अभिधर्मकोशभाष्य · भाग 681700
[444।16-444।17]
समापत्तिकालं प्रत्येतदुक्तम् ।
[444।17-444।18]
शुद्धकात् क्लिष्टाच्च समनन्तरं स्वभूमिकमेव क्लिष्टमुत्पद्यते नान्यभूमिकमिति ।
[444।19]
च्युतौ तु शुद्धकात् क्लिष्टं सर्वं
[444।20]
च्युतिकाले तु उपपत्तिलाभिकाच्छुद्धकादनन्तरं सर्वभूमिकं क्लिष्टमुत्पद्यते ।
[444।21]
क्लिष्टात्तु नोत्तरम्
[445।01]
क्लिष्टात्तु ध्यानारूप्यादनन्तरं च्युतिकाले स्वाधरभूमिकं क्लिष्टमुत्पद्यते ।
[445।01-445।02]
नोर्ध्वभूमिकम् ।
[445।02-445।03]
न च सर्वस्माच्छुद्धकादनाश्रवं समापत्तिद्रव्यमुत्पद्यते ।
[445।03]
किं तर्हि ।
[445।04]
चतुर्धा शुद्धकं हानभागीयादि
[445।05]
हानभागीयं विशेषभागीयं स्थितिभागीयं निर्वेधभागीयमिति चतुर्विधं शुद्धकम् ।
[445।06]
भवाग्रं तु त्रिविधमन्यत्र विशेषभागीयात् ।
किमस्य लक्षणम् ।
[445।07-445।08]
यथाक्रमम् ।
क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत्
[445।09-445।10]
क्लेशोत्पत्त्यनुगुणं हानभागीयं स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् ।
[445।10]
तस्मादनास्रवमुत्पद्यते ।
[445।11]
अथैषां चतुर्णा कति कस्मादनन्तरमुत्पद्यन्ते ।
[445।12]
द्वे त्रीणि त्रीणि चैकं च हान भागाद्यनन्तरम् ।
[445।13]
हानभागीयं हानभाक् ।
तस्मादनन्तरं द्वे उत्पद्येते ।
हानिस्थितिभागीये ।
[445।13-445।14]
स्थितिभागीयानन्तरं त्रीण्यन्यत्र निर्वेधभागीयात् ।
[445।14-445।15]
विशेषभागीयादनन्तरं त्रीण्यन्यत्र हानभागीयात् निर्वेधभागीयादनन्तरं तदेवैकमिति ।
[445।16]
कथं व्युत्क्रान्तकसमापत्तिरुत्पद्यते ।
[445।17]
गत्वागम्य द्विधा भूमीरष्टौ श्लिष्टैकलङ्घिताः
[445।18]
व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा ।
[445।19]
गत्वेत्यनुलोमं समापद्य ।
आगम्येति प्रतिलोमं समापद्य ।
[445।19-446।01]
द्विधेति सास्रवानास्रवा भूमीः ।
[446।01]
अष्टाविति ध्यानारुप्यसमापत्तीः ।
श्लिष्टा इत्यनुक्रमेण ।
[446।01-446।02]
एकलङ्घिता इत्येकामेकामुत्क्रम्य ।
[446।02-446।03]
सास्रवा अष्टौ भूमिरनुलोमप्रतिलोमसमापत्तितो निर्जित्य अनास्रवाश्च सप्त ।
[446।03-446।04]
पश्चात्सास्रवात् प्रथमाद्ध्यानात् सास्रवं तृतीयं समापद्यते ।
[446।04]
तस्मादाकाशानन्त्यायतनं तस्मादाक्ंइचन्यावतनम् ।
[446।04-446।05]
एवं पुनः प्रतिलोमं निर्जित्य अनास्रवा अप्येकलङ्घिता अनुलोमप्रतिलोमं च समापद्यते ।
[446।06]
अयं प्रयोगो व्युत्क्रान्तकसमापत्तेः ।
[446।06-446।07]
यदा तु प्रथमात्सास्रवात् तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवमाकिञ्चन्यायतनम् ।
[446।08]
एवं पुनः प्रतिलोमम् ।
तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति ।
[446।08-446।09]
अतिविप्रकृष्टत्वान्न चतुर्थी समापद्यते ।
[446।09-446।10]
तां च त्रिषु द्वीपेषु असमयविमुक्त एवार्हन्नुत्पादयति ।
[446।10]
निःक्लेशत्वात्समाधिवशित्वाच्च ।
[446।10-446।11]
दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात् समाधौ वशित्वं न तु निष्क्लेशः ।
[446।11-446।12]
समयविमुक्तो यद्यपि निःक्लेशो नत्वस्य समाधौ वशित्वमिति ।
[446।13]
केनाश्रयेण कति ध्यानारुप्याः संमुखीक्रियन्ते ।
[446।14]
स्वाधोभूम्याश्रया एव
[446।15]
ध्यानाश्रया एव
[446।16]
ध्यानारूप्याः
[446।17]
भवाग्रं भवाग्रे च संमुखीक्रियते अधश्च यावत्कामधातौ ।
[446।17-446।18]
शेषाणि स्वस्यां भूमावधश्चेति ।
[446।18-446।19]
किं कारणमूर्ध्वोपपन्नो नाधरां समापत्ति संमुखीकरोति ।
[446।19]
तस्मात्तस्य
[446।20]
वृथाऽधरम्
[446।21]
नहि तस्याधरेण समापत्तिद्रव्येण किञ्चित् प्रयोजनं विधीयते ।
[445।21-446।21]
निहीनत्वात् ।
[446।22]
उत्सर्ग कृत्वा ऽपवादं करोति
[446।23]
आर्याकिञ्चन्यसांमुख्यात् भवाग्रे त्वास्रवक्षयः ।
[446।24]
भवाग्रे तूपपन्नस्यानास्रवाकिञ्चन्यायतनसंमुखीभावादास्रवक्षयो भवति ।
[446।24-446।25]
कथं तत्रोपपन्नस्य तत्संमुखीभावः ।
[446।25]
स्वस्याभावात्तस्य चाभ्यासात् ।
[447।01]
अथैषां ध्यानारूप्याणां किमालम्बनम् ।
[447।02]
सतृष्णाः स्वभवालम्बाः
[447।03]
आस्वादनासंप्रयुक्ताः स्वभूमिकं भवमालम्बन्ते ।
भवग्रहणेन सास्रवं वस्तु गृह्यते ।
[447।04]
नाधरमालम्बन्ते वीतरागत्वान्नोत्तरं तृष्णापरिछिन्नत्वात् भूमीनाम् ।
[447।04-447।05]
नानास्रवं कुशलत्वप्रसङ्गादिति ।
[447।06]
ध्यानं सद्विषयं शुभम्
[447।07]
कुशलं ध्यानं शुभकमनास्रवं च ।
तत् सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा ।
[447।08]
न मौलाः कुशलारूप्याः सास्रवाधरगोचराः ।
[447।09-447।10]
मौलानां कुशलारूप्याणामधोभूमिकं सास्रवं वस्तु नालम्बनं स्वोर्ध्वभूम्यालम्बनत्वात् ।
[447।10]
अनास्रवं त्वालम्बनम् ।
[447।10-447।11]
सर्वान्वयज्ञानपक्ष्यो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः ।
[447।11]
सामन्तकानन्तर्यमार्गाणां त्वधरा भूमिरालम्बनम् ।
[447।11-447।12]
एषां च पुनस्त्रिविधानां ध्यानानां रूप्यारूप्याणाम्
[447।13]
अनास्रवेण हीयन्ते क्लेशाः
[447।14]
न शुद्धकेन ।
कुत एव क्लिष्टेन ।
वीतरागत्वान्नाधः ।
[447।14-447।15]
तस्यैव तदप्रतिपक्षत्वान्न स्वभूमौ ।
[447।15]
विशिष्टतरत्वान्नोर्ध्वमिति ।
[447।16]
समन्तकेन च
[447।17]
ध्यानारूप्यसामन्तकेन च क्लेशाः प्रहीयन्ते शुद्धकेनापि ।
अधोभूमिप्रतिपक्षत्वात् ।
[447।18]
कति पुनः सामन्तकानि ।
[447।19]
अष्टौ सामन्तकान्येषां
[447।20]
एकैकस्यैकैकं येन तत्प्रवेशः ।
किं तान्यपि त्रिविधानि तथैव च तेषु वेदना ।
[447।21]
नेत्युच्यते ।
[447।22]
शुद्धादुःखासुखानि हि ।
[448।01-448।02]
शुद्धकानि च तान्युपेक्षेन्द्रियसंप्रयुक्तानि च यन्तबाह्यत्वादधोभूम्युद्वेगानपगमात् वैराग्यपथत्वाच्च नास्वादनासंप्रयुक्तानि ।
[448।03]
आर्यं चाद्यं
[448।04-448।05]
आद्यं सामन्तकमनागम्यं तच्छुद्धकं चानास्रवं च यद्यपि सामन्तकचित्तेन प्रतिसंधिबन्धः क्लिष्टो भवति ।
[448।05]
समाहितस्य तु क्लिष्टत्वं प्रतिषिध्यते ।
[448।06]
त्रिधा केचित्
[448।07]
केचित्पुनरिच्छन्ति ।
[448।07-448।08]
आस्वादनासंप्रयुक्तमप्यनागम्यं सामन्तकं चोच्यते ध्यानान्तरं च ।
[448।08]
किमिदमेकार्थमाहोस्विन्नानार्थम् ।
सामन्तकं हि वैराग्यमार्गः ।
[448।09]
अतर्क ध्यानमन्तरम्
[448।10]
ध्यानमेव हि वितर्कासंप्रयुक्तं ध्यानान्तरं ध्यानविशेषत्वात् ।
[448।10-448।11]
अत एव द्वितीयादिषु ध्यानेषु न व्ययस्थाप्यते विशेषाभावादिति ।
[448।11]
तत्पुनर्ध्यानान्तरं
[448।12]
त्रिधा
[448।13]
आस्वादनासंप्रयुक्तम् शुद्धकमनास्रवं च ।
[448।14]
अदुःखासुखं तच्च
[448।15]
नात्र सुखं दुःखमित्यदुःखासुखमुपेक्षेन्द्रियसंप्रयुक्तमित्यर्थः ।
[448।15-448।16]
न प्रीतिसंप्रयुक्तं साभिसंस्कारवाहित्वात् ।
[448।16]
अत एव दुःखा प्रतिपत् ।
[448।16-448।17]
तस्य तर्हि ध्यानान्तरस्य कः फलविशेषः ।
[448।17]
तद्धि
[448।18]
महाब्रह्मफलं च तत् ।
[448।19]
तां हि ध्यानान्तरिकां भावयित्वा महाब्रह्मा भवति ।
[448।19-448।20]
पुनः सर्वसमाधीन् संकलय्य त्रयः समाधयः उक्ताः सूत्रे ।
[448।20]
सवितर्कः सविचारः समाधिः ।
अवितर्को विचारमात्रः ।
[449।01]
अवितर्को ऽविचार इति ।
[449।01-449।02]
तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः समाध्हिरिति ज्ञापितम् ।
[449।02]
वितर्कमात्रप्रतिषेधात् ।
ततः
[449।03]
सवितर्कविचारोऽधःसमाधिः
[449।04]
तस्माद्ध्यानान्तरादधःसमाधिः सवितर्कः सविचारः ।
प्रथमं ध्यानमनागम्यं च ।
[449।05]
परतो ऽद्वयः
[449।06]
नात्र द्वयमस्तीत्यद्वयः ।
परेण तु ध्यानान्तरात्समाधिरवितर्को ऽविचारः ।
[449।06-449।07]
द्वितीयध्यानसामन्तकाद्यावत् भवाग्रम् ।
[449।07]
पुनस्त्रयः उक्ताः ।
[449।07-449।08]
शून्यतासमाधिरप्रणिहित आनिमित्तश्च ।
[449।08]
तत्र
[449।09]
आनिमित्तः समाकारैः
[449।10]
निरोधसत्याकारैः संप्रयुक्तः समाधिरानिमित्तश्चतुराकारः ।
[449।10-449।11]
निर्वाणं हि दशनिमित्तापगतत्वादनिमित्तम् ।
[449।11]
तदालम्बनः समाधिरानिमित्तः ।
[449।11-449।12]
पञ्चविषयस्त्रीपुरुषत्रिसंस्कृतलक्षणनिमित्तानि दश ।
[449।13]
शून्यतानात्मशुन्यतः ।
[449।14]
प्रवर्तते
[449।15]
अनात्मशून्यताकाराभ्यां संप्रयुक्तः शून्यतासमाधिद्वर्च्याकारः ।
[449।16]
अप्रणिहितः सत्याकारैरतः परैः
[449।17]
परैः शेषैः सत्याकारैः संप्रयुक्तः समाधिप्रणिहितो दशाकारः ।
[449।17-449।18]
अनित्यदुःखतद्धेतुभ्य उद्वेगात् मार्गस्य च कोलोपमतया ऽवश्यत्याज्यत्वात्तदाकारः समाधिरप्रणिहितः ।
[450।01]
तदतिक्रमाभिमुखत्वात् शून्यतानात्मताभ्यां तु नोद्वेगो निर्वाणसामान्यात् ।
[450।01-450।02]
त एते त्रयः समाधयो द्विविधाः ।
[450।03]
शुद्धामलाः
[450।04]
शुद्धकाश्चानास्रवाश्च ।
लौकिकलोकोत्तरत्वात् ।
लौकिका एकादशसु भूमिषु ।
[450।05]
लोकोत्तरा यत्र मार्गः ।
[450।06]
निर्मलास्तु ते विमोक्षमुखत्रयम् ।
[450।07]
अनास्रवास्त्वेते त्रयः समाधयस्त्रीणि विमोक्षमुखान्युच्यन्ते ।
[450।07-450।08]
शून्यता विमोक्षमुखमप्रणिहितमानिमित्तं विमोक्षमुखमिति ।
[450।08]
मोक्षद्वारत्वात् ।
पुनश्चोच्यन्ते ।
[450।09]
शून्यताशून्यताद्याख्यास्त्रयो ऽपरसमाधयः
[450।10]
शून्यताशून्यता अप्रणिहिताप्रणिहितः आनिमित्तानिमित्तश्च ।
[450।10-450।11]
शून्यताद्यालम्बनत्वात्तन्नाम ।
[450।11]
तेषां पुनः
[450।12]
आलम्बेते अक्षैक्षं द्वौ शून्यतश्चाप्यनित्यतः ।
[450।13]
अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते ।
[450।13-450।14]
शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्यताकारेण ।
[450।14-450।15]
अप्रणिहिताप्रणिहितो ऽप्यशैक्षमप्रणिहितमनित्याकारेण ।
[450।15-450।16]
न दुःखतो न हेत्वादितो ऽनास्रवस्यातल्लक्षणत्वान्न मार्गाकारैः दूषणीयत्वात् ।
[450।17]
आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम्
[450।18-450।19]
आनिमित्तानिमित्तस्तु समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते ।
[450।19]
शान्ताकारेण ।
अनास्रवस्य प्रतिसंखयानिरोधाभावात् ।
[450।19-450।20]
न निरोधप्रणीतनिःसरणाकारैरनित्यतानिरोधसाधारणत्वादव्याकृतत्वा
दविसंयोगाच्च ।
[450।20-450।21]
एकान्तेन चैते परसमाधयः
[450।22]
सास्रवाः
[451।01]
आर्यमार्गद्वेषित्वात् नह्येवमनास्रवा इति ।
कुत्रोत्पद्यन्ते ।
[451।02]
नृषु
[451।03]
मनुष्येष्वेव न देवेषु ।
कस्योत्पद्यन्ते ।
[451।04]
अकोप्यस्य
[451।05]
नान्यस्यार्हतः ।
कतिभूमिकाः ।
[451।06]
सप्तसामन्तवर्जिताः ।
[451।07]
सप्त सामन्तकानि हित्वान्यास्वेकादशसु भूमिषु ।
[451।07-451।08]
कामधात्वनागम्यध्यानान्तरध्यानारुप्येषु ।
[451।08]
पुनश्चतस्रः समाधिभावना उच्यन्ते ।
[451।08-451।09]
अस्ति समाधिभावना आसेविता भाविता वहुलीकृता दृष्टधर्मसुखविहाराय संवर्तते" इति विस्तरः ।
[451।09]
तत्र
[451।10]
समाधिभावना ध्यानं शुभमाद्यं सुखाय हि
[451।11]
कुशलं प्रथमं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना ।
[451।11-451।12]
तदादिकत्वादन्यान्यपि ज्ञेयानि ।
[451।12-451।13]
नावश्यं संपरायसुखविहारायापरिहिणोर्ध्वोपपन्नपरिनिर्वृतानां तदभावात् ।
[451।14]
दर्शनायाक्ष्यभिज्ञेष्टा
[451।15]
दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय समाधिभावना ।
[451।16]
धीभेदाय प्रयोगजाः ।
[451।17]
प्रयोगजाः सर्वे गुणास्त्रैधातुका अनास्रवाः प्रज्ञाप्रभेदाय समाधिभावना ।
[451।18]
वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षयभावना
[452।01]
यश्चतुर्थध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना ।
[452।01-452।02]
आत्मोपनायिकी किलैषा भगवतो धर्मदेशना ।
[452।02]
अतश्चतुर्भ्य एवाह ।
[452।02-452।03]
कृतः समाधीनां कालगतो निर्देशः ।
[452।04]
इदानीं समाधिसंनिश्रितानां गुणानां निर्देशकाल इति व्याख्यायन्ते
[452।05]
अप्रमाणानि चत्वारि
[452।06]
मैत्री करुणा मुदितोपेक्षा च ।
अप्रमाणसत्त्वालम्बनत्वात् ।
किमर्थं चत्वार्येव ।
[452।07]
व्यापादादिविपक्षतः ।
[452।08]
व्यापादविंहिसा ऽरतिकामरागव्यापादबहुलानां तत्प्रहाणाय चत्वारि यथासंख्यम् ।
[452।09]
अशुभोपेक्षयोः कामरागप्रतिपक्षत्वे को विशेषः ।
[452।09-452।10]
वर्णरागस्याशुभा मैथुनरागस्योपेक्षेति वैभाषिकाः ।
[452।10]
एवं तु युज्यते ।
[452।10-452।11]
मैथूनरागस्याशुभा मातापितृपुत्रज्ञातिरागस्योपेक्षेति ।
[452।11]
तत्र
[452।12]
मैत्र्यद्वेषः
[452।13]
अद्वेषस्वभावा मैत्री
[452।14]
अपि करुणा
[452।15]
करुणाप्येवम् ।
[452।16]
मुदिता सुमनस्कता
[452।17]
सौमनस्यस्वभावा मुदिता ।
[452।18]
उपेक्षा ऽलोभः
[452।19]
अलोभात्मिकोपेक्षा ।
कथं व्यापादप्रतिपक्षः ।
तस्य लोभाकृष्टत्वात् ।
[452।19-452।20]
उभयस्वभावा त्वसौ युज्यते ।
[452।20]
एषां तु मैत्र्यादीनां
[453।01]
आकारः सुखिता दुःखिता वत ।
[453।02]
मोदन्तामिति सत्त्वाश्च
[453।03]
सुखिता वत सत्त्वा इति मनसिकुर्वन् मैत्रीं समापद्यते ।
[453।03-453।05]
दुःखिता वत सत्त्वा इति करुणां मोदन्तां वत सत्त्वा इति मुदितां सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते ।
[453।05]
माध्यस्थ्यात् ।
अतद्वतां सुखाधिमोक्षत्वात् कथं न विपरीतत्वं भवति ।
[453।06]
सन्त्वित्यभिप्रायात् ।
आशयस्याविपरीतत्वाद्वा ऽधिमुक्तिसंज्ञानात् ।
[453।06-453।07]
अथवा क एवं विपरीतत्वे दोषः ।
[453।07]
अकुशलत्वमिति चेत् ।
[453।07-453।08]
न कुशलमूलत्वाद्व्यापादादिप्रतिपक्षत्वाच्च ।
[453।08]
उक्त एषामाकारः ।
[453।09]
कामसत्त्वास्तु गोचरः
[453।10]
कामावचराः सत्त्वा एषामालम्बनम् ।
तदालम्बनानां व्यापादादीनां प्रतिपक्षत्वात् ।
[453।11]
यत्तूक्तमेकां दिशमधिमुच्येतेति तद्भाजनेन भाजनगतं दर्शितम् ।
[453।11-453।12]
कतिभूमिकान्येतानि ।
[453।13]
ध्यानयोर्मुदिता
[453।14]
प्रथमद्वितीयध्यानयोर्मुदिता ।
सौमनस्यत्वात् ।
[453।15]
अन्यानि षट्सु
[453।16]
अन्यानि त्रीणि अप्रमाणानि षट्सु भूमिषु ।
[453।16-453।17]
अनागम्ये ध्यानान्तरेध्यानेषु च ।
[453।17]
सप्रयोगमौलग्रहणात् ।
[453।18]
केचित्तु पञ्चसु ।
[453।19]
केचित् पुनः अनागम्यं हित्वा पञ्चस्वेतानीच्छन्ति ।
दशस्वित्यपरे ।
[453।19-453।20]
कामधातुं सामन्तकानि च प्रक्षिप्य समाहितासमाहितमौलल्प्रयोगग्रहणात् ।
[453।20-453।21]
यदुक्तं "व्यापादादिविपक्षत" इति किमप्रमाणैरपि क्लेशग्रहणं भवति ।
[453।22]
न तैः प्रहाणं
[454।01]
मौलध्यानभूमिकत्वादधिमुक्तिमनस्कारत्वात्सत्त्वालम्बनत्वाच्च ।
[454।01-454।02]
तत्प्रयोगेण तु व्यापादादिविष्कम्भणात्तत्प्रतिपक्षत्वमुक्तम् ।
[454।02]
प्रहाण दूरीकरणाच्च ।
[454।02-454।03]
कामधात्वनागम्यभूमिकानि हि मैत्र्यादीनि मौलाप्रमाणसदृशानि संविद्यन्ते ।
[454।03-454।04]
तैस्तान्विष्कम्भ्य प्रहाणमार्गैः प्रजहाति ।
[454।04]
ततो वीतरागावस्थायां मौलाप्रमाणलाभात् ।
[454।04-454।05]
बलवत्प्रत्ययलाभे ऽपि तैरनाधृष्यो भवति ।
[454।05]
कथं पुनरादिकर्मिको मैत्र्यां प्रयुज्यते ।
[454।05-454।07]
यथा सुखितमात्मानं मन्यते परान्वा शृणोति बुद्धबोधिसत्त्वार्यश्रावकांस्तथा सत्त्वानां तत्सुखमधिमुच्यते एवं सुखिता वत सन्तु सत्त्वा इति ।
[454।07-454।08]
न चेच्छक्नोति क्लेशस्योद्भतवृत्तित्वात् स मित्रपक्षं त्रिधा भित्त्वा ऽधिमात्रे तत्सुखमधिमुच्यते ।
[454।08-454।09]
ततो मध्ये मृदौ च ।
[454।09]
तेषु चेत्समां मैत्रीं लभते तत उदासीनपक्षे ।
[454।09-454।10]
ततः शत्रूपक्षं त्रिधा भित्त्वा मृदौ तत् सुखमधिमुच्यते ।
[454।10]
ततो मध्ये ऽधिमात्रे च ।
[454।10-454।11]
ततश्चेदधिमात्र इव मित्रपक्षे सुखाधिमोक्षो न व्यावर्तते ।
[454।11-454।12]
ततः क्रमेण ग्रामराष्ट्रसुखाधिमोक्षो यावदेकां दिशं यावत्सर्व लोकं मैत्र्या स्फुरति ।
[454।12-454।13]
यस्तु सर्वगुणग्राही समैत्रीं क्षिप्रमुत्पादयति ।
[454।13-454।14]
शक्यं हि समुच्छिन्न कुशलमूले ऽपि गुणग्राहिणा भवितुं प्रत्येकबुद्धे च दोष ग्राहिणा पूर्वं पुण्यापुण्यफलसंदर्शनात् ।
[454।14-454।16]
एवं करुणायां मुदितायां च प्रयुज्यते अमी सत्त्वा बहुविधव्यसनीधनिमग्ना अप्येवं दुःखाद्विमुच्येरन् अप्येवातिप्रमोदेरन्नित्यधिमुच्यमान उपेक्षां तूदासीनपक्षादारभते ।
[454।16-454।17]
एतानि चाप्रमाणानि
[454।18]
नृष्वेव जन्यन्ते
[454।19]
मनुष्येषूत्पाद्यन्ते ।
नान्यत्र ।
[454।20]
किं पुनर्य एकेनाप्रमाणेन समन्वागतः सो ऽवश्यं सर्वैः ।
किन्तु
[454।21]
त्र्यन्वितो ध्रुवम्
[454।22]
तृतीयचतुर्थध्यानोपपन्नो मुदितया न समन्वागतो भवति ।
[454।22-454।23]
त्रिभिस्त्वप्रमाणलाभी नित्यं समन्वागतो भवति ।
[454।24]
अष्टौ विमोक्षाः
[455।01]
रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः ।
[455।01-455।02]
अध्यात्मरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयः ।
[455।02-455।03]
शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति तृतीयः ।
[455।03]
चत्वार आरुप्याः ।
संज्ञावेदितनिरोधश्चाष्टमः ।
तेषां
[455।04]
प्रथमावशुभा
[455।05]
प्रथमौ द्वौ विमोक्षावशुभास्वभावौ ।
[455।05-455।06]
विनीलकाद्याकारत्वात् ।
[455।06]
अत एतयोरशुभावन्नयो वेदितव्यः ।
एतौ च
[455।07]
ध्यानयोर्द्वयोः ।
[455।08]
प्रथमद्वितीययोर्ध्यानयोर्नान्यस्यां भूमौ ।
[455।08-455।09]
कामावचरप्रथमध्यानभूमिकयोर्वर्णरागयोः प्रतिपक्षेण यथासंख्यम् ।
[455।10]
तृतीयो ऽन्त्ये
[455।11]
शुभो विमोक्षश्चतुर्थध्याने ।
[455।12]
स चालोभः
[455।13]
सो ऽप्यलोभस्वभावो नत्वशूभास्वभावः ।
शुभाकारत्वात् ।
[455।13-455।14]
सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः ।
[455।14]
आरुप्यविमोक्षास्तु
[455।15]
शुभारुप्याः समाहिताः
[455।16-455।17]
कुशलाः समाहिता एव चारूप्यविमोक्षाख्यां लभन्ते न क्लिष्टा नाप्यसमाहितास्तद्यथामरणभवे ।
[455।17]
अन्यदाप्यसमाहिताः सन्तीत्यपरे ।
[455।17-455।18]
सामन्तकविमुक्ति मार्गा अपि विमोक्षाख्यां लभन्ते ।
[455।18]
नानन्तर्यमार्गा अधरालम्बनत्वात् ।
[455।18-455।19]
वैमुख्यार्थो हि विमोक्षार्थ इति ।
[455।20]
निरोधस्तु समापत्तिः
[456।01]
संज्ञावेदितनिरोधस्तु अष्टमो विमोक्षो निरोधसमापत्तिः ।
सा च पूर्व निर्दिष्टा ।
[456।02]
संज्ञावेदितवैमुख्यात्सर्वसंस्कृताद्वा ।
समापत्त्यावरणविमोक्षणाद्विमोक्ष इत्यपरे ।
[456।03]
तां तु समापद्यन्ते ।
[456।04]
सूक्ष्मसूक्ष्मादनन्तरम् ।
[456।05]
भवाग्रं हि संज्ञा सूक्ष्मं तत् पुनः सूक्ष्मतरं कृत्वा निरोधं समापद्यन्ते ।
समापन्नानां तु
[456।06]
स्वशुद्धकाधरार्येण व्युत्थानं चेतसा ततः
[456।07-456।08]
भावाग्रिकेण वा शुद्धकेन चेतसा ततो व्युत्थानं भवत्याकिञ्चन्यायतन भूमिकेन वा सास्रवेण ।
[456।08-456।09]
तदेवं तस्याः सास्रवं समापत्तिचित्तं भवति सास्रवानान्तर्य तु व्युत्थानचित्तमिति ।
[456।09]
एषां च विमोक्षाणां
[456।10]
कामाप्तदृश्यविषयाः प्रथमाः
[456।11]
कामावचरमेषां रूपायतनमालम्बनममनोज्ञं मनोज्ञं च यथायोगम् ।
[456।12-456।13]
ये त्वरूपिणः ।
ते ऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः
[456।14-456।15]
आरूप्यविमोक्षाणां स्वभूमिकोर्ध्वभूमिकं दुःखं तद्धेतुनिरोधौ चालम्बनं सर्वश्चान्वयज्ञानपक्षो मार्गः ।
[456।15]
अप्रतिसंख्यानिरोधश्चेति वक्तव्यमाकाशं चैकस्येति ।
[456।16]
कस्मान्न तृतीये ध्याने विमोक्षः ।
[456।16-456।17]
द्वितीयध्यानभूमिकवर्णरागाभावात् सुखमण्डेञ्जितत्वाच्च ।
[456।17]
तस्माच्छुभं विमोक्षमुत्पादयति ।
[456।17-456।18]
अशुभया लीनं संततिं प्रमोदयितुं जिज्ञासनार्थं वा ।
[456।18]
कच्चिदशुभाविमोक्षौ निष्पन्नाविति ।
[456।18-456।19]
एवं च पुनस्तौ निष्पन्नौ भवतो यदि शुभतो ऽपि मनसि कुर्वतः क्लेशो नोत्पद्यत इति ।
[456।20]
द्वाभ्यां हि कारणाभ्यां योगिनो विमोक्षादीनुत्पादयन्ति ।
[456।20-456।21]
क्लेशदूरीकरणार्थं समापत्तिवशित्वार्थं च ।
[456।21]
अरणादिगुणाभिनिर्हाराय आर्यायाश्चर्द्धेः ।
[456।21-456।22]
सा पुनर्यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गादीनि क्रियन्ते ।
[456।22-456।23]
कस्मात्तृतीयाष्टमयोरेव साक्षात्करणमुक्तं नान्येषाम् ।
[456।23-456।24]
प्रधानत्वाद्धातुभूमिपर्यन्तावस्थितत्वाच्च ।
[457।01]
अभिभ्वायतनान्यष्टौ
[457।02-457।03]
अध्यात्मं रूपसंज्ञी वहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णानि दुर्वर्णानि तानि खलु रूपाण्यभिभूयजानात्यभिभूय पश्यतीत्येवंसंज्ञी भवतीदं प्रथममभिभ्वायतनम् ।
[457।04]
एवमधिमात्राणि ।
अध्यात्ममरूपसंज्ञ्येवमेव । इत्येतानि चत्वारि ।
[457।04-457।05]
अध्यात्ममरूपसंज्ञ्येव पुनर्नीलपीतलोहितावदातानि पश्यतीत्यष्टौ भवन्ति ।
[457।05]
तेषां
[457।06]
द्वयमाद्यविमोक्षवत् ।
[457।07]
यथा प्रथमो विमोक्ष एवं द्वे अभिभ्वायतने प्रथमद्वितीये ।
[457।08]
द्वे द्वितीयवत्
[457।09]
यथा द्वितीयो विमोक्ष एवं द्वे अभिभ्वायतने तृतीयचतुर्थे ।
[457।10]
अन्यानि पुनः शुभविमोक्षवत्
[457।11]
यथा शुभो विमोक्ष एवमन्यानि चत्वारि ।
अयं तु विशेषः तैर्वैमुख्यमात्रम् ।
[457।12]
एभिस्त्वालम्बनाभिभवनं यथेच्छमधिमोक्षात् क्लेशानुत्पादाच्च ।
[457।13]
दश कृत्स्नानि
[457।14]
दश कृत्स्नायतनानि निरन्तरकृत्स्नस्फरणात् ।
[457।14-457।15]
पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नानि ।
[457।15]
आकाशविज्ञानानन्त्यायतनकृत्स्ने च ।
तेषाम्
[457।16]
अलोभाष्टौ
[457।17]
प्रथमान्यष्टावलोभस्वभावानि
[457।18]
ध्याने ऽन्त्ये
[457।19]
चतुर्थ एव ध्याने ।
[458।01]
गोचरः पुनः ।
[458।02]
कामाः
[458।03]
कामावचररूपायतनमेषा मालम्बनम् ।
वायोः स्प्रष्टव्यायतन मित्येके ।
[458।04]
द्वे शुद्धकारुप्ये
[458।05]
द्वे पश्चिमे कृत्स्ने शुद्धकारूप्यस्वभावे ।
[458।06]
स्वचतुःस्कन्धगोचरे
[458।07]
स्वभूमिकाश्चत्वारः स्कन्धा अन्योरालम्बनम् ।
[458।07-458।08]
विमोक्षप्रावेशिकान्यभिभ्वायतनानि ।
[458।08]
अभिभ्वायतनप्रावेशिकानि कृत्स्नायतनानि ।
उत्तरोत्तरविशिष्टत्वात् ।
[458।09-458।10]
सर्वाणि चैतानि विमोक्षादीनि पृथग्जनार्यसांतानिकानि स्थापयित्वा निरोधविमोक्षम् ।
[458।11]
निरोध उक्तः
[458।12]
निरोधविमोक्षः पूर्वमेवोक्तः सर्वैः प्रकारैः ।
[458।13]
वैराग्यप्रयोगाप्तं तु शेषितम् ।
[458।14]
निरोधादन्यानि विमोक्षादीनि वैराग्यलाभिकानि प्रायोगिकाणि च ।
[458।14-458।15]
उचितानुचितत्वात् ।
[458।16]
त्रिधात्वाश्रयमारूप्यसंज्ञं शेषं मनुष्यजम्
[458।17]
आरुप्यविमोक्षा आरुप्यकृत्स्ने च त्रैधातुकाश्रयाणि शेषं मनुष्याश्रयमेव ।
[458।18]
उपदेशसामर्थ्येनोत्पादनात् ।
कथं रूपारुप्यधात्वोरारूप्यध्यानविशेषोत्पादनम् ।
[458।19]
त्रिभिः कारणैर्ध्यानारूप्यसमापत्तीनामुपपत्तिर्हेतुकर्मधर्मताबलैः ।
तत्र
[458।20]
हेतुकर्मबलाद्धात्वोरारूप्योत्पादनं द्वयोः ।
[459।01]
द्वयो रूपारूप्यधात्वोरारूप्यसमापत्त्युत्पादनम् ।
[459।01-459।03]
हेतुबलादासन्नाभीक्ष्णाभ्यासात् कर्मबलाच्चोर्ध्वभूमिकस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात् ।
[459।03]
नह्यधस्तादवीत रागेणोर्ध्व शक्यमुत्पत्तुमिति ।
[459।04]
ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च
[459।05-459।06]
रूपधातौ ध्यानोत्पादनमेताभ्यां हेतुकर्मबलाभ्यां धर्मतया च संवर्तनीकाले ।
[459।06]
तदानीं हि सर्वस्त्त्वा एवाधरभूमिकास्तद्ध्यानमुत्पादयन्ति ।
[459।06-459।07]
कृत्स्नानां धर्माणामुद्भूतवृत्तित्वात् ।
[459।07]
कियच्चिरं पुनरयं सद्धर्मः स्थास्यति ।
[459।07-459।08]
यत्रेमे ईदृशानाम् धर्माणां प्रकाराः प्रज्ञायन्ते ।
[459।09]
सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः ।
[459।10]
तत्रागमः सूत्रविनयाभिधर्मा अधिगमो बोधिपक्ष्या इत्येष द्विविधः सद्धर्मः ।
[459।11]
धातारस्तस्य वक्तारः प्रतिपत्तार एव च
[459।12]
आगमस्य हि धारयितारो वक्तारः ।
अधिगमस्य प्रतिपत्तारः ।
[459।12-459।13]
अतो यावदेते स्थास्यन्ति तावत्सद्धर्म इति वेदितव्यम् ।
[459।13]
तेषां तु वर्षसहस्र मवस्थानमाहुः ।
[459।14]
अधिगमस्यैवम् ।
आगमस्य तु भूयांसं कालमित्यपरे ।
[459।15]
यो ऽयमिह शास्त्रे ऽभिधर्म उक्तः किमेष एव शास्त्राभिधर्मो देशितः ।
[459।16-459।19]
काश्मीरवैभाषिकनीतिसिद्धः प्रायो मया ऽयं कथितो ऽभिधर्मः ।
यद्दुर्गृहीतं तदिहास्मदागः सद्धर्मनीतौ मनयः प्रमाणम्
[460।01-460।02]
प्रायेण हि काश्मीरवैभाषिकाणां नीत्यादिसिद्ध एषो ऽस्माभिरबिधर्म आख्यातः ।
[460।02]
यदत्रास्माभिर्दुर्गृहीतं सो ऽस्माकमपराधः ।
[460।02-460।03]
सद्धर्मनीतौ तु पुनर्बुद्धा एव प्रमाणं बुद्धपुत्राश्च ।
[460।04-460।07]
निमीलिते शास्तरि लोकचक्षुषि क्षयं गते साक्षिजने च भूयसा ।
अदृष्टतत्त्वैर्निरवग्रहैः कृतं कुतार्किकैः शासनमेतदाकुलम्
[460।07-460।11]
गते ऽथ शान्तिं परमां स्वयंभुवि स्वयंभुवः शासनधुर्धरेषु च ।
जगत्यनाथे गुनघातिभिर्मतैः निरङ्कुशैः स्वैरमिहाद्य चर्यते
[460।12-460।13]
इति कण्ठगतप्राणं विदित्वा शासनं मुनेः ।
बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः
=====================================================================
[460।14]
॥ अभिधर्मकोशभाष्ये समापत्तीनिर्देशो नामाष्टमकोशस्थानमिति ॥
नवमं कोशस्थानम्
=====================================================================
नमो बुद्धाय
=====================================================================
[461।02]
किं खल्वतो ऽन्यत्र मोक्षो नास्ति ।
नास्ति ।
[461।02-461।03]
किं कारणम् ।
[461।03]
वितथात्मदृष्टिनिविष्टत्वात् ।
[461।03-461।04]
नहि ते स्कन्धसंतान एवात्मप्रज्ञप्तिं व्यवस्यन्ति ।
[461।04]
किं तर्हि ।
[461।04-461।05]
द्रव्यान्तरमेवात्मानं परिकल्पयन्ति आत्मग्राहप्रभवाश्च सर्वक्लेशा इति ।
[461।05-461।06]
कथं पुनरिदं गम्यते स्कन्धसंतान एवेदमात्माभिधानं वर्तते नान्यस्मिन्नभिधेय इति ।
[461।06]
प्रत्यक्षानुमानाभावात् ।
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0