अभिज्ञानशकुन्तल · अध्याय 1
या सृष्टिः स्रष्टुर् आद्या वहति विधिहुतं या हविर् या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
याम् आहुः सर्वबीजप्रकृतिर् इति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस् तनुभिर् अवतु वस् ताभिर् अष्टाभिर् ईशः ॥
आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ॥
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः ।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि ॥
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंसहा ॥
कृष्णसारे ददच् चक्षुस् त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात् पश्यामीव+पिनाकिनम् ॥
ग्रीवाभङ्गाभिरामं मुहुर् अनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् ।
दर्भैर् अर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ॥
मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मोद्धतैर् अपि रजोभिर् अलङ्घनीया धावन्त्य् अमी मृगजवाक्षमयेव+रथ्याः ॥
यद् आलोके सूक्ष्मं व्रजति सहसा तद्विपुलताम् यद् अर्धे विच्छिन्नं भवति कृतसंधानम् इव तत् ।
प्रकृष्त्या यद् वक्रं तद् अपि समरेखं नयनयोर् न मे दूरे किंचित् क्षणम् अपि न पार्श्वे रथजवात् ॥
न खलु न खलु बाणः संनिपात्यो ऽयम् अस्मिन् मृदुनि मृगशरीरे पुष्पराशाव्+इवाग्निः ।
क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास् ते ॥
तत् साधुकृतसंधानं प्रतिसंहर सायकम् ।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुम् अनागसि ॥
जन्म यस्य पुरोर् वंशे युक्तरूपम् इदं तव ।
पुत्रम् एवं गुणोपेतं चक्रवर्तिनम् आप्नुहि ॥
रम्यास् तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य ।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥
नीवाराः शुकगर्भकोटरमुखभ्रष्टास् तरूणाम् अधः प्रस्निग्धाः क्वचिद् इङ्गुदीफालभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमाद् अभिन्नगतयः शब्दं सहन्ते मृगास् तोयाधारपथाश् च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥
कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला भिन्नो रागः किसलयरुचाम् आज्यधूमोद्गमेन ।
एते चार्वागुपवनभुवि छिन्नदर्भाङ्कुरायाम् नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति ॥
शान्तम् इदम् आश्रमपदं स्फुरति च बाहुः कुतः फलम् इहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥
शुद्धान्तदुर्लभम् इदं वपुर् आश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैर् उद्यानलता वनलताभिः ॥
इदं किलाव्याजमनोहरं वपुस् तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुम् ऋषिर् व्यवस्यति ॥
सरसिजम् अनुविद्धं शैवलेनापि रम्यम् मलिनम् अपि हिमांशोर् लक्ष्म लक्ष्मीं तनोति ।
इयम् अधिकमनोज्ञा वल्कलेनापि तन्वी । किम् इव हि मधुराणां मण्डनं नाकृतीनाम् ॥
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु संनद्धम् ॥
असंशयं क्षत्रपरिग्रहक्षमा यद् आर्यम् अस्याम् अभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणम् अन्तःकरण प्रवृत्तयः ॥
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीम् रहस्य् आख्यायीव+स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वम् अधरम् वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।
अयम् आचरत्य् अविनयं मुग्धासु तपस्विकन्यासु ॥
मानुषीषु कथं वा स्याद् अस्य रूपस्य संभवः ।
न प्रभातरलं ज्योतिर् उदेति वसुधातलात् ॥
वैखानसं किम् अनया व्रतम् आप्रदानाद् व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तम् आत्मसदृशेक्षणवल्लभाभिर् आहो निवत्स्यति सम हरिणाङ्गनाभि ॥
भव हृदय साभिलाषं संप्रति संदेह निर्णयो जातः ।
आशङ्कसे यद् अग्निं तद् इदं स्पर्शक्षमं रत्नम् ॥
अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्थानाद् अनुच्चलन्न् अपि गत्वेव+पुनः प्रतिनिवृत्तः ॥
स्रस्तांसाव् अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणाद् अद्य अपि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥
वाचं न मिश्रयति यद्य् अपि मद्वचोभिः कर्णं ददात्य् अभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसंमुखीनाम् भूयिष्ठम् अन्यविषया न तु दृष्टिर् अस्याः ॥
तुरगखुरहतस् तथा हि रेणुर् विटपविषक्तजलार्द्रवल्कलेषु ।
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥
तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः पादाकृष्टव्रततिवलयासङ्गसंजातपाशः ।
मूर्तो विघ्नस् तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥
गच्छति पुरः शरीरं धावति पश्चाद् असंस्तुतं चेतः ।
चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य ॥
मूल पाठ: Abhijñānaśakuntala · Edition: M.R. Kale, Bombay 1898 (ninth ed. 1961) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0