भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमयालंकार · अध्याय 3

3.1

इत्यभिसमयालङ्कारे नाम
प्रज्ञापारमितोपदेशशास्त्रे द्वितीयाधिकारः ।
3 सर्वज्ञताधिकारः तृतीयः
1 - प्रज्ञया न भवे स्थानम्
2 - कृपया न शमे स्थितिः
नापरे न परे तीरे नान्तराले तयोः स्थिता ।
अध्वनां समताज्ञानात् प्रज्ञापारमिता मता

3.2

3 - अनुपायेन दूरत्वम्
4 - उपायेनाविदूरता
अनुपायेन दूरं सा सनिमित्तोपलम्भतः ।
उपायकौशलेनास्याः सम्यगासन्नतोदिता

3.3

5 - विपक्षः
रुपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च ।
दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता

3.4

6 - प्रतिपक्षः
दानादिष्वनहंकारः परेषां तन्नियोजनम् ।
सङ्गकोटिनिषेधो ऽयं सूक्ष्मः सङ्गो जिनादिषु

3.5

तद्गाम्भीर्य प्रकृत्यैव विवेकाद् धर्मपद्धतेः ।
एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम्

3.6

दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता ।
रूपादिभिरविज्ञानात् तदचिन्त्यत्वमिष्यते

3.7

एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये ।
अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः

3.8

7 - प्रयोगः
रुपादौ तदनित्यादौ तदपूरिप्रपूरयोः ।
तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः

3.9

अविकारो न कर्त्ता च प्रयोगो दुष्करस्त्रिधा ।
यथाभव्य फलप्राप्तेरवन्ध्यो ऽभिमतश्च सः

3.10

अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः ।
8 - समता
चतुर्धामनना तस्य रूपादौ समता मता

3.11

9 - दर्शनमार्गः
धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः ।
दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानय

3.12

रूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम् ।
अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम्

3.13

परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः ।
प्रव्याहारेण नास्यार्थः परेषु प्राप्यते यतः

3.14

नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसम्भवः ।
अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति

3.15

असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये ।
ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः

3.16

इति सेयं पुनः सेयं सेयं खलु पुनस्त्रिधा ।
अधिकारत्रयस्यैषा समाप्तिः परिदीपिता

मूल पाठ: Abhisamayālaṃkāra · Edition: Ramsankar Tripathi: Abhisamayalankaravrttih Sphutartha. Sarnath : Central Institute of Higher Tibetan Studies (CIHTS), 1977. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc