अभिधर्मकोशभाष्य · भाग 661680
नृणां नोत्पत्तिलाभिकम्
[431।01]
मानुष्याणामेतद्यथोक्तमृद्धच्यादिकं नास्त्युपपत्तिप्रातिलम्भिकम् ।
[431।01-431।02]
यत्तर्हि प्रकृतिजातिस्मरा भवन्ति ।
[431।02]
कर्मविशेषजा ऽसौ तेषाम् ।
[431।02-431।03]
त्रिविधा हि पूर्वनिवासानुस्मृतिर्भावनाफलमुपपत्तिलब्धा कर्मजा चेति ॥
=====================================================================
[431।04]
* ॥॥ अभिधर्मकोशभाष्ये ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम्* ॥॥
[431।05]
स्थविरश्रीलामावाकस्य यदत्र पुण्यम् ।
अष्टमं कोशस्थानम्
=====================================================================
ओं नमो बुद्धाय
=====================================================================
[432।02-432।03]
ज्ञानाधिकारेण ज्ञानमयानां गुणानां कृतो निर्देशः ।
[432।03-432।04]
अस्य स्वभावानां तु कर्तव्य इत्यादित एव ध्यानान्यारभ्यन्ते सर्वगुणाश्रयत्वात् ।
[432।05]
द्विधा ध्यानानि
[432।06]
समासतो द्विविधानि ध्यानान्युपपत्तिसमापत्तिध्यानभेदात् ।
तानि पुनः
[432।07]
चत्वारि
[432।08]
प्रथमं ध्यानं यावच्चतुर्थम् ।
तत्र ध्यानोपपत्तयः पुनर्न वक्तव्याः ।
[432।08-432।09]
लोकनिर्देशकोशस्थाने हि
[432।10]
प्रोक्तास्तदुपपत्तयः ।
[432।11]
कथं प्रोक्ताः ।
[432।12]
"पृथक् पृथक् ।
[432।13]
ध्यानं त्रिभूमिकं तत्र चतुर्थ त्वष्टभूमिकमि"ति ।
[432।14]
समापत्तिध्यानं तु वक्तव्यम् ।
अत उच्यते
[432।15]
समापत्तिः शुभैकाग्य्रं
[432।16]
अभेदेन कुशलचित्तैकाग्रता ध्यानम् ।
समाधिस्वभावत्वात् ।
[432।17]
पञ्चस्कन्धास्तु सानुगम्
[432।18]
सपरिवारं तु पञ्चस्कन्धस्वभावं वेदितव्यम् ।
केयमेकाग्रता नाम ।
एकालम्बनता ।
[432।19]
एवं तर्हि चित्तान्येवैकालम्बनानि समाधिर्न चैतसिकं धर्मान्तरमिति प्राप्नोति ।
[433।01]
न चित्तान्येव समाधिः ।
येन तु तान्येकाग्राणि वर्तन्ते स धर्मः समाधिः ।
[433।01-433।02]
सैव चित्तैकाग्रता ।
[433।02-433।03]
ननु च क्षणिकत्वात्सर्वं चित्तमेकाग्रं द्वितीयस्य तस्मादविक्षेप इति चेत् ।
[433।03]
संप्रयुक्ते समाधिवैयर्थ्यम् ।
[433।03-433।04]
यत एव च स्माधिस्तत एव चित्तानामेकालम्बनत्वं किं नेष्यते ।
[433।04-433।05]
महाभूमिकत्वाच्च समाधेः सर्वचित्तानामेकाग्रताप्रसङ्गः ।
[433।05]
न दुर्बलत्वात्समाधेः ।
चित्तान्येवैकाग्राणि समाधिः ।
[433।06-433।07]
तथा ह्यधिचित्तं शिक्षा चित्तपरिशुद्धिप्रधानं च सूत्रे चत्वारि ध्यानान्युक्तानीत्यपरे ।
[433।08]
ध्यानमिति कोऽर्थः ।
ध्यायन्त्यनेनेति ।
प्रजानन्तीत्यर्थः ।
[433।08-433।09]
समाहितचित्तस्य यथाभूतप्रज्ञानात् ।
[433।09]
चिन्तनार्थो ह्येष धातुः ।
चिन्तनं च प्रज्ञेति सिद्धान्तः ।
[433।09-433।10]
एवं तर्हि सर्वसमाधिध्यानप्रसङ्गः ।
[433।10]
न ।
प्रकर्षयुक्ते तन्नामविधानाद्भास्करवत् ।
[433।10-433।11]
कश्च प्रकर्षयुक्तः ।
[433।11]
यो ऽङ्गसमायुक्तः समाधिः ।
[433।11-433।12]
स हि शमथविपश्यनाभ्यां युगन्द्धवाहित्वाद्दृष्टधर्मसुखविहार उक्तः सुखा च प्रतिपदिति ।
[433।12]
सुतरां तेन ध्यायन्ति ।
[433।13]
क्लिष्टस्य कथं ध्यानत्वम् ।
मिथ्योपनिध्यानात् ।
अतिप्रसङ्गः ।
[433।13-433।14]
न । तत्प्रतिरूप एव तत्संज्ञाविनेवेशात् पूतिबीजवत् ।
[433।14]
उक्तानि चाकुशलानि ध्यानान्यपि भगवता ।
[433।15]
कीदृशं पुनः कुशलमैकाग्य्रं प्रथमं ध्यानं कीदृशं यावच्चतुर्थम् ।
[433।15-433।16]
प्रथमं तावत्
[433।17]
विचारप्रीतिसुखवत्
[433।18]
विचारप्रीतिसुखसंयुक्तं कुशलमैकाग्य्रं तत् प्रथमं ध्यानम् ।
[433।18-433।19]
विचारवचनाद्वितर्को ऽप्युक्तो भवति ।
[433।19]
साहचर्याद्धूमाग्निवत् ।
[433।19-433।20]
न हि प्रीतिसुखवान्विचारो विना वितर्केणास्ति ।
[433।20]
शेषं पुन्र्ध्यानत्रयं
[433।21]
पूर्वपूर्वाङ्गवर्जितम् ।
[433।22]
शुभैकाग्र्यम् इति वर्तते ।
[433।22-433।23]
विचारविवर्जितं प्रीतिसुखवत् द्वितीयं विचारप्रीतिवर्जितं तृतीयं विचारप्रीतिसुखवर्जितं चतुर्थमिति ।
[433।23-433।24]
यथा ध्यानानि
[433।25]
तथारूप्याः
[434।01]
केन प्रकारेण ।
एते ऽपि हि द्विधा उपपत्तिसमापत्तितः ।
[434।01-434।02]
चत्वारश्च एषामपि चोपपत्तय उक्ताः ।
[434।02-434।03]
समापत्त्यारुप्यास्वभेदेन कुशलैकाग्रतास्वभावा इत्यनेन प्रकारेण सपरिवाराः
[434।04]
चतुस्कन्धाः
[434।05]
अनुपरिवर्तिरूपाभावात्
[434।06]
अधोभूमिविवेकजाः
[434।07]
चतुर्थध्यानविवेकजं ह्याकाशानन्त्यायतनम् ।
[434।07-434।08]
तद्विवेकजं विज्ञानानन्त्यायतनम् ।
[434।08]
तद्विवेकजमाकिञ्चन्यायतनम् ।
[434।08-434।09]
तद्विवेकजं नैवसंज्ञानासम्ज्ञायतनमित्येवं चत्वार आरुप्याः ।
[434।09]
को ऽयं विवेको नाम ।
येन मार्गेणाधस्ताद्विमुच्यते ।
[434।09-434।10]
वैराग्यगमनात् ।
[434।10]
त एव चारुप्याः
[434।11]
विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः ।
[434।12]
आकाशानन्त्यायतनसामन्तकं चतुर्थध्यानालम्बनत्वाद्विभूतरूपसंज्ञाख्यां न लभते ।
[434।13]
न हि तत्र रूपसंज्ञा विभूता न विगतेत्यर्थः ।
[434।13-434।14]
यदुक्तं "चतुस्कन्धा" इति साध्यं तावदेतदारुप्येषु रूपं नास्तीति ।
[434।14]
यदि हि स्यात्कथमारुप्या उच्येरन् ।
[434।14-434।15]
ईषद्रूपत्वा दापिङ्गलवत् ।
[434।15]
कीदृशं तावदीषद्रूपं तत्रेष्यते ।
[434।15-434।16]
यदि कायवाक् संवरमात्रं कथं तदभावे तत्संवरौ भविष्यतः ।
[434।16]
न चासति भूते भौतिकं युज्यते ।
[434।17]
अनास्रवसंवरवच्चेत् ।
सास्रवभूतसद्भावात् ।
स्मापत्तावपि तत्प्रतिषेध उक्तः ।
[434।18]
अथ कायो ऽप्यस्तीन्द्रियाण्यपि रूपीणि ।
कथं तदीषद्रूपा इष्यन्ते ।
[434।18-434।19]
परिमाणाल्पत्वाच्चेत् ।
[434।19]
उदकजन्तुकेष्वप्यदृश्यरुपेषु प्रसङ्गः ।
अच्छत्वाच्चेत् ।
[434।19-434।20]
अन्तराभवरूपावचरेष्वपि प्रसङ्गः ।
[434।20]
यतो नाच्छतरं चेत् ।
भवाग्रमेवारुप्यं स्यात् ।
[434।20-434।21]
समापत्तिवत्तदुपपत्तिविशेषात् ।
[434।21-434।22]
ध्यानोपपत्तिरूपस्यापि चाधरभूमिकेन्द्रियाग्रहणात् कस्तत्र विशेषः ।
[434।22]
द्वयोरन्वर्था संज्ञा नारुप्यधातोरिति चेत् ।
का ऽत्र युक्तिः ।
[434।22-434।25]
आयुरुष्मणोः संसृष्टवचनान्नडकलापीद्वयवन्नामरूपयोरन्योन्यनिश्रितवचना "द्विज्ञानप्रत्ययं नामरूपमि"ति वचनात् अन्यत्ररूपाद्यावत्संस्कारेभ्यो विज्ञानस्यागतिगतिप्रतिषेधाच्चारूप्येषु रूपास्तित्वसिद्धिरिति चेत् ।
[434।25]
न ।
[434।25-434।26]
संप्रधार्यं तावदेतद्यदिदमायुरुष्मणोः संसृष्टत्वमुक्तम् ।
[434।26]
किमिदं कामावचरमायुः संधायोक्तमाहोस्वित्सर्वमिति ।
[434।26-435।01]
यच्च नामरूपयोरन्योन्याश्रितत्वमुक्तं किमिदं कामरूपावचरं नाम संधायोक्तमाहोस्वित्सर्वमिति ।
[435।01-435।02]
यच्च विज्ञानप्रत्ययं नामरूपमुक्तं किमत्र सर्व विज्ञानं नामरूपस्य प्रत्ययमुक्तमाहोस्वित्सर्वे नामरूपं विज्ञानप्रत्ययमिति ।
[435।03]
यच्चान्यत्र रूपादिभ्यो विज्ञानस्यागतिप्रतिषेधः ।
[435।03-435।04]
किमत्र सर्वैरेव तैर्विना तत्प्रतिषेध आहोस्वित् एकेनापीति ।
[435।04]
अविशेषवचनान्न संप्रधार्यमिति चेत् ।
[435।04-435।05]
अतिप्रसङ्गः ।
[435।05]
बाह्यस्यापि ह्यष्मण आयुषा बिना भावो न प्राप्नोति ।
[435।05-435।06]
बाह्यस्यापि च रूपस्य नामाश्रितत्वमविशेषवचनात् ।
[435।06-435।07]
चतुर्विज्ञानस्थितिवच्चाहारचतुष्कवचनाद्रूपारुप्यधात्वोरपि कवडीकाराहारप्रसङ्गः ।
[435।07-435।08]
"अतिक्रम्य देवान् कवडीकारा हारभक्षानि"ति वचनात् प्रीत्याहारवचनाच्चाप्रसङ्ग इति चेत् ।
[435।08-435।09]
आरुप्येष्वपि रूपस्याप्रसङ्गः ।
[435।09]
"रूपाणां निःसरणमारुप्याः" ।
[435।09-435।10]
"ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्याः" ।
[435।10-435।11]
"अरुपिणः सन्ति सत्त्वाः सर्वशो रूपसंज्ञानां समतिक्रमादि"ति वचनात् ।
[435।11]
सति हि रुपे स्वं रूपमवश्यं संजानीरन्निति ।
[435।11-435।12]
औदारिकमधोभूमिकं रूपमभिसंधायोक्तमिति चेत् ।
[435।12]
कवडीकारे ऽपि तुल्यम् ।
[435।12-435।13]
ध्यानानामपि चाधोभूमिनिःसरणत्वादारुप्य प्रसङ्गः ।
[435।13]
वेदनादिनिःसरणं च किं नोक्ताः ।
[435।14]
अधोभूमिकवेदनानिःसरणात् ।
रूपजातिं तु कुत्स्नामतिक्रान्ता न वेदनादिजातिम् ।
[435।15]
अतो रूपाणां निःसरणमुक्ताः ।
[435।15-435।16]
भवेन भवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणादसर्वानत्यन्त निःसरणाच्च ।
[435।16-435।17]
ध्यानेसु चोक्तं भगवता "यत्तत्र भवति रूपगतं वा यावद्विज्ञानगतं वेति ।
[435।17-435।18]
आरुप्येषु तूक्तं "यत्तत्र भवति वेदनागतं वा यावद्विज्ञानगतं वे"ति ।
[435।18-435।19]
सत्यां तेसु रूपजातौ कस्माद्रूपगतं वेति नावक्ष्यत् ।
[435।19]
तस्मात्
[435।20]
नारुप्ये रूपसद्भावः
[435।21]
कथमिदानीमनल्पकल्पोच्छिन्नाद्रूपात् पुनरपि रुपोत्पत्तिस्ततः प्रच्युतानाम् ।
[435।22]
रुपोत्पत्तिस्तु चित्ततः
[435।23]
रूपस्य चित्तादेवोत्पत्तिस्तद्विपाकहेतुपरिभाविताल्लब्धवृत्तितः ।
[435।23-435।24]
कथमनाश्रित्य रूपं चित्तं वर्तते ।
[435।24]
कस्मान्न वर्तितव्यम् ।
इहैवमदर्शनात् ।
[435।24-435।25]
कवडीकारान्तरेणा ऽपि विना रूपधातौ न वर्तितव्यम् ।
[435।25]
किं कारणम् ।
इहैवमदर्शनात् ।
[435।25-435।26]
उक्तं च पूर्वं यथा वर्तते ।
[435।26]
गतमेतदिदं वक्तव्यम् ।
[436।01-436।02]
किमेपामाकाशानन्त्यायतनादीनामाकाशादय एवालम्बनं यत एवं समाख्यायते ।
[436।02]
न हि ।
कथं तर्हि ।
त्रयस्तावत् ।
[436।03]
आकाशानन्त्यविज्ञानानन्त्याकिञ्चन्यसंज्ञकाः ।
[436।04]
तथाप्रयोगात्
[436।05-436।06]
अनन्तमाकाशमनन्तं विज्ञानं नास्ति किञ्चिदित्येव मनसिकुर्वाणस्तेषु प्रयुज्यन्ते यथासंख्यम् ।
[436।06]
अत एषामेताः संज्ञा इति ।
[436।07]
मान्द्याक्तु नसंज्ञनाप्यसंज्ञकः
[436।08]
मृदुत्वात्तु संज्ञाया नैवसंज्ञानासंज्ञायतनमुक्तम् ।
[436।08-436।09]
न हि सा पट्वी संज्ञा न च पुनर्नैव संज्ञेति ।
[436।09-436।10]
"यद्यपि तत्राप्येवं प्रयुज्यन्ते संज्ञारोगः संज्ञागण्दः संज्ञाशल्यः आसंज्ञिकसंमोहः एतच्छान्तमेतत्प्रणीतं यदुत नैवसंज्ञानासंज्ञायतनमिति ।
[436।11]
कस्मात्तु तैस्तदेवं गृह्यत इत्यवश्यमिदं वक्तव्यं जायते ।
मृदुत्वात्संज्ञामित्येतदेवोक्तम् ।
[436।12]
इति मौलं समापत्तिद्रव्यमष्टविधं
[436।13-436।14]
इत्येतान्यष्टौ मौलानि समापत्तिद्रव्याणि यदुत चत्वारि ध्यानानि चत्वार आरुप्या इति ।
[436।14]
तेषां पुनः
[436।15]
त्रिधा ।
[436।16]
सप्त
[436।17]
भवाग्रादन्यानि सप्त त्रिविधानि ।
[436।18]
आस्वादनावच्छूद्धानास्रवाणि
[436।19]
आस्वादनासंप्रयुक्तानि शुद्धकान्यनास्रवाणि च ।
[437।01]
अष्टमं द्विधा
[437।02]
भवाग्रमास्वादनासंप्रयुक्तं शुद्धकं च ।
अनास्रव नास्ति ।
तत्र पुनः
[437।03]
आस्वादनासंप्रयुक्तं सतृष्णं
[437।04]
तृष्णा ह्यास्वादना ।
[437।05]
लौकिकं शुभम् ।
[437।06]
शुद्धकं
[437।07-437।08]
लौकिकं कुशलं समापत्तिद्रव्यं शुद्धकमुच्चयते ऽलोभादि शुद्धधर्मयोगात् ।
[437।08]
किं पुनस्तेनास्वादनासंप्रयुक्तेनास्वाद्यते ।
[437।09]
तत्तदास्वाद्यं
[437।10]
तच्छुद्धकं समापत्तिद्रव्यं तेनास्वाद्यते समनन्तरातीतम् ।
[437।10-437।11]
यदास्वादयति तस्माद्व्युत्थितो येनास्वादयति तत्समापन्नः ।
[437।12]
लोकत्तरमनास्रवम्
[437।13]
यल्लोकोत्तरं समापत्तिद्रव्यं तदनास्रवम् ।
[437।13-437।14]
एषां च समापत्तिद्रव्याणां ध्यानान्येव भवन्ति नारुप्याः ।
[437।14]
तत्र
[437।15]
पञ्चाद्ये
[437।16]
प्रथमे भागे पञ्चाङ्गानि ।
[437।17]
तर्कचारौ च प्रीतिसौख्यसमाधयः ।
[437।18-437।19]
वितर्को विचारः प्रीतिः सुखं चित्तैकाग्रता चेत्येतानि पञ्चाङ्गानि समाधिः किलाङ्गं ध्यानं च ।
[437।19]
शेषाण्यङ्गानीति ।
[437।19-437।20]
यथा चतुरङ्गा सेना एवं पञ्चाङ्गं ध्यानम् ।
[438।01]
प्रीत्यादयः प्रसादश्च द्वितीये ऽङ्गचतुष्टयम्
[438।02]
द्वितीये ध्याने चत्वार्यङ्गानि ।
[438।02-438।03]
अध्यात्मसंप्रसादः प्रीतिः सुखं चित्तेकाग्रता च ।
[438।04]
तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः ।
[438।05]
तृतीये तु ध्याने पञ्चाङ्गानि ।
उपेक्षा स्मृतिः संप्रज्ञानं सुखं स्माधिश्च ।
[438।06]
समाधिपर्यायो हि स्थितिः ।
"सम्यक्समाधिः कतमः ।
[438।06-438।07]
या चित्तस्य स्थिति"रिति सूत्रे वचनात् ।
[438।08]
चत्वार्यन्ते ऽसुखादुःखोपेक्षास्मृतिसमाधयः
[438।09]
चतुर्थं ध्यानमन्त्यम् ।
तत्र चत्वार्यङ्गानि ।
[438।09-438।10]
अदुःखासुखा वेदना उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिः समाधिश्च ।
[438।10-438।11]
तान्येतान्यष्टादश ध्यानाङ्गानि भवन्ति ।
[438।11]
प्रथमतृतीययोः पञ्चाङ्गत्वात् ।
द्वितीयचतुर्थयोश्चतुरङ्गत्वात् ।
[438।12]
नामत एवम् ।
[438।13]
द्रव्यतो दश चैकं च
[438।14]
द्रव्यत एतान्येकादश भवन्ति ।
प्राथमध्यानिकानि पञ्च ।
[438।14-438।15]
द्वितीये ऽध्यात्मसंप्रसादो वर्धते ।
[438।15]
तृतीये उपेक्षास्मृतिसंप्रज्ञानसुखानि ।
चतुर्थे ऽदुःखासुखा वेदनेति ।
[438।16]
अत एवोच्यते यान्यङ्गानि प्रथमे ध्याने द्वितीये ऽपि तानीति चतुष्कोटिकम् ।
[438।16-438।917]
प्रथमा कोटिर्वितर्कविचारौ ।
[438।17]
द्वितीया अध्यात्मसंप्रसादः ।
[438।17-438।18]
तृतीया प्रीतिः सुखं चित्तैकाग्रता च ।
[438।18]
चतुर्थी कोटिरुक्तनिर्मुक्ता धर्मा इति ।
[438।18-438।19]
एवं सर्वाणि ध्यानाङ्गानि परस्परं योज्यानि ।
[438।19]
कस्मात् ।
तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते ।
[438।19-438।20]
यस्मात्तद्वेदनासुखं ध्यानयोस्तु
[438।21]
प्रस्रब्धिसुखमाद्ययोः ।
[438।22]
प्रथमद्वितीययोस्तु ध्यानयोः प्रस्रब्धिसुखमित्युक्तम् ।
[438।22-438।23]
इह प्रस्रब्धिसुखं तत्र वेदनासुखमिति कुत एतत् ।
[438।23]
द्वयोर्ध्यानसमापत्त्योः सुखेन्द्रियायोगात् ।
[438।24]
न हि तत्तयोः कायिकं युज्यते ।
समापन्नस्य विज्ञानकायाभावात् ।
[438।24-438।25]
नापि चैतसिकं प्रीतिवचनात् ।
[438।25]
प्रीतिर्हि सौमनस्यम् ।
[438।25-438।26]
न च सुखसौमनस्ययोर्यौगपद्यमस्ति ।
[438।26]
न चापि तयोः पर्यायेण ध्याने वृत्तिर्युक्ता पञ्चाङ्गवचनादिति ।
[439।01]
अपरे पुनराहुः ।
[439।01-439।02]
नास्त्येव चैतसिकं सुखेन्द्रियं त्रिष्वपि हि ध्यानेषु ।
[439।02]
कायिकमेव सुखमङ्गं व्यवस्थापितमिति ।
[439।02-439।03]
यत्तर्हि सुत्र उक्तं "सुखेन्द्रियं कतमत् ।
[439।03-439।04]
यत्सुखवेदनीयेन स्पर्शेन स्पृष्टस्योत्पद्यते कायिकं चैतसिकं सातं वेदितं वेदनागतमिदमुच्यते सुखेन्द्रियमि"ति ।
[439।04]
अध्यारोपित एष पाठः ।
[439।05]
केनापि सर्वनिकायान्तरेषु कायिकमित्येव पाठात् ।
[439।05-439।06]
"सुखं च कायेन प्रतिसंवेदयत" इति स्वशब्देन वचनाच्च ।
[439।06]
मनस्कायेनेतिचेत् ।
एवमुक्त्वा को गुणः ।
[439।06-439।07]
चतुर्थे ध्याने प्रस्रब्धिभूयस्त्वे ऽपि सुखावचनाच्च ।
[439।07-439।08]
सुखवेदनानुकूला प्रस्रब्धिः सुखमिति चेत् ।
[439।08]
तृतीये प्रस्रब्धिसुखावचनं कस्मात् ।
उपेक्षोपहतत्वादिति चेत् ।
[439।08-439।09]
न उपेक्षयैव तद्वृद्धिः ।
[439।09]
पूर्विकाभ्यस्ताद्विशेषात् ।
[439।09-439।11]
"यस्मिन्समये आर्यश्रावकः प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्वोपसंपद्य विहरती"त्यत्र सूत्रे प्रस्रब्धिसुखयोः पृथग्वचनान्न प्रस्रब्धिरेव सुखम् ।
[439।11]
समापन्नस्य कथम् कायविज्ञानमिति चेत् ।
[439।12]
समाधिविशेषजेन प्रस्रब्धिसंज्ञकेन सुखवेदनीयेन वायुना कायस्फुरणात् ।
[439।12-439।13]
बहिर्विक्षेपास्समाधिब्रंश इति चेत् ।
[439।13]
न ।
[439।13-439।14]
समाधिजस्यान्तःकायसंभूतस्य कायसुखस्य समाध्यनुकूलत्वात् ।
[439।14-439।15]
कायविज्ञा नकाले व्युत्थितः स्यादिति चेत् ।
[439।15]
न ।
अत एव ।
[439।15-439।16]
कामावचरेण कायेन्द्रियेण रूपावचरस्प्रष्टव्यविज्ञानानुत्पत्तिरिति चेत् ।
[439।16]
न ।
प्रस्रब्धिविज्ञानस्योत्पत्तेः ।
[439।16-439।17]
अनास्रवे अपि स्प्रष्टव्यकायविज्ञाने स्याताम् ।
[439।17]
मा भूत्किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवमिति चेत् ।
[439।18]
कायिकप्रस्रब्धिवोध्यङ्ग वचनात् ।
इष्टे बोध्यङ्गानुकूलत्वादिति चेत् ।
[439।19]
अनास्रवत्वमप्येवम् ।
"सास्रवा धर्माः कतमे ।
[439।19-439।20]
चक्षुर्यावदेव स्प्रष्टव्यमि"त्यस्य सूत्रस्य विरोधादिति चेत् ।
[439।20]
न ।
अन्यस्प्रष्टव्य कायविज्ञानाभिसंधिवचनात् ।
[439।21]
न चानास्रवे किञ्चिदङ्गं सास्रवं किचिदनास्रवं स्यादिति चेत् ।
[439।21-439।22]
अयौगपद्यात्को दोषः सुखप्रीत्यसमवधानान्न पञ्चाङ्गं स्यादिति चेत् ।
[439।22-439।23]
न संभवं प्रत्युपदेशान्द्वितर्कविचारवत् ।
[439।23]
साध्यमिति चेत् ।
[439।23-439।24]
सिद्धं चित्तस्यौदारिकसूक्ष्मतयोर्विरोधात् दोषावचनाच्च ।
[439।24-439।25]
तस्माद्यान्येव प्रथमध्याने पञ्चाङ्गानि तेषां द्वित्रिचतुरङ्गापकर्षेण द्वितीयादिध्यानव्यवस्थानम् ।
[439।25-440।01]
अत एव च प्रथमे ध्याने पञ्चानामङ्गत्वमुक्तम् ।
[440।01]
तदपकर्षेणोत्तरध्यानव्यवस्थापनात् ।
न तु संज्ञादीनामङ्गत्वमुक्तम् ।
[440।02]
किमर्थ वा पञ्चानामेवाङ्गत्वमुक्तम् ।
उपकारकत्वादिति चेत् ।
न ।
[440।02-440।03]
वितर्कविचाराभ्यां स्मृतिप्रज्ञयोरपकारकतरत्वात् ।
[440।03]
अस्त्येष एकेषां वादः ।
[440।03-440।04]
नैव तु पूर्वाचार्या एवं निर्दिशन्ति स्म यावन्तः प्रज्ञान्तम् ।
[440।04]
तस्माद्विचार्यमेतत् ।
[440।04-440।05]
अध्यात्मसंप्रसादो नाम क एष धर्मः ।
[440।05-440।06]
वितर्क-विचार-क्षोभ-विरहात् प्रशान्तवाहिता संततेर् अध्यात्मसंप्रसादः ।
[440।06-440।07]
सोर्मिकेव हि नदी वितर्कविचारक्षोभिता संततिर् अप्रसन्ना वर्तते इति ।
[440।07-440।08]
न तर्हि स द्रव्यान्तरम् इति कथं द्रव्यत एकादशाङ्गानि भवन्ति ।
[440।08]
तस्मात्तर्हि
[440।09]
श्रद्धा प्रसादः
[440।10]
तस्य हि द्वितीयध्यानलात्समाहिभूमिनिह्सरणे संप्रत्यय उत्पद्यते।
[440।10-440।11]
सो ऽत्रध्यात्मसंप्रसाद इति ।
[440।11]
नैव हि वितर्कविचारसमाधयो नाप्यधात्मसंप्रसादो द्रव्यान्तराणीत्यपरे।
[440।11-440।12]
कथमसति द्रव्यान्तरत्वे चैतसिकत्वं सिद्ध्यति ।
[440।12]
अवस्थाविसेसो हि नाम चेतसश्चेतसिको भवति ।
[440।13]
नत्वेष शस्त्रसिद्धान्तः । यदुक्तं "प्रीतिर्हि सौमनस्यम्" इति ।
[440।13-440।14]
कथमिदं गम्यते ।
किमन्यत् भवतु ।
[440।14]
यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः
[440।14-440।15]
सौमनस्यं तु त्रिष्वपि ध्यानेषु सुखमिति ।
[440।15]
[440।14-440।15]
यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः सौमनस्यं तु त्रिष्वपि ध्यानेसु सुखमिति ।
[440।15-440।16]
न वै सुखं ध्यानेषु सौमनस्यं युज्यते ।
[440।17]
प्रीतिस्तु सौमनस्यं द्विधागमात्
[440।18-440।19]
उक्तं हि भगवता अविपरीतकसूत्रे तृतीयं ध्यानमुक्त्वा "अत्रास्योत्पन्नं सौमनस्येन्द्रियमपरिशेषं निरुध्यत इति ।
[440।19-440।20]
चतुर्थे च ध्याने सुखेन्द्रियं निरुध्यत" इत्युक्तम् ।
[440।20-440।21]
पुनश्चोक्तं "सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तङ्गमादि"त्यतो ऽपि न तृतीये ध्याने सौमनस्येन्द्रियमस्ति ।
[440।22]
तस्मात् प्रीतिरेव सौमन्स्यं न सुखम् ।
[441।01-441।02]
किं पुनः क्लिष्टेष्वपि ध्यानेषु यथाविहितान्यङ्गानि भवन्ति ।
[441।02]
न हि किं तेषु न विद्यते ।
[441।03]
क्लिष्टेष्वसत्प्रीतिसुखं प्रसादः संप्रधीः स्मृटिः ।
[441।04]
उपेक्षास्मृतिशुद्धिश्च
[441।05]
प्रथमे ध्याने विवेकजं प्रीतिसुखं नास्ति ।
क्लेशाविविक्तत्वात् ।
[441।05-441।06]
द्वितीये ध्याने ऽध्यात्मसंप्रसादो नास्ति ।
[441।06]
क्लेशाविलत्वात् ।
तृतीये स्मृतिसंप्रजन्यं नास्ति ।
[441।07]
क्लिष्टसुखसंब्र्हमितत्वात् ।
च्चतुर्थे उपेक्षास्मृतिपरिशुद्धिर्नास्ति ।
क्लेशमलिनत्वात् ।
[441।08]
एवं तावत् केचिदाहुः ।
[441।09]
केचित् प्रस्रब्ध्युपेक्षणे
[441।10]
केचित्पुनः प्रथमद्वितीययोः क्लिष्टयोः प्रस्रब्धिर्नास्ति ।
[441।10-441।11]
तृतीयचतुर्थयोरुपेक्षा नास्ति ।
[441।11]
कुशलल्महाभूमिकत्वादनयोरिति ।
[441।11-441।12]
त्रीणि च ध्यानानि सेञ्जितानि उक्तानि भगवता ।
[441।12]
सापक्षालत्वात् ।
[441।13]
अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम् ।
[441।14]
के पुनस्ते ऽपक्षालाः ।
[441।15]
वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम्
[441।16]
वितर्कविचारौ सुखदुःखे सौमनस्यदौर्मनस्ये श्वासप्रश्वासाश्च ।
[441।16-441।17]
एषामष्टानामेकोऽप्यपक्षालश्चतुर्थे नास्त्यतस्तदानेञ्ज्यमुक्तम् ।
[441।17-441।18]
वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेञ्ज्यं चतुर्थं ध्यानं सूत्रे निर्वात प्रदीपनिदर्शनादित्यपरे ।
[441।19]
द्वयोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात् ।
तृतीये सुखं चतुर्थे उपेक्षा ।
[441।20]
तस्किं या ध्यानसमापत्तिषु वेदनास्ता एव ध्यानोपपत्तिषु ।
[441।21]
नेत्याह ।
किं तर्हि ।
[442।01-442।02]
सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते ।
सुख्होपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु
[442।03]
प्रथमध्यानोत्पत्तो तिस्रो वेदनाः ।
[442।03-442।04]
सुखं त्रिविज्ञानकायिकं सौमनस्यं मनोभूमिकम् ।
[442।04]
उपेक्षा चतुर्विज्ञानकायिकी ।
[442।04-442।05]
द्वितीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके ।
[442।05]
सुखं नास्त्यस्य विज्ञानकायाभावात् ।
[442।05-442।06]
तृतीयध्यानोपपत्ती द्वे वेदने ।
[442।06]
सुखोपेक्षे मनोभूमिके ।
चतुर्थध्यानोपपत्तावुपेक्षैव ।
[442।07-442।08]
यदि द्वितीयादिषु ध्यानेषु त्रयो विज्ञानकाया न संविद्यन्ते वितर्कविचारौ च कथम् ते पश्यन्ति यावत्स्पृशन्ति कथम् चाविज्ञप्ति समुत्थापयन्ति ।
[442।08-442।09]
न वे केषूपपन्नानां चक्षुर्विज्ञानादयोन सन्ति ।
[442।09]
न तु स्वभूमिकाः ।
किं तर्हि ।
[442।10]
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
[442।11]
द्वितीयादौ तदाद्याप्तं
[442।12-442।13]
प्रथमध्यानभूमिकं चक्षुःश्रोत्रकायविज्ञानं विज्ञप्तिसमुत्थापकं च द्वितीयादिषु च ध्यानेषु संमुखीकुर्वन्ति ।
[442।13-442।14]
निर्माणचित्तवद्येन ते पश्यन्ति यावद्विज्ञप्ति समुत्थापयन्ति ।
[442।15]
अक्लिष्टाव्याकृतं च तत्
[442।16-442।17]
अनिवृताव्याकृतं च तत् प्रथमध्यानभूमिकं विज्ञानं वेदितव्यं यत्ते संमुखीकुर्वन्ति ।
[442।17]
न क्लिष्टं वीतरागत्वान्न कुशलं हीनत्वादिति ।
[442।18]
अवसितं ध्यानकार्यम् ।
[442।19]
अथ शुद्धकादीनां ध्यानारुप्याणां कथं लाभः ।
[442।20]
अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः ।
[442।21]
असमन्वागतस्तेन शुद्धकं धयनमारुप्यं वा प्रतिलभते ।
अधोभूमिवैराग्याद्वा ।
[442।22]
अधोभूम्युपपत्तितो वा ।
अन्यत्र भवाग्रात् ।
न हि तस्योपपत्तितो लाभः ।
[442।23]
अतद्वानिति किमर्थ समन्वागतः ।
[442।23-442।24]
शुद्धकेन प्रयोगतो ऽपि निर्वेधभागीयं शुद्धकं प्रतिलभते परिहाणितो वा हानभागीयम् ।
[442।24-443।01]
अत एवोच्यते "स्याच्छुद्धकं ध्यानं वैराग्येण प्रतिलभेत वैराग्येण विजह्यात् ।
[443।01]
एवं परिहाण्या चोपपत्त्या च ।
[443।02]
स्याद्धानभागीयं प्रथमं धयानम् ।
तद्धि कामवैराग्येण लभ्यते ।
[443।02-443।03]
ब्रह्मलोकवैराग्येण त्यज्यते ।
[443।03]
ब्रह्मलोकवैराग्यपरिहाण्या लभ्यते ।
कामवैराग्यप्रहाण्या त्यज्यते ।
[443।04]
उपरिष्टाद्ब्रह्मलोक उत्पद्यमानो लभते ।
[443।04-443।05]
तस्मात् पुनः कामधातावुपपपद्यमानो विजहातीति ।
[443।06]
अनास्रवं तु वैराग्यात्
[443।07]
अतद्वान् लभते इति वर्तते ।
[443।07-443।08]
तद्वांस्तु क्षयज्ञानतो ऽप्यशैक्षं लभते इन्द्रियसंचारतो ऽपि शैक्षशैक्षम् ।
[443।08]
ननु च नियामा वक्रान्तितो ऽप्यनास्रवं प्रथमतो लभते ।
[443।09]
नावश्यमानुपूर्विकेणालाभात् ।
यथा त्ववश्यं लभते तथोक्तम् ।
[443।10]
क्लिष्टं हान्युपपत्तितः
[443।11]
अतद्वान् लभत इत्येवानुवर्तते ।
[443।11-443।12]
परिहाणितो यदि तद्वैराग्यात्परिहीयते ।
[443।12]
उपपत्तितो यद्युपरिभूमेरधरायामुपपद्यते ।
[443।13]
कतमस्मात्समापत्तिद्रव्यादनन्तरं कत्युपपद्यन्ते ।
[443।13-443।14]
अनास्रवप्रथमध्यानान्तरं षडुत्पद्यन्ते ।
[443।14]
स्वभूमिके शुद्धकानास्रवे द्वितीयतृतीयध्यानभूमिके च ।
[443।14-443।15]
आकिञ्चन्यायतनानन्तरं सप्त ।
[443।15-443।16]
स्वभूमिके शुद्धकानास्रवे विज्ञानाकाशानन्त्यायतनभूमिके च ।
[443।16]
भवाग्रं शुद्धकमेवानास्रवाभावात् ।
द्वितीयध्यानान्तरमष्टौ ।
[443।16-443।17]
स्वभूमिके शुद्धकानास्रवे तृतीयचतुर्थप्रथमध्यानभूमिके च ।
[443।17]
विज्ञानानन्त्यायतनानन्तरं नव ।
[443।18-443।19]
स्वभूमिके द्वे आकाशानन्त्यायतनचतुर्थध्यानभूमिकानि चत्वारि आकिञ्चन्यायतनभवाग्रभूमिकानि त्रीणीति ।
[443।19]
एवमन्यध्यानारुप्यानन्तरं दश द्रव्याणि योज्यानि ।
[443।20]
एष तु संक्षेपः ।
[443।21]
तृतीयाद्यावदूर्ध्वाधो ऽनास्रवानन्तरं शुभम् ।
[443।22]
उत्पद्यते
[444।01-444।02]
शुभग्रहणेन शुद्धमनास्रवं च गृह्यते कुशलत्वात् अनास्रवस्य समापत्ति द्रव्यस्यानन्तरं स्वभूमिके च शुद्धानास्रवे उत्पद्येते ।
[444।02]
ऊर्ध्वाधोभूमिके च तृतीवाद्यावत् ।
[444।03]
व्युत्क्रान्तकसमापत्तारो हि तृतीयात् परेण लङ्घयितुं नोत्सहन्ते ।
[444।03-444।04]
अन्वयज्ञानानन्तरं चारुप्यान् समापद्यन्ते न धर्मज्ञानानन्तरम् ।
[444।04-444।05]
तस्याधराश्रयालम्बनत्वादिति ।
[444।05]
यथा चानास्रवादनन्तरमुक्तम् वेदितव्यम् ।
[444।06]
तथा शुद्धात् क्लिटं चापि स्वभूमिकम्
[444।07]
स्वभूमिकं क्लिष्टमधिकं शुद्धकादनन्तरमुत्पद्यते ।
शेषं यथैवानास्रवात् ।
[444।07-444।08]
अनास्रवस्य हि समनन्तरं क्लिष्टोत्पत्तिर्नास्तीति ।
[444।09]
क्लिष्टात् स्वं शुद्धकं क्लिष्टं
[444।10]
क्लिष्टात्समापत्तिद्रव्यादनन्तरं स्वभूमिके शुद्धकक्लिष्टे उत्पद्येते ।
[444।11]
एवं चाधरशुद्धकम् ।
[444।12]
क्लेशोत्पीडितो ह्यधरमपि समापत्तिं शुद्धकं बहु मन्यते ।
[444।12-444।13]
यदि क्लिष्टं परिच्छिद्याधः संचरति ।
[444।13]
कुशलात्संचरितो भवति न क्लिष्टात् ।
अथापरिच्छिद्य कथं संचरति ।
[444।14-444।15]
पूर्वावेधात् पूर्वं हि स एवङ्कामो भवति वरमधस्तात् शुद्धकं नोपरिष्टात् क्लिष्टमिति ।
[444।15]
पूर्वाभिप्रायं च संततिरनुवर्तते सत्त्वानाम् ।
[444।15-444।16]
प्रणिधाय सुप्तस्याभिप्रेतकालप्रबोधवत् ।
[444।16]
अनास्रवं तु क्लिष्टादनन्तरं सर्वथा नोत्पद्यते ।
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0