भाषा

ENहिગુ
ग्रंथ पाठ

अभिज्ञानशकुन्तल · अध्याय 3

3.1

का कथा बाणसंधाने ज्याशब्देनैव दूरतः ।
हुंकारेणेव धनुषः स हि विघ्नान् अपोहति ॥

3.2

जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् ।
अलम् अस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥

3.3

तव कुसुमशरत्वं शीतरश्मित्वम् इन्दोर् द्वयम् इदम् अयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैर् अग्निम् इन्दुर् मयूखैस् त्वम् अपि कुसुमबाणान् वज्रसारीकरोषि ॥

3.3a

अद्य अपि नूनं हरकोपवह्निनस् त्वयि ज्वलत्य् और्व इवाम्बुराशौ ।
त्वम् अन्यथा मन्मथ मद्विधानां भस्मावशेषः कथम् इत्थम् उष्णः ॥

3.4

अनिशम् अपि मकरकेतुर् मनओर् रुजम् आवहन्न् अभिमतो मे ।
यदि मदिरायतनयनां ताम् अधिकृत्य प्रहरतीति ॥

3.5

शक्यम् अरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैर् अनङ्गतप्तैर् अविरलम् आलिङ्गितुं पवनः ॥

3.6

अब्न्युन्नता पुरस्ताद् अवगाढा जघनगौरवात् पश्चात् ।
द्वारे ऽस्य पाण्डुसिकते पदपङ्क्तिर् दृश्यते ऽभिनवा ॥

3.7

स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयम् प्रियायाः साबाधं किम् अपि कमनीयं वपुर् इदम् ।
समस् तापः कामं मनसिजनिदाघप्रसरयोर् न तु ग्रीष्मस्यैवं सुभगम् अपराधं युवतिषु ॥

3.8

क्षामक्षामकपोलम् आननम् उरः काठिन्यम् उक्तस्तनम् मध्यः क्लान्ततरः प्रकामविनताव् अंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयम् आलक्ष्यते पत्राणाम् इव शोषणेन मरुता स्पृष्टा लता माधवी ॥

3.9

पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतम् आधिहेतुम् ।
दृष्टो विवृत्य बहुशो ऽप्य् अनया सतृष्णम् अत्रान्तरे श्रवणकातरतां गतो ऽस्मि ॥

3.10

स्मर एव तापहेतुर् निर्वापयिता स एव मे जातः ।
दिवस इवाभ्रश्यामस् तपात्यये जीवलोकस्य ॥

3.11

इदम् अशिशिरैर् अन्तस्तापाद् विवर्णम् अणीकृतम् निशि निशि भुजन्यस्तापाङ्गप्रसारिभिर् अश्रुभिः ।
अलभिलुलितज्याघाताङ्कं मुहुर् मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥

3.12

अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतो ऽवधीरणाम् ।
लभेत वा प्रार्थयिता न वा श्रियम् श्रिया दुरापः कथम् ईप्सितो भवेत् ॥

3.13

उन्नमितैकभ्रूलतम् आननम् अस्याः पदानि रचयन्त्याः ।
कण्टकितेन प्रथयति मय् अनुरागं कपोलेन ॥

3.14

तव न जाने हृदयं मम पुनः कामो दिवा अपि रात्राव् अपि ।
निर्घृण तपति बलीयस् त्वयि वृत्तमनोरथाया अङ्गानि ॥

3.15

तपति तनुगात्रि मदनस् त्वाम् अनिशं मां पुनर् दहत्य् एव ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥

3.16

संदष्टसुकुमशयनान्य् आशुक्तान्तबिसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्य् उपचारम् अर्हन्ति ॥

3.17

इदम् अनन्यपरायणम् अन्यथा हृदयसंनिहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे मदनबाणहतो ऽस्मि हतः पुनः ॥

3.18

परिग्रहबहुत्वे ऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्ररसना चोर्वी सखी च युवयोर् इयम् ॥

3.19

किं शीतलैः क्लमविनोदिभिर् आर्द्रवातान् सञ्चारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणाव् उत पद्मतांरौ ॥

3.20

उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथम् आतपे गमिष्यसि परिबाधापेलवैर् अङ्गैः ॥

3.21

गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास् ताः पितृभिश् चाभिनन्दिताः ॥

3.22

अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन ।
अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसो ऽस्य ॥

3.23

मुहुर् अङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखम् अंसविवर्ति पक्ष्मलाक्ष्याः कथम् अप्य् उन्नमितं न चुम्बितं तु ॥

3.24

तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायाम् इयम् क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैर् अर्पितः ।
हस्ताद् भ्रष्टम् इदं बिसाभरणम् इत्य् आसज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहाच् छक्नोमि शून्याद् अपि ॥

3.25

सायंतने सदनकर्मणि संप्रवृत्ते वेदिं हुताशनवतीं परितः प्रयस्ताः ।
छायाश् चरन्ति बहुधा भयम् आदधानाः संध्यापयोदकपिशाः पिशिताशनानाम् ॥

मूल पाठ: Abhijñānaśakuntala · Edition: M.R. Kale, Bombay 1898 (ninth ed. 1961) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc