भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 701720

[461।06-461।07]
ये हि धर्माः सन्ति तेषां प्रत्यक्षमुपलब्धिर्भवत्यसत्यन्तराये ।
[461।07]
तद्यथा षण्णां विषयाणां मनसश्च ।
अनुमानं च ।
[461।08]
तद्यथा पञ्चानामिन्द्रियाणाम् ।
तत्रेदमनुमानम् ।
[461।08-461।09]
सति कारणे कारणान्तरस्याभावे कार्यस्याभावो दृष्टो भावे च पुनर्भाविस्तद्यथाङ्कुरस्य ।
[461।09-461।11]
सत्येव चाभासप्राप्ते विषये मनस्कारे च कारणे विषयग्रहणस्याभावो दृष्टः पुनश्च भावो ऽन्धवधिरादीनामनन्धावधिरादीनां च ।
[461।11-461।12]
अतस्तत्रापि कारणान्तरस्याभावो भावश्च निश्चीयते ।
[461।12]
यच्च तत्कारणान्तरं तदिन्द्रियमित्येतदनुमानम् ।
[461।12-461।13]
न चैवमात्मनो ऽस्तीति नास्त्यात्मा ।
[461।14]
यत्त्र्हि वात्सीपुत्रियाः पुद्गलं सन्तिमिच्छन्ति ।
विचार्यं तावदेतत् ।
[461।14-461।15]
किं ते द्रव्यत इच्छन्त्याहोस्वित् प्रज्ञप्तितः ।
[461।15]
किं चेदं द्रव्यत इति किं वा प्रज्ञप्तितः ।
[461।16]
रूपादिवत् भावान्तरं चेत् द्रव्यतः ।
[461।16-461।17]
क्षीरादिवत् समुदायश्चेत् प्रज्ञप्तितः ।
[461।17]
किं चातः ।
यदि तावत् द्रव्यतः ।
[461।17-461।18]
संभिन्न स्वभावत्वात् स्कन्धेभ्यो ऽन्यो वक्तव्य इतरेतरस्कन्धवत् ।
[461।18]
कारणं चास्य वक्तव्यम् ।
असंस्कृतो वा ।
[461।19]
अतस्तीर्थिकदृष्टिप्रसङ्गो निष्प्रयोजनत्वं च ।
अथ प्रज्ञप्तितः ।

वयमप्येवं त्रूमः ।
[461।20]
नैव हि द्रव्यतो ऽस्ति नापि प्रज्ञप्तितः ।
किं तर्हि ।
[461।20-461।21]
आध्यात्मिकानुपात्तान्वर्त्तमानान् स्कन्धानुपादाय पुद्गलः प्रज्ञप्यते ।
[461।21-461।22]
तदिदमन्धवचनमनुन्मीलितार्थं न बुध्यामहे ।
[461।22]
किमिदमुपादायेति ।
[461।22-461।23]
यद्ययमर्ह्तः स्कन्धानां लक्ष्यते तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति ।
[461।23]
यथा रूपादीनालम्व्य तेष्वेव क्षीरप्रज्ञप्तिः ।
[461।23-461।24]
अथायमर्थः स्कन्धान् प्रतीयेति ।
[461।24]
स्कन्धानां पुद्गलप्रज्ञप्तिकारणत्वात् ।
स एव दोषः ।
[प्46।124-46125]
न स एवं प्रज्ञप्यते ।
[461।25]
कथं तर्हि यथेन्धनमुपादायाग्निः ।
[461।25-462।01]
कथं चेन्धनमुपादायाग्निः प्रज्ञप्यते ।
[462।01-462।02]
न हि विनेन्धनेनाग्निः प्रज्ञप्यते न चान्य इन्धनादग्निः शक्यते प्रज्ञपयितुं नाप्यनन्यः ।
[462।02]
यदि हान्यः स्यादनुष्णमिन्धनं स्यात् ।
[462।02-462।03]
अथानन्यः स्याद्दाह्यमेव दाहकं स्यात् ।
[462।03]
एवं न च विना स्कन्वैः पुद्गलः प्रज्ञप्यते ।
[462।03-462।04]
न चान्यः स्कन्धेभ्यः शक्यते प्रतिज्ञातुं शाश्वतप्रसङ्गात् ।
[462।04]
नाप्यनन्य उच्छेदप्रसङ्गदिति ।
[462।05]
अङ्ग तावद्ब्रूहि किगिन्धनं को ऽन्निरिति ।
[462।05-462।06]

ततो ज्ञास्यामः कथमिन्धनमुपादायाग्निः प्रज्ञप्यत इति ।
[462।06-462।07]
किमत्र वक्तव्यं दाह्यमिन्धनं दाहको ऽग्निः ।
[462।07]
एतदेवात्र वक्तव्यं किं दाह्यं कोक् दाहक इति ।
[462।07-462।08]
लोके हि तावदप्रदीप्तं काष्ट्ःआदिकमिन्धनमुच्यते दाह्यं च ।
[462।08]
प्रदीप्तमग्निर्दाहकश्च ।
[462।08-462।09]
यच्च भस्वरं चोष्णं च भृशं च तेन हि तदिध्यते ध्यते च ।
[462।09]
संततिविकारापादानात् ।
[462।09-462।10]
तच्चोभयमष्टद्रव्यकं तच्चेग्धनं प्रतीत्याग्निरुत्पद्यते ।
[462।10-462।11]
यथा क्षीरं प्रतीत्य दधि मधु प्रतीत्यशुक्तम् ।
[462।11]
तस्माधिग्धनमुपादायेत्युच्यते ।
अन्यश्च स तस्माद्भिन्नकालत्वात् ।
[462।11-462।12]
यदि चैयं पुद्गलः स्कन्धान् प्रतीत्योत्पद्यते स तेभ्यो ऽन्यश्चानित्यश्च प्राप्नोति ।
[462।12-462।14]
अथ पुनस्तत्रैव काष्ठादौ प्रदीप्ते यदीष्ण्यं तदग्निस्तत्सहजातानि त्रीणि भूतानीन्धनमिष्यन्ते ।
[462।14]
तयोरपि सिद्धमन्यत्वं लक्षणभेदात् ।
[462।15]
उपादायार्थस्तु वक्तव्यः ।
कथं तदिन्धनमुपादाय सो ऽग्निः प्रज्ञप्यत इति ।
[462।16]
न हि तत्तस्य कारणं नापि तत् प्रज्ञप्तेः ।
अग्निरेव हि तत्प्रज्ञप्तेः कारणम् ।
[462।17]
यद्याश्रयार्थ उपादायार्थः सहभावार्थो वा ।
[462।17-462।18]
स्कन्धा अप्येवं पुद्गलस्याश्रयसहभूताः प्राप्नुवन्तीति विस्पष्टमन्यत्वं प्रतिज्ञायते ।
[462।18-462।19]
तदभावे च पुद्गलाभावः प्राप्नोति ।
[462।19]
इन्धनभाव इवाग्न्यभावः ।

[462।20]
यत्तु तदुक्तं यदीन्धनादन्यो ऽग्निः स्यादनुष्णमिन्धनं स्यादिति ।
[462।20-462।21]
किमिदमुष्णं नाम ।
[462।21-462।22]
यदि तावादीष्ण्यम् अनुष्णमेवेन्धनमन्यभूतस्वभावत्वात् ।
[462।22]
अथ यदौष्ण्यवत् ।
[462।22-462।23]
अन्यदपि तदुष्णस्वभावादग्नेरुष्णं सिध्यत्यीष्ण्ययोगादिति ।
[462।23]
नास्त्यन्यत्वे दोषः ।
[462।23-462।24]
अथ पुनः सर्वमेव तत् प्रदीप्तं काष्ठादिकमिन्धनं चाग्निश्चेष्यते ।
[462।25]
तदुपादायार्थश्च वक्तव्यः ।
स्कन्धा एव च पुद्गला इत्यनन्यत्वमनिवार्यं प्राप्नोति ।
[462।26]
तस्मान्न सिध्यत्येतत् ।
[462।26-463।01]
यथेन्धनमुपादायाग्निः प्रज्ञप्यते एवं स्कधानुपादाय पुद्गलः इति ।
[463।01-463।02]
यदि चायमन्यः स्कन्धेभ्यो न वक्तव्यः "पञ्चविधं ज्ञेयमतीतानागतं प्रत्युपन्नमसंस्कृतमवक्तव्यमि"ति न वक्तव्यं प्राप्नोति ।
[463।02-463।03]
नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं वक्तव्यम् ।
[463।03-463।04]
यदा च पुद्गलः प्रज्ञप्यते कि तावत्स्कन्धानुपलभ्य प्रज्ञप्यते आहोस्वित् पुद्गलम् ।
[463।04-463।05]
यदि तावत् स्कन्धांस्तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति ।
[463।05]
पुद्गलस्यानुपलम्भात् ।
[463।05-463।06]
अथ पुद्गलं कथमस्य स्कन्धानुपादाय प्रज्ञप्तिर्भवति ।
[463।06]
पुद्गल एव हि तस्या उपादानं प्राप्नोति ।
[463।06-463।07]
अथ मतं सत्सु स्कन्धेषु पुद्गल उपलभ्यते ततः स्कन्धानुपादायास्य प्रज्ञप्तिरुच्यत इति ।
[463।07-463।08]
तदेवं रूपस्यापि चक्षुर्मनस्कारालोकेषु सत्सूपलम्भात् तानुपादाय प्रज्ञप्तिर्बक्तव्या ।
[463।08-463।09]

रूपवच्च पुद्गलस्यान्यत्वं स्पष्टम् ।
[463।10]
इदं तावद्वक्तव्यम् ।
[463।10-463।11]
षण्णां विज्ञानानां कतमेन पुद्गलो विज्ञेयः ।
[463।11]
षड्भिरपीत्युच्यते ।
कथं कृत्वा ।
[463।11-463।13]
चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्यपुद्गलं प्रतिभावयति चक्षुर्विज्ञेयः पुद्गलो वक्तव्यः नो तु वक्तव्यो रूपाणि वानो वा ।
[463।13-463।14]
एवं यावत् मनोविज्ञेयान् चेद्धर्मान् प्रतीत्य पुद्गलं प्रतिविभावयति मनोविज्ञेयः पुद्गलो वक्तव्यो नो तु वक्तव्यो धर्मा वा नो वा ।
[463।14-463।15]
एवं तर्हि क्षीरादिभिः समानः प्राप्नोति ।
[463।15-463।17]
चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य क्षीरं विभावयत्युदकं वा चक्षुर्विज्ञेयं क्षीरमुदकं चेति वक्तव्यं नो तु वक्तव्यं रूपाणि वा नो वा ।
[463।17]
एवं घ्राणजिह्वाकायविज्ञेयं वक्तव्यं नो तु वक्तव्यं स्प्रष्टव्यानि वा नो वा ।
[463।18]
माभूत् क्षीरोदकयोश्चतुष्ट्वप्रसङ्ग इति ।
[463।18-463।19]
अतो यथा रूपादीन्येव क्षीरमुदकं वा प्रज्ञप्यते समस्तान्येवं स्कन्धाः पुद्गल इति सिद्धम् ।
[463।20]
यच्चोच्यते चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य पुद्गलं प्रतिविभावयतीति ।
[463।21]
को ऽस्य वाक्यस्यार्थः ।
[463।21-463।22]
किं तावद्रूपाणि पुद्गलोपलब्धेः कारणं भवतिति आहोस्विद्रूपाण्युपलभमानः पुद्गलमुपलभत इति ।
[463।22-463।23]
यदि रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्यो ऽन्यो न वक्तव्यः ।
[463।23-463।24]
एवं तर्हि रूपमप्यालोकचक्षुर्मनस्कारेभ्यो ऽन्यन्न वक्तव्यम् ।
[463।24-463।25]
तेषां तदुपलब्धिकारणत्वात् ।
[463।25]
अथ रूपाण्युपलभमानः पुद्गलमुपलभते ।
[463।25-463।26]
किं तयैवोपलब्ध्योपलभते आहोस्विदन्यया ।
[463।26]
यदि तयैव ।

[463।26-463।27]
रूपादभिन्नस्वभावः पुद्गलः प्राप्नोति रूप एव वा तत्प्रज्ञाप्तिः ।
[463।27]
इदं च रूपमयं पुद्गलः कथमिदं गम्यते ।
अथैवं न परिच्छिद्यते ।
[464।01]
कथमिदं प्रतिज्ञायते रूपमप्यस्ति पुद्गलो ऽप्यस्तीति ।
[464।01-464।02]
उपलब्धिवशेन हि तस्यास्तित्वं प्रतिज्ञायते ।
[464।02]
एवं यावद्धर्मेभ्यो वक्तव्यम् ।
[464।02-464।03]
अथान्यया भिन्नकालो पलम्भादन्यो रूपात्प्राप्नोति ।
[464।03]
नीलादिय पीतं क्षणादिव च क्षणान्तरम् ।
[464।03-464।04]
एवं यावद्धर्मेभ्यो वक्तव्यम् ।
[464।04]
अथ रूपपुद्गलवक्तदुपलब्ध्योरप्यन्यानन्यत्वमवक्तव्यम् ।
[464।05]
तेन तर्हि संस्कृते ऽप्यवक्तव्यं भवतीति सिद्धान्तभेदः ।
[464।05-464।06]
यदि चायमस्ति नो तु वक्तव्यो रूपाणि वा तो वा ।
[464।06-464।07]
किं तर्हि भगवतोक्तं "रूपमनात्मा यावद्विज्ञानमनात्मे"ति ।
[464।08]
येन चायं चक्षुर्विज्ञानेन पुद्गल उपलभ्यते ।
[464।08-464।09]
किं तद्रूपाणि प्रतीत्योत्पद्यते आहोस्वित् पुद्गलमुभयं वा ।
[464।09]
यदि रूपाणि प्रतीत्योत्पद्यते ।
[464।09-464।10]
नोत्सहिष्यते पुद्गलं विज्ञातुं शब्दादिवत् ।
[464।10-464।11]
यमेव हि विषयं चक्षुर्विज्ञानेषु प्रतीत्योत्पद्यते विज्ञानं स एव तस्यालम्बनप्रत्ययः ।
[464।11-464।12]
अथ पुद्गलं प्रतीत्योत्पद्यते उभयं वा ।
[464।12]
इदमुत्सूत्रम् ।
[464।12-464।13]

सूत्रे हि निर्धारितं द्वयं प्रतीत्य विज्ञानस्योत्पादो भवतीति ।
[464।13]
"तथा चक्षुर्भिक्षो हेतू रूपाणि प्रत्ययश्चक्षुर्विज्ञानस्योत्पादाय ।
[464।13-464।14]
तत्कस्य हेतोः ।
[464।14]
यत्किञ्चित् भिक्षो चक्षुर्विज्ञानं सर्वं तच्चक्षुः प्रतीत्य रूपाणि चेति ।
[464।15]
अनित्यश्च पुद्गल एवं प्राप्नोति ।
[464।15-464।16]
"ये हि हेतयो ये प्रत्यया विज्ञानस्योत्पादाय ते ऽप्यनित्या" इति सूत्रे वचनात् ।
[464।16-464।17]
अथ पुद्गलो न तस्यालम्बनं न तर्हि तेन विज्ञेयः ।
[464।18]
यदि च पुद्गलः षड्विज्ञानविज्ञेयः प्रतिज्ञायते ।
[464।18-464।19]
स श्रोत्रविज्ञानविज्ञेयत्वाद्रूपादन्यः प्राप्नोति शब्धवत् ।
[464।19-464।20]
चतुर्विज्ञानविज्ञेयत्वाच्छब्दादन्यः प्राप्नोति रूपवत् ।
[464।20]
एवमन्येभ्यो ऽपि योज्यम् ।
इदं च सूत्रपदं वाधितं भवति ।
[464।20-464।22]
"यानीमानि ब्राह्मण पञ्चेन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविष्यं प्रत्यनुभवन्ति ।
[464।22]
नान्यदन्यस्य गोचरविष्यं प्रत्यनुभवति ।
[464।22-464।23]
तद्यथा चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियम् ।
[464।23-464।24]
मन एषं पञ्चानामिन्द्रियाणां गोचरविषयं प्रत्यनुभवति मनश्चैषां प्रतिसरणमि"ति ।
[464।24]
न वा पुद्गलो विषयः ।
[464।24-464।25]
न चेद्विषयो न तर्हि विज्ञेयः ।
[464।25-464।26]
यद्येवं मनैन्द्रियस्याप्यव्यभिचारः प्राप्नोति ।
[464।26-464।27]
षडिमानीन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविषयमाकाङ्क्षन्ती त्युक्तं षट्प्राणकोपमे ।
[464।27]
न त्त्रेन्द्रियमेम्वेन्द्रियं कृत्वोक्तम् ।

[464।27-465।01]
पञ्चानां दर्शनाद्या काङ्क्षणासंभवात् तद्विज्ञानानां च ।
[465।01-465।02]
अतस्तदाधिपत्याध्याकृतमत्र मनोविज्ञानेन्द्रियं कृत्वोक्तम् ।
[465।02-465।03]
यच्च तत्केवलं मन आधिपत्याध्याकृतं मनोविज्ञानं नैवं तदन्येषां विषयमाकाङ्क्षत्यतो नास्त्येष दोषः ।
[465।03-465।06]
उक्तं च भगवता "सर्वाभिज्ञेयं वो भिक्षवो धर्मपर्यायं देशयिष्यामी"त्युक्त्वा चक्षुरभिज्ञेयं रूपाणि चक्षुर्विज्ञानं चक्षुःसंस्पर्शो यदपि तच्चक्षुःसंस्पर्शप्रत्ययमध्यात्ममुत्पद्यते वेदितं सुःखं वा अदुःखासुखं वा यावत् मनःसंस्पर्शप्रत्ययम् ।
[465।06-465।07]
अयमुच्यते सर्वाभिज्ञेयपरिज्ञेयो धर्मपर्यायः इति ।
[465।07]
अत एतावदेवाभिज्ञेयं प्रतिज्ञेयं चेत्यवर्धार्यते न पुद्गलः ।
[465।07-465।08]
तस्माद्विज्ञेयो ऽप्यसौ न भवति ।
[465।08]
प्रज्ञाविज्ञानयोः समानविषयत्वात् ।
[465।08-465।09]
चक्षुष च पुद्गलं पश्याम् इति पश्यन्त पौद्गलिका अनात्मना आत्मानं पश्याम इति दृष्टिस्थानमापन्ना भवन्ति ।
[465।10]
सूत्रे च भगवता नीतमेतत् ।
"स्कन्धेष्वेव पुद्गलाध्ये"ति मानुष्यकसूत्रम् ।
[465।11-465।13]
"चक्षुःप्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः स्पर्शसहजाता वेदना संज्ञा चेतना इतीमे चत्वारो रुपिणः स्कन्धाश्वक्षुरिन्द्रियं च रूपमेतावन्मनुष्यत्वमुच्यते ।
[465।13-465।14]
अत्रेयं संज्ञा सत्त्वो नरो मनुष्यो मानवश्च पोषः पुरुषः पुद्गलो जीवो जन्तुरिति ।
[465।14-465।15]
अत्रेयं प्रतिज्ञा अहं चक्षुषा रूपाणि पश्यामीति ।
[465।15-465।16]
अत्रायं व्यवहार इत्यपि स आयुष्मानेवंनामा एवञ्जात्य एवङ्गोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवन्दीर्घायुरेवञ्चिरस्थितिक एवमायुःपर्यन्त इति ।
[465।16-465।17]
इति हि भिक्षवः संज्ञामात्रकमेवैत द्व्यवहारमात्रकमेवैतत् ।
[465।17-465।18]
सर्व इमे धर्माः अनित्याः संस्कृताश्चेति ताः प्रतीत्यसमुत्पन्ना इति ।
[465।18]
नीतार्थं च सूत्रं प्रतिसरणमुक्तं भगवता ।
[465।19]
तस्मान्न पुनः परीक्ष्यते ।
[465।19-465।20]
तथा चोक्तं "सर्वमस्तीति ब्राह्मण यावदेव द्वादशायनानी"ति ।
[465।20]

यदि चायं पुद्गलो नायतनं न सोस्तीति सिद्धम् ।
[465।20-465।21]
अथायतनं न तर्ह्यवक्तव्यः ।
[465।21-465।22]
तेषामपि चैवं पश्यतो "यावता भिक्षो चक्षुर्यावता रूपाणि विस्तरेण एतावता भिक्षो तथागतः सर्वं च प्रज्ञापयति सर्वप्रज्ञप्तिं चे"ति ।
[465।22-465।25]
बिम्बिसारसूत्रे चोक्तम् "आत्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो न त्वात्रा त्मा वा आत्मीयं वा दुःखमिदमुत्पद्य मानमुत्पद्यते" इति विस्तरः ।
[465।25]
शैलयाप्यर्हन्त्या मारमारभ्योक्तं ।
[466।01-466।04]
"मन्यसे कि नु सत्त्वेति मारदृष्टिगतं हि ते ।
शून्यः संस्कारपुञ्जो ऽयं नहि सत्त्व्जोत्र विद्यते ॥
यथैव ह्यङ्गसंभारात्संज्ञा रथ इति स्मृता ।
एवं स्कन्धानुपादाय संवृत्या सत्त्व उच्यते" ॥ इति ।
[466।05]
क्षद्रके ऽपि चागमे दारिद्रब्राह्मणमथिकृत्योक्तं
[466।06-466।07]
शृणु त्वं स्वादरे धर्मः सर्वग्रन्थिप्रमोचनम् ।
यथा संक्लिश्यते चित्तं यथा चित्तं विशुध्यति ॥
[466।08-466।09]
आत्मैव ह्यात्मनो नास्ति विपरीतेन कल्प्यते ।
नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः ॥
[466।10-466।11]
द्वादशैव भवाङ्गानि स्कन्धायतनधातवः ।
विचिन्त्य सर्वाण्येतानि पुद्गलो नोपलभ्यते ॥
[466।12-466।13]
शून्यमध्यात्मकं पश्य शून्यं पश्य बहिर्गतम् ।
न लभ्यते सो ऽपि कश्चिद्यो भावयति शून्यतामि"ति ।
[466।14]
तथोक्तं "पञ्चादीनवा आत्मोपलम्भे ।
आत्मदृष्टिर्भवति सत्त्वदृष्टिः ।
[466।15]
निर्विशेषो भवति तीर्थिकैः सार्धम् ।
उन्मार्गप्रतिपन्नो भवति ।
[466।15-466।16]
शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते न विमुच्यते ।
[466।16-466।17]
आर्यधर्मा अस्य न व्यवदायन्त" इति ।
[466।17]
न वैत एवं ग्रन्धं प्रमाणं कुर्वन्ति ।

किं कारणम् ।
[466।17-466।18]
नास्माकमयं निकाये पठच्यत इति ।
[466।18-466।19]
किं पुनस्तेषां निकाय एव प्रमाणमाहोस्विद्बुद्धवचनम् ।
[466।19]
यदि निकाय एव प्रमाणं न तर्हि तेषां बुधः शास्ता ।
[466।19-466।20]
न च ते शाक्यपुत्रीया भवन्ति ।
[466।20]
अथ बुद्धवचनं प्रमाणम् ।
अयं ग्रन्थः कस्मान्न प्रमाणम् ।
[466।21]
नहि किलैतत् बुद्धवचनमिति ।
किं कारणम् ।
नास्माकं निकाये पठच्यत इति ।
[466।22]
अयमन्यायो वर्तते ।
को ऽत्रान्यायः ।
[466।22-466।24]
यो हि ग्रन्थः सर्वेषु निकायान्तरेष्वाम्नायते न च सूत्रं धर्मतां वा बाधते सो ऽस्माभिरपाठान्न बुद्धवचनमिति वचनं केवलं साहसमात्रम् ।
[466।24]
किं चेदमपि तेषां सूत्रं नास्ति "सर्वधर्मा अनातान" इति ।
[467।01]
स्यात् मतम् ।
नैव हि पुद्गलो धर्म उच्यते नाप्यन्यो धर्मादिति ।
[467।01-467।02]
एवं तर्हि न मनोविज्ञेयः सिध्यति ।
[467।02]
द्वयं प्रतीत्य विज्ञानस्योत्पादः इत्यवधारणात् ।
[467।02-467।03]
इह चैवं विकल्प्यते "अनात्मन्यातेति संज्ञाविपर्यास श्चित्तविपर्यासो दृष्टिविपर्यास" इति ।
[467।04]
अनात्मन्यात्मेति विपर्यासो न त्वात्मनि किं च पुनः ।
[467।04-467।05]
"नात्मा स्कन्धायतनधातवः" यत्तावदुक्तं प्राक् "नो तु वक्तव्यं रूपाणि वा नो वे"ति तत्तावदशोचम् ।
[467।05-467।07]
उक्तं च सूत्रान्तरे "ये केचित् भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि"ति ।
[467।08]
तस्मात्सर्व एवानात्मन्यात्मग्राहः ।

[467।08-467।10]
तथोक्तं "ये केचिदनेकविधं पूर्वनिवासं समनुस्मरन्तः समनुस्मार्षुः समनुस्मरन्ति समनुस्मरिष्यन्ति वा पुनः सर्वे त इमानेव ओपञ्चोपादनस्कन्धानि"ति ।
[467।10-467।11]
यद्येवमिदं कस्मादाह "रूपवानहमभूवमतीते अध्वनी"ति ।
[467।11]
एवमनेकविधं ये समनुस्मरन्तीति प्रदर्शयति ।
[467।11-467।12]
यदि तु रूपवन्तं पुद्गलं पश्येत्सत्कायदृष्टिप्रसङ्गः स्यात् ।
[467।12]
अपाठ एव त्वन्न शरणं स्यात् ।
[467।12-467।13]
तस्मात् प्रज्ञाप्तिसत्पुद्गलो राशिधारावत् ।
[467।14]
यद्येवं तर्हि न बुद्धः सर्वज्ञः प्रप्नोति ।
[467।14-467।15]
न हि किञ्चिच्त्रित्तमस्ति चैत्ता वा यत्सर्वं जानीयात् ।
[467।15]
क्षणिकत्वात् ।
पुद्गलस्तु जानीयात् ।
[467।15-467।16]
एवं तर्हि चित्तविनाशे पुद्गलस्याविनाशाभ्युपगमात् नित्यत्वमस्याभ्युपेतं भवति ।
[467।16-467।17]
नैव च वयं सर्वत्र ज्ञानसंमुखीभावाद् बुद्धं सर्वज्ञमाचक्ष्महे ।
[467।17]
किं तर्हि ।
सामर्थ्यात्
[467।17-467।19]
या ह्यसौ बुद्धाख्या संततिस्तस्या इदमस्ति सामर्थ्यं यदाभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम् ।
[467।19]
आह चात्र ।
[467।20-467।21]
संतानेन समर्थत्वाद्यथाग्निः सर्वभुङ्मतः
तथा सर्वविदेष्टव्यो ऽसकृत्सर्वस्य वेदनात् ।
[467।22]
कथमिदं गम्यते ।
अतीतादिवचनात् ।
[467।23-467।24]
"ये चाभ्यतीताः संबुद्धा ये च बुद्धा अनागताः ।
यश्च एतर्ह्हि संबुद्धो बहूनां शोकनाशन" इति ।
[468।01]

स्कन्धा एव च त्रैयध्विका इष्यन्ते न पुद्गला युष्माभिः ।
[468।01-468।02]
यदि स्कन्धा एव पुद्गलाः कस्मादिदमाह ।
[468।02-468।03]
"भारं च वो भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं चे"ति ।
[468।03]
कस्मादिदं न वक्तव्यं स्यात् ।
[468।03-468।04]
न हि भार एव भारहारो युक्तः ।
[468।04]
किं कारणम् ।
नह्येवं दृश्यत इति ।
अवक्तव्यो ऽपि न युक्तः ।
[468।05]
किं कारणम् ।
न ह्येवं दृश्यते ।
भारादानस्यापि स्कन्धासंग्रहप्रसङ्गाच्च ।
[468।06]
इत्यर्थमेव भारहारं निर्दिदेश भगवान् ।
[468।06-468।07]
"यो ऽसावायुप्मानेवंनामा यावदेवञ्चिरस्थितिक एवमायुःपर्यन्तः" स एष यथा विज्ञायेत ।
[468।07-468।08]
मान्यथा विज्ञायि नित्यो वा अवक्तव्यं वेति ।
[468।08-468।09]
स्कन्धा एव च स्कन्धानामुपधाताय संवर्तन्ते पूर्वका उत्तरेषामिति भारं च भारहारं च कृत्वोक्ताः ।
[468।09]
उपघातार्थो हि भार इति ।
[468।10]
अस्त्य् एव पुद्गलो यस्माद् उक्तं "नास्ति सत्त्व उपपादुक इति मिथ्यादृष्टिः" ।
[468।11]
कश्चैवम् आह नास्ति सत्त्व उपपादुक इति ।
[468।11-468।12]
सत्त्वस्तु यथा ऽस्ति तथा विभक्तो भगवतेति ब्रूमो मानुष्यकसूत्रे ।
[468।12-468।13]
तस्माद् यः परत्रोपपादुकसत्त्वाख्यस्कन्धसंतानापवादं करोति तस्यैषा मिथ्यादृष्टिर् नास्ति सत्त्व उपपादुक इति ।
[468।14]
स्कन्धानाम् उपपादुकत्वात् ।
[468।14-468।15]
अथैषा मिथ्यादृष्टिः पुद्गलापवादिका सती किंप्रहातव्या भवेत् ।
[468।15]

नह्येषा दर्शनभावनाप्रहातव्या युज्यते ।
पुद्गलस्य सत्त्वेष्वन्तर्भावात् ।
[468।16]
"एकः पुद्गलो लोक उत्पद्यमान उत्पद्यते" इति वचनात् न स्कन्धा इति चेत् ।
[468।17]
न ।
समुदाये ऽप्येकोपचारादेकतिलैकतण्डुलवत् एकराश्येकवचनवच्च ।
[468।18]
संस्कृत इति वा पुद्गलो वक्तव्य उत्पतीमत्त्वाभ्युपगमात् ।
[468।18-468।19]
न स एवमुत्पद्यते यथा स्कन्धा अपूर्वप्रादुर्भावात् ।
[468।19]
किं तर्हि ।
स्कन्धान्तरोपादानात् ।
[468।19-468।20]
यथा याज्ञिको जातो वैयाकरणो जात इत्युच्यते विद्योपादानात् ।
[468।20-468।21]
भिक्षुर्जातः परिव्राजको जात इति लिङ्गोपादानात् ।
[468।21]
बुद्धोजातो व्याधितो जात इत्यवस्थान्तरोपादानादिति ।
[468।22]
न प्रतिक्षेपात् सूत्र एव हि प्रतिक्षिप्तं भगवता परमार्थशून्यतायाम् ।
[468।22-468।23]
"इति हिभिक्षवो ऽस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते ।
[468।23-468।24]
य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतादिति ।
[468।24-468।25]
फल्गुसूत्रे चोक्तम् "उपादत्त इति फल्गु न वदामीति ।
[468।25-468।26]
तस्मान्नास्ति स्कन्धानां कश्चिदुपादाता नापि निक्षिप्ता ।
[468।26-469।01]
कं च तावद्भवान्याज्ञिकं यावद्वच्या धित मधिमुच्यते ।
[469।01]
दृष्टातं करोति पुद्गलं यदि ।
सो ऽसिद्धः ।
अथ चित्तचैत्ताः ।
न ।
[469।02]
तेषां प्रतिक्षणमपूर्वोत्पत्तिरेव ।
अथ शरीरम् ।

तस्यापि तथा ।
[469।02-469।03]
शरीरविद्यालिङ्गवच्च स्कन्धपुद्गलयोरन्यत्वमापद्यते ।
[469।03]
जीर्ण शरीरान्तरमेव ज्याधितं च ।
[469।03-469।04]
प्रतिषिद्धो हि सांख्यीयः परिणामवादः ।
[469।04]
तस्माददृष्टान्ता एते ।
[469।05-469।06]
यदि च स्कन्धानामपूर्वोत्पादो न पुद्गलस्येष्यते सो ऽन्यश्च तेभ्यो नित्यश्च स्फुटं दीपितो भवति ।
[469।06]
पञ्च स्कन्धा एकः पुद्गल इति ब्रूवता कथमन्यत्वं नोच्यते ।
[469।07]
कथं तावत् भूतानि चत्वारि रूपं त्वेकं न च भूतेभ्य्यो ऽन्यद्रूपम् ।
पाक्षिक एष दोषः ।
[469।08]
कतमस्मिन्पक्ष ।
भूतमात्रिकपक्षे ।
[469।08-469।09]
तथापि तु यथा भूतमात्रं रूपमेवं स्कन्धमात्रं पुद्गल इत्यभ्युपेतं भवति ।
[469।09-469।10]
यदि स्कन्धमात्रं पुद्गलः कस्मात् भगवता स जीवस्तच्छरीरकन्यो वेति नव्याकृतम् ।
[469।10]
प्रष्टुराशयापेक्षया ।
[469।10-469।11]
स हि जीवद्रव्यमेकमन्तर्व्यापार पुरुषमधिकृत्य पृष्टवान् ।
[469।11-469।12]
स च कस्मिश्चिन्नास्तीति कथमस्यान्यत्वमनन्यत्वं वा व्याक्रियताम् ।
[469।12]
कौर्मस्येव रोम्णो ऽन्तःखरता मृदुता वा ।
[469।13]
एष च ग्रन्थः पूर्वकैरेव निर्मोचितः ।
[469।13-469।14]
स्थाविरो हि नागसेनःकलिङ्गेन राज्ञोपसंक्रम्योक्तः ।
[469।14-469।15]
"पृच्छेयमहं भदन्तम् बहुवोल्लकाश्च श्रवणा भवन्ति ।
[469।15]
यदि यदेव पृच्छेयं तदेव व्याकुर्या इति ।
पृच्छेत्युक्तः पृष्टवान् ।

[469।15-469।16]
किं नु स जीवस्तच्छरीरमन्यिओ जीवो ऽन्यच्छरीरमिति ।
[469।16]
अव्याकृतमेतदित्यवोचत् स्थविरः ।
[469।17]
स आह ।
ननु भदन्तः पूर्वमेव प्रतिज्ञां कारितो ना ऽन्यद्वच्याकर्तव्यमिति ।
[469।17-469।18]
किमिदमन्यदेवोक्तमव्याकृतमेतदिति ।
[469।18]
स्थविर आह ।
[469।18-469।19]
अहमपि महाराजं पृच्छेयं बहुवोल्लकाश्च राजानो भवन्ति ।
[469।19]
यदि यदेव पृच्छेयं तदेव व्याकुर्या इति ।
[469।19-469।20]
पृच्छेत्युक्तः पृष्टवान् ।
[469।20-469।21]
यस्ते ऽन्तःपुरे आभ्रवृक्षस्तस्य किमम्लानि फलानि आहोस्वित् मधुराणीति ।
[469।21]
नैव ममान्तःपुरे कश्चिदाभ्रवृक्षो ऽस्तीत्याह ।
[469।21-469।22]
ननु मया पूर्वमेव महाराजः प्रतिज्ञां कारितो नान्यद्वच्याकर्तव्यमिति ।
[469।22]
किमिदमन्यदेवोक्तमाभ्र एव नास्तीति ।
[469।23]
स आह कथमसतो वृक्षस्य फलानामम्लतां मधुरतां वा व्याकरोमीति ।
[469।23-469।24]
एवमेव महाराज स एव जीवो नास्ति कुतो ऽस्य शरीरादन्यतामनन्यतां वा व्याकरोमीति ।
[469।25]
कस्मात् भगवता ऽपि नोक्तं नास्त्येवेति ।
प्रष्टुराशयापेक्षया ।
[469।25-469।27]
स हि यस्यापि स्कन्धसंतानस्य जीव इत्याख्या तस्याप्यभावं प्रतीयादिति मिथ्यादृष्टिं पातितः स्यात् ।
[469।27]
प्रतोत्य समुत्पादस्याज्ञानात् ।
[469।27-470।01]
स चतद्देशनाया अक्षमः ।
[470।01]
इतश्चैतदेवं निश्चीयते ।

[470।01-470।03]
यत् भगवतोक्तम् "अस्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां नन्वकल्पं स्याद्वचनाय सर्वधर्मा अनात्मान इति ।
[470।03-470।05]
नास्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां ननु वत्ससगोत्रः परिव्राजकः पूर्वमेव संमूढो भूयस्या मात्रया संमोहमापद्येत अभूत् मे आत्मास मे एतर्हि नास्तीति ।
[470।05-470।06]
अस्त्यात्मेत्यानन्द शाश्वताय परेति ।
[470।06]
नास्त्यात्मेत्यानन्दोच्छेदाय परेतीति विस्तरः ।
आह चान्न
[470।07-470।08]
दृष्टिदंष्ट्रावभदं च ब्रंशं चापेक्ष्य कर्मणाम् ।
देशयन्ति जिना धर्म व्याग्रीपीतापहारवत् ॥
[470।09-470।10]
आत्मास्तित्वं ह्युपगतो भिन्नः स्याद्दृष्टिदंष्ट्रया
भ्रंशं कुक्शलपोतस्य कुर्यादप्राप्य संवृतिमि"ति ।
[470।11-470।12]
पुनराह
असत्त्वाद्भगवान् जीवं तत्त्वान्यत्वेन नावदत् ।
नास्तीत्यपि च नावोचन्माभूत् प्राज्ञप्तिकोप्यसन् ॥
[470।13-470।14]
यत्र हि स्कन्धसंताने शुभाशुभफलास्तिता ।
जीवाख्या तत्र सा न स्यात् जीवनास्तित्वदेशनात् ॥
[470।15-470।16]
प्रज्ञप्तिमात्रं स्कन्धेसु जीव इत्यपिनावदत् ।
अभव्यः शून्यतां बोद्धुं तदानीं तादृशो जनः ॥
[470।17-470।18]
तथा ह्यात्मास्ति नास्तीति पृष्टो वास्त्येव नावदत् ।
आशयापेक्षाया प्रष्टुः सति त्वस्तीति नाह किम् ॥
[470।19]
शाश्वतलोकादीनामप्यवयाकरणं प्रष्टुराशयापेक्षया ।
[470।19-470।20]
यदि हि तावदात्मा लोक इष्टः स्यात्तस्याभावादयुक्तं चतुर्धा व्याकरणम् ।
[470।20-471।01]
अथ सर्व एव संसारो लोकस्तस्याप्ययुक्तम् ।
[471।01]
शाश्वते लोके न कस्यचित् परिनिर्वाणं प्राप्नुयात् ।
शाश्वते लोके न कस्यचित् परिनिर्वाणं प्राप्नुयात् ।
[471।02]
अशाश्वते सर्वेपामुच्छेदः प्राप्नुयात् ।
[471।02-471।03]

उभयथात्वे नियमत एकेषां परिनिर्वाणं प्राप्नुयात् एकेषां न ।
[471।03]
अनुभयथात्वे नैव परिनिर्वाणं नापरिनिर्वाणं प्राप्नुयात् ।
[471।04-471।05]
अतो मार्गधीनत्वात् परिनिर्वाणस्य चतुर्धापि नियमो न व्याक्रियते निर्ग्रन्थ4रावकचटकवत् ।
[471।05]
अत एवान्तवान् लोक इति चतुष्काव्याकरणम् ।
तुल्यार्थो ह्येष चतुष्कः ।
[471।06-471।07]
तथाहि मुक्तिकः परिव्राजक एव चतुष्कं पृष्ट्वा पुनः पृष्टवान् किं नु सर्वो लोको ऽनेन मार्गेण निर्यात्याहोस्विदेकदेशो लोकस्ये"ति ।
[471।07-471।09]
स्थविर आनन्द आह "यमेव त्वं मुक्तिक तत्प्रथमतो भगवन्तं प्रश्नं पृष्टवांस्तमे वैतर्हि पृच्छस्यनेन पर्यायेणे"ति सर्वम् ।
[471।09-471।10]
भवति तथागतः परं मरनादित्यपि चतुष्कः प्रष्टुराशयापेक्षया न व्याकृतः ।
[471।10]
स हि मुक्त्वामानं तथागतं कृत्वा पृष्टवान् ।
[471।11-471।12]
पौद्गलिकस्तु पर्यनुयोज्यः किं कारणं भगवान् जीवन्तं पुद्गलमस्तीति व्याकरोति परं मरणान्न व्याकरोतीति ।
[471।12]
शाश्वत दोषप्रसङ्गः ।
[471।13-471।14]
इदं तर्हि कस्माद्वच्याकरोति "भविष्यसि त्वं मैत्रेयानागते ऽध्वनि तथागतो ऽर्हन् संयक्संबुद्ध" इति ।
[471।14-471।15]
कस्माच्च श्रावकमभ्यतीतं कालगतमुपपत्तौ व्याकरोत्यमुको ऽमुत्रोपपन्न इति ।
[471।15]
एवमपि हि शाश्वतत्वप्रसङ्गः ।
[471।15-471।17]
यदि च भगवान् पूर्वं पुद्गलं दृष्ट्वा परिनिर्वृतं पुनः न पश्यत्यज्ञानान्न व्यकरोतीति सर्वज्ञत्वं शास्तुरुत्पादितं भवति न वा सो ऽस्तीत्यभ्युपगन्तव्यम् ।
[471।17-471।18]
अथ पश्यत्यनुच्यमानो ऽप्यसावस्ति शाश्वतश्चेति सिद्धं भवति ।
[471।18]
अर्थतदपि न वक्तव्यं पश्यति वा नवेति ।
[471।18-471।19]
एवं तर्हि इदमपि शनैः शनैरवक्तव्यं क्रियतां सर्वज्ञो वा न वा भगवान्न वेति ।
[471।19-471।20]
अस्त्येव पुद्गलो यस्मात्सत्यतः स्थितितो नास्ति मे आत्मेति दृष्टिस्थानमुक्तम् ।
[471।20-471।21]
अस्तीत्यपि दृष्टिस्थानमुक्तम् ।
[471।21]
तस्मादज्ञापकमेतत् ।

[471।21-471।22]
उभयमपि त्वेतदन्तग्राहदृष्टि शाश्वतोच्छेददृष्टिसंगृहीतमित्याभिधर्मिकाः ।
[471।22]
तथैव च युक्तम् ।
[471।22-471।23]
"अस्त्यात्मेत्यानन्द शाश्वताय परैति नास्त्यात्मेत्यानन्दोच्छेदाय परैती"ति वात्स्यसूत्रे वचनात् ।
[471।24]
यदि तर्हि पुद्गलो नास्ति क एष संसरति ।
[471।24-471।25]
नहि संसार एष संसरतीति युक्तम् ।
[471।25-472।01]
उक्तं च भगवता "अविद्यानिवरणानां सत्त्वनां संधावतां संसरतामि"ति ।
[472।01]
अथ पुद्गलः कथं संसरति ।
[472।01-472।02]
स्कन्धान्तरत्यागोपादानात् ।
[472।02]
उक्तोत्तर एष पक्षः ।
[472।02-472।03]
यथातु क्षणिको ऽग्निः संतत्या संसरतीत्युच्यते तथा सत्त्वाख्यः स्क्न्धसमुदायस्तृष्णोपादानः संसरतीत्युच्यते ।
[472।03-472।05]
यदि स्कन्धामात्रमिदं कस्मादाह भगवान् "ग्रहमेव स तेन कालेन तेन समयेन सुनेत्रो नाम शास्ता ऽभूवमि"ति ।
[472।05]
कस्मान्न वक्तव्यं स्यात् ।
अन्यत्वात् स्कन्धानाम् ।
[472।05-472।06]
अथ किं पुद्गलः ।
[472।06]
स एवासौ ।
शाश्वतो हि स्यात् ।
[472।06-472।07]
तस्मादहमेव स इत्येकसंतानतां दर्शयति ।
[472।07]
यथा स एवाग्निर्दहन्नागत इति ।
[472।07-472।08]
यदि चात्मा भवेत्त्थागता एव सुव्यक्तं पश्येयुः ।
[472।08]
पश्यतां चात्मग्राहो दृढतरः स्यादात्मस्नेहश्च ।
[472।08-472।09]
"आत्मनि च सत्यात्मीयं भवती"ति सूत्रे वचनादात्मग्राहो ऽप्येषां स्कन्धेष्वधिकं प्रवर्तेत ।

[472।09-472।10]
सैषा स्यात्सत्कायदृष्टि ।
[472।10]
आत्मीयदृष्टौ च सत्यामात्मीयस्नेहः ।
[472।10-472।11]
एवमेषां दृढतरात्मात्मीयस्नेहपरिसादितवन्धनानां मोक्षो दूरतरीभवेत् ।
[472।11-472।12]
अथ मतं नैवात्मनि प्रवर्तते स्नेह इति ।
[472।12-472।13]
तत् क इदानीमेष योगो यदनात्मन्यात्मधिमोक्षात् स्नेह उत्पद्यते आत्मन्येव तु नोत्पद्यते ।
[472।13-472।14]
तस्मात् दृष्टच्यर्वुदमेतस्मिन् शासने उत्पन्नं य एष एकेषां पुद्गलग्राह एकेषां सर्वनास्तिताग्राहः ।
[472।14-472।15]
ये ऽपि च द्रव्यान्तरमेवात्मानं मन्यन्ते तीर्थकारास्तेपामेव मोक्षाभावदोषो निष्कम्पः ।
[472।16-472।17]
यदि तर्हि सर्वथापि नास्त्यात्मा कथं क्षणिकेषु चित्तेषु चिरानुभूतस्यार्थस्य स्मरणं भवति प्रत्यभिज्ञानं वा ।
[472।17-472।18]
स्मृतिविषयसंज्ञान्वयाच्चित्तविशेषात् ।
[472।18]
कीदृशाच्चित्तविशेषात् यतो ऽनन्तरं स्मृतिर्भवति ।
[472।18-472।19]
तदाभोगसदृशसम्वन्धिसंज्ञादिमतो ऽनुपहत प्रभावादाश्रयविशेषशोकव्याक्षेपादिभिः ।
[472।20-472।21]
तादृशो ऽपि ह्यतदन्वयश्चित्तविशेषो न समर्थः तां स्मृतिं भवयितुं तदन्वयो ऽपि चान्यादृशो न समर्थस्तां स्मृतिं भवयितुम् ।
[472।21-472।22]
लभयथा तु समर्थ इत्येवं स्मृतिर्भवत्यन्यस्यां सामर्थ्यादर्शनात् ।
[472।22]
कथमिदानीमन्येन चेतसा दृष्टमन्यत्स्मरति ।
[472।22-472।23]
एवं हि देवदत्तचेतसा दृष्टं यज्ञदत्तचेतः स्मरेत् ।
[472।23]
नासम्बन्धात् ।
[472।23-472।24]
न हि तयोः संबन्धो ऽस्ति अकार्य कारणभावाद्यथैकसंतानिकयोः ।
[472।24-472।25]
न च ब्रूमो ऽन्येन चेतसा दृष्टमन्यत्स्मरतीति ।
[472।25]
अपि तु दर्शनचित्तात्स्मृतिचित्तमन्यदुत्पद्यते ।
[472।25-472।26]
संततिपरिणत्या यथोक्तमिति क एवं सति दोषः ।

[472।26]
स्मरणादेव च प्रत्यभिज्ञानं भवति ।
[472।27]
असत्यात्मनिक एष स्मरति ।
स्मरतीति को ऽर्थः ।
स्मृत्या विषयं गृह्लाति ।
[472।28]
किं तद्ग्रहणमन्यत्स्मरणात् ।
स्मृतिं तर्हि कः करोति ।
[472।28-473।01]
उक्तः स यस्तां करोति स्मृतिहेतुचित्तविशेषः ।
[473।01]
यत्तर्हि चैत्रः स्मरतीत्युच्यते ।
[473।01-473।02]
ततो चैत्राख्यात्संतानात्तां भवन्तीं दृष्ट्वोच्यते चैत्रः स्मरतीति ।
[473।02-473।03]
असत्यात्मनि कस्येवं स्मृतिः ।
[473।03]
किंअर्थैषा षष्ठी ।
स्वाम्यर्था ।
यथा कस्य कः स्वामी ।
यथा गोश्चैत्रः ।
[473।04]
कथमसौ तस्याः स्वामी ।
तदाधीनो हि तस्या वाहदोहादिषु विनियोगः ।
[473।04-473।05]
क्व च पुनः स्मृतिर्विनियोक्तव्या व एवं तस्याः स्वामी मृग्यते ।
[473।05]
स्मर्तव्ये ऽर्थे ।
[473।05-473।06]
किमर्थ विनियोक्तव्या ।
[473।06]
स्मरणार्थम् ।
अहो सूक्तानि सुखैधितानाम् ।
[473।06-473।07]
सैव हि नाम तदर्थं विनियोक्तव्येति ।
[473।07]
कथं च विनियोक्तव्या ।
उत्पादनत अहोस्वित्संप्रेषणतः ।
[473।08]

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc