भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमयालंकार · अध्याय 1

1.1

अभिसमयालङ्कार (अस)
नमो मञ्जुश्रिये कुमारभूताय
आर्यमैत्रेयनाथविरचितम् अभिसमयालङ्कारो नाम प्रज्ञापारमितोपदेशशास्त्रम्
सर्वाकारज्ञाताधिकारः प्रथमः
मङ्गालाचरणम्
या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान्
या मार्गज्ञतया जगद्धितकृतां लोकार्थसम्पादिका ।
सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगतास्
तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः

1.2

ग्रान्थारम्भप्रयोजनम् सर्वाकारज्ञतामार्गः शासित्रा यो ऽत्र देशितः ।
धीमन्तो वीक्षिषिरंस्तमनालीढं परैरिति

1.3

स्मृतौ चाधाय सूत्रार्थं धर्मचर्यां दशात्मिकाम् ।
सुखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम्

1.4

प्रज्ञापारमितायाः कायिकव्यवस्थापनम्
प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता ।
सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः

1.5

सर्वाकाराभिसम्बोधो मूर्धप्राप्तो ऽनुपूर्विकः ।
एकक्षणाभिसम्बोधो धर्मकायश्च ते ऽष्टधा

1.6

चित्तोत्पादो ऽववादश्च निर्वेधाङ्गं चतुर्विधम् ।
आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः

1.7

आलम्बनं समुद्देशः सन्नाहप्रस्थितिक्रिये ।
सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः

1.8

ध्यामीकरणतादीनि शिष्यखड्गपथौ च यौ ।
महानुशंसो दृङ्मार्ग एहिकामुत्रिकैर्गुणैः

1.9

कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः ।
परिणामे ऽनुमोदे च मनस्कारावनुत्तमौ

1.10

निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः ।
विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता

1.11

प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः ।
अनुपायेन दूरत्वम् उपायेनाविदूरता

1.12

विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च ।
दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते

1.13

आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः ।
मोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः

1.14

समता भवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा ।
सर्वाकाराभिसम्बोध एष सोपायकौशलः

1.15

लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः ।
चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः

1.16

प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि ।
आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः

1.17

मूर्धाभिसमयस्त्रेधा दशधा चानुपूर्विकः ।
एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः

1.18

स्वाभाविकः ससाम्भोगो नैर्माणिको ऽपरस्तथा ।
धर्मकायः सकारित्रश्चतुर्धा समुदीरितः

1.19

सर्वाकारज्ञता
1 - चित्तोत्पादः
चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता ।
समासव्यासतः सा च यथासूत्रं स चोच्यते

1.20

भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः ।
वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः

1.21

नृपगञ्जमहामार्गयानप्रस्रवणोदकैः ।
आनन्दोक्तिनदीमेवैर्द्वाविंशतिविधः स च

1.22

2 - अववादः
प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु ।
असक्तावपरिश्रान्तो प्रतिपत्सम्परिग्रहे

1.23

चक्षुःषु पञ्चसु ज्ञेयः षट्स्वभिज्ञागुणेषु च ।
दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः

1.24

मृदुतीक्ष्णेन्द्रियौ श्रद्धादृष्टिप्राप्तौ कुलङ्कलौ ।
एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः

1.25

प्लुतास्त्रयो भवस्याग्रपरमो रूपरागहा ।
दृष्टधर्मशमः कायसाक्षी खड्गश्च विंशतिः

1.26

3 - निर्वेधाङ्गम्
आलम्बनत आकाराद्धेतुत्वात् सम्परिग्रहात् ।
चतुर्विकल्पसंयोगं यथास्वं भजतां सताम्

1.27

श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः ।
मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता

1.28

आलम्बनमनित्यादि सत्याधारं तदाकृतिः ।
निषेधो ऽभिनिवेशादेर्हेतुर्यानत्रयाप्तये

1.29

रूपाद्यायव्ययौ विष्ठास्थिति प्रज्ञप्त्यवाच्यते ।
रूपावादवस्थितिस्तेषां तद्भावेनास्वभावता

1.30

तयोर्मिथः स्वभावत्वं तदनित्याद्यसंस्थितिः ।
तासां तद्भावशून्यत्वं मिथः स्वाभाव्यमेतयोः

1.31

अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् ।
परीक्षणं च प्रज्ञायाः सर्वस्यानुपलम्भतः

1.32

रूपादेरस्वभावत्वं तदभावस्वभावता ।
तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता

1.33

तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञता ।
समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः

1.34

मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना ।
इति निर्वेधभागीयं मृदुमध्याधिमात्रतः

1.35

द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः ।
मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः

1.36

द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः ।
स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा

1.37

चित्तानवलीनत्वादिनैःस्वाभाव्यादिदेशकः ।
तद्विपक्षपरित्यागः सर्वथा सम्परिग्रहः

1.38

4 - प्रतिपत्तेराधारः
षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः ।
तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह

1.39

शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च ।
ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते

1.40

धर्मधातोरसम्भेदाद् गोत्रभेदो न युज्यते ।
आधेयधर्मभेदात्तु तद्भेदः परिगीयते

1.41

5 - आलम्बनम्
आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः ।
लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः

1.42

सास्रवानास्रवा धर्माः संस्कृतासंस्कृताश्च ये ।
शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः

1.43

6 - समुद्देशः
सर्वसत्त्वाग्रताचित्तप्रहाणाधिगमत्रये ।
त्रिभिर्महत्त्वैरुद्देशो विज्ञेयो ऽयं स्वयम्भुवाम्

1.44

7 - सन्नाहप्रतिपत्तिः
दानादौ षड्विधे तेषां प्रत्येकं संग्रहेण या ।
सन्नाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिता

1.45

8 - प्रस्थानप्रतिपत्तिः
ध्यानारूप्येषु दानादौ मार्गे मैत्र्यादिकेषु च ।
गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु

1.46

उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये ।
प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणी

1.47

9 - सम्भारप्रतिपत्तिः
दया दानादिकं षट्कं शमथः सविदर्शनः ।
युगनद्धश्च यो मार्ग उपाये यच्च कौशलम्

1.48

ज्ञानं पुण्यं च मार्गश्च धारणी भूमयो दश ।
प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः

1.49

1.
प्रमुदिता भूमिः
लभ्यते प्रथमा भूमिर्दशधा परिकर्मणा
आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता

1.50

त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा ।
सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा

1.51

धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते ।
ज्ञेयं च परिकर्मैषां स्वभावानुपलम्भतः

1.52

2.
विमला भूमिः
शीलं कृतज्ञता क्षान्तिः प्रामोद्यं महती कृपा ।
गौरवं गुरुशुश्रूषा वीर्यं दानादिके ऽष्टमम्

1.53

3.
प्रभाकरी भूमिः
अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् ।
बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता

1.54

ह्रीरपत्राप्यमित्येतत् पञ्चधा मननात्मकम् ।
4.
अर्चिष्मती भूमिः
वनाशाल्पेच्छता तुष्टिर्धूतसंलेखसेवनम्

1.55

शिक्षाया अपरित्यागः कामानां विजुगुप्सनम् ।
निर्वित्सर्वास्तिसन्त्यागो ऽनवलीनानपेक्षते

1.56

5.
सुदुर्जया भूमिः
संस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम् । आत्मोत्कर्षपरावज्ञे
कर्ममार्गान् दशाशुभान्

1.57

मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् ।
विवर्जयन् समाप्नोति दशैतान् पञ्चमी भुवम्

1.58

6.
अभिमुखी भूमिः
दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् ।
शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः

1.59

याचितो ऽनवलीनश्च सर्वत्यागे ऽप्यदुर्मनाः ।
कृशो ऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते

1.60

7.
दूरङ्गमा भूमिः
आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः ।
निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च

1.61

त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता ।
रत्नत्रितयशीलेषु तद्दृष्टयभिनिवेशिता

1.62

शून्यतायां विवादश्च तद्विरोधश्च विंशतिः ।
कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम्

1.63

त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता ।
करुणामनना धर्मसमतैकनयज्ञता

1.64

अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा ।
कल्पनायाः समुद्घातः संज्ञादृक्क्लेशवर्जनम्

1.65

शमथस्य च निध्यप्तिः कौशलं च विदर्शने ।
चित्तस्य दान्तता ज्ञानं सर्वत्रप्रतिघाति च

1.66

सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् ।
सर्वत्र स्वात्मभावस्य दर्शनं चेति विंशतिः

1.67

8.
अचला भूमिः
सर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा ।
बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे

1.68

अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः ।
संचिन्त्य च भवादानमिदं कर्माष्टधोदितम्

1.69

9.
साधुमतो भूमिः
प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता ।
नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा

1.70

कुलजात्योश्च गोत्रश्च परिवारस्य जन्मनः ।
नैष्क्रम्यबोधिवृक्षाणां गुणपूरे स्वसम्पदः

1.71

10.
धर्ममेधा भूमिः
नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते ।
येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः

1.72

[प्रतिपक्षसम्भारः] प्रतिपक्षो ऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः ।
ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये

1.73

20 - निर्याणप्रतिपत्तिः
उद्देशे समतायां च सत्त्वार्थे यत्नवर्जने ।
अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम्

1.74

सर्वाकारज्ञतायां च निर्याणं मार्गगोचरम् ।
निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका

मूल पाठ: Abhisamayālaṃkāra · Edition: Ramsankar Tripathi: Abhisamayalankaravrttih Sphutartha. Sarnath : Central Institute of Higher Tibetan Studies (CIHTS), 1977. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc