भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमयालंकार · अध्याय 2

2.1

इत्यभिसमयालङ्कारे नाम
प्रज्ञापारमितोपदेशशास्त्रे प्रथमाधिकारः ।
2 मार्गज्ञताधिकारः द्वितीयः
1 - ध्यामीकरणतादीनि
ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति ।
विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च

2.2

2 - श्रावकमार्गः
चतुर्णामार्यसत्यानामाकारानुपलम्भतः ।
श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये

2.3

रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः ।
ऊस्माणौ ऽनुपलम्भेन तेषां मूर्धगतं मतम्

2.4

क्षान्तयस्तेषु नित्यादियोगस्थाननिषेधतः ।
दश भूमीः समारभ्य विस्तरास्थानदेशनात्

2.5

अग्रधर्मगतं प्रोक्तमार्यश्रावकर्त्मनि ।
तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात्

2.6

3 - प्रत्येकबुद्धमार्गः
परोपदेशवैयर्थ्यं स्वयम्बोधात् स्वयम्भुवाम् ।
गम्भीरता च ज्ञानस्य खड्गानामभिधीयते

2.7

शुश्रूषा यस्या यस्यार्थे यत्र यत्र यथा यथा ।
स सो ऽर्थः ख्यात्यशब्दो ऽपि तस्य तस्य तथा तथा

2.8

ग्राह्यार्थकल्पनाहानाद् ग्राहकस्याप्रहाणतः ।
आधारतश्च विज्ञेयः खड्गमार्गस्य संग्रहः

2.9

प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः ।
ऊष्मगं मूर्धगं रूपाद्यहानादिप्रभावितम्

2.10

अध्यात्मशून्यताद्याभी रूपादेरपरिग्राहात् ।
क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता

2.11

4 - बोधिसत्त्वमार्गः
क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः ।
मार्गज्ञतायां दृङ्मार्गः सानुशंसो ऽयमुच्यते

2.12

आधाराधेयताभावात्तथताबुद्धयोर्मिथः ।
पर्यायेणाननुज्ञानं महत्ता साप्रमाणता

2.13

परिमाणान्तताभावो रूपादेरवधारणम् ।
तस्यां स्थितस्य बुद्धत्वे ऽनुद्ग्रहात्यागतादयः

2.14

मैत्र्यादि शून्यता प्राप्तिर्बुद्धत्वस्य परिग्रहः ।
सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम्

2.15

निर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम् ।
अप्राणिवधमारभ्य सर्वाकारज्ञतानये

2.16

स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् ।
दानादीनां च सम्बोधाविति मार्गज्ञताक्षणाः

2.17

5 - भावनामार्गकारित्रम्
सर्वतो दमनं नाम सर्वतः क्लेशनिर्जयः ।
उपक्रमाविषह्यत्वं बोधिराधारपूज्यता

2.18

सास्रवो भावनामार्गः
6 - भावनामार्गाधिमुक्तिः
अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका ।
परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते

2.19

मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः ।
सा पुनस्त्रिबिधेत्येवं सप्तविंशतिधा मता

2.20

7 - भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभः प्रशंसा च
स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति ।
अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते

2.21

8 - परिणामना
विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् ।
नोपलम्भाकृतिश्चासावविपर्यासलक्षणः

2.22

विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः ।
सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः

2.23

त्रैधातुकाप्रपन्नश्च परिणामो ऽपरस्त्रिधा ।
मृदुर्मध्यो ऽधिमात्रश्च महापुण्योदयात्मकः

2.24

9 - अनुमोदना
उपायानुपलम्भाभ्यां शुभमूलानुमोदना ।
अनुमोदे मनस्कारभावनेह विधीयते

2.25

अनास्रवो भावनामार्गः
10 - अभिनिर्हारः
स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः ।
नोपलम्भेन धर्माणामर्पणा च महार्थता

2.26

11 - अत्यन्तविशुद्धिः
बुद्धसेवा च दानादिरुपाये यच्च कौशलम् ।
हेतवो ऽत्राधिमोक्षस्य धर्मव्यसनहेतवः

2.27

माराधिष्ठानगम्भीरधर्मतानधिमुक्तते ।
स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः

2.28

फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः ।
अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदीरिता

2.29

क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् ।
हानाद् विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा

2.30

मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु ।
अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः

2.31

त्रिधातुप्रतिपक्षत्वं समता मानमेययोः ।
मार्गस्य चेष्यते तस्य चोद्यस्य परिहारतः

मूल पाठ: Abhisamayālaṃkāra · Edition: Ramsankar Tripathi: Abhisamayalankaravrttih Sphutartha. Sarnath : Central Institute of Higher Tibetan Studies (CIHTS), 1977. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc