अभिधर्मकोशभाष्य · भाग 641660
[414।12-414।13]
यदा श्रावकस्यापि शुश्रूषमाणाशुश्रूपमाणोभयेष्वानन्दी न भवत्याघातो वा ।
[414।14]
कस्मादेते आवेणिका बुद्धधर्मा उच्यन्ते ।
सवासनप्रहाणात् ।
[414।14-414।16]
अथवा यस्य श्रावकास्तस्य चच्छूश्रूषमाणाशुश्रूषमाणोभयेषु सौमनस्याद्यवकाशः सुतरां न तथा ऽन्यस्येति तस्यैव तानुत्पादादाश्चर्य व्यवस्थाप्यते नान्यस्येति ।
[414।17]
महाकरुणेदानी वक्तव्या ।
सेयमुच्यते ।
[414।18]
महाकृपा संवृतिधीः
[414।19]
संवृतिज्ञानात्मिका महाकरुणा ।
[414।19-414।20]
अन्यथा हि न सर्वसत्त्वालम्बना सिध्येत् न च त्रिदुःखताकारा ।
[414।20]
करुणावत् ।
कस्मादियं महाकरुणेत्युच्यते ।
[414।21]
संभाराकारगोचरैः ।
[415।01]
समत्वादाधिमाव्याच्च
[415।02]
सभारेण महापुण्यज्ञानसंभारसमुदागमात् ।
आकारेण त्रिदुःखताकरणात् ।
[415।03]
आलम्बनेन त्रिधातुकालम्बनात् ।
समत्येन सर्वसत्त्वेषु समवृत्तित्वात् ।
[415।03-415।04]
अभिमात्रत्वेन सर्वस्त्त्वेषु समवृत्तित्वात् ।
[415।04]
अधिमात्रत्वेन ततो ऽधिमात्रतराभावात् ।
[415।05]
करुणामहाकरुणयोः किं नानाकरणम् ।
[415।06]
नानाकरणमष्ट्धा
[415।07]
स्वभावतो ऽद्वेषामोहस्वभावत्वात् ।
[415।07-415।08]
आकारत एकत्रिदुःखताकारत्वात् ।
[415।08]
आलम्बनत एकत्रिधात्वालम्बनत्वात् ।
[415।08-415।09]
भूमितश्चतुर्ध्यानचतुर्थध्यानभूमिकत्वात् ।
[415।09]
संतानतः श्रावकादिबुद्धसंतानजत्वात् ।
[415।09-415।10]
लाभतः कामधातुभवाग्रवैराग्यलभ्यत्वात् ।
[415।10]
अपरित्राणपरित्राणतः अतुल्यकरुणायनाच्च ।
[415।11]
किं पुनः सर्वे बुद्धाः सर्वप्रकारसामान्या भवन्ति ।
नेत्याह ।
[415।12-415।13]
संभारधर्मकायाभ्यां जगतश्चार्थचर्यया ।
समता सर्वबुद्धानां नायुर्जातिप्रमाणतः
[415।14]
त्रिभिः कारणैः साम्यं सर्वबुद्धानाम् ।
[415।14-415।15]
सर्वपुण्यज्ञानसंभारसमुदागमतः धर्मकायपरिनिष्पत्तितः अर्थचर्यया च लोकस्य ।
[415।15]
आयुर्जातिगोत्रप्रमाणकृतस्तु भेदो भवति ।
[415।16-415।17]
चिराल्पतरजीवनात् क्षत्रियव्राह्मणजातिभेदात् काश्यपगौतमादिगोत्रभेदात् अल्पानल्पप्रमाणभेदाच्च यथकालमिति ।
[415।17-415।19]
एतामेव च त्रिविधां संपदं मनसिकुर्वाणेन विदुषा शक्यं बुद्धानां भगवतामन्तिके तीव्रप्रेम गौरवं चोत्पादयितुं यदुत हेतुसंपदं फलसंपदमुपकारसंपदं च ।
[415।19]
तत्र चतुर्धा हेतुसंपत् ।
[415।19-415।20]
सर्वपुण्यज्ञानसंभाराभ्यासो दीर्घकालाभ्यासो निरन्तराभ्यासः सत्कृत्याभ्यासश्च ।
[415।20]
चतुर्विधा फलसंपत् ।
[415।21]
ज्ञानसंपत् प्रहाणसंपत् प्रभावसंपद्रूपकयसंपच्व ।
चतुर्विधोपकारसंपत् ।
[415।21-415।23]
अपायत्रयसंसारदुःखात्यन्तनिर्मोक्षसंपत् यानत्रयसुगति प्रतिष्ठापनसंपद्वा ।
[415।23]
ज्ञानसंपत् पुनश्चतुर्विधा ।
[415।23-416।01]
अनुपदिष्टज्ञानं सर्वत्रज्ञान सर्वथाज्ञानमयत्नज्ञानं च ।
[416।01]
चतुर्विधा प्रहाणसंपत् ।
[416।01-416।02]
सर्वक्लेशप्रहाणम् अत्यन्तप्रहाणं सवासनप्रहाणं सर्वसमाधिसमापत्त्यावरणप्रहाणं च चतुर्विधा प्रभावसंपत् ।
[416।02-416।04]
बाह्यविषयनिर्माणपरिणामना धिष्ठानवशित्यसंपत् आयुरुत्प्तर्गाधिष्ठानवशित्वसंपत् आवृताकाशदूरक्षीप्रगमनाल्पवहुत्वप्रवेशन वशित्वसंपत् विविधनिजाश्चर्यधर्मसंपच्च ।
[416।04-416।05]
चतुर्विधा रूपकायसंपत् ।
[416।05]
लक्षणसंपत् अनुव्यञ्जनसंपत् बलसंपत् वज्रसारास्थिसंपत् ।
[416।06]
इत्येतत्सामासिकं बुद्धानां माहात्म्यम् ।
अनन्तप्रभेदं तु तद्भिद्यमानं जायते ।
[416।07-416।08]
तच्च पुनर्बुद्धा एव सकलं ज्ञातुं बक्तुं च समर्थाः यद्यनेकासंख्येयं कल्पं जीवितमधितिष्ठेयुः ।
[416।08]
एवं च तावदनन्ताद्भूतगुणज्ञानप्रभावोपकारमाहरत्नाकरास्तथागताः ।
[416।09-416।10]
अथ चपुनर्बालाः स्वगुणदारिद्रच्यहताधिमोक्षाः श्रुण्वन्तो ऽपि तां तादृशीं गुणसमृद्धिं बुद्धं च नाद्रियन्ते तस्य च धर्मम् ।
[416।10-416।11]
पण्डितास्तु पुनर्मज्जाभिरपि तं भगवन्तमभिप्रपद्यन्ते तस्य च धर्मम् ।
[416।11-416।13]
ते हे श्रद्धामात्रकेणाप्येकान्तिकेनाभिप्रसन्ना अनियतविपाकानां पापानां राशीनभिभूय दैवीं मानुषीं च श्रियमभिभूय निर्वाणपरायणाः संवर्तन्ते ।
[416।13]
अत एव तथागता अनुत्तरं पुण्यक्षेत्रमुच्यन्ते ।
[416।14]
अवन्ध्येष्ठपोरकृष्टाशुस्वन्तफलत्वात् ।
उक्तं हि भगवता
[416।15-416।16]
"ये ऽन्यानपि जिने कारान्करिष्यन्ति विनायके ।
विचित्रं स्वर्गमागम्य ते लप्स्यन्ते ऽमृतं पदमि"ति ।
[416।17]
इमे तावदष्टादश बुद्धानामावेणिका धर्मा उच्यन्ते ॥
[416।18]
शिष्यसाधारणा अन्ये धर्माः
[416।19]
श्रावकसाधारणास्त्वन्ये गुणा बुद्धानाम् ।
[416।20]
केचित् पृथग्जनैः ।
[416।21]
के पुनस्त इति यथायोगम्
[416।22]
अरणाप्रणिधिज्ञानप्रतिसंविद्गुणादयः
[417।01-417।02]
अरणप्रणिधिज्ञानप्रतिसंविदभिज्ञाध्यानारुप्यांप्रमाणविमोक्षाभिभ्वायतनकृत्स्नायतनादयः ।
[417।02-417।04]
तत्रारणा नाम कश्चिदेवार्हन् क्लेशप्रभवं सत्त्वानां दुःखं विदित्वात्मानं च दक्षिणीयविशेषं परेषां तदालम्बनं क्लेशोत्पादं परिहर्तुकामस्तादृशं ज्ञानमुत्पादयति भेन परेषां सर्वथा ऽपि रणं नोत्पादयति ।
[417।04-417।05]
न कस्यचित्तदालम्बनो राग उत्पद्यते द्वेषो मानो वा ।
[417।05]
नैषा प्रतिपत् कञ्चिदेव रणयतीत्यरणा ।
सा पुनरेषा
[417।06]
संवृतिज्ञानमरणा
[417।07]
अयमस्या स्वभावः ।
[417।08]
ध्याने ऽन्त्ये
[417।09]
चतुर्थध्यान भूमिका सुखप्रतिपदामग्रत्वात् ।
[417।10]
अकोप्यधर्मणः ।
[341।711-41711]
नान्यस्यार्हतः ।
[417।11-417।12]
अन्यो हि स्वसंतानादपि कदाचित् क्लेशरणं परिहर्तु न शक्नोति ।
[417।13]
नृजा
[417।14]
मनुष्येष्वेवोत्पद्यते त्रिषु द्वीपेषु ।
[417।15]
अनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः
[417।16-417।17]
अनागताः कामावचराः सवस्तुकाः क्लेशाः अस्या आलम्बनं नापरेषां क्लेश उदपादीत्येवं प्रवृत्तत्वात् ।
[417।17-417।18]
अवस्तुकास्तु क्लेशा न शक्याः परिहर्तुं सर्वत्रगाणां सकलस्वभूम्यालम्बनत्वात् ।
[417।18]
यथा चारणोक्ता
[417।19]
तथैव प्रणिधिज्ञानं
[418।01]
तदपि हि संवृतिज्ञानं ध्याने ऽन्त्ये ऽकोप्यधर्मणः मनुष्याश्रयं च
[418।02]
सर्वालम्बं तु तत्
[418।03]
सर्वधर्मालम्बनं तु प्रणिधिज्ञानमित्येव विशेषः ।
[418।03-418।04]
आरुप्यास्तु न साक्षात् प्राणिधिज्ञानेन ज्ञायन्ते ।
[418।03]
किं तर्हि ।
निष्पन्नचरितविशेषात् ।
[418।04-418।05]
कर्षकनिदर्शनं चात्रेति वैभाषिकाः ।
[418।05-418।06]
प्रणिधिपूर्वकं ज्ञानं प्रणिधिज्ञानं यद्धि प्रणिधाय प्रान्तकोटिकं चतुर्थ ध्यानं समापद्यते ।
[418।06]
इदं जानीयामिति तद्यथाभूतं जानाति ।
सर्वस्तत्समाधिविषयः
[418।07-418।08]
तथा ।
धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः
[418।09]
चतस्रो हि प्रतिसंविदः ।
[418।09-418।10]
धर्मप्रतिसंविदर्थप्रतिसंविन्निरुक्तिप्रतिसंवित्प्रतिभानप्रतिसंविच्च ।
[418।10-418।11]
ता अपि धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदस्तथैव यथा ऽरणा ।
[418।11]
किमासां तथैव अकोप्यधर्ममनुष्याश्रयत्वम् ।
[441।811-41812]
आलम्बनभूमिस्वभावविशेषस्त्वासां पृथगुच्यते ।
[418।13]
तिस्रो नामथवाग्ज्ञानमविवर्त्य यथाक्रमम् ।
[418।14-418।15]
नामपदव्यञ्जनकायेष्वर्थवाचिता अविवर्त्यज्ञानं धर्माथंनिरुक्तिप्रतिसंविदो यथाक्रमम् ।
[418।16]
चतुर्थीयुक्तोमुक्ताभिलापमार्गवशित्वयोः
[418।17]
अविवर्त्यं ज्ञानमिति वर्तते ।
[418।17-418।18]
युक्तमुताभिलापितायां समाधिवशिसंप्रक्याने चाविवर्त्यं ज्ञानं प्रतिभानसंवित् ।
[418।19]
वाङ्मार्गालम्बना चासौ
[418।20]
वाक्च मार्गश्च तस्याः आल्म्वनम् ।
[418।21]
नव ज्ञानानि
[419।01]
नवज्ञानस्वभावा प्रतिभानप्रतिसंविदन्यत्र निरोधज्ञानात् ।
[419।02]
सर्वभूः ।
[419।03]
सर्वभूमिका चासौ कामधातौ यावत् भवाग्रे वाङ्मार्गयोरन्यतरालम्बनात् ।
[419।04]
दश षड्वा ऽर्थसंवित्
[419।05]
अर्थप्रतिभानसंवित् सर्वधर्माश्च्चेदर्था दश ज्ञानानि ।
[419।05-419।06]
निर्वाणं चेदर्थः षट् ज्ञानानि ।
[419।06]
धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानि ।
[419।07]
सा सर्वत्र
[419।08]
सा पुनरेषा ऽर्थप्रतिसंवित् सर्वभूमिका ।
[419।09]
अन्ये तु सांवृतम्
[419।10-419।11]
अन्ये तु द्वे धर्मनिरुक्तिप्रतिसविदौ संवृतिज्ञानस्वभावे नामकायादिवागालम्बनस्वभावत्वात् ।
[419।12]
कामध्यानेषु धर्मे वित्
[419।13-419।14]
धर्मप्रतिसंवित् पञ्चभूमिका कामधातुचतुर्थध्यानसंगृहीता ऊर्ध्वं नामकायाभावात् ।
[419।15]
वाचि प्रथमकामयोः ।
[419।16]
वाङ्निरुक्तिर् इत्य् एको ऽर्थः ।
[419।16-419।17]
निरुक्तिप्रतिसंवित्कामधातुप्रथमध्यानभूमिका ऊर्ध्वं वितर्काभावात् ।
[419।17]
प्रज्ञप्तौ तु प्रतिसंविदामेव निर्देशः ।
[419।17-419।19]
"पदव्यञ्जने तस्यैवर्थे तस्यैकद्विवहुस्त्रीपुरुषाद्यधिवचने तस्यासक्ततायामविवर्त्यज्ञानं धर्माविप्रतिसंविद" इत्यत एवासां क्रमसिद्धिः ।
[419।19]
निर्वचनं निरुक्तिः ।
[419।19-419।20]
यथा रुप्यते तस्माद्रूपमित्येवमादि ।
[419।20]
उत्तरोत्तरप्रतिभा प्रतिभानमित्यपरे ।
[419।20-419।21]
आसां च किल प्रतिसंविदां गणितं बुद्धवचनं शब्दवैद्या हेतुविद्या च पूर्वप्रयोगो यथाक्रमम् ।
[419।21-420।01]
नाप्येतेष्वकृतकौशलस्ता उत्पादयितुं शक्नोतीति ।
[420।01]
बुद्धवचनमेव तु सर्वासां प्रयोगं वर्णयन्ति ।
[420।02]
यस्य चैका तस्यावश्यं चतस्रः प्रतिसंविदी भवन्ति ।
[420।03]
विकलाभिर्न तल्लाभी
[420।04]
नहि विकलाभिस्ताभिः प्रतिसंविल्लाभी भवति ।
[420।05]
ये चैत उपदिष्टा अरणादयो गुणाः ।
[420।06]
षडेते प्राण्तकोटिकाः
[420।07]
प्रान्तकोटिकध्यानवलेनैषां लाभः ।
[420।08]
तत्षडिवधं
[420।09]
तदपि प्रान्तकोटिकं चतुर्थ ध्यानं षडात्मकम् ।
[420।09-420।10]
अरणाप्रणिधिज्ञानं तिस्रः प्रतिसंविदः ।
[420।10]
तदेव प्रन्तकोटिकम् ।
[420।10-420।11]
निरुक्तिप्रतिसंविदस्तद्वलेन लाभो न तु सा चतुर्थध्यानभूमिका ।
[420।12]
किं पुनरिदं प्रान्तकोटिकं नाम ।
[420।12-420।13]
ध्यानमन्त्यं चतुर्थं ध्यानम् ।
[420।14]
सर्वभूम्यनुलोमितम् ।
[420।15]
वृद्धिकाष्टागतं तच्च
[420।16]
कथं सर्वभूम्यनुलोमितम् ।
कामावचराच्चित्तात्प्रथमं ध्यानं समापद्यते ।
[420।17]
ततो द्वितीयमेवं क्रमेण यावन्नैवसंज्ञानासंज्ञायतनम् ।
[420।17-420।18]
प्रतिलोमं पुनर्यावत्कामावचरं चित्तं ततः पुनरनुलोमं यावच्चतुर्थध्यानमेवं सर्वभूम्यनुलोमितम् ।
[420।18-420।19]
कथम् वृद्धिकाष्टागतम् ।
[420।19]
तथाभावितान्मृदुनो मध्यं मध्यादधिमात्रं समापद्यते ।
[420।19-420।20]
वृद्धिप्रकर्षो हि वृद्धिकाष्टा ।
[420।20]
इदमीदृशं प्रान्तकोटिकं प्रगता ऽन्त कोटिरस्येति कृत्वा ।
[420।20-420।21]
कोटिः पुनरत्र वृद्धिः प्रकारो वा ।
[420।21]
चतुष्कोटिकवत् ।
[420।22]
एते पुनः बुद्धतुणाः
[421।01]
बुद्धान्यस्य प्रयोगजाः
[421।02]
बुद्धादन्यस्य प्रायोगिका न वैराग्यलाभिकाः ।
बुद्धस्य नास्ति किञ्चित् प्रायोगिकम् ।
[421।03]
तस्य सर्वधर्मेश्वरत्वादिच्छामात्र प्रतिबधः सर्वगुणसंपत्संमुखीभावः ।
[421।03-421।04]
इमे तावच्छ्रादकसाधारणगुणा अभिज्ञादयः पृथग्जनैरपि ।
[421।05]
केयमभिज्ञा नाम ।
[421।06]
ऋद्ध्हिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये ।
[421।07]
ज्ञातसाक्षीक्रिया ऽभिज्ञा षड्विधा
[421।08]
ऋद्धिविषये ज्ञानसाक्षात्क्रिया अभिज्ञा ।
[421।08-421।09]
दिव्यश्रोत्रचेतःपर्यायपूर्वनिवासानुस्मृतिच्युत्युत्पपादास्रवक्षयज्ञानसाक्षात्क्रिया अभिज्ञाः ।
[421।09]
एताः षडभिज्ञा ।
[421।09-421।10]
आसां पञ्च पृथग्जनैः साधारणाः ।
[421।10]
सर्वास्त्वेताः
[421।11]
मुक्तिमार्गधीः
[421।12]
विमुक्तिमार्गप्रज्ञास्वभावाः ।
श्रामण्यफलवत् ।
[421।13]
चतस्रः संवृतिज्ञानं
[421।14]
चेतःपर्यायास्रवक्षयज्ञानाभिज्ञे हित्वा ।
[421।15]
चेतसि ज्ञानपञ्चकम् ।
[421।16]
चेतःपर्यायाभिज्ञा पञ्च धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि ।
[421।17]
क्षयाभिज्ञा बलं यद्वत्
[421।18]
यथास्रवक्षयज्ञानवलमुक्तं तथा वेदितव्या ।
षड् दश ज्ञानानीति ।
[421।18-421।19]
सर्वभूमिका ऽप्येषा तथैव ज्ञात्व्या ।
[421।19]
शेषास्तु
[422।01]
पञ्च ध्यानचतुष्टये
[422।02]
पञ्चाभिज्ञाः चतुर्थध्यानभूमिकाः ।
कस्मादारुप्यभूमिका न सन्ति ।
[422।02-422।03]
तिस्रस्तावन्न सन्ति ।
[422।03]
रूपालम्बनत्वात् ।
[422।03-422।04]
चेतःपर्यायाभ्हिज्ञापि नास्ति रूपतीर्थाभिनिष्पाद्यत्वात् ।
[422।04]
पूर्वनिवासस्मृतिरप्यनुपूर्वावस्थान्तरमरणाभिनिष्पत्तेः ।
[422।04-422।05]
स्थानगोत्राद्यालम्बनत्वाच्च ।
[422।05-422।06]
परचित्तं हि ज्ञातुकाम आत्मनः कायचित्तयोर्निमित्तमुद्गृह्लाति ।
[422।06-422।07]
कीदृशे ऽपि मे काये कीदृशं चित्तम् भवत्य् एवं परेषामप्याभुजतश्चित्तज्ञानादभिनिष्पन्ना भवति ।
[422।07]
अभिनिष्पन्नायामभिज्ञायां रूपनिरपेक्षो जानाति ।
[422।07-422।09]
पूर्वनिवासं समनुस्मर्तुकामः समनन्तरनिरुद्धमनोविज्ञानो निमित्तमुद्गृह्य तत्समनन्तरप्रातिलोम्येनावस्थान्तराणि मनसिकरोति ।
[422।09-422।10]
यावत्संधिचित्तम् ।
[422।10]
ततो ऽन्तराभवस्यैकक्षणं मरणे ऽपि निष्पन्नो भवति ।
[422।10-422।11]
एवं परस्यापि स्मरति ।
[422।11-422।211]
अभिनिष्पन्नायां विलङ्घ्यापि स्मरणम् ।
[422।11]
अनुभूतपूर्वस्यैव स्मरणम् ।
[422।12]
शुद्धावासानां कथम् स्मरणम् ।
श्रवणेनानुभूतत्वात् ।
[422।12-422।13]
आरुप्यच्युतस्येहोपपन्नस्य परसंतत्यधिष्ठानेनोत्पादनम् ।
[422।13]
अन्येषां स्वसंतत्यधिष्ठानेन ।
[422।13-422।14]
ऋद्ध्यादीनां तु लघत्वशब्दालोकमनसिकरणं प्रयोगः ।
[422।14]
ताः पुनरेताः पञ्चाभिज्ञाः
[422।15]
स्वाधोभूविषयाः
[422।16]
