अभिधर्मकोशभाष्य · भाग 101120
[060।03-060।04]
अस्ति या परमपेक्षमाणस्य प्रवर्त्तते सा ऽनपत्राप्यम् ।
[060।04]
विपर्ययेण ह्रीरपत्राप्यं च वेदितव्यम् ।
[060।04-060।05]
प्रतहमेन तावत् कल्पेन सगौरवता सप्रतीशता न भयवशव्र्तिता ह्रीः ।
[060।05]
अवद्येष्वभयदर्शिअता ऽपत्राप्यम् ।
[060।06]
द्वितीयेन कल्पेनात्मपरापेक्षाभ्यां लज्जने ।
[060।07]
प्रेम्णो गौरवस्य च किं नानाकारणम् ।
[060।08]
प्रेम श्रद्धा ।
[060।09]
द्विविधं हि प्रेम क्लिषाटमक्लिष्टं च ।
तत्र क्लिष्टं तृष्णा यथा पुत्रदारादिषु ।
[060।09-060।10]
अक्लिष्टं श्रद्धा शास्तृगुरुगुणान्वितेषु ।
[060।10]
स्याच्छ्रद्धा नप्रेम ।
[060।10-060।11]
दुःधसमुदयालम्बना श्रद्धा ।
[060।11]
स्यात् प्रेम न श्रद्धा ।
क्लिष्टं प्रेम ।
[060।11-060।12]
उभयं निरोधमार्गालम्बना श्रद्धा ।
[060।12]
नोभयमेतानाकारान् स्थापयित्वा ।
[060।12-060।13]
पुद्गलेषु तु प्रेम न गौरवं पुत्रदारसार्धं विहार्यन्तेवासिषु ।
[060।13]
गौरवं न प्रेम अन्यगुरुषु ।
उभयं स्वगुरुषु ।
[060।13-060।14]
नोभयम् एतानाकारान् स्थापयित्वा ।
[060।14]
श्रद्धा हि नाम गुणसंभावना ।
तत्पूर्विका च प्रियता प्रेम ।
[060।15]
तस्मान्न सैव प्रेमेत्यपरे ।
[060।16]
गुरुत्वं ह्रीः ।
[060।17]
गौरवं हि नाम सप्रतीशता ।
तत्पूर्विका च लज्जा ह्रीः ।
[060।17-060।18]
अतो न गौरवमेव ह्लीरित्यपरे ।
[060।19]
ते पुनः कामरूपयोः
[060।20]
आरूप्यधातौ प्रेमगौरवे न स्तः ।
[060।20-060।21]
ननु च श्रद्धा ह्रीश्च कुशलमहाभूमिकत्वात्तत्रापि विद्येते ।
[060।21]
द्विविधा हि श्रद्धा धर्मेषु पुद्गलेषु च ।
एवं सप्रतीशता ऽपि ।
[060।21-060।22]
तत्र ये पुद्गलालम्बने श्रद्धाह्रियौ ते तत्र न स्तः ।
[060।22]
ते चेह प्रेमगौरवे अभिप्रेते ।
[060।23]
वितर्कविचारयोः किं नानाकारणम् ।
[060।24]
वितर्कचारा वौदार्यसूक्ष्मते ।
[060।25]
कस्य ।
चेतस इति पश्चाद्वक्ष्यति ।
चित्तौदारिकता वितर्कः ।
चित्तसूक्ष्मता विचारः ।
[060।25-060।26]
कथं पुनः अनयोरेकत्र चित्ते योगः ।
[060।26]
केचिदाहुः ।
[060।26-061।01]
यथा ऽप्यसुनिष्ठ्यूतं सर्पिः सूर्यरश्मिभिरूपरिष्टात्स्पृष्टं नातिश्यायते नातिविलीयते एवंवितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्योदारिक मित्युभयोरपि तत्रास्ति व्यापारः ।
[061।01-061।03]
एवं तर्हि निमिट्तभूतौ वितर्कविचारावौदारिक सूक्ष्मतयोः प्राप्नुतो यथा पयश्चा तपश्चसर्पिषः श्यानत्व विलीनत्वयोर्नतु पुनस्तत्स्वभावौ ।
[061।03-061।04]
आपेक्षिकी चौदारिकसूक्ष्मता भूमिप्रकारभेदादित्याभवाग्राद्वितर्कविचारौ स्याताम् ।
[061।04-061।05]
नचौदारिकसूक्ष्मातया जातिभेदो युकतः ॥
[061।05]
अन्ये पुनराहुः ।
[061।05-061।06]
वाक्संस्कारा वित्र्कविचाराः सूत्र उक्ताः ।
[061।06]
"वितर्क्य विचार्य वाचं भाषते नावितस्र्याविचार्ये"ति ।
[061।06-061।07]
तत्र ये औदारिकास्ते वितर्काः ये सूक्ष्मास्ते विचाराः ।
[061।07-061।08]
यदि चैकत्र चित्ते ऽन्यो धर्म औदारिको ऽन्यः सूक्ष्मः को ऽत्र विरोध इति ।
[061।08-061।09]
न स्याद्विरोधो यदि जातिभेदः स्याद्वेदनासंज्ञावत् ।
[061।09]
एकस्यां जातौ मृद्वधिमात्रता युगपन्न संभवति ।
[061।10]
जातिभेदो ।प्यस्ति ।
स तर्हि वक्तव्यः ।
दुर्वचो ह्यसावतो मृद्वधिमात्रतया व्यज्यते ।
[061।11]
नैवं व्यक्तो भवति ।
प्रत्येकं जातीनां मृद्वधिमात्रतवात् ।
