अभिधर्मकोशभाष्य · भाग 81100
यान्येव कामधातावव्यञ्जनैअरुपपादुकैः
[048।11]
एकमुत्तरे
[048।12]
रूपधातोरारूप्यधातुरुत्तरः ।
समापत्तितश्च परत्वादुपपत्तितश्च प्रधानतरत्वात् ।
[048।13]
तस्मिन् एकमेव जीवितेन्द्रियं विपाकः प्रथमतो लभ्यते नान्यत् ।
[048।14]
उक्तो लाभः ।
[048।15]
त्याग इदानीं वक्तव्यः ।
कस्मिन्धातौ म्रियमाणः कतीन्द्रियाणि निरोधयतीति
[048।16]
निरोधयत्युपरमान्नारूप्ये जीवितम् मनः ।
[048।17]
उपेक्षां चैव रूपे ऽष्टौ
[048।18]
रूपधातौ म्रियल्माणो ऽष्टौ निरोधयति ।
तानि च त्रीणि चक्षुरादीनि पञ्च ।
[048।18-048।19]
सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते च ।
[048।20]
कामे दश नवाष्टौ वा
[048।21]
कामधातौ म्रियमाण उभयव्यञ्जनी दशेन्द्रियाणि निरोधयति ।
[048।21-048।22]
तानि चाष्टौ स्त्री पुरुषेन्द्रिये च ।
[048।22]
एकव्यञ्जनो नव ।
अव्यञ्जनो ऽष्टौ ।
सकृन्मरण एष न्यायः ।
[048।23]
क्रममृत्यौ तु चत्वारि ।
[048।24]
क्रमेण तु म्रियमाणश्चत्वारीन्द्रियाणि निरोधयति ।
कायजीवितमनौपेक्षेन्द्रियाणि ।
[048।25]
नह्येषां पृथग्निरोधः ।
एष च न्यायः क्लिष्टाव्याकृतचित्तस्य मरणे वेदितव्यः ।
[048।26]
यदा तु कुशले चेतसि स्थितो म्रियते तदा
[049।01]
षुभे सर्वत्र पञ्च च ।
[049।02]
कुशले चेतसि म्रियमाणः सर्वत्र यथोक्तमिन्द्रियाणि निरोधयति ।
[049।02-049।03]
श्रद्धादीनि च पञ्चाधिकानि ।
[049।03]
एषां कुशले चेतस्यवश्यंभावः ।
[049।03-049।04]
एवमारूप्येष्वष्टौ निरोधयति रूपेषु त्रयोदशाएति विस्तरेण गणनीयम् ।
[049।05]
इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्ते ।
[049।05-049।06]
अथ कतमच्छ्रामण्यफलं कतिभिरिन्द्रियैः प्राप्यते ।
[049।07]
नवाप्तिरन्त्य फलयोः
[049।08]
नवभिरिन्द्रियैः प्रप्तिरन्त्यफलयोः ।
के पुनरन्त्ये ।
स्रोत आपत्तिफलमर्हत्त्वं च ।
[049।09]
के मध्ये ।
सकृदागामिफलमनागामिफलं च ।
[049।09-049।10]
तत्र स्रोत आपत्तिफलस्य श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मनौपेक्षेन्द्रियाभ्यां चेति नवभिः ।
[049।10-049।11]
आज्ञास्यामीन्द्रियमानन्तर्यमार्गे वेदितव्यमाज्ञेन्द्रियं च विमुक्तिमार्गे ।
[049।11-049।12]
उभाभ्यां हि तस्य प्राप्तिर्विसंयिओगप्राप्तेरावाहकसन्निश्रयत्वाद्यथाक्रमम् ।
[049।12-049।13]
अर्हत्त्वमस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्यैर्मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति नवभिः ।
[049।14]
सप्ताष्ट्नवभिर्द्वयोः
[049।15]
सकृदागाम्यनागामिफलयोः प्रत्येकं सप्तभिरष्टभिर्नवभिष्चेन्द्रियैः प्राप्तिः ।
[049।15-049।16]
कथं कृत्वा ।
[049।16-049।17]
सकृदागामिफलं तावद्यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः ।
[049।17]
पञ्चभिः श्रद्धादिभिरुपेक्षामनैन्द्रियाभ्यां चेति ।
[049।17-049।18]
अथ लोकोत्तरेण मार्गेण तस्याष्टभिरिन्द्रियै प्रप्तिः ।
[049।18]
आज्ञेन्द्रियमष्टमं भवति ।
[049।18-049।19]
अथ भूयोवीतरागः प्राप्नोति तस्य नवभिर्येनेव स्रोत आपत्तिफलस्य ।
[049।19-049।20]
अनागामिफलं यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः ।
[049।21]
यथा सकृदागामिफलस्य ।
[049।21-049।22]
अथ लोकोत्तरेण मार्गेण तस्याष्टभिस्तथैव ।
[049।22]
अथ वीतरागः प्राप्नोति तस्य नवभिः ।
[049।22-049।23]
यथा स्रोत आपत्तिफलस्य ।
04923-04923]
अयं तु विशेषः ।
[049।23-049।24]
सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति ।
[049।24]
निश्रयविशेषात् ।
[049।24-049।26]
यदाप्ययमानुपूर्विको नवमे विमूक्तिमार्गे तीक्ष्णेन्रियत्वा द्ध्यानं प्रविशाति लौकिकेन मार्गेण तदाप्यष्टाभिरिन्द्रियैरनागामिफलं प्राप्नोति ।
[049।26]
तत्रहि नवमे विमुक्तिमार्गे सौमनस्येन्द्रियमष्टमं ।
[049।26-049।27]
भवत्यानन्तर्यमार्गे तूपेक्षेन्द्रियमेव नित्यमुभाभ्यां च तस्य प्राप्तिः ।
[049।27-049।28]
अथ लोकोत्तरेण प्रविशाति तस्य नवभिरिन्द्रियैः प्राप्तिः ।
[049।28]
आज्ञेन्रियं नवमं भवति ।
[049।28-050।01]
यत्तर्ह्यभिधर्म उक्तं "कतिभिरिन्द्रियैरर्हत्त्वं प्रप्नोतीत्याह एकादश्भ्हिरिति" ।
[050।01-050।02]
तत् कथं नवभिरित्युच्यते ।
[050।02]
नवभिरेव तत् प्राप्नोति ।
[050।03]
एकादशभिरर्हत्तवमुक्तं त्वेकस्य संभवात् ।
[050।04-050।05]
अस्ति संभवो यदेकः पुद्गलः परिहाय परिहाय सुखसौमनस्यीपेक्षाभिरर्हत्त्वं प्राप्नुयादत एकादशभिरित्युक्तम् ।
[050।05-050।06]
नतु खलु संभवो ऽस्ति सुखादीनामेकस्मिन् काले ।
[050।06]
कथमनागाभिनो ऽप्येष प्रसङ्गो न भवति ।
[050।06-050।07]
नह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्न्नोति न च वीतरागपूर्वी परिहीयते ।
[050।07-050।08]
तद्वैराग्यस्य द्विमार्गप्रापणात् ।
[050।09]
इदं विचार्यते।
कतमेनेन्द्रियेण समन्वागतः कतिभिः अवश्यं समन्वागतो भवति ।
[050।10]
तत्र
[050।11]
उपेक्षाजीवितमनोयुक्तो ऽवश्यं त्रयान्वितः
[050।12-050।13]
य एषामुपेक्षादीनामन्यतमेन समन्वागतः सो ऽवश्यं त्रिभिरिन्द्रियैः समन्वागतो भवत्येभिरेव ।
[050।13]
नह्येषामन्यो ऽय्नेन विना समन्वागमः ।
शेषैस्त्वनियमः ।
[050।13-050।14]
स्यात्समन्वागतः स्यादसमन्वागतः ।
[050।14-050।15]
तत्र तावच्चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियै रारूप्योपपन्नो न समन्वागतः ।
[050।15]
कामधातौ च येनाप्रतिलब्धविहीनानि ।
[050।15-050।16]
कायेन्द्रियेणारूप्योपपन्नो न समन्वागतः ।
[050।16]
स्त्रीन्द्रियेण रूपारूप्योपपन्नः ।
कामधतौ येनाप्रतिलब्धविहीनम् ।
[050।16-050।17]
एवं पुरुषेन्द्रियेण ।
[050।17]
सुखेन्द्रियेण चतुर्ध्यानारूप्योपपन्नः पृथग्जनो न समन्वागतः ।
[050।18]
सौमनस्येन्द्रियेण तृतीयचतुर्थध्यानारूप्योपपन्नः पृथग्जन एव ।
[050।18-050।19]
दुःखेन्द्रियेण रूपारूप्योपपन्नः ।
[050।19]
दौर्मनस्येन कामवीतरागः ।
[050।19-050।20]
श्रद्धादिभिः समुच्छिन्नकुशलमूलः ।
[050।20]
आज्ञास्यामीन्द्रियेण पृथग्जनफलथानसमन्वागताः ।
[050।20-050।21]
आज्ञेन्द्रियेण पृथग्जनदर्शनाशैक्षमार्गस्थाः ।
[050।21]
आज्ञातावीन्द्रियेण पृथग्जनशैक्षैक्ष्या असमन्वागताः ।
[050।22]
अप्रतिपिद्धास्ववस्थासु यथोक्तसमन्वागतो वेदितव्यः ।
[050।23]
चतुर्भिः सुख कायाभ्यां
[050।24-050।25]
यः सुखेन्द्रियेण समन्वागतः सो ऽवश्यं चतुर्भिरिन्द्रियैस्तैश्च त्रिभिरुपेक्षादिभिः सुखेन्द्रियेण च ।
[050।25]
यः कायेन्द्रियेण सो ऽपि चतुर्भिस्तैश्च त्रिभिः कायेन्द्रियेण च ।
[051।01]
पञ्चभिश्चक्षुरादिमान् ।
[051।02]
यश्चक्षुरिन्द्रियेण सो ऽवश्यं पञ्चभिरुपेक्षाजीवितमनः कायेन्द्रियैस्तेन च।
[051।02-051।03]
एवं श्रोत्रघ्राणजिह्वेन्द्रियैर्वेदितव्यम् ।
[051।04]
सौमनस्यी च
[051।05]
यश्चापि सौमनस्येन्द्रियेण सो ऽवश्यं पञ्चभिरुपेक्षाजीवितमनःसुखसौमनस्यैः ।
[051।06]
द्वितीयध्यानजस्तृतीयध्यानालाभी कतमेन सुखेन्द्रियेण समन्वागतो भवति ।
[051।07]
क्लिष्टेन तृतीयध्यानभूमिकेन ।
[051।08]
दुःखी तु सप्तभिः ।
[051।09]
यो दुःखेन्द्रियेण सो ऽवश्यं सप्तभिः कायजीवितमनोभिश्चतुर्भिर्वेदनेन्द्रियैः ।
[051।10]
स्त्रीन्द्रियादिमान्
[051।11]
अष्टाभिः
[051।12]
यः स्त्रीन्द्रियेण समन्वागतः सो ऽवश्यमष्टभिः तैश्च सप्तभिः स्त्रीन्द्रियेणच ।
[051।13]
आदिशब्देन पुरुषेन्द्रियदौर्मनस्यशरद्धादीनां संग्रहः ।
[051।13-051।14]
तद्वानपि प्रत्येकमष्टाभिः समन्वागतो भवति ।
[051।14]
तैश्च सप्तभिरष्टमेन च पुरुषेन्द्रियेण ।
एवं दौर्मनस्येन्द्रियेण ।
[051।14-051।15]
श्रद्धादिमांस्तु तैश्च पञ्चभिरुपेक्षाजीवितमनोभिश्च ।
[051।16]
एकादशभिस्त्वाज्ञाज्ञातेन्द्रियान्वितः ।
[051।17]
आज्ञात इन्द्रियमाज्ञातेन्द्रियम् ।
[051।17-051।18]
य आज्ञातेन्द्रियेण समन्वागतः सो ऽवश्यमेकादशभिः सुखसौमनस्योपेक्षाजीवितमनश्रद्धादिबहिराज्ञेन्द्रियेण च ।
[051।19]
एवमाज्ञा तावीन्द्रियेणापि ।
तैरेव दशभिराज्ञातावीन्द्रियेण च ।
[051।20]
आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः
[051।21]
कतमैस्त्रयोदशभिः ।
[051।21-051।22]
मनोजीवितकायेन्द्रियैः चतसृभिर्वेदनाभिः श्रद्धादिभिराज्ञास्यामीन्द्रियेण च ॥
[051।23]
अथ यः स्र्वाल्पैः समन्वागतः स कियद्भिरिन्द्रियैः ।
[051।24]
सर्वाल्पैर्निःशुभो ऽष्टाभिर्विन्मनःकायजीवितैः ।
[051।25]
युक्तः
[051।26]
समुच्छिन्नकुशमूलो निःशुभः ।
स सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः ।
[051।26-052।01]
पञ्चभिर्वेदनादिभिः कायमनोजीवितैश्च ।
[052।01]
वेदना हि वित् वेदयत इति कृत्वा ।
वेदनं वा वित् ।
[052।02]
यथा संपदनं संपत् ।
यथा च निःशाउभः सर्वाल्पैरष्टाभिरिन्द्रियैर्युक्तः
[052।03]
बालस्तथारूप्ये
[052।04]
बाल इति पृथग्जनस्याख्या ।
कतमैरष्टाभिः ।
[052।05]
उपेक्षायुर्मनःशुभैः
[052।06]
उपेक्षाजीवितमनोभिः श्रद्धादिभिश्च ॥
[052।06-052।07]
एकान्तकुशलत्वात् श्रद्धादीनि शुभग्रहणेन गृह्यन्ते ।
[052।07]
आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसङ्गः ।
न ।
[052।07-052।08]
अष्टाधिकाराद् द्वालाधिकाराच्च ॥
[052।09]
अथ यः सर्वबहुभिरिन्द्रियैः समन्वागतः स कियद्भिः ।
[052।10]
बहुभिर्युक्त एकान्नविंआशत्या ऽमलवर्जितैः ।
[052।11]
अना स्रवणि त्रीणि वर्जयित्वा ।
स पुनः ।
[052।12]
द्विलिङ्गः
[052।13]
द्विव्यञ्जनो यः समग्रेन्द्रियः एकान्नविंशत्या समन्वागतः ।
कश्चापरः ।
[052।14]
आर्यो रागी
[052।15]
अवीतरागो ऽपि शैक्षः सर्वबहुभिरेकान्नविंशत्या समन्वागतः ।
[052।16]
एकलिङ्गद्वयमलवर्जितैः
[052।17]
एकं व्यञ्जनं द्वे चानास्रवे वर्जयित्वा ।
आज्ञातावीन्द्रियं द्वयोशाचान्यतरत् ।
[052।17-052।18]
उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागतानां विस्तरेण प्रभेदः ।
[052।19]
इदमिदानीं विचार्यते ।
[052।19-052।20]
किमेते संस्कृता धर्मा यथा भिन्नलक्षणा एवं भिन्नोत्पादा उताहो नियतसहोत्पादा अपि केचित्सन्ति ।
[052।20]
सन्तीत्याह ।
[052।20-052।21
सर्व इमे धर्माः पञ्च भवन्ति ।
[052।21]
रूपं चित्तं चैतसिकाश्च्त्तविप्रयुक्ताः संस्कारा असंस्कृतं च ।
[052।22]
तत्रासंस्कृतं नैवोत्पद्यते ।
रूपिणां तु धर्माणामयं नियमः ।
[052।23]
कामे ऽष्टद्रव्यको ऽशब्दः परमाणुरनिन्द्रियः ।
[052।24]
सर्वसूक्ष्मो हि रूपसंघातः परमाणुर् इत्य् उच्याते ।
यतो नान्यतरो विज्ञायेत ।
[052।24-052।25]
स काम घातावशब्दको ऽनिन्द्रियश्चाष्टद्रव्यक उत्पद्यते नान्यतमेन हीनः।
[052।25-053।01]
अष्टो द्रव्याणिचत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपगन्धरसस्प्रष्टव्यानि ।
[053।01-053।02]
सेन्द्रियस्तु परमाणुरशब्दको नवद्रव्यक उत्पद्यते दशद्रव्यको वा ।
[053।02]
तत्र तावत्
[053।03]
कायेन्द्रियी नवद्रव्यः
[053।04]
कायेन्द्रियमत्रास्तीति सो ऽयं कायेन्द्रियी ।
तत्र नवद्रव्याणि ।
तानि चाष्टौ कायेन्द्रियं च ।
[053।05]
दशद्रव्यो ऽपरेन्द्रियः
[053।06]
अपरमिन्द्रियं यत्र परमाणौ तत्र दश द्रव्याणि ।
[053।06-053।07]
तान्येव नव चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियाणां चान्यतमम् ।
[053।07-053।08]
सशब्दा पुनरेते परमाणव उत्पद्यमाना यथाक्रमं नवदशैकादश द्रव्यका उत्पद्यन्ते ।
[053।08-053।09]
अस्ति हीन्द्रियाविनिर्भागी शब्दो ऽपि य उपात्तमहाभूतहेतुकः ।
[053।09-053।10]
कथमिहाविनिर्भागे भूतानां कश्चिदेव संघातः कठिन उत्पद्यते कश्चिदेव द्रव उष्णो वा समुदीरणो वा ।
[053।10-053।11]
यद्यत्र पटुतमं प्रभावत उद्भूतं तस्य तत्रोपलब्धिः ।
[053।11]
सूचीतूनी कलापस्पर्शवत् सक्तुलवणचूर्णरसवच्च ।
[053।11-053।12]
कथं पुनस्तेषु शेषास्तित्वं गम्यते ।
[053।12]
कर्मतः संग्रहघृतिपक्तिव्यूहनात् ।
[053।12-053।13]
प्रत्ययलाभे च सति कठिनादीनां द्रवणा दिभावात् अप्सु शैत्यातिशयादौष्ण्यं गम्यत इत्यपरे ।
[053।13-053।14]
अव्यति भेदे ऽपि तु स्याच्छैत्यातिशयः ।
[053।14]
शब्दवेदनातिशयवत् ।
[053।14-053।15]
बीजतस् तेषु तेषां भावो न स्वरूपत इत्यपरे ।
[053।15]
"सन्त्यस्मिन् दारुस्कन्धे विविधा धातव"इति वचनात् ।
[053।15-053।16]
कथं वायौ वर्णसद्भावः ।
[053।16]
श्रद्धानीय एषो ऽर्थो नानुमानीयः ।
[053।16-053।17]
संस्पन्दतो गन्धग्रहणात् तस्य वर्णाव्यभिचारात् ।
[053।17-053।18]
रूपधातौ गन्धरसयोरभाव उक्तस्तेन तत्रत्याः परमाणवः षट्सप्ताष्टद्रव्यका इत्युक्तरूपत्वात् न पुनरुच्यन्ते ।
[053।19]
किं पुनरत्र द्रव्यमेव द्रव्यं गृह्यते आहोस्विदायतनम् ।
किं चातः ।
[053।19-053।20]
यदि द्रव्यमेव द्रव्यं गृह्यते अत्यल्पमिदमुच्यते अष्टद्रव्यको नवदशाद्रव्यक इति ।
[053।20-053।21]
अवश्यं हि तद्द्रव्यसंस्थानेनापि भवितव्यम् ।
[053।21]
तस्यापि परमाणुसंचितत्वात् ।
[053।21-053।22]
गुरुत्वलघुत्वयोश्चान्यतरेण श्लक्ष्णत्वकर्कशत्वयोश्च ।
[053।22-053।23]
शीतेनापि क्वचित् जिघत्सया पिपासया च ।
[053।23]
अथाप्यायतनद्रव्यं गृह्यते अयिवह्णिदमुच्यते अष्टद्रव्यक इति ।
[053।23-053।24]
चतुर्द्रव्यको हि वक्तव्यो यावता भूतान्यपि स्प्रष्टव्यायतनम् ।
[053।24-053।25]
किञ्चिदत्र द्रव्यमेव द्रव्यं गृह्यते यदाश्रयभूतं किञ्चिदत्रायतनं द्रव्यं गृह्यते यदाश्रितभूतम् ।
[053।25-053।26]
एवमपि भूयांसि भूतद्रव्याणि भवन्त्युपादायरूपाणां प्रत्येकं भूतचतुष्काश्रितत्वात् ।
[054।01]
अत्र पुनर्जातिद्रव्यं गृह्यते ।
भूतचतुष्कान्तराणां स्वजात्यनतिक्रमात् ।
[054।01-054।02]
कः पुनर्यत्स एवं विकल्पेन वक्तुम् ।
[054।02]
च्छन्दतो ऽपि हि वाचां प्रवृत्तिरर्थस्तु परीक्ष्यः ।
[054।03]
उक्तो रूपिणां सहोत्पादनियमः ।
शेषाणां वक्तव्यस्तत्र तावत् ।
[054।04]
चित्तं चैत्ताः सहवश्यं ।
[054।05]
नह्येते विना ऽन्योन्यं भवितुमुत्सहन्ते ।
[054।06]
सर्वं संस्कृतलक्षणैः ।
[054।07]
सहावश्यमिति वर्त्तते ।
[054।07-054।08]
यत्किं चिदुत्पद्यते रूपं चित्तं चैतसिका विप्रयुक्ता वा सर्वं संस्कृतलक्षणैः सार्धमुत्पद्यते ।
[054।09]
प्राप्त्या वा ।
[054।10-054।410]
प्राप्त्या सह सत्वाख्यमेवोत्पद्यते नान्यदिति विकल्पार्थो वाशब्दः ।
[054।11]
चैत्ता इत्युच्यन्ते ।
क इमे चैत्ताः ।
[054।12]
पञ्चधा चैत्ता महाभूम्यादिभेदतः
[054।13-054।14]
पञ्च प्रकाराश्चैत्ता महाभूमिकाः कुशलमहाभूमिकाः क्लेशमहाभूमिकाः अकुशलमहाभूमिकाः परीत्तक्लेशमहाभूमिकाश्च ।
[054।14]
भूमिर्नाम गतिविशयः ।
[054।14-054।15]
यो हि यस्य गतिविशयः स तस्य भूमिरित्युच्यते ।
[054।15-054।16
तत्र महती भूमिरेशामिति महाभूमिकाः ये सर्वत्र चेतसि भवन्ति ।
[054।16]
के पुनः सर्वत्र चेतसि ।
[054।17-054।18]
वेदना चेतना संज्ञा च्छन्दः स्पर्शो मतिः स्मृतिः ।
मनस्कारो ऽधिमोक्षश्च समाधिः सर्वचेतसि
[054।19]
इमे किल दश धर्माः सर्वत्र चित्तक्षणे समग्रा भवन्ति ।
तत्र वेदना त्रिविधो ऽनुभवः ।
[054।20]
सुखो दुःखो ऽदुःखा सुखश्च ।
चेतना चित्ताभिसंस्कारो मनस्कर्म ।
[054।20-054।21]
संज्ञा संज्ञानं विषयनिमित्तोद्रूह ।
[054।21]
च्छन्दः कर्त्तृकामता ।
[054।21-054।22]
स्पर्श इन्द्रियविषयविज्ञानसन्निपातजा स्पृष्टिः ।
[054।22]
मतिः प्रज्ञा धर्मप्रविचयः ।
[054।22-054।23]
स्मृतिरालम्बनासंप्रमोषः ।
[054।23]
मनस्कारश्चेतस आभोगः ।
अधिमोक्षो ऽधिमुक्तिः ।
[054।23-054।24]
समाधिश्चित्तस्यैकाग्रता ।
[054।24]
सूक्ष्मो हि चित्तचैत्तानां विशेषः ।
[054।24-054।25]
स एव दुःपरिच्छेदः प्रवाहेष्वपि तावत् किं पुनः क्षणेषु ।
[054।25-055।02]
रूपिणीनामपि तावदोषधीनां बहुरसानां कासंचिदिन्द्रियग्राह्या रसविशेषा दुरवधारा भवन्ति किं पुनर्ये धर्मा अरूपिणो बुद्धिग्राह्याः ।
[055।02-055।03]
कुशला महाभूमिरेषां त इमे कुशल महाभूमिका ये सर्वदा कुशले चेतसिभवन्ति ।
[055।03]
के पुनस्त इति ।
[055।04-055।05]
श्रद्धा ऽप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा ।
मूलद्वयमहिंसा च वीर्यं च कुशले सदा
[055।06]
इमे दश धर्मा कुशले चेतसि नित्यं भवन्ति ।
तत्र श्रद्धा चेतसः प्रसादः ।
[055।06-055।07]
सत्यरत्न कर्मफलाभिसंप्रत्यय इत्यपरे ।
[055।07]
अप्रमादः दुशलानां धर्माणां भावनाः ।
[055।07-055।08]
का पुनस्ते भ्यो ऽन्या भावना ।
[055।08]
या तेष्ववहितता ।
[055।08-055।09]
चेतस आरक्षेति निकायान्तरीताः सूत्रे पठन्ति ।
[055।09]
प्रश्रब्धिश्चित्तकर्मण्यता ।
ननु च सूत्रे कायप्रश्रब्धिरप्युक्ता ।
[055।09-055।10]
न खलु नोक्ता ।
[055।10]
सा तु यथा कायिकी वेदना तथा वेदितव्या ।
[055।10-055।11]
कथं सा बोध्यङ्गेषु योक्ष्यते ।
[055।11]
तत्र तर्हि कायकर्मण्यतैव कायिकी प्रश्रब्धिर्वेदितव्या ।
[055।11-055।12]
कथं सा बोध्यङ्गमितयुच्यते ।
[055।12]
बोध्यङ्गानुकूल्यात् ।
[055।12-055।13]
सा हि कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गमावहति ।
[055।13]
अस्ति पुनः स्वचित् अन्यत्राप्येवं दृश्यते ।
अस्तीत्याह ।
[055।13-055।14]
तद्यथा प्रीतिः प्रीतिस्थानीयाश्च धर्माः प्रीतिसंबोध्यङ्गमुक्तं भगवता ।
[055।14-055।15]
प्रतिघः प्रतिघनिमित्तं च व्यापादनिवरणमुक्तम् ।
[055।15-055।16]
सम्यक्दृष्टिसंकल्पव्यायामाश्च प्रज्ञास्कन्ध उक्ताः ।
[055।16-055।17]
नच संकल्पव्यायामौ प्रज्ञास्वभावौ तस्यास्त्वनुगुणाविति तास्यात्वनुगुणाविति ताच्छय्द्यं लभेते ।
[055।17-055।18]
एवं कायप्रश्रब्धिरपि बोध्यङ्गानुगुण्याद्वोध्यङ्गशब्दं लभते ।
[055।18]
उपेक्षा चित्तसमता चित्तानाभोगता ।
कथमिदानीमेतद्योक्ष्यते ।
[055।18-055।19]
"तत्रैव चित्ते आभोगात्मको मनस्कारो ऽनाभोगात्मिका चोपेक्षे"ति ।
[055।19-055।20]
ननु चोक्तं "दुर्ज्ञान एषां विशेष" इति ।
[055।20]
अस्ति हि नाम दुर्ज्ञानमपि ज्ञायते ।
[055।20-055।21]
इदम् तु खल्वतिदुर्ज्ञानं यद्विरोधे ऽप्यविरोध इति ।
[055।21]
अन्यत्राभोगो ऽन्यत्रानाभोग इति को ऽत्र विरोधः ।
[055।21-055।22]
न तर्हीदानीमेकालम्बनाः सर्वे संप्रयुक्ताः प्राप्नुवन्ति ।
[055।22-055।23]
एवञ्जातीयकमत्रान्यदप्यायास्यतीति यस्तस्य नयः सो ऽस्यापि वेदितव्यः ।
[055।23]
ह्रीरपत्राप्यं च पश्चाद्वक्ष्यते ।
[055।23-055।24]
मूलद्वयं द्वे कुशलमूले अलोभाद्वेषौ ।
[055।24]
अमोहो ऽप्यस्ति स तु प्रज्ञात्मकः ।
[055।24-055।25]
प्रज्ञा च महाभूमिकेति नासौ कुशलमहाभूमिक एवोच्यते ।
[055।25]
अविहिंसा अविहेठना ।
वीर्यं चेतसो ऽभ्युत्साहः ।
[056।01]
उक्ताः कुशला महाभूमिकाः ।
[056।02]
महती भूमिर्महाभूमिः ।
[056।02-056।03]
क्लेशा महाभूमिरेषां त इमे क्लेशमहाभूमिका ये धर्माः सदैव क्लिष्टे चेतसि भवन्ति ।
[056।03]
के पुनस्ते सदैव क्लिष्टे चेतसि भवन्ति ।
[056।04]
मोहः प्रमादः कौशीद्यमा श्रद्ध्यं स्त्यान्मुद्धवः ।
[056।05]
क्लिष्टे सदैव
[056।06]
तत्र मोहो नामाविद्या ऽज्ञानमसंप्रख्यानम् ।
[056।06-056।07]
प्रमादः कुशलानां धर्माणामभावना ऽप्रमाद विपक्षो धर्मः ।
[056।07]
कौशीद्यं चेतसो नाभ्युत्साह्हो वीर्यविपक्षः ।
[056।07-056।08]
आश्रद्ध्यं चेतसो ऽप्रसादः श्रद्धाविपक्षः ।
[056।08]
स्त्यानं कतमत् ।
[056।08-056।09]
या कायगुरुता चित्तगुरुता कायाकर्मण्यता चित्ताकर्मण्यता ।
[056।09]
कायिकं सत्यानं चैतसिकं स्त्यानमित्युक्तमभिधर्मे ।
[056।10]
कथं चैतसिको धर्मः कायिक इत्युच्यते ।
यथा कायिकी वेदना ।
[056।10-056।11]
औद्धत्यं पुनश्चेतसो ऽव्युपशमः ।
[056।11]
इतीमे षट् क्लेशमहाभूमिकाः ।
[056।11-056।12]
ननु चाभिधर्मे दश क्लेशमहाभूमिकाः पठ्यन्ते ।
[056।12-056।13]
"आश्रद्ध्यं कौशीद्यं मुषितस्मृतिता चेतसो विक्षेपः अविद्या असंप्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्चे" ति ।
[056।14]
प्रप्तिज्ञो देवानां प्रियो न त्विष्टिज्ञः ।
का पुनरत्रेष्टिः ।
[056।14-056।16]
मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षा महाभूमिकत्वात् न क्लेशमहाभूमिका एवावधार्यन्ते ।
[056।16]
यथिवामोहः कुशलमहाभूमिको नावधार्यते प्रज्ञास्वभावत्वात् ।
[056।17]
स्मृतिरेव हि क्लिष्टा मुषितस्मृतिता ।
समाधिरेव क्लिष्टो विक्षेप इत्येवमादि ।
[056।18-056।19]
अत एवोच्यते "ये महाभूमिकाः क्लेशमहाभूमिका अपि त" इति ।
[056।19]
चतुष्कोटिकः ।
प्रथमा कोटिर्वेदना चेतना संज्ञा च्छन्दः स्पर्शश्च ।
[056।19-056।20]
द्वितीया ऽश्राद्ध्यं कौशीद्यमविद्या औद्धत्यं प्रमादश्च ।
[056।20-056।21]
तृतीया मुषितस्मृत्यादयः पञ्च क्लिष्टा यठोक्ताः ।
[056।21]
चतुर्थ्येतानाकारान् स्थापयित्वेति ।
[056।21-056।22]
केचित्तु मिथ्यासमाधेरन्यचेतसो विक्षेपमिच्छन्ति ।
[056।22]
तेषामन्यथा चतुष्कोटिकः ।
[056।22-056।23]
स्त्यानं पुनरिष्यते सर्वक्लेशसंप्रयोगीति क्लेशमहाभूमिकेषु तस्यापाठे कस्यापराधः ।
[056।23-056।24]
एवं त्वाहुः पठितव्यं भवेत्समाध्यनुगुणत्वात्तु न पठितम् ।
[056।24-056।25]
क्षिप्रतरं किल स्त्यानचरितः समाधिमुत्पादयेन्नौद्धत्यचरित इति ।
[056।25-056।26]
कः पुनः स्त्यानचरितो यो नौद्धत्यचरितः को वा औद्धत्यचरितो यो न स्त्यानचरितः ।
[056।26]
नह्येते जातु सहचरिष्णुतां जहीतः ।
[056।26-056।27]
तथापि यद्यस्याधिमात्रं स तच्चरितो ज्ञातव्यः ।
[056।27]
अतः षडेव क्लेशमहाभूमिकाः सिद्ध्यन्ति ।
[056।28]
एते हि सदा क्लेष्ट एव चेतसि भवन्ति नान्यत्र ॥
[057।01]
अकुशले त्वाह्रीक्यमनपत्रपा
[057।02-057।03]
अकुशले तु चेतस्याह्रीक्यमनपत्राप्यं च नित्यं भवत इत्येतौ द्वौ धर्मावकुशलमहाभूमिकावुच्येते ।
[057।03]
तयोश्च पश्चाल्लक्षणं वक्ष्यते ।
[057।04-057।05]
क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः ।
मायामद विहिंसाश्च परीत्तक्लेश्भूमिकाः
[057।06-057।07]
परीत्तक्लेशा भूमिरेषां त इमे परीत्तक्लेशभूमिका अविद्यामात्रेण भावनाहेयेन मनोभूमिकेनैव च संप्रयोगात् ।
[057।07]
एषां तु निर्देक्श उपक्लेशेषु करिष्यते ।
[057।08]
उक्ता इमे पञ्चप्रकाराश्चैत्ताः ।
[057।08-057।09]
अन्ये ऽपि चानियताः सन्ति वितर्कविचारकौकृत्यमिद्धादयः ।
[057।09]
तत्र वक्तव्यं कस्मिंश्चित्ते कति चैत्ता अवश्यं भवन्तीति ।
[057।10]
कामावचरं तावत् पञ्चविधं चित्तम् ।
कुशलमकुशलम् ।
[057।10-057।11]
तत्राकुशलं द्विविधमावेणिकमन्यक्लेशसंप्रयुक्तं च ।
[057।11-057।12]
अव्याकृतं द्विविधं निवृताव्याकृतम् अनिवृताव्याकृतं च ।
[057।12]
तत्र तावत् कामावचरचित्तमवश्यं सवितर्कं सविचारम् ।
अतो ऽत्र
[057।13]
सवितर्कविचारत्वात् कुशले कामचेतसि ।
[057।14]
द्वाविंशतिश्चैतसिकाः
[057।15]
अवश्यं भवन्ति ।
दश महाभूमिका दश कुशलमहाभूमिका वितर्को विचारश्च ।
[057।16]
कौकृत्यमधिकं क्वचित्
[057।17]
नहि सर्वत्र कुशले चेतसि कौकृत्यमस्ति ।
[057।17-057।18]
यत्र त्वस्ति तत्र तदेवाधिकं कृत्वा त्रयोविंशतिश्चैत्ता भवन्ति ।
[057।18]
किमिदं कौकृत्यं नाम ।
कुकृतस्य भावः कौकृत्यम् ।
[057।19]
इह तु पुनः कौकृत्यालम्बनो धर्मः कौकृत्यमुच्यते चेतसो विप्रतिसारः ।
[057।19-057।21]
तद्यथा शून्यतालल्म्वनं विमोक्षमुख्ं शून्यतेत्युच्यते अशुभालम्बनश्चालोभो ऽशुभ इति ।
[057।21-057।22]
लोके ऽपि च दृष्टः स्थानेन स्थानिनामतिदेशः सर्वो ग्राम आगतः सर्वो देश आगत इति ।
[057।22]
स्थानभूतं च कौकृत्यं विप्रतिसारस्य ।
[057।22-057।23]
फले वा हेतूपचारो ऽयम् ।
[057।23-057।24]
यथोक्तं "षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यमि"ति ।
[057।24]
यत्तर्हि अकृतालम्बनं तत् कथं कौकृत्यम् ।
अकृते ऽपि कृताख्या भवति ।
[058।01]
न मया साधु कृतं यन्न कृतमिति ।
कतमत् कौकृत्यं कुशलम् ।
[058।01-058।02]
यत्कुशलमकृत्वातप्यते अकुशलं च कृत्वा ।
[058।02]
विपर्ययादकुशलं कौकृत्यम् ।
[058।02-058।03]
तदेतदुभयमप्युभयाधिष्टानम् ।
[058।04]
आवेणिके त्वकुशले दृष्टियुक्ते च विंशातिः ।
[058।05]
यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः ।
[058।05-058।06]
दश महाभूमिकाः षट् क्लेआशमहाभूमिका द्वावकुशलमहाभूमिकौ वितर्कोविचारश्च ।
[058।06-058।07]
आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशो ऽस्ति रागादिः ।
[058।07-058।08]
दृष्टियुक्ते ऽप्यकुशले विंशतिर्य एवावेणिके ।
[058।08]
ननु च दृष्ट्यधिकत्वादेक विंशतिर्भवन्ति ।
न भवन्ति ।
[058।08-058।09]
यस्मान्महाभूमिक एव कश्चित् प्रज्ञाविशेषो दृष्टिरित्युच्यते ।
[058।09-058।10]
तत्राकुशलं दृष्टियुक्तं यत्र मिथ्यादृष्टिर्वा दृष्टिपरामर्शो वा शीलव्रतपरामर्शो वा ।
[058।11]
क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः
[058।12-058।13]
यत्र पुनश्चतुर्भिः क्लेशैः संप्रयुक्तमकुशलं चित्तं रागेण व प्रतिघेन वा मानेन वा विचिकित्सया वा तत्रैकविंशतिर्भवन्ति ।
[058।13-058।14]
स च क्लेशः आवेणिकोक्ताश्च विंशतिः ।
[058।14-058।15]
क्रोधादिभिरप्युपक्लेशैर्यथोक्तैः संप्रयुक्ते चित्ते एते च विंशतिः स चोपक्लेश इत्येकविंशतिर्भवन्ति ।
[058।15]
कौकृत्येनाप्येकविंशतिः ।
[058।15-058।16]
तदेव कौकृत्यमेकविंशतितमं भवति ।
[058।16]
समासत आवेणिके चेतस्यकुशले दृष्टियुक्ते च विंशतिः ।
[058।16-058।17]
अन्यक्लेशोपक्लेशसंप्रयुक्ते त्वेकविंशतिः ।
[058।18]
निवृते ऽष्टदश
[058।19-058।18]
सत्कायान्तग्राहदृष्टिसंप्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् ।
[058।19-058।20]
तत्राष्टादश चैत्ताः ।
[058।20]
दश महाभूमिकाः षट् क्लेशमहाभूमिकाः वितर्कविचारौ च ।
[058।20-058।21]
दृष्टिः पूर्ववदेव नाधिका भवति ।
[058।22]
अय्नत्र द्वादशाव्याकृते मताः ।
[058।23]
निवृतादन्यदव्याकृतमनिवृताव्याकृतम् ।
तत्र द्वादश चैत्ता इष्टाः ।
[058।23-058।24]
दश महाभूमिका वितर्कविचारौ च ।
[058।24]
बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छन्ति ।
[058।24-058।25]
तेषां तत्संप्रयुक्ते चेतसि त्रयोदश भवन्ति ।
[058।26]
मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकम् हि तत्
[058।27]
सर्वैरेभिर्यथोक्तै श्चैतैर्मिद्धमविरुद्धं कुशलाकुशलाव्याकृतत्वात् ।
[058।27-059।01]
अतो तत्र तत्स्यात् तत्राधिकं तद्वेदितव्यम् ।
[059।01-059।02]
यत्र द्वाविंशतिस्तत्र त्रयोविंशतिर्यत्र त्रयोविंशतिस्तत्र चतुर्विंशतिरित्येवमादि ।
[059।02]
य एव कामधातौ चैत्तानां नियम उक्तः
[059।03]
कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः ।
[059।04]
अतो यथोक्तात् कौकृत्यं मिद्धं च सर्वथा नास्ति प्रथमे ध्याने यत् किञ्चिदकुशलम् ।
[059।05]
प्रतिघः शाठ्यमदमायावर्ज्याश्च क्रोधादय आह्रीक्यानपत्राप्ये च ।
अन्यत्सर्व तथैव ।
[059।06]
य एव प्रथमे ध्याने न सन्ति त एव
[059।07]
ध्यानान्तरे वितर्कश्च
[059।08]
नास्ति ।
शेषं तथैव ।
[059।09]
विचारश्चाप्यतः परम्
[059।10-059।11]
ध्यानान्तरात् परेण द्वितीयादिषु ध्यानेष्वारूप्येषु च यथाप्रतिषिद्धं नास्ति विचारश्च ।
[059।11]
माया शाठ्यं चेत्यपिशब्दात् ।
शेषं तथैव ।
[059।11-059।12]
ब्रह्मणो हि यावच्छाठ्यं पठ्यते पर्षत्सम्बन्धत्वान्नोर्ध्वम् ।
[059।12-059।13]
स हि स्वस्यां पर्षद्यश्वजिता भिक्षुणा प्रश्नं पृष्टः "कुत्रेमानि ब्रह्मन् चतवारि महाभूतान्यपरिशेषं निरुध्यन्ते" इति ।
[059।13-059।14]
अप्रजानन् क्षेपमकार्षीत् ।
[059।14-059।15]
"अहमस्मिन् ब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भूतानामि"ति ।
[059।15]
उक्तमेतद्यस्यां भूमौ यत्र चित्ते यावन्तश्चैत्ताः ॥
[059।16]
इदानीं केषाञ्चिदेव चैत्तानां तन्त्रविहितं नानाकारणं वक्ष्यते ।
[059।16-059।17]
आह्रीक्यस्यानपत्राप्यस्य च किं नानाकारणम् ।
[059।18]
अह्रीरगुरुता
[059।19-059।20]
गुणेषु गुणवत्सु चागौरवता अप्रतीशता अभयमवशवर्तिता आह्रीक्यं गौरवप्रतिद्वन्द्वो धर्मः ॥
[059।21]
अवद्ये भयादर्शित्वमत्रपा ।
[059।22]
अवद्यं नाम यद्विगर्हितं सद्भिः ।
तत्राभयदर्शिता ऽनपत्राप्यम् ।
[059।22-059।23]
भयमत्रानिष्टं फलं भीयते ऽस्मादिति ।
[059।23-059।24]
कथमिदं विज्ञातव्यम् अभयस्य दर्शनमभयदर्शिता आहोस्वित् भयस्यादर्शनम् ।
[059।24]
किं चातः ।
[059।24-059।25]
अभयस्य दर्शनं चेत् प्रज्ञा विज्ञास्यते भयस्यादर्शनं चेदविद्या विज्ञास्यते ।
[059।25]
नैव हि दर्शनं दर्शिता नाप्यदर्शनमदर्शिता ।
किं तर्हि ।
[059।25-059।26]
यस्तयोर्निमित्तमुपक्लेशस्तच्चानपत्राप्यमिति ।
[059।26]
अन्ये पुनराहुः ।
[059।26-060।01]
आत्मापेक्षया दोषैरलज्जन माह्रीक्यं परापेक्षया ऽनपत्राप्यमिति ।
[060।01]
एवमपि द्वे अपेक्षे युगपत् कथं सेत्स्यतः ।
[060।01-060।03]
न खलूच्यते युगपदात्मानं परं चापेक्षत इत्यपि त्वस्त्यसौ कदाचिदलज्जा या आत्मानमपेक्षमाणस्यापि प्रवर्तते सा आह्रीक्यम् ।
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0