भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 721731

स्मृतिगत्ययोगादुत्पादनतः ।
हेतुरेव तर्हि स्वामी प्राप्नोति फलमेव च स्वम् ।
[473।09]
यस्माद्धेतोराधिपत्यं फले फलेन च तद्वान् हेतुरिति ।
[473।09-473।10]
यो ह्येव हेतुः स्मृतेस्तस्यैवासौ ।
[473।10-473।12]
यश्चापि स चैत्राभिधानः संस्कारसमूहसंतान एकतो गृहीत्वा गवाख्यस्वामीत्युच्यते स चापि तस्य देशान्तरविकारोत्पत्तौ कारणभावं चेतसि कृत्वा न तु खलु कश्चिदेकश्चैत्रो नामास्ति न चापि गौः ।
[473।12-473।13]
तस्मात्तत्रापि न हेतुभावं व्यतीत्यास्ति स्वामिह्बावः ।
[473।13]
एवं को विजानाति कस्य विज्ञानमित्येवमादिषु वक्तव्यम् ।
[473।14]
तस्य हेतुरिन्द्रियार्थमनस्कारा यथायोगमित्येष विशेषः ।
[473।15]
यो ऽप्याह भावस्य भवित्रपेक्षत्वात् सर्वो हि भावो भवितारमपेक्षते ।
[473।15-473।16]
यथा देवदत्तो गच्छतीत्यत्र गतिर्भावो गन्तारं देवदत्तमपेक्षते ।
[473।16]
तथा विज्ञानं भावः ।
[473।17]
तस्माद्यो विजानाति तेन भवितव्यमिति ।
स वक्तव्यः ।
[473।18]
को ऽयं देवदत्त इति ।
यद्यात्मा स एव साध्यः ।
अथ व्यवहारपुरुषः ।
[473।18-473।19]
सो ऽपि न कश्चिदेकः संस्कारा हि त एवंनामानः ।
[473।19-473।20]
तत्र यथा देवदत्तो गच्छति यथा विजानाति ।
[473।20]
कथं च देवदत्तो गच्छति ।
[473।20-473।22]
क्षणिका हिसंस्कारा अभिन्नसंताना देवदत्त इति बालैरेकसत्त्वपिण्डग्रहेणाधिमुक्ताः स्वस्य संतानस्य देशान्तरे कारणं भवन्त उच्यन्ते गच्छति देवदत्त इति ।
[473।22]
सा च देशान्तरोपत्तिर्गतिरित ।
[473।22-473।23]
ज्वालाशब्दसंतानयोर्गच्छतिगमनाभिधानवत् ।
[473।23-473।24]

त एव च पुनर्विज्ञानस्य कारणं भवन्त उच्यन्ते जानाति देवदत्त इति ।
[473।24]
आर्यैरपि तेषां संज्ञया तथोच्यन्ते व्यवहारार्थम् ।
[473।25]
यत्तर्हि "विज्ञानं विजानाती"ति सूत्र उक्तं किं तत्र विज्ञानं करोति ।
[473।25-473।26]
न किञ्चित्करोति ।
[473।26]
यथा तु कार्यं कारणमनुविधीयत इत्युच्यते ।
[473।26-473।27]
सादृश्येनात्मलाभादकुर्वदपि किञ्चित् ।
[473।27]
एवं विज्ञानमपि विजानातीत्युच्यते ।
[473।27-474।01]
सादृश्येनात्मलाभादकुर्वदपि किञ्चित् ।
[474।01]
किं पुनरस्य सादृश्यम् ।
तदाकारता ।
[474।01-474।02]
अत एव तदिन्द्रियादप्युत्पन्नं विषयं विजानातीत्युच्यते नेन्द्रियम् ।
[474।02-474।03]
अथवा तथा ऽत्रापि विज्ञानसंतानस्य विज्ञाने कारणभावाद्विज्ञानं विजानातीति वचनान्निर्दोषं कारणे दर्तृशब्दनिर्देशात् ।
[474।04]
घण्टा रौतीति यद्वत् ।
[474।04-474।05]
अपि खलु यथा प्रदीपो गच्छति तथा विज्ञानं विजानातीति ।
[474।05]
कथं च प्रदीपो गच्छति ।
[474।05-474।06]
प्रदीप इत्यर्चिषां संतान उपचर्यते ।
[474।06]
स देशान्तरेषूत्पद्यमानस्तं देशं गच्छतीत्युच्यते ।
[474।06-474।07]
एवं विज्ञानमपि चित्तानां संतान उपचर्यते ।
[474।07]
तद्विषयान्तरेषूत्पद्यमानं तं विषयं विजानातीत्युच्यते ।
[474।08-474।09]
यथा चाभिजायते तिष्ठति रूपमित्यत्र भवितुर्भावादनर्थन्तरत्वमेवं विज्ञानस्यापि स्यात् ।
[474।09-474।10]
यदि विज्ञानाद्विज्ञानमुत्पद्यते नात्मानः कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रदिवत् ।

[474।10]
स्थित्यन्यथात्वस्य संस्कृत्लक्षणत्वात् ।
[474।11]
एष हि संस्कृतस्य स्वभावो यदवश्यं प्रबन्धस्यान्यथात्वं भवति ।
[474।11-474।13]
अन्यथा हि निकामध्यानसमाहितानां सदृशकायचित्तोत्पत्तौ प्रथमक्षणनिंर्विशेषत्वात् पश्चादपि न स्यात् स्वयं व्युत्थानम् ।
[474।13]
क्रमो ऽपि हि चित्तानां नियत एव ।
[474।13-474।14]
यतो नूत्पत्तव्यं तत एव तस्योत्पादात् ।
[474।14]
तुल्याकारमपि हि किञ्चिदुत्पादने समर्थं भवति ।
[474।14-474।15]
गोत्रविशेषात् ।
[474।15-474।17]
यद्यथा स्त्रीचित्तानन्तरं यदि तत्कायविदूषणाचित्तमुत्पन्नं भवति तत्पतिपुत्रादिचित्तं वा पुनश्च पश्चात्संततिपरिणत्या स्त्रीचित्तमुत्पद्यते तत् समर्थ भवति तत्कायविदूषणाचित्तोत्पादने तत्पतिपुत्रादिचित्तोत्पादने वा ।
[474।17]
तद्गोत्रत्वात् ।
[474।18]
अन्यथा न समर्थम् ।
[474।18-474।19]
अथ पुनः पर्यायेण स्त्रीचित्ताद्वहुविधं चित्तमुत्पन्नं वहुतर मासन्नतरं वा तदेवोत्पद्यते ।
[474।19]
तद्भावनाया वलीयस्त्वात् ।
[474।20]
अन्यत्र तत्कालिकात्कायबाह्यप्रत्ययविशेषात् ।
[474।20-474।21]
सैव बलीयसी भावना कस्मान्नित्यं न फलति ।
[474।21-474।22]
स्थित्यन्यथात्वस्य संस्कृतलक्षणत्वात् तस्य चान्यथात्वस्यान्यभावनाफलोत्पत्तावानुगुण्यात् ।
[474।22]
एतद्धि सर्वचित्तप्रकारेषु दिङ्मात्रम् ।
[474।22-474।23]
निरन्तरकारणज्ञाने तु बुद्धानां प्रभुत्वम् ॥
[474।23]
एवं ह्याहुः ।
[474।24-474।25]
सर्वाकारकारणमेकस्य मयूरचन्द्रकस्यापि ।
नासर्वज्ञैर्ज्ञेयं सर्वज्ञबलं हि तज्ज्ञानमि"ति ॥
[474।26]

प्रागेवारुपिणां चित्तभेदानाम् ।
[475।01-475।03]
य एव त्वयमेकीयस्तीर्थिक आत्मप्रभवां चित्तोत्पत्तिं मन्यते तस्यैवेदं स्फुटं चोद्यमापद्यते कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रादिवदिति ।
[475।03]
मनःसंयोगविशेषापेक्षत्वादिति चेत् ।
न ।
अन्यसंयोगासिद्धेः ।
[475।04-475।05]
संयोगिनोस्तु परिच्छिन्नत्वादप्राप्तिपूर्विका प्राप्तिः सम्योग इति लक्षणव्याख्यानाच्चात्मानः परिच्छेदप्रसङ्गः ।
[475।05-475।06]
ततो मनःसम्चारादात्मनः संचारप्रसङ्गो विरागस्य वा ।
[475।06]
प्रदेशसंयोग इति चेत् ।
न ।
तस्यैव तत्प्रदेशत्वायोगात् ।
[475।06-475।08]
अस्तु वा संयोगस्तथापि नित्यमविशिष्टे मनसि कथं संयोगविशेषः ।
[475।08]
बुद्धिविशेषापेक्ष इति चेत् ।
[475।08-475।09]
स एव परिचोद्यते कथं बुद्धिविशेष इति ।
[475।09]
संस्कारविशेषापेक्षादात्ममनः संयोगादिति चेत् ।
[475।09-475।10]
चित्तादेवास्तु संस्कारविशेषापेक्षत्वात् ।
[475।10-475।11]
नहि किञ्चिदात्मनः उपलभ्यते सामर्थ्मौषध कार्यसिद्धाविव कुहकवैद्यफुःस्वाहानाम् ।
[475।11]
सत्यात्मनि तयोः संयोग इति चेत् ।
[475।12]
वाङ्मात्रम् ।
आश्रयः स इति चेत् ।
यथा कः कस्याश्रयः ।
[475।12-475।13]
न हि ते चित्रवदरादिवदाधार्ये नापि स कुडच्यकुण्डादिवदाधारो युक्तः ।
[475।13-475।14]
प्रतिघातियुतदोषात् नैव स एवमाश्रयः ।
[475।14]
कथं तर्हि ।
यथा गन्धादीनां पृथिवीति चेत् ।

[475।14-475।15]
अतिपरितोषिताः स्मः ।
[475।15]
इदमेव हि नः प्रत्यायकं नास्त्यात्मेति ।
[475।15-475।16]
यथा न गन्धादिभ्यो ऽन्या पृथिवीति ।
[475।16]
को हि स गन्धादिभ्यो ऽन्यां पृथिवीं निर्धारयति ।
[475।16-475।17]
व्यपदेशस्तु पृथिव्या गन्धादय इति विशेषणार्थम् ।
[475।17-475।18]
ते ह्येव तदाख्या गन्धादयो यथा प्रतीयेरन्नान्य इति ।
[475।18]
काष्ठप्रतिमायां शरीरव्यपदेशवत् ।
[475।18-475।19]
सत्यपि च संस्कारविशेषापेक्षत्वे कस्मान्न युगपत्सर्वज्ञानोत्पत्तिः ।
[475।19]
यो हि बलिष्ठस्तेनान्येषां प्रतिवन्धः ।
[475।20]
स एव वलिष्ठः कस्मान्नित्यं न फलति ।
यो ऽस्य न्यायः सो ऽस्तु भावनायाः ।
[475।21]
आत्मा तु निरर्थकः कल्प्यते ।
[475।22]
अवश्यमात्माभ्युपगन्तव्यः ।
[475।22-475।23]
स्मृत्यादीनां गुणपदार्थत्वात् तस्य चार्थादवश्यं द्रव्याश्रितत्वात् तेषां चान्याश्रयायोगादिति चेत् ।
[476।01]
न ।
न ह्येषां गुणपदार्थत्वं सिद्धम् ।
सर्वमेव नो विद्यमानं द्रव्य ।
[476।01-476।02]
"षट् द्रव्याणि श्रामण्यफलानी"ति वचनात् ।
[476।02]
नाप्येषां द्रव्याश्रितत्वं सिद्धम् ।
[476।02-476।03]
परीक्षितो ह्याश्रयार्थः ।
[476।03]
तस्माद्यत्किञ्चिदेव तत् ।
[476।04]

आत्मन्यसति किमर्थः कर्मारम्भः ।
[476।04-476।05]
अहं सुखी स्यामहं दुःखी न स्यामित्येवमर्थः ।
[476।05]
को ऽसावहं नाम यद्विषयिओ ऽयमहङ्कारः ।
स्कन्धविषयः ।
कथं ज्ञायते ।
[476।06]
तेषु स्नेहात् ।
गौरादिबुद्धिभिः सामानाधिकरण्यात्तु ।
[476।06-476।08]
गौरो ऽहमहं श्यामः स्थूलो ऽहमहं कृशः जीर्णो ऽहमहं युवेति गौरादिबुद्धिभिः सामानाधिकरणो ऽयमहङ्कारो दृश्यते ।
[476।08]
न चात्मन एते प्रकारा दृश्यन्ते ।
तस्मादपि स्कन्धेष्वयमिति गम्यते ।
[476।09-476।10]
आत्मन उपकारके ऽपि शरीर आत्मोपचारो यथा य एवायं स एवाहं स एवायं मे बृत्य इति भवत्युपकारके ऽपि आत्मोपचारो नत्वहङ्कारः ।
[476।10-476।11]
सति शरीरालम्बनत्वे परशरीरालम्वनो ऽपि कस्मान्न भवति ।
[476।11]
असंवन्धात् ।
[476।11-476।12]
येनैव हि सहास्य संवन्धः कायेन चित्तेन वा यत्रैवायमहङ्कार उत्पद्यते नान्वत्र ।
[476।12-476।13]
अनादौ संसार्र एवमभ्यासात् ।
[476।13]
कश्च संबन्धः ।
कार्यकारणभावः ।
[476।13-476।14]
यद्यात्मा नास्ति कस्यायमहङ्कारः ।
[476।14]
इदं पुनस्तदेआयातं "किमर्थैषा षष्ठीति ।
[476।14-476।15]
यावद्य एवास्य हेतुस्तस्यैवायमि"ति ।
[476।15]
कश्चान्यो हेतुः ।
[476।15-476।16]
पूर्वाहङ्कारपरिभावितं स्वसंततिविषयं सावद्यं चित्तम् ।
[476।16]
असत्यात्मनि क एष सुखितो दुःखितो वा ।

[476।16-476।17]
यस्मिन्नाश्रये सुखमुत्पन्नं दुःखं वा ।
[476।17]
यथा पुष्पितो वृक्षः फलितं वनमिति ।
[476।17-476।18]
कः पुनरनयोराश्रयः ।
[476।18]
षडायतनम् ।
यथा कृत्वा तथोक्तम् ।
[476।19]
असत्यात्मनि क एषां कर्मणां कर्ता कश्च फलानां भोक्ता भवति ।
[476।19-476।20]
कर्तेति क एष वाह्यर्थः ।
[476।20]
करोतीति कर्ता ।
भुङ्क्त इति भोक्ता ।
पर्याय उच्यते नार्थः ।
[476।21]
"स्वतन्त्रः कर्ते"ति कर्तृ लक्षणमाचक्षते लाक्षणिकाः ।
[476।21-476।22]
अस्ति पुनः क्वचिदेव कार्ये कस्यचित् स्वातन्त्र्यम् ।
[476।22]
लोके दृष्टं देवदत्तस्य स्नानासनगमनादौ ।
[476।22-476।23]
कः पुनर्भवान् देवदत्तमुदाहरति ।
[476।23]
यद्यात्मानं स एव साध्यः ।
अथ पञ्चस्कन्धकं स एव् कर्ता ।
[476।24]
त्रिविधं चेदं कर्म कायवाङ्मनस्कर्म ।
[476।24-476।25]
तत्र कायकर्मणि तावत् कायस्य चित्तपरतन्त्रा वृत्तिः ।
[476।25-476।26]
चित्तस्यापि काये स्वकारणपरतन्त्रा वृत्तिस्तस्याप्येवमिति नास्ति कस्यचित् स्वातन्त्र्यम् ।
[476।26]
प्रत्ययपरतन्त्रा हि सर्वे भावाः प्रवर्तन्ते ।
[476।26-476।27]
आत्मनो ऽपि च निरपेक्षस्याकारणत्वाभ्युपगमात्र स्वातन्त्र्यं सिध्यति ।
[476।28]
तस्मान्नैवंलक्षणम् उपलभ्यते कश्चित्कर्ता ।

[476।28-477।01]
यत्तु यस्य प्रधानं कारणं तत्त्स्य कर्तेत्युच्यते ।
[477।01]
न च आत्मनः क्वचिदपि कारणत्वं दृश्यते ।
[477।01-477।02]
तस्मात्स एवमपि न कर्ता युज्यते ।
[477।02-477।03]
स्मृतिजो हि च्छन्दः च्छन्दजो वितर्को वितर्कात्प्रयत्नः प्रयत्नाद्वायुस्ततः कर्मेति किमत्रात्मा कुरुते ।
[477।03-477।04]
फलस्यापिच क उपभोगो यमयमात्मा कुर्वन्नुपभोक्ता कल्प्यते ।
[477।04]
उपलभिरिति चेत् ।
नात्मनः उपलब्धौ सामर्थ्यं विज्ञाने प्रतिपेधात् ।
[477।05]
असत्यात्मनि कस्मादसत्त्वाधिष्ठानः पापपुण्योपचयो न भवति ।
[477।05-477।06]
वेदनाद्यनाश्रयत्वात् तदाश्रयश्च षडायतनं नात्मा यथा तथोक्तम् ।
[477।07]
कथमसत्यात्मनि वेनष्टात्कर्मण आयत्यां फलोत्पत्तिः ।
[477।07-477।08]
आत्मन्यपि सति कथं विनष्टात् कर्मण आयत्यां फलोत्पत्तिः ।
[477।08]
तदाश्रिताद्धर्माधर्मात् ।
[477।08-477।09]
यथा कःकिमाश्रित इत्युक्तोत्तरैषा वाचो युक्तिः ।
[477।09]
तस्मादनाश्रितादेव धर्माधर्मात् भवतु ।
[477।09-477।10]
नैव तु वयं विनष्टात् कर्मण आयत्यां फलोत्पत्तिं ब्रूमः ।
[477।10]
किं तर्हि ।
[477।10-477।11]
तत्संततिपरिणामविशेषाद्वीजफलवत् ।
[477।11]
यथा वीजात्फलमुत्पद्यत इत्युच्यते ।
[477।11-477।12]
न च तद्विनष्टाद्वीजादुत्पद्यते ।
[477।12]
नाप्यनन्तरमेव ।
किं तर्हि ।

[477।12-477।13]
तत्संततिपरिणामविशेषादङ्कुरकाण्डपत्रादिक्रमनिष्पन्नात् पुष्पावसानात् ।
[477।13-477।14]
तत् पुनः पुष्पान्निष्पन्नं कस्मात्तस्य वीजस्य फलमित्युच्यते ।
[477।14]
तदाहितं हि तत् परयापुष्पे सामर्थ्यम् ।
[477।14-477।15]
यदि हि तत्पूर्विकान्नभविष्यत् तत्तादृशस्य फलस्योतोपत्तौ न समर्थमभविष्यत् ।
[477।15-477।16]
एवं कर्मणः फलमुत्पद्यत इत्युच्यते ।
[477।16]
न च तद्विनिष्टात्कर्मण उत्पद्यते नाप्यनन्तरमेव ।
[477।17]
किं तर्हि ।
तत्संततिपरिणामविशेषात् ।
[477।17-477।18]
का पुनः संततिः कः परिणामः को विशेषः ।
[477।18-477।19]
यः कर्मपूर्व उत्तरोत्तरचित्तप्रवसः सा संततिस्तस्या अन्यथोत्पत्तिः परिणामः ।
[477।19-477।20]
स पुनर्थो ऽन्तरं फलोत्पादनसमर्थः सो ऽन्तपरिणामविशिष्टत्वात् परिणमविशेषः ।
[477।20]
तद्याथा सोपादानं मरणचित्तं पुनर्भवस्य ।
[477।20-477।21]
त्रिविधकर्मपूर्वकत्वे ऽपि यत्कर्म गुरु वा भवत्यासन्नमभ्यस्तं वा यत्कृतं सामर्थ्यं द्योत्यते नत्वन्यस्य ।
[477।22]
आह च
[477।23-477।24]
"यत् गुरु यच्चासन्नं यच्चाभ्यस्तं कृतं च यत् ।
पूर्वं पूर्वं पूर्वं वीपच्यते कर्मसंसारे" ॥
[477।25]
तत्र विपाकहेत्वाहितं तु विपाकफलदानसामर्थ्यं विपाकं दत्त्वा विनिवर्तते ।
[477।25-477।26]
सभागहेत्वाहितं तु निष्यन्दफलदानसामर्थ्यं क्लिष्टानां प्रतिपक्षोदयाद्विनिवर्तते ।
[477।27]
अक्लिष्टानां चित्तसंतानात्यन्तविनिवृत्तेर्यदा परिनिर्वाति ।
[478।01]
अथ कस्माद्विपाकाद्विपाकान्तरं नोत्पद्यते वीजफलादिव फलान्तरम् ।
[478।01-478।02]
न तावत् दृष्टान्तेन सर्वं समानं भवति ।

[478।02]
तत्रापि तु न फलादेव पुनः फलान्तरमुत्पद्यते ।
[478।02-478।03]
किं तर्हि ।
[478।03]
विक्लित्तिविशेषजाद्विकारविशेषात् ।
[478।03-478।04]
यो हि तत्र भूतप्रकाराङ्कुरं निर्वर्तयति स तस्य वीजं नान्यः ।
[478।04-478।05]
भाविन्या तु संज्ञाया सादृश्याद्वा पूर्वको ऽपि संतानो बीजमित्याख्यायते ।
[478।05-478।07]
एवमिहापि तस्माद्विपाकाद्यदि सदसद्धर्मश्रवणा दिप्रत्ययविशेषजः कुशलसास्रवो ऽकुशलो वा चित्तविकार उत्पद्यते तस्मात्पुनर्विकारान्तरमुत्पद्यते नान्यथेति समानमेतत् ।
[478।07]
अथवा पुनरेतदेवं विज्ञातव्यम् ।
[478।07-478।09]
यथा लाक्षारसरञ्जितात् मातुलुङ्गपुष्पात्संततिपरिणामविशेषजः फले रक्तः केशर उपजायते न च तस्मात् पुनरन्यः एवं कर्मजाद्विपाकात् न पुनर्विपाकान्तरमिति ।
[478।09-478।10]
यथास्थूलमिदमस्मद्बुद्धिगम्यं दर्शितम् ।
[478।10-478।11]
नानाविधशक्तिभिन्नैस्तु कर्मभिरधिवासिताः संततय एतामवस्थां गता ईदृशं फलमभिनिवर्तयन्तीति बुद्धानामेव विषयः ।
[478।11]
आह खल्वपि
[478।12-478।13]
"कर्म तद्भावनां तस्या वृत्तिलाभं ततः फलम् ।
नियमेन प्रजानाति बुद्धादन्यिओ न सर्वथा ॥
[478।14-478।17]
इत्येतां सुविहितहेतुमार्गशुद्धां
बुद्धानां प्रवचनधर्मतां निशम्य ।
अन्धानां विविधकुदृष्टिचेष्टितानां
तीर्थ्यानां मतमपविध्य यान्त्यनन्धाः ॥
[478।18-478।21]
इमं हि निर्वाणपुरैकवर्तिनीं
तथागतादित्यवचों ऽशुभास्वतीम् ।
निरात्मतामार्यसहस्रवाहितां
न मन्दचक्षुर्विवृतामपीक्षते ॥
[478।22-478।23]
इति दिङ्मात्रमेवेदमुपदिष्टं सुमेधसाम् ।
ब्रणदेशोविषस्येव स्वसामर्थ्यविसर्पण इति ।
[479।01-479।02]
पुद्गलकोशमभिधर्मकोशभाष्यं समाप्तमिति ।

कृतिरियमाचार्यवसुबन्धुपादानामिति ॥
[479।03-479।04]
ये धर्महेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥
=====================================================================
[479।05-479।06]
देवधर्मो ऽयं प्रवरमहायान सकलतथागतशासनधूर्द्धरस्य उत्तरापथिकपण्डितस्थविरश्रीलामावाकस्य यदत्र पुण्यमित्यादि ।
[479।07]
॥ शुभमस्तु ॥
=====================================================================

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc