अभिसमयालंकार · अध्याय 5
इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे चतुर्थाधिकारः ॥
मूर्धाभिसमयाधिकारः पञ्चमः
1 - लिङ्गम(ऊष्मा मुर्धप्रयोगः)
स्वप्नान्तरे ऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् ।
मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम्
2 - विवृद्धिः(मूर्धा मूर्धप्रयोगः)
जम्बुद्विपजनेयत्ताबुद्धपूजाशुभादिकाम् ।
उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका
3 - निरुधिः(क्षान्तिः मूर्धप्रयोगः)
त्रिसर्वज्ञत्वधर्माणां परिपुरिरनुत्तरा ।
अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते
4 - चित्तसंस्थितिः(अग्रधर्माख्यः मूर्धप्रयोगः)
चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमः ।
कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः
5 - दर्शनमार्गः(मूर्धप्रयोगः)
प्रवृत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ ।
ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ
द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ ।
पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ
ग्राह्यौ चेन्न तथा स्तो ऽर्थौ कस्य तौ ग्राहकौ मतौ ।
इति ग्राहकभावेन शून्यतालक्षणं तयोः
एष स्वभावे गोत्रे च प्रतिपत्समुदागमे ।
ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः
स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले ।
प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः
भवशान्तिप्रपातित्वान्न्यूनत्वे ऽधिगमस्य च ।
परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते
परप्रत्यगामित्वे समुद्देशनिवर्तने ।
प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः
पृष्ठतो गमने चेति विकल्पो ऽयं नवात्मकः ।
निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः
ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षणे ।
मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च
स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः ।
सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ
यथोद्देशमनिर्याणे मार्गामार्गावधारणे ।
सनिरोधे समुत्पादे वस्तुयोगवियोगयोः
स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः ।
प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहको ऽपरः
बोधौ सन्दर्शनान्येषां तद्धेतोश्च परीन्दना ।
तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः
क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते ।
क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम्
प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना ।
विकल्पजातं कि क्षीणं किं वानत्पत्तिमागतम्
सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः ।
कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया
नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किंचन ।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते
एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः ।
स एकक्षणिकः क्षान्तिसंगृहीतो ऽत्र दृक्पथः
स समाधिं समापद्य ततः सिंहविजृम्भितम् ।
अनुलोमं विलोमं च प्रतीत्योत्पादमीक्षते
6 - भावनामार्गः(मूर्धप्रयोगः)
कामाप्तमबधीकृत्य विज्ञानमसमाहितम् ।
सनिरोधाः समपत्तीर्गत्त्वागम्य नव द्विधा
एकद्वित्रिचतुःपञ्चषट्सप्ताष्टव्यतिक्रमात् ।
अवस्कन्दसमापत्तिरनिरोधमतुल्यता
संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे ।
त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि
एको ग्राह्यविकल्पो ऽयं प्रयोगाकारगोचरः ।
द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः
अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया ।
हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः
भावने ऽभावने चैव तद्विपर्यय एव च ।
अयथार्थश्च विज्ञेयो विकल्पो भावनापथे
ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः ।
धर्मप्रत्यशून्यत्वसक्तिप्रविचयात्मकः
कृते च वस्तुनो यानत्रितये च स कीर्त्तितः ।
दक्षिणाया अशुद्धौ वा चर्यायाश्च विकोपने
सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः ।
भावनामार्गसम्बद्धो विपक्षस्तद् विघाततः
सर्वज्ञतानां तिसृणां यथास्वं त्रिविधावृत्तौ ।
शान्तिमार्गतथतादिसम्प्रयोगवियोगयोः
असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि ।
द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः
आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव ।
सर्वाकारजगत्सौख्यसाधना गुणसम्पदः
सर्वाः सर्वाभिसारेण निकामफलशालिनम् ।
भजन्ते तं महासत्त्वं महोदधिमिवापगाः
7 - आनन्तर्यसमाधिः(मूर्धप्रयोगः)
त्रिसाहस्रजनं शिष्यखड्गाधिगमसम्पदि ।
बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः
कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः ।
आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत्
आलम्बनमभावो ऽस्य स्मृतिश्चाधिपतिर्मतः ।
आकारः शान्तता चात्र जल्पाजल्पिप्रवादिनाम्
आलम्बनोपपत्तौ च तत्स्वभावावधारणे ।
सर्वाकरज्ञताज्ञाने परमार्थे ससंवृत्तौ
प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः ।
विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः
लक्षणे भावनायां च मता विप्रतिपत्तयः ।
सर्वाकारज्ञताधारा षोढा दश च वादिनाम्
मूल पाठ: Abhisamayālaṃkāra · Edition: Ramsankar Tripathi: Abhisamayalankaravrttih Sphutartha. Sarnath : Central Institute of Higher Tibetan Studies (CIHTS), 1977. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0