा गभीरता
चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः ।
निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च
प्राबन्धिकत्वादिष्टो ऽसौ नवधा च प्रकारतः ।
मृदुमध्याधिमात्राणां पुनर्मृद्धादिभेदतः
असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः ।
कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः
हानिवृद्धी न युज्येते निरालापस्य वस्तुनः ।
भावनाख्येन किं हीनं वर्त्मना किमुपदागतम्
यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः ।
तथतालक्षणा बोधिः सो ऽपि तल्लक्षणो मतः
पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा ।
दीपदृष्टान्तयोगेन गम्भीरा धर्मताष्टधा
उत्पादे च निरोधे च तथतायां गभीरता ।
ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले
9 - भवशान्त्योः समता
स्वप्नोपमत्वाद् धर्माणां भवशान्त्योरकल्पना ।
कर्माभावादिचोद्यानां परिहारा यथोदिताः
10 - अनुत्तरा क्षेत्रशुद्धिः
सत्त्वलोकस्य याशुद्धिस्तस्याः शुद्ध्युपहारतः ।
तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता
11 - उपायकौशलम्
विषयो ऽस्य प्रयोगस्य शात्रवाणामतिक्रमः ।
अप्रतिष्ठो यथावेधमसाधारणलक्षणः
असक्तो ऽनुपलम्भश्च निमित्तप्रनिधिक्षतः ।
तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम्
मूल पाठ: Abhisamayālaṃkāra · Edition: Ramsankar Tripathi: Abhisamayalankaravrttih Sphutartha. Sarnath : Central Institute of Higher Tibetan Studies (CIHTS), 1977. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0