अभिज्ञानशकुन्तल · अध्याय 6
सहजं किल यद् विनिन्दितं न खलु तत् कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणो ऽनुकम्पामृदुर् एव श्रोत्रियः ॥
आतांरहरितपाण्डुर जीवितसर्वं वसन्तमासस्य (योः) ।
दृष्टो ऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥
त्वम् असि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे ।
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥
चूतानां चिरनिर्गता अपि कलिका बध्नाति न स्वं रजः संनद्धं यद् अपि स्थितं कुरबकं तत् कोरकावस्थया ।
कण्ठेषु स्खलितं गते ऽपि शिशिरे पुंस्कोकिलानां रुतम् शङ्के संहरति स्मरो ऽपि चकितस् तूणार्धकृष्टं शरम् ॥
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर् न प्रत्यहं सेव्यते शय्याप्रान्तविवर्तनैर् विगमयत्य् उन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचम् उचिताम् अन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस् तदा भवति च व्रीडाविलक्षश् चिरम् ॥
प्रत्यादिष्टविशेषमण्डनविधिर् वामप्रकोष्ठार्पितम् बिभ्रत्काञ्चनम् एकम् एव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरणप्रतान्तनयनस् तेजोगुणाद् आत्मनः संस्कारोल्लिखितो महामणिर् इव क्षीणो ऽपि नालक्ष्यते ॥
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानम् अपि सुप्तम् ।
अनुशयदुःखाय इदं हतहृदयं संप्रति विबुद्धम् ॥
मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तम् इदं तमसा मनः ।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश् च निवेशितः ॥
इतः प्रत्यादेशात् स्वजनम् अनुगन्तुं व्यवसिता स्थिता तिष्ठ इत्य् उच्चैर् वदति गुरुशिष्ये गुरुसमे ।
पुनर् दृष्टिं बाष्पप्रसरकलुषाम् अर्पितवती मयि क्रूरे यत् तत् सविषम् इव शल्यं दहति माम् ॥
स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत् फलम् एव पुण्यम् ।
असंनिवृत्त्यै तद् अतीतम् एते मनोरथा नाम तटप्रपाताः ॥
तव सुचरितम् अङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन ।
अरुणनखमनोहरासु तस्याश् च्युतम् असि लब्धपदं यद् अङ्गुलीषु ॥
एकैकम् अत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावद् अन्तम् ।
तावत् प्रिये मदवरोधगृहप्रवेशं नेता जनस् तव समीपम् उपैष्यतीति ॥
करं विहायासि निमग्नम् अम्भसि । अथवा ।
अचेतनं नाम गुणं न लक्षयेन् मयैव कस्माद् अवधीरिता प्रिया ॥
यद् यत् साधु न चित्रे स्यात् क्रियते तत् तद् अन्यथा ।
तथापि तस्या लावण्यं रेखया किंचिद् अन्वितम् ॥
स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।
अश्रु च कपोलपतितं दृश्यम् इदं वर्णिकोच्छ्वासात् ॥
साक्षात् प्रियाम् उपगताम् अपहाय पूर्वं चित्रार्पितां पुनर् इमां बहु मन्यमानः ।
स्रोतोवहां पथि निकामजलाम् अतीत्य जातः सखे प्रणयवान् मृगतृष्णिकायाम् ॥
कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पातास् ताम् अभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
शाखालम्बितवल्कलस्य च तरोर् निर्मातुम् इच्छाम्य् अधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥
कृतं न कर्णार्पितबन्धनं सखे शिरीषम् आगण्डविलम्बिकेसरम् ।
न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥
एषा कुसुमनिषण्णा तृषिता अपि सती भवन्तम् अनुरक्ता ।
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥
अक्लिष्टबालतरुपल्लवलोभनीयम् पीतं मया सदयम् एव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेद् भ्रमर प्रियायास् त्वां कारयामि कमलोदरबन्धनस्थम् ॥
दर्शनसुखम् अनुभवतः साक्षाद् इव तन्मयेन हृदयेन ।
स्मृतिकारिणा त्वया मे पुनर् अपि चित्रीकृता कान्ता ॥
प्रजागरात् खिलीभूतस् तस्याः स्वप्ने समागमः ।
बाष्पस् तु न ददात्य् एनां द्रष्टुं चित्रगताम् अपि ॥
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
स स पापाद् ऋते तासां दुष्यन्त इति घुष्यताम् ॥
संरोपिते ऽप्य् आत्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा ॥
अस्मात् परं बत यथाश्रुति संभृतानि को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तम् दौताश्रुशेषम् उदकं पितरः पिबन्ति ॥
अहन्य् अहन्य् आत्मन एव तावज् ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः के पथा प्रयाति इत्य् अशेषतो वेदितुम् अस्ति शक्तिः ॥
एष त्वाम् अभिनवकण्ठशोणितार्थी शार्दूलः पशुम् इव हन्मि चेष्टमानम् ।
आर्तानां भयम् अपनेतुम् आत्तधन्वा दुष्यन्तस् तव शरणं भवत्व् इदानीम् ॥
यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् ।
हंसो हि क्षीरम् आदत्ते तन्मिश्रा वर्जयत्य् अपः ॥
कृता शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यताम् इदम् ।
प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ॥
सख्युस् ते स किल शतक्रतोर् अजय्यस् तस्य त्वं रणशिरसि स्मृतो निहन्ता ।
उच्छेत्तुं प्रभवति यन् न सप्तसप्तिस् तन्नैशं तिमिरम् अपाकरोति चन्द्रः ॥
ज्वलति चलितेन्धनो ऽग्निर् विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः ॥
त्वन्मतिः केवला तावत् परिपालयतु प्रजाः ।
अधिज्यम् इदम् अन्यस्मिन् कर्मणि व्यापृतं द्धनुः ॥
मूल पाठ: Abhijñānaśakuntala · Edition: M.R. Kale, Bombay 1898 (ninth ed. 1961) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0