अभिज्ञानशकुन्तल · अध्याय 5
अभिनवमधुलोलुपस् त्वं तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतो ऽस्य् एनां कथम् ॥
रम्याणि वीक्ष्य मधुरांश् च निशम्य शब्दान् पर्युत्सुको भवति यत् सुखितो ऽपि जन्तुः ।
तच् चेतसा स्मरति नूनम् अबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥
आचार इत्य् अवहितेन मया गृहीता या वेत्रयष्टिर् अवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेर् अवलम्बनार्था ॥
भानुः सकृद् युक्ततुरङ्ग एव रात्रिं दिवं गन्धवहः प्रयाति ।
शेषः सदा एवाहितभूमिभारः षष्ठांशवृत्तेर् अपि धर्म एषः ॥
प्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवते श्रान्तमना विविक्तम् ।
यूथानि संचार्य रविप्रतप्तः शीतं दिवा स्थानम् इव द्विपेन्द्रः ॥
औत्सुक्यमात्रम् अवसाययति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिर् एव ।
नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डम् इवातपत्रम् ॥
प्रथमः स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनम् अथवा ते वृत्तिर् एवं विधैव ।
अनुभवति हि मूर्ध्ना पदप तीव्रम् उष्णम् शमयति परितापं छायया संश्रितानाम् ॥
नियमयसि विमार्गप्रस्थितान् आत्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्य प्रजानाम् ॥
किं तावद् व्रतिनाम् उपोढतपसां विघ्नैस् तपो दूषितम् धर्मारण्यचरेषु केनचिद् उत प्राणिष्व् असच्चेष्टितम् ।
आहोस्वित् प्रसवो ममापचरितैर् विष्टम्भितो वीरुधाम् इत्य् आरूढबहुप्रतर्कम् अपरिच्छेदाकुलं मे मनः ॥
महाभागः कामं नरपतिर् अभिन्नस्थितिर् असौ न कश्चिद् वर्णानाम् अपथम् अपकृष्टो ऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा । जनाकीर्णं मन्ये हुतवहपरीतं गृहम् इव ॥
अभ्यक्तम् अपि स्नातः शुचिर् अशुचिम् इव प्रबुद्ध इव सुप्तम् ।
बद्धम् इव स्वैरगतिर् जनम् इह सुखसङ्गिनम् अवैमि ॥
भवन्ति नंरास् तरवः फलागमैर् नवाम्बुभिर् दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥
का स्विद् अवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयम् इव पाण्डुपत्राणाम् ॥
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस् तपति धर्मांशौ कथम् आविर् भविष्यति ॥
त्वम् अर्हतां प्राग्रसरः स्मृतो ऽसि नः शकुन्तला मूर्तिमती च सत्क्रिया ।
समानयंस् तुल्यगुणं वधूवरम् चिरस्य वाच्यं न गतः प्रजापतिः ॥
नापेक्षितो गुरुजनो ऽनया त्वया पृष्टो न बन्धुजनः ।
एकैकस्मिन्न् एव चरिते भणामि किम् एकैकम् ॥
सतीम् अपि ज्ञातिकुलैकसंश्रयाम् जनो ऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुर् इष्यते । प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥
मूर्छन्त्य् अमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥
इदम् उपनतम् एवं रूपम् अक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान् न वेत्य् अव्यवस्यन् ।
भ्रमर इव विभाते कुन्दम् अन्तस्तुषारम् न च खलु परोभोक्तुं नापि शक्नोमि हातुम् ॥
कृताभिमर्शाम् अनुमन्यमानः सुतां त्वया नाम मुनिर् विमान्यः ।
मुष्टं प्रतिग्राहयता स्वम् अर्थं पात्रीकृतो दस्युर् इवासि येन ॥
व्यपदेशम् आविलयितुं किम् ईहसे जनम् इमम् अ पातयितुम् ।
कूलं कषा इव सिन्धुः प्रसन्नम् अम्भस् तटतरुं च ॥
स्त्रीणाम् अशिक्षितपटुत्वम् अमानुषीषु संदृश्यते किम् उत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनास् त्वम् अपत्यजातम् अन्यैर् द्विजैः परभृताः खलु पोषयन्ति ॥
मय्य् एव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयम् अप्रतिपद्यमाने ।
भेदाद् भ्रुवोः कुटिलयोर् अतिलोहिताक्ष्या भग्नं शरासनम् इवातिरुषा स्मरस्य ॥
अतः परीक्ष्य कर्तव्यं विशेषात् संगतं रहः ।
अज्ञातहृदयेष्व् एवं वैरीभवति सौहृदम् ॥
आ जन्मनः शाठ्यम् अशिक्षितो यस् तस्याप्रमाणं वचनं जनस्य ।
परातिसंधानम् अधीयते यैर् विद्येति ते सन्तु किलाप्तवाचः ॥
तद् एषा भवतः कान्ता त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥
यदि यथा वदति क्षितिपस् तथा त्वम् असि किं पितुर् उत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतम् आत्मनः पतिकुले तव दास्यम् अपि क्षमम् ॥
कुमुदान्य् एव शशाङ्कः सविता बोधयति पङ्कजान्य् एव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥
मूढः स्याम् अहम् एषा वा वदेन् मिथ्येति संशये ।
दारत्यागी भवाम्य् आहो परस्त्रीस्पर्शपांसुलः ॥
स्त्रीसंस्थानं चाप्सरस् तीर्थम् आराद् उत्क्षिप्यैनां ज्योतिर् एकं जगाम ॥
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस् तनयाम् ।
बलवत् तु दूयमानं प्रत्याययतीव मां हृदयम् ॥
मूल पाठ: Abhijñānaśakuntala · Edition: M.R. Kale, Bombay 1898 (ninth ed. 1961) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0