[061।11-061।12]
नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपरे ।
[061।12]
कथमिदानीं प्रथमं ध्यानं पञ्चाङ्गयुक्तम् ।
[061।13]
भूमितस्तत् पञ्चाङ्गयुकतं न क्षणतः ॥
[061।14]
मानमदयोः किं नानाकारणम् ।
[061।15-061।16]
मान उन्नतिः ।
मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः
[061।17]
येन केनचित् परतो विशेषपरिकल्पेन चेतस उन्नतिः मानः ।
[061।17-061।18]
मदस्तु स्वधर्मेष्वेव रक्तस्य यच्चेतसः पर्यादानम् ।
[061।18]
यथा मद्यज एवं रागजः ।
[061।18-061।19]
संप्रहऋशणविशेषो मद इत्यपरे ।
[061।20]
उक्ताः सह चित्तेन चैत्ताः प्रकारश स्तेषां पुनरिमाः संज्ञाः परिभाष्यन्ते ।
[061।21]
प्रवचन एताभिः सद्व्यवहारात् ।
[061।22]
चित्तं मनो ऽथ विज्ञानमेकार्थं
[061।23]
चिनोतीति चित्तम् ।
मनुत इति मनः ।
विजानातीति विज्ञानम् ।
[061।23-062।01]
चित्तं शुभाशुभैर्धातुभिरिति चित्तम् ।
[062।01]
तदेवाश्रयभुतं मनः ।
आश्रितभूतं विज्ञानमित्यपरे ।
[062।01-062।02]
यथा चित्तं मनो विज्ञानमित्येको ऽर्थः ।
[062।02]
एवं ।
[062।03]
चित्तचैतसाः ।
[062।04]
साश्रया लम्बनाकाराः संपरयुक्ताश्च ।
[062।05]
एको ऽर्थः ।
त एव हि चित्तचैत्ताः साश्रया उच्यन्ते इन्द्रियाश्रितत्वात् ।
[062।05-062।06]
सालम्बना विषयग्रहणात् ।
[062।06]
साकारास्तस्यैवालम्बनस्य प्रकारश आकरणात् ।
[062।06-062।07]
सम्प्रयुक्ताः समं प्रयुक्तत्वात् ।
[062।07]
केन प्रकारेण समं परयुक्ता इत्याह
[062।08]
पञ्चधा
[062।09]
पञ्चभिः समताप्राकारैराश्रयालम्बनाकारकालद्रव्यसमताभिः ।
केयं समता ।
[062।09-062।10]
यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैका इति ।
[062।10]
निर्दिष्टाश्चित्तचैत्ताः सविस्तरप्रभेदाः ।
[062।11-062।12]
विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता ।
आसंज्ञिकं समापत्ती जीवितं लक्षणानि च
[062।13]
नामकायादयश्चेति
[062।14]
इमे संस्कारा न चित्तेन असंप्रयुक्ता नच रूपस्वभावा इति चित्तविप्रयुक्ताउच्यन्ते ।
[062।15]
तत्र तावत्
[062।16]
प्रप्तिर्लाभः समन्वयः ।
[062।17]
द्विविधा हि प्राप्तिरप्राप्तविहीनस्य च लाभः प्रतिलब्धेन च समन्वागमः ।
[062।18]
विपर्ययादप्राप्तिरिति सिद्धम् ।
कस्य पुनरिमे प्राप्त्यप्राप्ती ।
[062।19]
प्राप्त्यप्राप्ती स्वसंतान पतितानां
[062।20]
न परसंतानपतितानाम् ।
नहि परकीर्यैः कश्चित्समन्वागतः नाप्यसंततिपतितानाम् ।
[062।21]
न ह्यसतत्वसंख्यातैः कश्चित्समन्वागतः ।
एष तावत् संस्कृतेषु नियमः ।
[062।21-062।22]
असंस्कृतेषु पुनः प्राप्त्यप्राप्ती
[062।23]
निरोधयोः
[062।24]
सर्वसत्त्वा अप्रतिसंख्यानिरोधेन समन्वागताः ।
[062।24-062।25]
अत एव हि चोत्तमभिधर्मे "अनास्रवैर्धर्मः कः समन्वागतः ।
[062।25]
आह ।
[062।25-062।26]
सर्वसत्त्वा" इति ।
[062।26-063।01]
प्रतिसंख्यानिरोधेन सकलबन्धनादिक्षणस्थवर्ज्याः सर्व आर्याः पृथग्जनाश्च केचित्समन्वागताः ।
[063।01-063।02]
आकाशेन तु नास्ति कश्चित्समन्वागतः ।
[063।02]
तस्मादस्य नासति प्राप्तिः ।
[063।02-063।03]
यस्य च नास्ति प्राप्तिस्तस्तस्याप्राप्तिरपि नास्तीति सिद्धान्तः ।
[063।03]
प्राप्तिर्नामास्ति किञ्चित् भावान्तर्मिति ।
कुत एतत् ।
[063।04]
आह सूत्रात् ।
[063।04-063।05]
सूत्रे ह्युस्तं "स एषां दशानामशैक्षाणां धर्मणामुत्पादात् प्रतिलम्भात्समन्वागमादर्यो भवति पञ्चाङ्गविप्रहीण" इति विस्तरः ।
[063।06]
तेन तर्हि असत्त्वाख्यैरपि समन्वागमः प्राप्नोति परसत्त्वैश्च ।
किं कारणम् ।
[063।07]
सूत्र वचनात् ।
"राजा भिक्षवश्चक्रवर्ति सप्तभी रत्नैः समन्वागत" इति विस्तरः ।
[063।08]
वशित्वमत्र समन्वागमशब्देनोक्तम् ।
तस्य तेषु रत्नेषु वशित्वं कामचार इति ।
[063।09]
अत्र वशित्वं समन्वागमो ऽन्यत्र पुनर्द्रव्यान्तरमिति ।
कुत एतत् कः पुनरेवमयोगः ।
[063।10-063।11]
अयम् अयोगः यद् अस्या नैव स्वभावः प्रज्ञायते रूपशब्दादिवद् रागद्वेषादिवद् वा न चापि कृत्यं चक्षुःश्रोत्रादिवत् ।
[063।11]
तस्मात् द्रव्यधर्मासंभवादयोगः ।
[063।11-063।12]
उत्पत्तिहेतुर्धर्माणां प्राप्तिरिति चेत् ।
[063।12]
असंस्कृतस्य न स्यात् ।
[063।12-063।13]
ये च धर्मा अप्राप्ता ये च त्यक्ता भूमिसंचारवैअराग्यतस्तेषां कथमुत्पत्तिः स्यात् ।
[063।13]
सहजप्राप्तिहेतुका चेत् ।
[063।13-063।14]
जातिरिदानीं किङ्करी जातिजातिर्वा ।
[063।14-063।15]
सकलबन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदो न स्यात् प्राप्त्यभेदात् ।
[063।15]
यतो वा स भेदस्तत एवास्तु तदुत्पत्तिः ।
[063।15-063।16]
तस्मान्नोत्पत्तिहेतुः प्राप्तिः ।
[063।16]
कश्चैवमाहोत्पत्तिहेतुः प्राप्तिरिति ।
किं तर्हि ।
[063।16-063।17]
व्यवस्था हेतुः ।
[063।17-063।18]
असत्यां हि प्राप्तौ लौकिकमानसानामार्यपृथग्जनानामार्या इमे पृथग्जना इम इति न स्याद् व्यवस्थानम् ।
[063।18-063।19]
प्रहीणाप्रहीण क्लेशताविशेषादेतत् भवितुमर्हति ।
[063।19-063।20]
एतच्चैव कथं भविष्यत्येषां प्रहीणः क्लेश एषामप्रहीण इति ।
[063।20]
प्रप्तौ सत्यामेतत्सिध्यति तद्विगमाविगमात् ।
आश्रयविशेषादेतत्सिध्यति ।
[063।21-063।22]
आश्रयो हि स आर्याणां दर्शनभावनामार्गसामर्थ्यात्तथा परावृत्तो भवति यथा न पुनस्तत्प्रहेयाणां क्लेशानां प्ररोहसमर्थो भवति ।
[063।22-063।23]
अतो ऽग्निदग्धव्रीहिवदवीजीभूते आश्रये क्लेशानां प्रहीणक्लेश इत्युच्यते ।
[063।23]
उपहतवीजभावे वा लौकिकेन मार्गेण ।
[063।24]
विपर्ययादप्रहीणक्लेशः ।
[063।24-063।25]
यश्चाप्रहीणस्तेन समन्वागतो यः प्रहीणस्तेना समन्वागत इति प्रज्ञप्यते ।
[063।25-063।26]
कुशला अपि धर्मा द्विप्रकारा अयत्नभाविनो यत्नभाविनश्च ये त उच्यन्ते उत्पत्तिप्रतिलम्भिकाः प्रायोगिकाश्चेति ।
[063।26-063।27]
तत्रायत्नभाविभिराश्रयस्य तद्वीजभावानुपघातात् समन्वागत उपघातादसमन्वागत उच्यते समुच्छिन्नकुआशलमूलः ।
[063।27-064।01]
तस्य तूपघातो मिथ्यादृष्ट्या वेदितव्यः ।
[064।01-064।02]
न तु खलु कुशलानां धर्माणां वीजभावस्यात्यन्तं सन्ततौ समुद्घातः ।
[064।02-064।03]
येपुनर्यत्नभाविनस्तैरुत्पन्नैस्तदुत्पत्तिर्वशित्वा विघातात्सन्ततेः समन्वागत उच्यते ।
[064।03-064।05]
तस्माद्वीजमेवात्रानपोद्धृतमनुपहतम् परिपृष्टं च वाशिअत्वकाले समन्वागमाख्यां तभते नान्यद् द्रव्यम् ।
[064।05]
किं पुनरिदं बीजं नाम ।
[064।05-064।06]
यन्नामरूपं फलोत्पत्तौ समर्थ साक्षात् पारंपर्येण वा ।
[064।06]
सन्ततिपरिणामविशेषात् ।
को ऽयं परिणामो नाम ।
[064।06-064।07]
सन्ततेरन्यथात्वम् । का चेयं सन्ततिः।
[064।07]
हेतुफलभूतस्त्रैयध्विकाः संस्काराः ।
[064।07-064।08]
यत् तूक्त "लोभेन समन्वागतो ऽभव्यश्चत्वारि स्मृत्युपस्थानानि भावयितुमि"ति ।
[064।08-064।09]
तत्राधिवासनं लोभस्याविनोदनं वा समन्वागमः ।
[064।09-064।10]
यावद्धि तस्याधिवासको ऽविनोदको भवति तावत् भव्यस्तानि भावयितुम् ।
[064।10-064।11]
एवमयं समन्वागमः सर्वाथा प्रज्ञप्तिधर्मो न तु द्रव्यधर्मः ।
[064।11]
तस्य च प्रतिषेधो ऽसमन्वागम इति ।
[064।11-064।12]
द्रव्यमेव तु वैभाषिकाः उभयं वर्णयन्ति ।
[064।12]
किं कारणम् ।
एष हि नः सिद्धान्त इति ।
सा किलैषा प्रप्तिः
[064।13]
त्रैयध्विकानां त्रिविधा
[064।14]
अतीतानां धर्माणामतीता ऽपि प्राप्तिरस्त्यनागत्या ऽपि प्रत्युत्पन्ना ऽपि ।
[064।14-064।15]
एवमनागतपरत्युत्पन्नानां प्रत्येकं त्रिविधा ।
[064।16]
षुभादीनां षुभादिका ।
[064।17]
कुशलाकुशलाव्याकृतानां कुआशलाकुशलाव्याकृतैव यथाक्रमं प्राप्तिः ।
[064।18]
स्वधातुका तदाप्तानां
[064।19]
ये धर्मास्तद्धात्वाप्तास्तेषां स्वधातुका प्राप्तिः ।
[064।19-064।20]
कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रमम् ।
[064।21]
अनाप्ता नां चतुर्विधा
[064।22]
अनास्रवाणां धर्माणां चतुर्विधा प्रप्तिः ।
समासेन त्रैधातुकी चानास्रवा च ।
[064।23-064।24]
तत्राप्रप्तिंसंङ्ख्यानिरोधस्य त्रैधातुकी प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा च ।
[064।24]
मार्गसत्यस्यानास्रवैव ।
सेयं समस्य चतुर्विधा भवति ।
[064।25]
शैक्षाणां धर्माणां शैक्षैव प्राप्तिः अक्षैक्षाणामशैक्षानाशैक्षाणान्तुभेदः ।
[065।01]
स निर्दिश्यते
[065।02]
त्रिधा नशैक्षा ऽशैक्षाणां
[065।03]
नैवशैक्षानाशैक्षा धर्मा उच्यन्ते सास्रवा धर्मा असंस्काऋतं च ।
[065।03-065।04]
तेषां शैक्षादिभेदेन त्रिविधा प्राप्तिः ।
[065।04]
सास्रवाणां तावत् नैवशैक्षानाशैक्षी प्राप्तिः ।
[065।04-065।05]
अप्रतिसंख्यानिरोधस्य च प्रतिसंख्यानिरोधस्य चानार्येण प्रप्तस्य ।
[065।05-065।06]
तस्यैव शैक्षेण मार्गेण प्रप्तस्य शैक्षी अशैक्षेणाशैक्षी ।
[065।06-065।07]
दर्शनभावनाहेयानां यथाक्रमं दराशनभावनाहेयैव पराप्तिः ।
[065।07]
अहेयानां तु भेदः ।
स निर्दिश्यते
[065।08]
अहेयानां द्विधा मता ।
[065।09-065।10]
अप्रहेयाधर्मा अनास्रवाः ।
तेषामप्रतिसंख्यानिरोधस्य भावनाहेया प्राप्तिः अनार्यप्राप्तस्य च प्रतिसंख्यानिरोधस्य ।
[065।10-065।11]
तस्यैवार्यमार्गप्राप्तस्यानास्रवा ऽहेया मार्गसत्यस्य च ।
[065।12]
यदुक्तं "त्रैयध्विकानां त्रिविधे" ति तस्योत्सर्गस्यायमपवादः
[065।13]
अव्याकृताप्तिः सहजा
[065।14]
अनिवृताव्याकृतानां सहजैव प्राप्तिर्नाग्रजा न पश्चात्कालजा ।
दुर्बलत्वात् ।
[065।14-065।15]
तेनतेषामतीतानामतीतैव यावत् प्रत्युत्पन्नानां प्रत्युत्पन्नैव ।
[065।15-065।16]
किं सर्वस्यैवानिवृताव्याकृतस्य ।
[065।16]
न सर्वस्य ।
[065।17]
अभिज्ञानैर्माणिकादृते
[065।18]
द्वे अभिज्ञे अव्याकृते निर्माणचित्तं च वर्जयित्वा ।
[065।18-065।19]
तेषां हि बलवत्त्वात् प्रयोगविशेषनिष्पत्तेः पूर्व पश्चात् सहजा प्राप्तिः ।
[065।19-065।20]
शैल्पस्थानिकस्यापि कस्यचिदीर्यापथिकस्या
त्यर्थमभ्यस्तस्येच्छन्ति ।
[065।21]
किमनिवृताव्याकृतस्यैव सहजा प्रप्तिरित्याह
[065।22]
निवृतस्य च रूपस्य
[065।23-065।24]
निवृताव्याकृतस्यापि विज्ञप्तिरूपस्य सहर्जैव प्राप्तिरधिमात्रेणाप्यविज्ञप्त्यनुत्थापनादौर्बल्यसिद्धेः ।
[065।25-065।26]
यथा ऽव्याकृतानां धर्माणामयं प्रप्तिभेदः किमेवं कुशलाकुशलानामपिकश्चित् प्राप्तिभेदो ऽस्ति ।
[065।26]
अस्तीत्याह ।
[065।27]
कामे रूपस्य नाग्रजा ।
[065।28]
कामावचरस्य विज्ञप्त्यविज्ञप्तिरूपस्याग्रजा प्रप्तिः सर्वथा नास्ति ।
[065।28-065।29]
सहजा चास्ति पश्चात्कालजा च ।
[065।30]
किमप्राप्तेरपि प्राप्तिवत्प्रकारभेदः ।
नेत्याह ।
किं तर्हि ।
[066।01]
अक्लिष्टाव्याकृता ऽप्राप्तिः
[066।02]
अप्राप्तिरनिवृताव्याकृतैव सर्वा ।
अध्वभेदेन पुनः
[066।03]
सा ऽतीताजातयोस्त्रिधा
[066।04]
प्रत्युत्पन्नस्य नारत्यप्राप्तिः प्रत्युत्पन्ना ।
[066।04-066।05]
अतीतानागतयोस्तु त्रैयध्विकी ।
[066।06]
कामाद्याप्तामलानां च
[066।07]
त्रिविधेति वर्त्तते ।
कामाप्तानां कामरूपारूप्यावचरी ।
[066।07-066।08]
एवं रूपारूप्याप्तानामनास्रवाणां च नास्त्यनास्रवा काचिदप्राप्तिः ।
[066।08]
तथाहि ।
[066।09]
मार्गस्याप्राप्तिरिष्यते ।
[066।10]
पृथग्जनत्वम्
[066।11]
"पृथग्जनत्वं कतमत् ।
आर्यधर्माणामलाभ" इति शास्त्रपाठः ।
[066।11-066।12]
अलाभश्च नामाप्राप्तिः ।
[066।12]
नच पृथग्जनत्वमनास्रवं भवितुमर्हति ।
[066।12-066।13]
कतमेषामार्यधर्माणामलाभः ।
[066।13]
सर्वेषामविशेषवचनात् ।
स तु यो विना लाभेनालाभः ।
[066।13-066।14]
अन्यथा हि चुद्धो ऽपि श्रावकप्रत्येकबुद्धगोत्रकै रसमन्वागमादनार्यः स्यात् ।
[066।14-066।15]
एवशब्दस्तर्हि पठितव्यः ।
[066।15]
न पठितव्यः ।
एकपदान्यपि ह्यवधारणानि भवन्ति ।
[066।15-066।16]
तद्यथा अब्भक्षो वायुभक्ष इति ।
[066।16]
दुःखे धर्मज्ञानक्षान्तितत्सहभुवामलाभ इत्यपरे ।
[066।16-066।17]
न च तद्योगा दनार्यत्वप्रसङ्गः ।
[066।17]
तदलाभस्यात्यन्तं हतत्वात् ।
[066।17-066।18]
ते तर्हि त्रिगोत्रा इति कतमेषामलाभः ।
[066।18]
सर्वेषाम् ।
एवं तर्हि स एव दोषः ।
पुनः स एव परिहारः ।
[066।18-066।19]
यत्नस्तर्हि व्यर्थः ।
[066।19]
एवं तु साधु यथा सौत्रान्तिकानाम् ।
कथं च सौत्रान्तिकानाम् ।
[066।20]
"अनुत्पन्नार्यधर्मसन्ततिः पृथग्जनत्वमि"ति ।
[066।21]
अथेयमप्राप्तिः कथं विहीयते ।
यस्य या धर्मस्य प्राप्तिरसौ
[066।22]
तत्प्राप्तिभुसंचाराद् विहीयते
[066।23-066।24]
यथा तावदार्यमार्गस्यालाभः पृथग्जनत्वं तस्य लाभात्तद्विहीयते भूमिसंचाराच्च ।
[066।24]
एवमन्येषामपि योज्यम् ।
[066।24-066।25]
विहीयत इति तस्या अप्राप्तेरप्राप्तिरुत्पद्यते प्राप्तिश्छिद्यते ।
[066।25-066।26]
किं पुनरप्राप्तिप्राप्त्योरपि प्राप्त्यप्राप्ती भवतः ।
[066।26]
उभयोरप्युभयं भव्तीत्याहुः ।
[066।26-066।27]
ननु चैवमनवस्था प्रसङ्गः प्रप्तीनाम् ।
[066।27]
नानवस्थाप्रसङ्गः ।
परस्परसमन्वागमात् ।
[066।27-067।01]
आत्मना तृतीयो हि धर्म उत्पद्यते ।
[067।01]
स च धर्मस्तस्य प्राप्तिः प्राप्तिप्राप्तिश्च ।
[067।01-067।02]
तत्र प्राप्त्युत्पादात्तेन धर्मेण समन्वागतो भवति प्राप्तिप्राप्त्या च ।
[067।02-067।03]
प्राप्तिप्राप्त्युत्पादात् पुनः प्राप्त्यैव समन्वागतो भवत्यतो नानव्स्था ।
[067।03-067।04]
एवं च कृत्व आत्मना तृतीयस्य धर्मस्य कुशलस्य क्लिष्टस्य क्लिष्टस्य वा द्वितीये क्षणे तिस्रः प्राप्तयो जायन्ते ।
[067।04-067।05]
तासां च पुनस्तिस्रो ऽनुप्राप्तय इति षड् भवन्ति ।
[067।05-067।06]
तृतीये क्षणे प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणां नव प्राप्तयः सार्धमनुप्राप्तिभिरित्यष्टादाश भवन्ति ।
[067।06-067।10]
एवमुत्तरोत्तरवाऋद्धिप्रसण्ङ्गेनैताः प्रप्तयो विसर्पन्त्यः सर्वेषामतीतानागतानां क्लेशोपक्लेशक्षणानामुपपत्तिलाभिकानां च कुशलक्षणानां संप्रयोग सहभुवामनाद्यन्तसंसारपर्यापन्नानामनन्ता एकस्य प्राणिनः क्षणे क्षणे उपजायन्ते इत्यनन्तद्रव्याः प्रतिसन्तानमात्मभावक्षणाः सत्त्वानां भवन्ति ।
[067।10]
अत्युत्सवो वतायं प्राप्तीनां वर्त्तते ।
[067।11]
केवलं तु अप्रतिघातिन्यो यतो ऽवकाशमाकाशे लभन्ते ।
[067।11-067।12]
इतरथा ह्याकाशे ऽप्यव काशो न स्यात् द्वितीयस्य प्राणिनः ॥
[067।13]
अथ केयं सभागता ।
[067।14]
सभागता सत्त्वसाम्यं
[067।15]
सभागता नाम द्रव्यम् ।
सत्त्वानां साकृश्यं निकायस भाग इत्यस्याः शास्त्रे संज्ञा ।
[067।16]
सा पुनरभिन्ना भिन्ना च ।
अभिन्ना सर्वसत्त्वानां सत्त्वसभागता ।
[067।16-067।17]
प्रतिसत्त्वं सर्वेषु भावात् ।
[067।17-067।18]
भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षा शैक्ष्यादिभेदेन प्रतिनियता धर्मसभागता ।
[067।18-067।20]
पुनः स्क्न्धायतनधातुतः यदि सत्वसभागता द्रव्यमविशिष्तं न स्यात् अन्योन्यविशेषभिन्नेषु सत्त्वेषु सत्त्वस्त्त्व इत्यभेदेन बुद्धिर्न स्यात् प्रज्ञप्तिश्च ।
[067।20-067।21]
एवं स्कन्धादि बुद्धिप्रज्ञप्तय्यो ऽपि योज्याः ।
[067।21]
स्याच्च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान्न च प्रतिलभेतेति ।
[067।22]
चतुष्कोटिकः ।
प्रथमा कोटिः यतश्च्यवते तत्रैवोपपद्यमानः ।
[067।22-067।23]
द्वितीया नियाममव्क्रामन् ।
[067।23]
स हि पृथग्जनसभागतां विजह्यादार्यसभागतां प्रतिलभते ।
[067।24]
तृतीया गतिसंचारात् ।
चतुर्थ्येतानाकारान् स्थापयित्वा ।
[067।25]
यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुनः पृथग्जनत्वेन ।
[067।26]
नहि मनुष्यसभागताया अन्यन्मनुष्यत्वं कल्प्येते ।
[067।26-068।02]
नैव च लोकः सभागतां पश्यत्यरूपिणीत्वात् नचैनां प्रज्ञया परिच्छिनत्ति प्रतिपद्यते च सत्वानां जात्यभेदमिति सत्या अपि तस्याः कथं तत्र व्यापारः ।
[068।02]
अपिचासत्त्वसभागता ऽपि किं नेष्यते ।
[068।03-068।04]
शालियवमुद्गमासाम्रपनसलोहकाञ्चनादीनां स्वजातिसादृश्यात् तासां च सभागतानामन्योन्यभिन्नानां कथमभेदेन सभागता प्रज्ञप्तिः क्रियते ।
[068।04-068।05]
वैशेषिकाश्चैवं द्योतिता भवन्ति ।
[068।05]
तेषामपि ह्येष सिद्धान्तः ।
[068।05-068।06]
सामान्यपदार्थो नामास्ति यतः समानप्रत्ययोत्पत्तिरतुल्यप्रकारेष्वपीति ।
[068।06]
अयं तु तेषां विशेषः ।
[068।06-068।07]
स एको ऽप्यनेकस्मिन् वर्त्तते यदि द्योतिता यदि न द्योतिता ।
[068।07-068।08]
अस्त्येषा तु सभागता सूत्रे वचनादिति वैभाषिकाः ।
[068।08-068।09]
उस्तं हि भगवता "स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतामि"ति ।
[068।09]
उक्तमेतन्नतूक्तं द्रव्यान्तरमिति ।
का तर्हि सा ।
[068।09-068।10]
त एव हि तथाभूताः संस्कारा येषु मनुष्यादिप्रज्ञप्तिः शाल्यादिषु सभागतावत् ।
[068।10-068।11]
तत्त्वेतन्न वर्णयन्ति ।
[068।12]
अथ किमिदमासंज्ञिकं नाम ।
[068।13]
आसंज्ञिकमसंज्ञिषु ।
[068।14]
निरोधश्चित्तचैत्तानां
[068।15-068।17]
असंज्ञिसत्त्वेषु देवेपूपपन्नानां यश्चित्तचैत्तानां निरोधस्तदासंज्ञिकंनाम द्रव्यं येन चित्तचैत्ता अनागते ऽध्वनि कालान्तरं संनिरुध्यन्ते नोत्पत्तुं लभन्ते ।
[681।7-06817]
नदीतोयसंनिरोधवत् ।
[068।17]
तत् पुनरेकान्तेन
[068।18]
विपाकः
[068।19]
कस्य विपाकः ।
असंज्ञिसमापत्तेः ।
कतमे ते सत्त्वा येष्वसंज्ञिसत्त्वाः ।
[068।20]
ते बृहत्फलाः
[068।21]
बृहत्फला नाम देवा येषां केचिदसंज्ञिसत्त्वाः प्रदेशे भवन्ति ध्यानान्तरिकावत् ।
[068।22]
किं पुनस्तेनैव कदाचिअत् संशिनो भवन्ति ।
भवन्त्युपपत्तिकाले च्युतिकाले च ।
[068।23-068।24]
"प्रकृष्टमपि कालं स्थित्वा सह संज्ञोत्पादात्तेषां सत्त्वानां तत्स्थानात् च्युतिर्भवती"ति सूत्रे पाथः ।
[068।24-068।25]
ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते नान्यत्र ।
[068।25-068।26]
पूर्वसमापत्तिसंस्कारपरिक्षयात् अपूर्वानुपचयाच्च क्षिप्ता इव क्षीणवेगा इषवः पृथिवीं पतन्ति ।
[068।26-068।27]
येन च तत्रोपपत्तव्यं तस्यावश्यं कामावचरं कर्मापरपर्यायवेदनीयंभवति ।
[068।27]
यथोत्तरकौरवाणां देवोपपात्तिवेदनीयम् ।
[068।28]
अथ समापत्ती इति यदुक्तं कतमे ते समापत्ती ।
[068।28-068।29]
असंज्ञिसमापत्तिर्निरोधसमापत्तिश्च ।
[068।29]
केयमसंज्ञिसमापत्तिः ।
[068।29-068।30]
यथैवासंज्ञिकमुक्तं "निअरोधश्चित्तचैत्तानामि"ति ।
[069।01]
तथा ऽसंज्ञिसमापत्तिः
[069।02]
असंज्ञिनां समापत्तिरसंज्ञा वे त्यसंज्ञिसमापत्तिः ।
[069।02-069।03]
सा ऽपि चित्तचैत्तानां निरोधः ।
[069।03]
एतावत्तथाशब्देनान्वाकृष्यते ।
सा तु समापत्तिः ।
[069।04]
ध्याने ऽन्त्ये
[069।05]
अन्त्यध्यानं चतुर्थं तत्पर्यापन्ना ऽसौ नान्यभुमिका ।
किमर्थमेनां समापद्यन्ते ।
[069।06]
निःसृतीच्छया ।
[069।07]
निःसरणमेषां मन्यन्ते ।
अतो मोक्षकामतया समापद्यन्ते ।
[069।07-069।08]
आसंज्ञिकं विपाकत्वात् अव्याकृतमिति सिद्धम् ।
[069।08]
इयं तु
[069।09]
शुभा
[069।10]
कुशलैवासंज्ञिसमापत्तिः ।
तस्या असंज्ञिसत्त्वेषु पञ्चस्कन्धको विपाकः ।
कुशला सती
[069।11]
उपपद्यवेद्यैव
[069।12]
उपपद्यवेदनीयैव ।
न दृष्टधर्मपर्यायवेदनीया नापि अनियता ।
[069।12-069।13]
यो ऽप्येनामुत्पाद्य परिहीयते सो ऽपि किलावश्यं पुनरुत्पाद्यासंज्ञिसत्त्वेषूपपद्यत इति ।
[069।13-069।14]
अत एव तल्लाभी नियामं नावक्रामति ।
[069।14]
सेयं पृथग्जनस्यैवेष्यते ।
[069।15]
नार्यस्य
[069।16]
नह्यार्यां असंज्ञिसमापत्तिं समापद्यन्ते विनिपातस्थानमिवैतां पश्यन्तः।
[069।16-069।17]
निःसरणसंज्ञिनो हि तां समापद्यन्ते ।
[069।17-069।18]
अथ किमेनामार्याश्चतुर्थध्यानलाभादतीतानागतां प्रतिलभन्ते ध्यानवत् ।
[069।18]
अन्ये ऽपि अतावन्न प्रतिलभन्ते ।
किं कारणम् ।
[069।18-069।19]
एषा ह्युचिता ऽपि सती महाभिसंस्कारसाध्यत्वादचित्तकत्वाच्च ।
[069।20]
एकाध्विकाप्यते
[069।21]
एककालिकेत्यर्थः ।
वर्त्तमानकालिकैव लभ्यते
[069।21-069।22]
यथा प्रातिमोक्षसंवरः ।
[069।22-069।23]
लब्धया तु द्वितईयादिषु क्षणेष्वतीतया ऽपि समन्वागतो भवति यावन्न त्यजति ।
[069।23]
अचित्तक त्वान्नानागता भाव्यते ।
[069।24]
निरोधसमापत्तिरिदानिं कतमा ।
[070।01]
निरोधाख्या तथैवेयं
[070।02]
यथैवासंज्ञिमापत्थिः ।
तथाशब्देन कः प्रकारो गृह्यते ।
"निरोधश्चित्तचैत्तानामि"ति ।
[070।03]
अयं त्वस्या विशेषः ।
इयं
[070।04]
विहारार्थं
[070।05]
शान्तविहारसंज्ञापूअर्वकेण मनसिकारेण एनां समापद्यन्ते ।
[070।05-070।06]
तां तु निःसरणसंज्ञा पूर्वकेण ।
[070।06]
सा खल्वपि चतुर्थध्यानभूमिका ।
इयं तु
[070।07]
भवाग्रजा ।
[070।08]
नैवसंज्ञानासंज्ञायतनभूमिकैव ।
सा चेयं
[070।09]
शुभा
[070।10]
कुशलैव न क्लिल्ष्टा नाव्याकाऋता ।
कुशला सती
[070।11]
द्विवेद्या ऽनियता च ।
[070।12]
द्वयोः कालयोर्वेद्या उपपद्यवेदनीया चापरपर्यायवेदनीया च ।
[070।12-070।13]
अनियता च विपाकं प्रति कदाचिन्न विपच्यते ।
[070।13-070।14]
यदीह परिनिअर्वायात् तस्या हि भवाग्रे चतुःस्कन्धको विपाकः ।
[070।14]
सा चेयमेकान्तेन
[070।15]
आर्यस्य
[070।16-070।17]
नहि पृथग्जना निरोधसमापत्तिमुत्पादयितुं शक्नुवन्त्युच्छेदभीरुत्वादार्यमार्गबलेन चोत्पादनाद्दृष्टधर्मनिर्वाणस्य तदधिमुक्तितः ।
[070।17]
आर्यस्यापि चेयं न वैराग्यलभ्या ।
[070।18]
किं तर्हि ।
[070।19]
आप्या प्रयोगतः
[070।20]
प्रयोगलभ्यैवेयम् ।
न चातीता लभ्यते नाप्यनागत भाव्यते ।
[070।20-070।21]
चित्तबलेन तद्भावनात् ।
[070।21]
किं भगवतो ऽपि परायोगिकी ।
नेत्याह ।
[070।22]
बोधिलभ्या मुनेः
[070।23-070।24]
क्षयज्ञानसमनं कालं बुद्धा भगवन्त एनां लभन्ते नास्ति किञ्चिद्बुद्धानां प्रायोगिकं नाम ।
[070।24]
इच्छामात्रप्रतिबद्धो हि तेषां सर्वगुणसंपात्संमुखीभावः ।
[070।25]
तस्मादेषां सर्ववैराग्यलाभिकम् ।
[070।25-070।26]
कथं खल्वि दानीमनुत्पादितायां निरोधसमापत्तौ क्षयज्ञानकाले भगवानुभयोतोभागविमुक्तः सिध्यति ।
[070।27-071।01]
सिध्यत्युत्पादितायामिव तस्यां वशित्वात् प्रागेव तां बोधिसत्त्वः शैक्ष्यावस्थायामुत्पादयतीति पाश्चत्त्याः ।
[071।01]
अथ कस्मादेवं नेष्यते ।
[071।01-071।02]
एवं च स्थविरोपगुप्तस्यापीदं नेत्रीपदं प्रामाणिकं भविष्यति ।
[071।02-071।03]
"निरोधसमापत्तिमुत्पाद्य क्षयज्ञानमुत्पादयतीति वक्तव्यं तथागत"इति ।
[071।04]
न प्राक्
[071।05]
नहि पूर्वं तस्या उतपादनं युज्यत इति काश्मीरकाः ।
किं कारणम् ।
[071।06]
चतुस्त्रिंशत्क्षणाप्तितः ।
[071।07]
चतुस्रिंशता किल चित्तक्षणैर्बोधिसत्त्वो बोधिमनुप्राप्तः ।
[071।07-071।09]
सत्याभिसमये षोडशभिर्भवाग्रवैराग्ये चाष्टादशभिर्नवप्रकाराणां क्लेशानां प्रहाणाय नवानन्तर्यविमुक्तिमार्गोत्पादनात् ।
[071।09]
त एते चतुस्त्रिंशत् भवन्ति ।
[071।09-071।10]
आकिञ्चन्यायतनवीतरागस्यास्यनियामावक्रमणादधोभूमिका न पुनःः प्रहेया भवन्ति ।
[071।10-071।11]
अत एतस्मिन्नन्तरे विसभागचित्तासंभवान्निरोधसमापत्तेरयोग इति ।
[071।11-071।12]
किं पुनः स्याद्यदि विसभागचित्तमन्तरा संमुखीक्कुर्यात् ।
[071।12-071।13]
व्युत्थानाशयः स्यादव्युत्थानाशयाश्च बोधिसत्त्वाः ।
[071।13]
सत्यमव्युत्थानाशया नतु आस्रव मार्गाव्युत्थानात् ।
[071।13-071।14]
कथं तर्हि "न तावत् भेत्स्यामि पर्यङ्कमप्राप्ते आस्रवक्षय" इति ।
[071।14-071।15]
अस्याशयस्याव्युत्थाना देकायन एव सर्वार्थपरिसमाप्तेरिति बहिर्देशकाः ।
[071।15-071।16]
पूर्वमेव तु वर्णयन्ति काश्मीराः ।
[071।16]
यद्यप्यनयोः समापत्त्योर्बहुप्रकारो विशेषः ।
[071।17]
कामरूपाश्रये भूते
[071।18]
उभे अपि त्वेते असंज्ञिनिरोधसमापत्ती कामधातौ रूपधातौ चोत्पत्स्येते ।
[071।18-071।19]
ये त्वसंज्ञिसमापत्तिं रूपधातौ नेच्छन्ति तेषामयं ग्रन्थो विरुध्यते ।
[071।19-071।20]
स्याद्रूपभवो न चासौ भवः पञ्चव्यवचारः ।
[071।20-071।22]
स्याद्रूपावचराणां सत्त्वानां संज्ञिनां देवानां विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापर्त्तिं च समापन्नानामसंज्ञिनां च देवानामासंज्ञिके प्रतिलब्धे यो भव" इति ।
[071।22]
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0