भाषा

ENहिગુ
ग्रंथ पाठ

अभिज्ञानशकुन्तल · अध्याय 2

2.1

कामं प्रिया न सुलभा मनस् तु तद्भावदर्शनाश्वासि ।
अकृतार्थे ऽपि मनसिजे रतिम् उभयप्रार्थना कुरुते ॥

2.2

स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेरयन्त्या तया यातं यच् च नितम्बयोर् गुरुतया मन्दं विलासाद् इव ।
मा गा इत्य् उपरुद्धया यद् अपि सा सासूयम् उक्ता सखी सर्वं तत् किल मत्परायणम् अहो कामी स्वतां पश्यति ॥

2.3

न नमयितुम् अधिज्यम् अस्मि शक्तो धनुर् इदम् आहितसायकं मृगेषु ।
सहवसतिम् उपेत्य यैः प्रियायाः कृत इव मुग्धविलोकोपदेशः ॥

2.4

अनवरतधनुर् ज्यास्फालनक्रूरपूर्व रविकिरणसहिष्णु स्वेदलेशैर् अभिनम् ।
अपचितम् अपि गात्रं व्यायतत्वाद् अलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति ॥

2.5

मेदश्छेदकृशोदरं लघु भवत्य् उत्थानयोग्यं वपुः सत्त्वानाम् अपि लक्ष्यते विकृतिमच् चित्तं भयक्रोधयोः ।
उत्कर्षः स च धन्विनां यद् इषवः सिध्यन्ति लक्ष्ये चले मिथ्या एव व्यसनं वदन्ति मृगयाम् ईदृग् विनोदः कुतः ॥

2.6

गाहन्तां महिषा निपानसलिलं शृङ्गैर् मुहुस् ताडितम् छायाबद्धकदम्बकं मृगकुलं रोमन्थम् अभ्यस्यतु ।
विश्रब्धं क्रियतां वहारततिभिर् मुस्ताक्षतिः पल्वले विश्रामं लभताम् इदं च शिथितलज्याबन्धम् अस्मद्धनुः ॥

2.7

शमप्रधानेषु तपोधनेषु गूढं हि दातात्मकम् अस्ति तेजः ।
स्पर्शानुकूलेव सूर्यकान्तास् तदन्यतेजो ऽभिभवाद् वमन्ति ॥

2.8

सुरयुवतिसंभवं किल मुनेर् अपत्यं तद् उज्झिताधिगतम् ।
अर्कस्योपरि शिथिलं च्युतम् इव नवमालिकाकुसुमम् ॥

2.9

चित्रे निवेश्ये परिकल्पितसत्त्वयोगा रूपोच्चयेन मनसा विधिना कृता नु ।
स्त्रीरत्नसृष्टिर् अपरा प्रतिभाति सा मे धातुर् विभुत्वम् अनुचिन्त्य वपुश् च तस्याः ॥

2.10

अनाघ्रातं पुष्पं किसलयम् अलूनं कररुहैर् अनाविद्धं रत्नं मधु नवम् अनास्वादितरसम् ।
अखण्डं पुष्यानां फलम् इव च तद्रूपम् अनघं न जाने भोक्तारं कम् इह समुपस्थास्यति विधिः ॥

2.11

अभिमुखे मयि संहृतम् ईक्षितं हसितम् अन्यनिमितकृतोदयम् ।
विनयवारितवृत्तिर् अतस् तया न विवृतो मदनो न च संवृतः ॥

2.12

दर्भाङ्कुरेण चरणः क्षत इत्य् अखाण्डे तन्वी स्थिता कतिचिद् एव पदानि गत्वा ।
आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् ॥

2.13

यद् उत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत् फलम् ।
तपःषड्भागम् अक्षय्यं ददत्य् आरण्यका हि नः ॥

2.14

अध्याक्रान्ता वसतिर् अमुना अप्य् आश्रमे सर्वभोग्ये रक्षायोगाद् अयम् अपि तपः प्रत्यहं संचिनोति ।
अस्यापि द्यां स्पृशति वशिनश् चारणद्वन्द्वगीतः पुण्यःशब्दो मुनिर् इति मुहुह्ः केवलं राजपूर्वः ॥

2.15

नैतच् चित्रं यद् अयम् उदधिश्यामसीमां धरित्रीम् एकः कृत्स्नां नगरपरिघप्रांशुबाहुर् भुनक्ति ।
आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैर् अस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥

2.16

अनुकारिणि पूर्वेषां युक्तरूपम् इदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥

2.17

कृत्ययोर् भिन्नदेशत्वाद् द्वैधीभवति मे मनः ।
पुरः पतिहतं शैले स्रोतः स्रोतोवहो यथा ॥

2.18

क्व वयं क्व परोक्षमन्मथो मृगशावैः समम् एधितो जनः ।
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥

मूल पाठ: Abhijñānaśakuntala · Edition: M.R. Kale, Bombay 1898 (ninth ed. 1961) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc