भाषा

ENहिગુ
ग्रंथ पाठ

अभिज्ञानशकुन्तल · अध्याय 7

7.1

प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्य् अवदानविस्मितो भवतः सो ऽपि न सत्क्रियागुणान् ॥

7.2

अन्तर्गतप्रार्थनम् अन्तिकस्थं जयन्तम् उद्वीक्ष्य हृतस्मितेन ।
आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥

7.3

सुखपरस्य हरेर् उभयैः कृतं त्रिदिवम् उद्धृतदानवकण्टकम् ।
तव शरैर् अधुना नतपर्वभिः पुरुषकेसरिणश् च पुरा नखैः ॥

7.4

सिध्यन्ति कर्मसु महत्व् अपि यन् नियोज्याः संभावनागुणम् अवेहि तम् ईश्वराणाम् ।
किं वाभविष्यदरुणस् तमसां विभेत्ता तं चेत् सहस्रकिरणो धुरि नाकरिष्यत् ॥

7.5

विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैर् अमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षमम् अर्थजातं दिवौकसस् त्वच्चरितं लिखन्ति ॥

7.6

त्रिस्रोतसं वहति यो गगनप्रतिष्ठाम् ज्योतींषि वर्तयति च प्रविभक्तरश्मिः ।
तस्य द्वितीयहरिविक्रमनिस्तमस्कम् वायोर् इमं परिवहस्य वदन्ति मार्गम् ॥

7.7

गतम् उपरि घनानां वारिगर्भोदराणाम् ॥
पिशुनयति रथस् ते शीकरक्लिन्ननेमिः ॥

7.8

शैलानाम् अवरोहतीव शिखराद् उन्मज्जतां मेदिनी पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात् पादपाः ।
संतानैस् तनुभावनष्टसलिला व्यक्तिं भजन्त्य् आपगाः केनाप्य् उत्क्षिपतेव पष्य भुवनं मत्पार्श्वम् आनीयते ॥

7.9

स्वायंभुवान् मरीचेर् यः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सो ऽत्र सपत्नीकस् तपस्यति ॥

7.10

उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शनतयानिरुद्धतस् तवावतीर्णो ऽपि रथो न लक्ष्यते ॥

7.11

वल्मीकार्धनिमग्नमूर्तिर् उरसा संदष्टसर्पत्वचा कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलम् यत्र स्थाणुर् इवाचलो मुनिर् असाव् अभ्यर्कबिम्बं स्थितः ॥

7.12

प्राणानाम् अनिलेन वृत्तिर् उचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत् काङ्क्षन्ति तपोभिर् अन्यमुनयस् तस्मिंस् तपस्यन्त्य् अमी ॥

7.13

मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥

7.14

अर्धपीतस्तनं मातुर् आमर्दक्लिष्टकेसरम् ।
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥

7.15

राजा हमतस् तेजसो बीजं बालो ऽयं प्रतिभाति मे ।
स्फुलिङ्गावस्थया वह्निर् एधापक्ष इव स्थितः ॥

7.16

प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरम् इद्धरागया नवोषसा भिन्नम् इवैकपङ्कजम् ॥

7.17

आलक्ष्यदन्तमुकुलान् अनिमित्तहासैर् अव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस् तनयान् वहन्तो धन्यास् तदङ्गरजसा मलिनीभवन्ति ॥

7.18

एवम् आश्रमविरुद्धवृत्तिना संयमः किम् इति जन्मतस् त्वया ।
सत्त्वसंश्रय सुखो ऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥

7.19

अनेन कस्य अपि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्याद् यस्यायम् अङ्कात् कृतिनः प्ररूढः ॥

7.20

भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थम् उशन्ति ये निवासम् ।
नियतैकव्रतानि पश्चात् तरुमूलानि गृहीभवन्ति तेषाम् ॥

7.21

वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥

7.22

स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥

7.23

बाष्पेण प्रतिषिद्धे ऽपि जयशब्दे जितं मया ।
यत् ते दृष्टम् असंस्कारपाटलौष्ठपुटं मुखम् ॥

7.24

सुतनु हृदयात् प्रत्यादेशव्यलीकम् अपैतु ते किम् अपि मनसः संमोहो मे तदा बलवान् अभूत् ।
प्रबलतमसाम् एवं प्रायाः शुभेषु हि वृत्तयः स्रजम् अपि शिरस्य् अन्धः क्षिप्तां धुनोत्य् अहिशङ्कया ॥

7.25

मोहान् मया सुतनु पूर्वम् उपेक्षितस् ते यो बद्धबिन्दुर् अधरं परिबाधमानः ।
तं तावद् आकुटिलपक्ष्मविलग्नम् अद्य बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥

7.26

पुत्रस्य ते रणशिरस्य् अयम् अग्रयायी दुष्यन्त इत्य् अभिहितो भुवनस्य भर्ता ।
चापेन यस्य विनिवर्तितकर्मजातम् तत्कोटिमत्कुलिशम् आभरणं मघोनः ॥

7.27

प्राहुर् द्वादशधा स्थितस्य मुनयो यत् तेजसः कारणम् भर्तारं भुवनत्रयस्य सुषुवे यद् यज्ञभागेश्वरम् ।
यस्मिन्न् आत्मभवः परो ऽपि पुरुषश् चक्रे भवायास्पदम् द्वन्द्वं दक्षमरीचिसंभवम् इदं तत् स्रष्टुर् एकान्तरम् ॥

7.28

आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।
आशीर् अन्या न ते योग्या पौलोमीसदृशी भव ॥

7.29

दिष्ट्या शकुन्तला साध्वी सदपत्यम् इदं भवान् ।
श्रद्धा वित्तं विधिश् चेति त्रितयं तत् समागतम् ॥

7.30

उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्+तदनन्तरं पयः ।
निमित्तनैमित्तिकयोर् अयं क्रमस् तव प्रसादस्य पुरस् तु संपदः ॥

7.31

यथा गजो नेति समक्षरूपे तस्मिन्न् अपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत् प्रतीतिस् तथाविधो मे मनसो विकारः ॥

7.32

शापाद् असि प्रतिहता स्मृतिरोधरूक्षे भर्तर्य् अपेततमसि प्रभुता तव एव ।
छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥

7.33

रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः पुरा सप्तद्वीपां जयति वसुधाम् अप्रतिरथः ।
इहायं सत्त्वानां प्रसभदमनात् सर्वदमनः पुनर् यास्यत्य् आख्यां भरत इल् लोकस्य भरणात् ॥

7.34

तव भवतु विडौजाः प्राज्यवृष्टिः प्रजासु त्वम् अपि विततयज्ञो वज्रिणं प्रीणयस्व ।
युगशतपरिवर्तान् एवम् अन्योन्यकृत्यैर् नयतम् उभयलोकानुग्रहश्लाघनीयैः ॥

7.35

प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतमहतां महीयताम् ।
मम अपि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिर् आत्मभूः ॥

मूल पाठ: Abhijñānaśakuntala · Edition: M.R. Kale, Bombay 1898 (ninth ed. 1961) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc