अभिधर्मकोशभाष्य · भाग 6180
"न कायस्याधरं श्रोत्रमूर्ध्वं शब्दो न च श्रुतेः ।
विज्ञानं चास्य शब्दस्तु कायस्योभे च सर्वतः ॥"इति
[036।07]
विस्तरेण योज्यम् ।
[036।08]
त्रयाणां तु सर्वमेव स्वभूमिकम् ।
[036।09]
घ्राणजिह्वाकायधातूनां कायविषयविज्ञानानि स्वभूमिकान्येव ।
[036।09-036।10]
इत्युत्सर्गविशेषेण कृत्वा पुनर्विशेषणार्थमपवाद आरभ्यते ।
[036।11]
कायविज्ञानमधरस्वभूमि
[036।12]
कायः कायधातुः स्प्रष्टव्यं च स्वभूमिकान्येव नित्यं भवन्ति ।
[036।12-036।13]
कायविज्ञानं तु केषाञ्चित् स्वभूमिकं यथाकामधातुप्रथमध्यानोपपन्नां ।
[036।13-036।14]
केषाञ्चिदधरभूमिकं यथा द्वितीयादिध्यानोपपन्नानामिति ।
[036।15]
अनियतं मनः
[036।16-036।17]
कदाचित् कायमनोविज्ञानधर्मैः समानभूमिकं मनो भवति कदाचिदूर्ध्वाधोभूमिकम् ।
[036।17-036।19]
पञ्चभूमिके ऽपि हि काये सर्वभूमिकानि मन आदीनि भवन्ति समापत्त्युपपत्तिकाले यथायोगमिति विस्तरेण समापत्तिनिर्देशे कोशस्थान एतदाख्यायिष्यते ।
[036।19-036।20]
अतिहहुग्रन्थभारपरिहारार्थं तु नेदानीं पुनराख्यायते ।
[036।20]
अल्पं च प्रयोजनं महांश्च श्रम इति समाप्त आनुषङ्गिकः प्रसङ्गः ।
[036।21]
इदमिदानीं विचार्यते ।
[036।21-036।22]
अष्टादशानां च्दातूनां षण्णां च विज्ञानानां कः केन विज्ञेयः ।
[036।22]
आह ।
[036।23]
पञ्च बाह्या द्विविज्ञेयाः
[036।24-036।25]
रूपशबगन्धरसस्प्रष्टव्यधातवो यथासंख्यं चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानैरनुभूता मनोविज्ञानेन विज्ञायन्ते ।
[036।25]
एवमेते प्रत्येकं द्वाभ्यां विज्ञानाभ्यां विज्ञेया भवन्ति ।
[036।26-036।27]
शेषास्त्रयोदश धातवः पञ्चानां विज्ञानकायानामविषयत्वादेकेन मनोविज्ञानेन विज्ञेया इत्याख्यातं भवति ।
[037।01]
एषामष्टादशानां धातूनां मध्ये कति नित्याः कत्यनित्याः ।
[037।01-037।02]
न कश्च्त् सकलो ऽस्ति नित्यो धातुरपि तु
[037।03]
नित्या धर्मा असंस्कृताः ।
[037।04]
तेन धार्मधात्वेकदेशो नित्यः शेषा अनित्याः ।
[037।05]
कतीन्द्रियं कति नेन्द्रियम् ।
[037।06]
धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः
[037।07]
द्वाविंशतिरिन्द्रियाण्युक्तानि सूत्रे ।
[037।07-037।11]
चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनैन्द्रियं स्त्रीन्द्रियं पुरुषेन्द्रियं जीवितेन्द्रियं सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रैयं उपेक्षेन्द्रियं श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं स्माधीन्द्रियं प्रज्ञेन्दरियं अनाज्ञातमाज्ञास्यामीन्दरियम् आज्ञेन्द्रियं आज्ञातावीन्द्रियमिति ।
[037।11-037।12]
आभिधार्मिकास्तु षडायतनव्यवस्थानमादृत्य जीवितेन्द्रियानन्तरं मनैन्द्रियं पठन्ति ।
[037।12]
सालम्बनत्वात् ।
[037।12-037।13]
तत्र धर्मार्धं जीवितेन्द्रियादीन्येकादशेन्द्रियाणि त्रयाणां च भागो धर्मधातुप्रदेशत्वात् ।
[037।13-037।14]
द्वादशानामाध्यात्मिकानां चक्षुरादयः पञ्च स्वनामोक्ताः ।
[037।14-037।15]
सप्त चित्तधातवो मनैन्द्रियं स्त्रिपुरुषेन्द्रिये कायधातुप्रदेश् इति पश्चाद् वक्ष्यति ।
[037।15-037।16]
शेषाः पञ्च धातवो धर्मधातुप्रदेशश्च नेन्द्रियमिति सिद्धम् ॥
[037।17]
अभिधर्मकोशभाष्ये धातुनिर्देशो नाम
[037।18]
प्रथमं कोशस्थानं समाप्तम् इति ।
[037।19-037।21]
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निर्होध एवंवादीउ महाश्रमणः ॥
[037।22]
लिखापितमिदं श्रीलामावाकेनेति ।
द्वितीयं कोशस्थानम्
=====================================================================
[038।02]
ओं नमो बुद्धाय ।
=====================================================================
[038।03]
उक्तानीन्द्रियाणि ।
कः पुनरिन्द्रियार्थः ।
"इदि परमैश्वर्ये" ।
[038।03-038।04]
तस्य इन्दन्तीति इन्द्रियाणि ।
[038।04]
अत आधिपत्यार्थ इन्द्रियार्थः ।
कस्य चैषां क्वाधिपत्यम् ।
[038।05]
चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं
[038।06]
चक्षुःश्रोत्रयोस्तावत् प्रत्येकं चतुर्ष्वर्थेवाधिपत्यम् ।
[038।06-038।07]
आत्मभावशोभायामन्धबधिरयोरकान्तरूपत्वात् ।
[038।07]
आत्मभावपरिकर्षणे दृष्ट्वा श्रुत्वा च विषमपरिवर्जनात् ।
[038।08]
चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरुत्पत्तौ ।
[038।08-038।09]
रूपदर्शनशब्दशारवणयोश्चासाधारणकारणत्वे ।
[038।09]
घ्राणजिह्वाकायानामात्मभावशोभायां पूर्ववत् ।
[038।09-038।10]
आत्मभावपरिकर्षणे तैः कवडीकाराहारपरिभोगात् ।
[038।10]
घ्राणादिविज्ञानानां ससंप्रयोगाणामुत्पत्तौ ।
[038।11]
गन्धघ्राणरसास्वादनस्प्रष्टव्यस्पऋशनानां चासाधारणकारणत्व इति ।
[038।12]
द्वयोः किल ।
[038।13]
चतुर्णां
[038।14]
स्त्रीपुरुषजीवितमनैन्द्रियाणां ।
द्वयोरर्थयोः प्रत्येकमाधिपत्यम् ।
[038।14-038।15]
स्त्री पुरुशेन्द्रियय्योस्तावत्सत्त्वभेदविकल्पयोः ।
[038।15]
तत्र सत्त्वभेदः स्त्रि पुरुष इति ।
[038।15-038।16]
सत्त्वविकल्पः स्तनादिसंस्थानस्वराचारान्यथात्वम् ।
[038।16]
संस्लेशव्यवदानयोरित्यपरे ।
[038।17-038।18]
तथा हि तद्विप्रयुक्तविकल्पानां षण्ढ पण्डकोभयव्यञ्जनानामसंवरानन्तार्यकुआशलमुलसमुच्छेदा न भवन्ति संवरफलप्राप्तिवैराग्याणि चेति ।
[038।19]
जीवितेन्द्रियस्य निकायसभागसंबन्धसाधारणयोः ।
[038।19-038।20]
मनैन्द्रियस्य पुनर्भवसंबन्धवशिभावानुवर्त्तनयोः ।
[038।20-038।22]
तत्र पुन्र्भवसंबन्धे यथोक्तं "गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरचित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वे"ति ।
[038।22]
वशिभावानुवर्त्तने यथोक्तं "चित्तेनायं लोको नीयत" इति विस्तरः ।
[038।22-038।23]
यत् पुनः सुखादीन्द्रियपञ्चकं यानि चाष्टौ श्रद्धादीनि तेषां
[038।24]
पञ्चकाष्टानं संक्लेशव्यवदानयोः
[038।25]
आधिपत्यं यथाक्रमं पञ्चानां सुखादीनां संक्लेशे ।
रागादीनां तदनुशायित्वात् ।
[038।25-039।01]
श्रद्धादीनां व्यवदाने ।
[039।01]
तै र्व्यवदायते ।
व्यवदाने ऽपि सुखादीनामाधिपत्यमित्यपरे ।
[039।01-039।02]
"यस्मात् सुखितस्य चित्तं समाधीयते" ।
[039।02-039।03]
दुःधुपनिषच्छ्रद्धाषण्नैष्क्रम्याश्रिताः सौमनस्यादय इति वैभाषिकाः ।
[039।03]
अपरे पुनराहुः ।
[039।03-039।04]
नैव चक्षुःश्रीत्राभ्यामात्मभावपरिकऋषणं विज्ञाय विषमपरिहारात् ।
[039।04]
विज्ञाने तु तयोराधिपत्यम् ।
[039।04-039।05]
नापि विज्ञानादन्यद्रूपदर्शनं शब्दश्रवणं वा ऽस्ति ।
[039।05]
यतस्तयोरसाधारणकारणत्वे पृथगाधिपत्यं युज्येत ।
[039।05-039।06]
तस्मान्नैवमेषामिन्द्रियत्वम् ।
[039।06]
कथं तर्हि ।
[039।07]
स्वार्थोपलब्ध्याधिपत्यात् सर्वस्य च षडिन्द्रियम् ।
[039।08]
चक्षुरादीनांपञ्चानां स्वस्यस्वस्यार्थस्योपलब्धाधिपत्यम् ।
[039।08-039।09]
मनसः पुनः सर्वार्थोपलब्धावाधिपत्यम् ।
[039।09]
अत एतानि षट् प्रत्येकमिन्द्रियम् ।
[039।09-039।10]
ननु चार्थानामप्यत्राधिपत्यम् ।
[039।10]
नाधिपत्यम् ।
अधिकं हि प्रभुत्वमाधिपत्यम् ।
[039।10-039।11]
चक्षुषश्चक्षूरूपोपलब्धावधिकमैश्वर्यम् ।
[039।11-039।12]
सर्वरूपोपलब्धौ सामान्यकारणत्वात्तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेः ।
[039।12]
न रूपस्य ।
तद्वि पर्ययात् ।
एवं यावत् मनसो धर्मेषु योज्यम् ।
[039।13]
स्रीत्व पुंस्त्वाधिपत्यात्तु कायात् स्त्रीपुरुषेन्द्रिये
[039।14]
कायेन्द्रियादेव स्त्रीपुरुषेन्द्रिये पृथक् व्यवस्थाप्येते ।
नार्थन्तरभूते ।
[039।14-039।15]
कश्चिदसौ कायेन्द्रियभाग उपस्थ प्रदेशो यः स्त्रीपुरुषेन्द्रियाख्यां परतिलभते ।
[039।15-039।16]
यथाक्रमं स्त्रीत्वपुंस्त्वय्योराधिपत्यात् ।
[039।16]
तत्र स्त्रीभावः स्त्रियाकृतिः स्वरचेष्टा अभिप्रायाः ।
[039।16-039।17]
एतद्धि स्त्रिया स्त्रीत्वम् ।
[039।17]
पुंभावः पुरुषाकृतिः स्वरचेष्टा अभिप्रायाः ।
एतद्धि पुंसः पुंस्त्वम् ।
[039।18-039।19]
निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः ।
जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः
[039।20]
निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यं संक्लेशे वेदनानाम् ।
[039।20-039।21]
तथाहि सुखायां वेदनायां रागो ऽनुशेते दुःखायां प्रतिघो ऽदुःखासुखायामविद्येत्युक्तं सूत्रे ।
[039।21-039।22]
व्यवदाने श्रद्धादीनां पञ्चानाम् ।
[039।22]
तथाहि तैः क्लेशाश्च विष्कभ्यन्ते मार्गश्चावाह्यते ।
[039।23]
अत एते ऽपि प्रत्येकमिन्द्रियमिष्टाः ।
[040।01]
आज्ञास्या म्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा ।
[040।02]
उत्तरोत्तरसंप्राप्तिनिर्वाणाद्याधिपत्यतः
[040।03]
प्रत्येकमिन्द्रिमित्युपदर्शनार्थं तथाशब्दः ।
[040।03-040।04]
तत्राज्ञास्यामीन्द्रियस्याज्ञेन्द्रियस्य प्राप्तावाधिपत्यम् ।
[040।04]
आज्ञेन्द्रैयस्याज्ञातावीन्द्रियप्राप्तौ आज्ञातावीन्द्रियस्य परिनिर्वाणे ।
[040।05]
नह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति ।
आदिशब्दो ऽन्यपर्यायद्योतनार्थः ।
[040।06]
कतमो ऽन्यः पार्यायः ।
दर्श्नहेयक्लेशपरिहाणम् प्रत्याज्ञास्यामीन्द्रियस्याधिपत्यम् ।
[040।07]
भावनाहेयक्लेआशप्रहाणं प्रत्याज्ञेन्द्रियस्य ।
दृष्टधर्मसुखविहारं प्रत्याज्ञातावीन्द्रियस्य ।
[040।08]
विमुक्तिप्रीतिसुखसंवेदनादिति ।
[040।08-040।09]
आधिपात्यादिन्द्रियत्वे ऽविद्यादीनामुपसंख्यानं कर्त्तव्यम् ।
[040।09-040।10]
अविद्यादीनामपि हि संस्कारादिष्वाधिपत्यमत एषामपीन्द्रियत्वमुपसंख्यातव्यम् ।
[040।10]
वागादीनां च ।
वाक्याणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यम् ।
[040।11]
वचनादानविहरणोत्सर्गानन्देष्वाधिपत्यात् ।
न खलूपसंख्यातव्यम् ।
यस्मादिहेष्टम्
[040।12-040।13]
चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च ।
संभारो व्यवदानं च यावता तावदिन्द्रियम्
[040।14]
तत्र चित्ताश्रयः षडिन्द्रियाणि ।
एतच्च षडायतनं मौलं सट्त्वद्रव्यम् ।
[040।14-040।16]
तस्य स्त्रीपुरुषविकल्पः स्त्रीपुरुषेन्द्रैयाभ्यां स्थितिर्जीवितेन्द्रियेण संक्लेशो वेदना भिः ।
[040।16]
व्यवदानसंभरणं पञ्चभिर्व्यवदानं त्रिभिः ।
[040।16-040।17]
अतो नाविद्यादीनामिन्द्रियत्वमिष्टम् ।
[040।18-040।19]
प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः ।
चतुर्दश तथा ऽन्यानि निवृत्तेरिन्द्रियाणि वा
[040।20]
मतविकल्पार्थो वाशब्दः ।
अपरे पुनराहुः ।
प्रवृत्तेरश्रयः षडिन्द्रियाणि ।
[040।20-040।21]
उत्पत्तिः स्त्रीपुरुषेन्द्रिये ।
[040।21]
तत उत्पत्तेः ।
स्थितिर्जीवितेन्द्रियम् ।
तेनावस्थानात् ।
[040।21-040।22]
उपभोगो वेदनाभिः ।
[040।22]
अत एतानि चतुर्दशेन्द्रियाणि ।
तेनैव प्रकारेण निवृत्तेरन्यानि ।
[040।22-040।23]
श्रद्धदीनि हि निवृत्तेराश्रयाः ।
[040।23-040।24]
आज्ञास्यामीन्द्रियं प्रभवः स्थितिराज्ञेन्द्रियम् उपभोग आज्ञातावीन्द्रियेणेत्यत एतावन्त्येवेन्द्रियाणि ।
[040।24]
अत एव चईषामेषो ऽनुक्रमः ।
[040।25]
वाचस्तु नेन्द्रियत्वं वचने शिक्षाविशेषापेक्षत्वात् ।
[040।25-040।26]
पाणिपादस्य चादानविहरणादनन्यत्वात् ।
[040।26-040।27]
तदेव हि तदन्यथा ऽन्यत्र चोत्पन्नमादानं विहरणं चोच्यते ।
[040।27]
विनापि च पाणिपादेनादानविहरणादुरगप्रभृतीणाम् ।
[040।27-040।28]
पायोरपि नेन्द्रियत्वमुत्सर्गे गुरुद्रव्यस्याकाशे सर्वत्र पतनात् ।
[040।28]
वायुना च तत्प्रेरणात् ।
[041।01]
उपस्थस्यापि नेन्द्रियत्वमानन्दे स्त्रीपुरुषेन्द्रियकृतं हि तत् सौख्यमिति ।
[041।01-041।03]
कण्ठदन्ताक्षिवर्त्मपर्वणामपि चाभ्यवहरणचर्वणोन्मेषनिमेषाकुञ्चनविकाशन क्रियास्विन्द्रियत्वं प्रसज्येत ।
[041।03-041।04]
सर्वस्य वा कारणभूतस्य स्वस्यां करियायामित्ययुकतं वागादीनामिन्द्रियत्वम् ॥
[041।05]
तत्र चक्षुरादीनां पुरुषेन्द्रियपर्यन्तानां कृतो निर्देशः ।
[041।05-041।06]
जीवितेन्द्रियस्य विप्रयुक्तत्वाद्विप्रयुक्तेष्वेव करिस्यते निर्देशः ।
[041।06]
श्रद्धादीनां चैत्तेषु करिष्यते ।
[041।06-041।07]
सुखादीनामाज्ञास्यामीन्द्रियादीनां च कर्त्तव्यः ।
[041।07]
सो ऽयं क्रियते ।
[041।08]
दुःखेन्द्रियमशाता या कायिकी वेदना
[041।09]
अशातेत्युपधातिका दुःखेत्यर्थः ।
[041।10]
सुखम् ।
[041।11]
शाता
[041।12]
सुखेन्द्रियं कायिकी शात वेदना ।
शातेत्यनुग्राहिका सुखेत्यर्थः ।
[041।13]
ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम्
[041।14]
तृतीये तु ध्याने सैव शाता वेदना चैतसी सुखेन्द्रियम् ।
[041।14-041।15]
नहि तत्र कायिकी वेदना ऽस्ति ।
[041।15]
पञ्चविज्ञानकायाभावात् ।
[041।16]
अन्यत्र सा सौमनस्यं
[041।17-041।18]
तृतीयाद्ध्यानादन्यत्र कामधातौ प्रथमे द्वितीये च ध्याने सा चैअतसिकी शाता वेदना सौमनस्येन्द्रियम् ।
[041।18-041।19]
तृतीये तु ध्याने प्रीतिवीतरागत्वात् सुखेन्द्रियमेव सा न सौमनस्येन्द्रियम् ।
[041।19]
प्रीतिर्हि सौमनस्यम् ।
[041।20]
अशाता चैतसी पुनः ।
[041।21]
दौर्मनस्यमुपेक्षा तु मध्या
[041।22]
नैवशातानाशाता अदुःखासुखा वेदना मध्येत्युच्यते ।
सोपेक्षेन्द्रियम् ।
[041।22-041।23]
किं कायिकी चैतसिकीत्याह ।
[041।24]
उभयी
[041।25]
किं पुनः कारणमियमभिसमस्यै कमिन्द्रियं क्रियते ।
[042।01]
अविकल्पनात्
[042।02]
चैतसिकं हि सुखदुःखं प्रायेण विकल्पनादुत्पद्यते न तु कायिकम् ।
[042।02-041।03]
विषयवशादर्हतामप्युत्पत्तेः ।
[042।03]
अतस्तयोरिन्द्रियत्वेन भेदः ।
[042।03-042।04]
उपेक्षा तु स्वरसेनाविकल्पयत एवोत्पद्यते कायिकी चैतसिकी चे त्येकमिन्द्रियम् क्रियते ।
[042।04-042।05]
अन्यथा च कायिकम् सुखमनुगृह्णात्यन्यथा चैतसिकम् ।
[042।05]
एवम् दुःखमन्यथा कायिकमुपहन्त्यन्यथा चैतसिकम् ।
[042।05-042।06]
उपेक्षायां त्वेष विकल्पो नास्त्यत उपेक्षणं प्रत्यविकल्पनादभेदः ।
[042।07]
दृग्भावना ऽसैक्षपथे नव त्रीणि
[042।08]
मनः सुखसौमनस्योपेक्षाः स्रद्धादीनि च पञ्च ।
[042।08-042।09]
तानि नवेन्द्रियाणि त्रिषु मार्गेषु त्रीणीन्द्रियाण्युच्यन्ते ।
[042।09-042।10]
दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियं भावनामार्गे आज्ञेन्द्रियम् अशैक्षमार्गे आज्ञातावीन्द्रियमिति ।
[042।10]
किं कारणम् ।
[042।10-042।11]
दर्शनमार्गे ह्यनाज्ञातमाज्ञातुं प्रवृत्तः ।
[042।11-042।12]
भावनामार्गे नास्त्यपूर्वमाज्ञेयं तदेव त्वाजानाति शेषानुशयप्रहाणार्थम् ।
[042।12]
अशैक्षमार्गे त्वाज्ञात्मित्यवगम आज्ञातावः ।
[042।12-042।13]
सो ऽस्यास्तीति आज्ञातावी ।
[042।13]
आज्ञातमवितुं शीलमस्येति वा ।
क्षयानुत्पादिज्ञानलाभात् ।
[042।14]
"दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यमिति" तथाभूतस्येन्रियमाज्ञातावीन्रियम् ।
[042।15-042।16]
स्वभावनिर्देशां कृत्वा प्रकारभेदो वक्तव्य कति सास्रवाणि कत्यनास्रवाणि इन्रियाणित्येवमादि ।
[042।16-042।17]
तत्र तावद्यदेतदनन्तरोक्तमाज्ञास्यामीन्रियादिकमेतत् ।
[042।18]
अमलं त्रयम् ।
[042।19]
अनास्रवमित्यर्थः ।
मलानामास्रवपर्यायत्वात् ।
[042।20]
रूपीणि जीवितं दुःखे सास्रवाणि
[042।21]
रूपीणि सप्तेन्द्रियाणि जीवितेन्द्रियं दुखःदौर्मनस्येन्द्रिये चैकान्तसास्रवाणि ।
[042।22]
रूपीणि पुनः सप्त चक्षुः
श्रोत्रघ्राणजिह्वाकायस्त्रिपुरुषेन्द्रियाणि रूपस्कन्धसंग्रहात् ।
[042।23]
द्विधा नव
[042।24-042।25]
मनःसुखसौमनस्योपेक्षाः श्रद्धादीनि च पञ्च एतानि नवेन्द्रियाणि सास्रवाण्यनास्रवाण्यपि ।
[042।25]
अनास्रवाण्येव श्रद्धादीनीत्येके ।
[042।25-042।27]
उक्तं हि भगवता "यस्येमानि पञ्चेन्द्रियाणि सर्वेण स्र्वं न सन्ति तमहं बाह्यं पृथग्जनपक्षावस्थितं वदामी"ति ।
[042।27]
नेदं ज्ञापकमनास्रवाण्यधिकृत्य वचनात् ।
[042।27-042।28]
तथा ह्यार्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याह ।
[042।28]
पृथग्जनो वा द्विविधः ।
[043।01]
आभ्यन्तरकश्चासमुच्छिन्न कुशलमूलो बाह्यकश्च समुच्छिन्नकुशलमूलः ।
[043।02]
तमधिकाऋत्याह "बाह्यं पृथग्जनपक्षावस्थितं वदामी"ति ।
[043।02-032।04]
उक्तं च सूत्रे "सन्ति च सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपी" त्यप्रवर्त्तित एव धर्मचक्रे ।
[043।04]
तस्मात्सन्त्येव सास्रवाणि श्रद्धादीनि ।
[043।05-043।07]
पुनश्चोक्तं "यावच्छाहमेषां पञ्चानामिन्द्रियाणां समुदयं चास्तगमं च स्वादं चादीनवं च निःसरणं च यथाभूतं नाध्यज्ञासिषं न तावदहमस्मात्सदेवकाल्लोकादि"ति विस्तरः ।
[043।07]
न चानास्रवाणां धर्माणामेष परीक्षाप्रकारः ॥
[043।08]
कतीन्द्रियाणि विपाकः कति न विपाकः ।
एकान्तेन तावत्
[043।09]
विपाको जीवितं
[043।10]
अथ यदर्हन् भिक्षुरायुःसंस्कारान् स्थापयति तज्जीवितेन्द्रियं कस्य विपाकः ।
[043।11]
शास्त्र उक्थं "कथमायुःसंस्कारान् स्थापयति ।
[043।11-043।13]
अर्हन् भिक्षुः ऋद्धिमांश्चेतोवशित्वं प्राप्तः संघाय व पुद्गलाय वा पात्रः वा चीवरं वा अन्यतमान्यतमं वा श्रामणकं जीवितपरिष्कारं वा दत्त्वा तत् प्रणिधाय प्रन्तकोटिकम् चतुर्थं ध्यानं समापद्यते ।
[043।14-043।15]
स तस्मात् व्युत्थाय चित्तमुत्पादयति वाचं च भाषते यन्मे भोगविपाकं तदायुर्विपाकं भवत्विति ।
[043।15]
तस्य यत् भोगविपाकं तदायुर्विपाकं भवति ।
[043।15-043।16
येषां पुनरयमभिप्रायो विपाकोच्छेषं विपच्यत इति ।
[043।16-043।17]
त आहुः पूर्वजातिकृतस्य कर्मणो विपाकोच्छेषं ।
[043।17]
स भावनाबलेनाकृष्य प्रतिसंवेदयत" इति ।
[043।17-043।18]
कथमायुःसंस्कारा नुत्सृजति ।
[043।18]
तथईव दानं दत्त्वा प्रणिधाय प्रन्तकोटिकं चतुर्थं ध्यानं समापद्यते।
[043।19]
यन्मे आयुर्विपाकं तत् भोगविपाकं भवत्विति तस्य तथा भवति ।
[043।20]
भदन्तघोषकस्त्वाह ।
[043।20-043।21]
तस्मिन्नेव आश्रये रूपावचराणि महाभूतानि ध्यानबलेन संमुधकरोत्यायुषो ऽनुकूलानि वैहोधिकानि च ।
[043।21-043।22]
एवमायुःसंस्कारान् स्थापयत्येवमुत्सृजतीति ।
[043।22]
एवं तु भवितव्यम् ।
[043।22-043।24]
समाधिप्रभाव एव स तेषां तदृशो येन पूर्वकर्मजं च स्थितिकालावेधमिन्द्रियमहाभूतानां व्याव्र्त्तयन्त्यपूर्वं च समाधिजमावेधमाक्षिपन्ति ।
[043।24]
तस्मान्न तज्जीवितेन्द्रियं विपाकं ततो ऽन्यत्तु विपाकः ।
[043।25]
प्रश्नात् प्रश्नान्तरमुपजायते ।
किमर्थमायुःसंस्कारानधितिष्ठन्ति ।
[043।25-043।26]
परहितार्थं शासन्स्थित्यर्थं वा ।
[043।26]
ते ह्यात्मनः क्षीणमायुः पश्यन्ति ।
[043।27]
न च तत्रान्यं शक्तं पश्यन्ति ।
अथ किमर्थमुत्सृजन्ति ।
[044।01]
अल्पं च परहितं जीविते पश्यन्ति रोगाभिभूतं चात्मभावम् ।
यथोक्तं
[044।02-044।03]
"सुचीर्णे ब्रह्मचर्ये ऽस्मिन् मार्गे चैव सुभाविते ।
तुष्ट आयुःक्षयात् भवति रोगस्यापगमे यथा ॥"
[044।04]
इति ।
अथैतदायुः संस्काराणां स्थापनार्थमुत्सर्जनं वा क्व कस्य वा वेदितव्यम् ।
[044।05]
मनुष्येष्वेवत्रिषु द्वीपेषु स्त्रीपुरुषयोरसमयविमुक्तस्यार्हतः प्रान्तकोटिकध्यानलाभिनः ।
[044।06]
तस्य हि समाधौ वशित्वम् ।
क्लेशैश्चानुपस्तब्धा सन्ततिः ।
[044।06-044।07]
सूत्र उक्तम् "भगवान् जीवितसंस्कारानधिष्ठायायुःसंस्कारानुस्त्सृष्टवान्" ।
[044।07-044।08]
तेषां को विशेषः ।
[044।08]
न कश्चिदित्येके ।
तथा ह्युक्तम् "जीवितेन्द्रियं कतमत् ।
[044।08-044।09]
त्रैधातुकमायुरि"ति ।
[044।09]
पूर्वकर्मफलमायुःसंस्काराः प्रत्युत्पन्नकर्मफलं जीवितसंस्कारा इत्यपरे ।
[044।10]
यैर्वा निकायसभागस्थितिस्त आयुःसंस्काराः ।
[044।10-044।11]
यैस्तु कालान्तरं जीवति ते जीवितसंस्कारा इति ।
[044।11-044।12]
बहुवचनं बहूनामायुर्जीवितसंस्कारक्षणानामुत्सर्जना धिष्ठानात् ।
[044।12]
नह्येकस्य क्षणस्योत्सर्जनमधिष्ठनं चास्ति ।
[044।12-044।13]
न च कालान्तरस्थावरमेकमायुर्द्रव्यमिति द्योतनार्थमित्येके ।
[044।13-044।14]
बहुश्वेव संस्कारेष्वायुराख्या नास्त्येकमायुर्द्रव्यम् ।
[044।14]
अन्यथा नैव संस्कारग्रहणमकरिष्यदित्यपरे ।
[044।14-044।15]
किमर्थं पुनर्भगवता आयुह्संस्कारा उत्सृष्टाश्चाधिष्टिताश्च ।
[044।15-044।16]
मरणवशित्वज्ञापनार्थमुत्सृष्टाजीवितवशित्वज्ञापनार्थमधिष्टिताः ।
[044।16]
त्रैमास्यमेव नोध्र्वम् विनेयकार्याभावात् ।
[044।17-044।18]
यच्चापि तत् प्रतिज्ञातम् "एवंभावितैरहं चतुर्भिरृद्धि पादैराकाङ्क्षन्कल्पमपि तिष्ठेयं कल्पावशेषमपी"ति ।
[044।18]
तस्यापि संपादनार्थम् ।
[044।18-044।19]
स्कन्धमरणमारयोर्निर्जयार्थमिति वैभषिकाः ।
[044।19]
बोधिमूले क्लेशदेवपुत्रमारौ निर्जिताविति ।
[044।19-044।20]
निष्ठितमानुषङ्गिकम् ॥
[044।21]
प्रकृतमेवारभ्यते ।
[044।22]
द्वेधा द्वादश
[044।23]
कतमानि द्वादश ।
[044।24]
अन्त्याष्टकादृते ।
[044।25]
दौर्मनस्याच्च
[044।26]
अन्त्यमष्टकं श्रद्धादीनि दौर्मनस्यं च वर्जयित्वा ।
[044।27-045।01]
जीवितेन्द्रियादन्यानि द्वादश द्विविधानि विपाकश्चाविपाकश्च ।
[045।01]
तत्र चक्षुरादीनि सप्तौपचयिकानि अविपाकः ।
शेषाणि विपाकः ।
[045।02]
मनोदुःखसुखसौमनस्योपेक्षेन्द्रियाणि कुशलक्लिष्टान्य विपाकः ।
[045।02-045।03]
ऐर्यापथिकशाइल्पस्थानिकनैर्माणिकानि च यथायोगम् ।
[045।03]
शेषाणि विपाकः ।
[045।03-045।04]
जीवितेन्द्रियं चक्षुरादीनि द्वादश हित्वा शेषाण्यविपाक इति सिद्धम् ।
[045।04-045।05]
यदि दौअर्मनस्येन्द्रियं न विपाक इति सूत्रं कथं नीयते "त्रीणि कार्याणि ।
[045।05-045।06]
सौमनस्यवेदनीयं कर्म दौर्मनस्यवेदनीयं कर्म उपेक्षा वेदनीयं कर्मे"ति संप्रयोगवेदनीयतामधिकृत्योक्तम् ।
[045।06-045।07]
दौर्मस्येन संप्रयुक्तं कर्म दौर्मनस्यवेदनीयम् ।
[045।07]
यथा सुखसंपरयुक्तः स्पर्शः सुखवेदनीयः ।
[045।07-045।08]
सौमनस्योपेक्षावेदनीये अपि तर्हि कर्मणी एवं भविष्यतः ।
[045।08]
यथेच्छसि तथा ऽस्तु ।
[045।08-045।09]
संप्रयोगे ऽपि न दोषः विपाके ऽपि न दोषः ।
[045।09]
अगत्या ह्येतदेवं गम्येत ।
[045।09-045।10]
का पुन्रत्र युक्तिर्दौर्मनस्यं न विपाक इति ।
[045।10]
दौर्मनस्यं हि परिकल्पविशेषैरुत्पाद्यते च व्युपशाम्यते च ।
[045।10-045।11]
नचैवम् विपाकः ।
[045।11]
सौमनस्यमप्येवं न स्याद्विपाकः ।
[045।11-045।12]
यदि तर्हि दौमनस्यं विपाकः स्यादानन्तर्यकारिणां तन्निमित्तं दौर्मनस्योत्पादात्तत्कर्म विपक्वं स्यात् ।
[045।13]
सौमनस्यमप्येवम् ।
[045।13-045।14]
यदि सौमनस्यं विपाकः स्यात् पुण्यकारिणां तन्निमित्तं सौमनस्योत्पादात्तत्कर्म विपक्वं स्यात् ।
[045।14]
वीतरागाणां तर्हि दौर्मनस्यासंभवात् ।
[045।14-045।15]
न चैवं विपाकः ।
[045।15]
सौमनस्यमप्येषामव्याकृतं कोदृशं विपाकः स्यात् ।
यादृशं तादृशमस्तु ।
[045।16]
सति तु संभवे सौमनस्यस्यास्ति विपाकावकाशी न दौअर्मनस्यस्य ।
[045।16-045।17]
सर्वथा ऽसमुदाचारादिति नास्त्येवं दौर्मनस्यं विपाक इति वैभाषिकाः ।
[045।17-045।18]
तत्र जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य विपाको दुर्गतावकुशलस्य ।
[045।18]
मनैन्द्रियमुभयोरुभयस्य ।
[045।18-045।19]
सुखसौमनस्योपेक्षेन्द्रियाणि कुशलस्य ।
[045।19]
दुःखेन्द्रियमकुशलस्य ।
[045।19-045।20]
सुगताबुभयव्यञ्जनस्याकुशलेनतत्स्थानप्रतिलम्भः ।
[045।20]
नत्विन्द्रियस्य कुशलाक्षेपात् ।
गतमेतद् ।
[045।21]
इदं नु वक्तव्यम् ।
कतीन्द्रियाणि सविपाकानि कत्यविपाकानि ।
[045।21-045।22]
यदेतत् दौर्मनस्यमनन्तरोक्तं
[045।23]
तत्त्वेकं सविपाकं ।
[045।24]
तदेकं सविपाकमेव ।
तुशब्द एवकारार्थो भिन्नक्रमश्च वेदितव्यः ।
[045।24-045।25]
नहि तदव्याकृतमस्ति नाप्यनास्रवमसमाहितत्वात् ।
[045।25]
अतो नास्त्यविपाकं दौर्मनस्यम् ।
[045।26]
दश द्विधा
[045।27]
सविपाकान्यविपाकानि च ।
कतमानि दश ।
[046।01]
मनो ऽन्यवित्तिश्रद्धादीनि
[046।02]
अन्यवित्तिग्रहणात् दौर्मनस्यादन्यत् वेदितं गृह्यते ।
[046।02-046।03]
श्रद्धादीनि श्रद्धावीर्यस्मृतिसमाछिप्रज्ञाः ।
[046।03-046।04]
तत्र मनःसुखसौमनस्योपेक्षा अकुआशलाः कुशलाः सास्रवाश्च सविपाकाः ।
[046।04]
अनास्रवा अव्याकृताश्चाविपाकाः ।
[046।04-046।05]
दुःखेन्द्रियं कुशलाकुआशलं सविपाकमव्याकृतमविपाकम् ।
[046।05]
श्रद्धादीनि सस्रवाणि सविपाकान्यनास्रवाण्यविपाकानि ।
[046।06]
अन्यदविपाकमिति सिद्धम् ।
[046।07]
कति कुशलानि कत्यकुशलानि कत्यव्याकृतानि ।
एकान्तेन तावत् ।
[046।08]
अष्टकं कुशलं
[046।09]
पञ्चश्रद्धादीनि त्रीणि चाज्ञास्यामीन्द्रियादीनि ।
[046।10]
द्विधा ।
[046।11]
दौर्मनस्यं ।
[046।12]
कुशलं चाकुशलं च ।
[046।13]
मनो ऽन्या च वित्तिस्त्रेधा
[046।14]
कुशलाकुशलाव्याकृतानि ।
[046।15]
अन्यदेकधा
[046।16]
किञ्चिदन्यत् ।
जीविताष्टमं चक्षुरादि ।
एतदव्याकृतमेव ॥
[046।17]
कतमदिन्द्रियं कतमधात्वाप्तमेषामिन्द्रियाणाम् ।
[046।18]
कामाप्तममलं हित्वा ।
[046।19]
कामप्रतिसंयुक्तं तावदिन्द्रियं वेदितव्यम् ।
[046।19-046।20]
एकान्तानास्रवमाज्ञास्यामीन्द्रियादित्रयं हित्वा ।
[046।20]
तद्ध्यप्रतिसंयुक्तमेव ।
[046।21]
रूपाप्तं स्त्रीपुमिन्द्रिये ।
[046।22]
दुःखे च हित्वा
[046।23]
अमलं चेति वर्त्तते ।
दुःखे इति दुःखदौर्मनस्ये ।
[046।23-046।24]
तत्र मैथुनधर्मवैराग्यादशोभाकरत्वाच्च रूपधातौ स्त्रीपुरुषेन्द्रिये न स्तः ।
[046।24]
कथमिदानीं पुरुषास्त उच्यन्ते ।
[046।25]
क्वोच्यन्ते ।
सूत्रे ।
[046।25-046।26]
"अस्थानमनवकाशो यत् स्त्री ब्रह्मत्वं कारयिष्यति ।
[046।26]
नेदं स्थानं विद्यते ।
स्थानमेतत् विद्यते यत् पुरुष" इति ।
[046।26-046।27]
अन्यः पुरुषभावो यः कामछातौ पुरुषाणां भवति ।
[046।27-046।28]
दुःखेन्द्रियं नास्त्याश्रयस्याच्छत्वादकुशला भावाच्छ ।
[046।28]
दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसन्तानत्वादाघातवस्त्वभावाच्च ।
[047।01-047।01]
आरूप्याप्तं सुखे चापोह्य रूपि च
[047।02]
स्त्रीपुरुषेन्द्रिये दुःखे चामलं हित्वेति वर्त्तते ।
किमवशाइष्यते ।
[047।02-047।03]
मनोजीवितोपेक्षेन्द्रियाणि श्रद्धादीनि च पञ्च ।
[047।03]
एतान्यारूप्यप्रतिसंयुक्तानि सन्ति नान्यानि ।
[047।04]
कतीन्द्रियाणि दर्शनप्रहातव्यानि कति भावनाप्रहातव्यानि कत्यप्रहातव्यानि ।
[047।05]
मनोवित्तित्रयं त्रेधा
[047।06]
कतमद् वित्तित्रयम् ।
सुखसौमनस्योपेक्षाः ।
[047।07]
द्विहेया दुर्मनस्कता ।
[047।08]
दौअर्मनस्यं द्वाभ्यां प्रहेयं दर्शनभावनाभ्याम् ।
[047।09]
नव भावनया ।
[047।10]
हेयानीत्यधिकारः ।
जीविताष्टमानि चक्षुरादीनि दुःखेन्द्रियं च भावनाहेयान्येव ।
[047।11]
पञ्च त्वहेयान्यपि
[047।12]
श्रद्धादीनि पञ्च भावनाहेयान्यप्यहेयान्यपि ।
सास्रवानास्रवत्वात् ।
[047।13]
न त्रयम्
[047।14]
त्रयं नैव प्रहेयमाज्ञास्यामीन्द्रियादिकमनास्रवत्वात् ।
नहि निर्दोषं प्रहाणार्हम् ।
[047।15]
उक्तः प्रकारभेदः ।
[047।16]
लाभ इदानीं वक्तव्यः ।
[047।16-047।17]
कतीन्द्रियाणि कस्मिन्धातौ विपाकः प्रथमतो लभ्यन्ते ।
[047।18]
कामेष्वादौ विपाको द्वे लभ्यते
[047।19]
कायेन्द्रियं जीवितेन्द्रियं च ।
ते पुनः
[047।20]
नोपपादुकैः ।
[047।21]
उपपादुकप्रतिषेधादण्डजजरायुजसंस्वेदजईरिति वेदितव्यम् ।
कस्मान्न मनौपेक्षेन्द्रिये ।
[047।22]
प्रतिसन्धिकाले तयोरवश्यं क्लिष्टत्वात् ।
अथोपपादुकैः कति लभ्यन्ते ।
[047।23]
तैः षड वा
[047।24]
यद्यव्यञ्जना भवन्ति ।
यथा प्राथमकल्पिकाः ।
कतमानि षट् ।
[047।24-047।25]
चक्षुःश्रोत्रघ्राणजिह्वाकायजीवितेन्द्रियाणि ।
[048।01]
सप्त वा
[048।02]
यद्येकव्यञ्जना भवन्ति ।
[048।02-048।92]
यथा देवादिषु ।
[048।03]
अष्टौ वा
[048।04]
यद्युभयव्यञ्जना भवन्ति ।
किं पुनरुभयव्यञ्जना अप्युपपादुका भवन्ति ।
[048।04-048।05]
भवन्त्यपायेषु
[048।05]
एवं तावत् कामधातौ ।
अथ रूपधातावारूप्यधातौ च कथमित्याह ।
[048।06]
षड् रूपेषु
[048।07]
कामप्रधानत्वात् कामधातुः कामा इति निर्दिश्यते ।
[048।07-048।08]
रूपप्रधानत्वाद् रूपधातू रूपाणीति ।
[048।08-048।09]
सूत्रे ऽप्युक्तं "ये ऽपि ते भिक्षवः शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्या" इति ।
[048।09]
तत्र रूपधातौ षड्डिन्द्रियाणि विपाकः परथमतो लभ्यन्ते ।
[048।09-048।10]
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0