अभिज्ञानशकुन्तल · अध्याय 4
विचिन्तयन्ती यम् अनन्यमानसा तपोधनं वेत्सि न माम् उपस्थितम् ।
स्मरिष्यति त्वां न स बोधितो ऽपि सन् कथां प्रमत्तः प्रथमं कृताम् इव ॥
यात्य् एकतो ऽस्तशिखरं पतिर् ओषधीनाम् आविष्कृतारुणपुरःसर एकतो ऽर्कः ।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम् लोको नियम्यत इवात्मदशान्तरेषु ॥
अन्तर्हिते शशिनि सैव कुमुद्वती मे वृष्टिं न नन्दयति संस्मरणीयशोभा ।
इष्टप्रवासजनितान्य् अबलाजनस्य दुःखानि नूनम् अतिमात्रसुदुःसहानि ॥
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्न् अग्निगर्भां शमीम् इव ॥
क्षौमं केनचिद् इन्दुपाण्डु तरुणा माङ्गल्यम् आविष्कृतम् निष्ठ्यूतश् चरणोपभोगसुलभो लाक्षारसः केनचित् ।
अन्येभ्यो वनदेवताकरतलैर् आपर्वभोगोत्थितैर् दत्तान्य् आभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥
यास्यत्य् अद्य शकुन्तलेति हृदयं संस्पृष्टम् उत्कण्ठया कण्ठः स्तम्भितबाष्पवृत्तिकलुषश् चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावद् ईदृशम् इदं स्नेहाद् अरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर् नवैः ॥
काश्यप वत्से । ययातेर् इव शर्मिष्ठा भर्तुर् बहुमता भव ।
सुतं त्वम् अपि संराजं सेव पूरुम् अवाप्नुहि ॥
अमी वेदिं परितः कॢप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
अपघ्नन्तो दुरितं हव्यगन्धैर् वैतानास् त्वां बह्नयः पावयन्तु ॥
पातुं न प्रथमं व्यवस्यति जलं युष्मास्व् अपीतेषु या नादत्ते प्रियमण्डना अपि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्य् उत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैर् अनुज्ञायताम् ॥
अनुमतगमना शकुन्तला तरुभिर् अयं वनवासबन्धुभिः ।
परिभृतविरुतं कलं यथा प्रतिवचनीकृतम् एभिर् ईदृशम् ॥
रम्यान्तरः कमलिनीहरितैः सरोभिश् छायाद्रुमैर् नियमितार्कमयूखतापः ।
भूयात् कुशेशयरजोमृदुरेणुर् अस्याः शान्तानुकूलपवनश् च शिवश् च पन्थाः ॥
उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्य् अश्रूणीव लताः ॥
संकल्पितं प्रथमम् एव मया तवार्थे भर्तारम् आत्मसदृशं सुकृतैर् गता त्वम् ।
चूतेन संश्रितवती नवमालिकेयम् अस्याम् अहं त्वयि च संप्रति वीतचिन्तः ॥
यस्य त्वया व्रणविरोपणम् इङ्गुदीनाम् तैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
श्यामाकमुष्टिपरिवर्धितको जहाति सो ऽयं न पुत्रकृतकः पदवीं मृगस् ते ॥
उत्पक्ष्मणोर् नयनयोर् उपरुद्धवृत्तिम् बाष्पं कुरु स्थिरतया विरतानुबन्धम् ।
अस्मिन्न् अलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥
एषा अपि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् ।
गुर्व् अपि विरहदुःखम् आशाबन्धः साहयति ॥
अस्मान् साधु विचिन्त्य संयमधनान् उच्चैः कुलं चात्मनस् त्वय्य् अस्याः कथम् अप्य् बान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकम् इयं दारेषु दृश्या त्वया भाग्यायत्तम् अतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥
शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तृविप्रकृता अपि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्व् अनुत्सेकिनी यान्त्य् एवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैस् तस्य प्रतिक्षणम् आकुला ।
तनयम् अचिरात् प्राचीवार्कं प्रसूय च पावनम् मम विरहजां न त्वं वत्से शुचं गणयिष्यामि ॥
भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिम् अप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धम् शान्ते करिष्यसि पदं पुनर् आश्रमे ऽस्मिन् ॥
शमम् एष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् ।
उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥
अर्थो हि कन्या परकीय एव ताम् अद्य संप्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥
मूल पाठ: Abhijñānaśakuntala · Edition: M.R. Kale, Bombay 1898 (ninth ed. 1961) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0