यद्भूमिका ऋद्धच्यभ्हिज्ञा भवति तां भूमि तया गच्छति ।
[422।16-422।17]
निर्मिणोति वा अधरां नोक्तराम् ।
[422।17-422।18]
एवं दिव्यश्रोत्राभिज्ञया स्वभूमिकमेव शब्दं शृणोत्यधरभूमिकं वा नोर्ध्वभूमिकम् ।
[422।18]
चेतः पर्यायाभिज्ञया नोर्ध्वभूमिकं चित्तं जानाति ।
[422।18-422।19]
पूर्वनिवासानुस्मृत्या न स्मरति ।
[422।19]
च्युतोपपादाभिज्ञया न पश्यति ।
[422।19-422।20]
अत एवारुप्यभुमिकं चित्तं चेतःपर्यायपूर्वनिवासभिज्ञाभ्यां न गृह्लात्युर्ध्वभूमिकत्वात् ।
[422।21]
कथमेता लभ्यन्ते ।
अतुचित्ताः प्रयोगतः
[422।22]
लभ्या उचितास्तु विरागतः ।
[422।23]
जन्मान्तराभ्यस्ता अभिज्ञा वैराग्यतो लभ्यन्ते वैशेषिक्यः प्रयोगतः ।
[422।23-422।24]
सर्वासां तु प्रयोगेणोत्पादनम् ।
[422।25]
तृतीया त्रीप्युपस्थानानि
[423।01]
चेतःपर्यायाभिज्ञा त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि ।
[423।01-423।02]
चित्तचैत्तालम्ल्बनत्वात् ।
[423।03]
आद्यं श्रोत्रर्द्विवक्षुषि
[423।04]
अभिज्ञेति वर्तते ।
[423।04-423।05]
ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञा आद्यं स्मृत्युपस्थानमित्यर्थः ।
[423।05]
रूपालम्बनत्वात् ।
ऋद्धिश्चतुर्बाह्यायतनालम्बना ऽन्यत्र शब्दात् ।
[423।06]
दिव्यश्रोत्रचक्षुरभिज्ञे शब्दरूपायतनालम्बने ।
[423।06-423।07]
कथं तर्हि "च्युतोपपादज्ञानेनैव जानाति अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः" इत्येवमादि ।
[423।07-423।08]
न तत्तेन जानाति ।
[423।08]
अभिज्ञापरिवारज्ञानं तु तदन्यदार्याणामुत्पद्यते येनैवं जानन्ति ।
[423।09]
अनिर्धारणाच्छेषे चतुःस्मृत्युपस्थानस्वभावे इति सिद्धम् ।
[423।10]
अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः ।
[423।11]
दिव्यचक्षुःश्रोत्राभिज्ञे अव्याकृते ।
ते पुनश्चक्षुःश्रोत्रविज्ञानसंप्रयुक्तप्रज्ञे ।
[423।12]
कथं तर्हि ते चतुर्ध्यानभूमिके सिध्यतः ।
आश्रयवशेन तद्भूमिनिर्देशात् ।
[423।12-423।13]
तदाश्रये हि चक्षुःश्रोत्रे चतुर्ध्यानभूमिके ।
[423।13]
आनन्तर्यमार्गवशेन वा ।
[423।13-423।14]
अन्याश्चतस्रः कुशलाः ।
[423।14]
यत्तर्हि प्रकरणेषूक्तम् "अभिज्ञा कतमा ।
कुशला प्रज्ञे"ति ।
[423।14-423।15]
प्रधानिक एष निर्देशो वाहुलिको वा ।
[423।15]
आसां चाभिज्ञानां
[423।16]
तिस्रो विद्याः
[423।17]
पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास्तिस्रः अशैक्ष्यो विद्या उच्यन्ते ।
[423।18]
कस्मादेता एव नान्याः ।
[423।19]
अविद्यायाः पूर्वान्तादौ निवर्त्तनात्
[423।20]
एता हि पूर्वापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रमम् ।
आसां परमार्थेन
[424।01]
अशैक्ष्यन्त्या
[424।02]
आस्रवक्षयज्ञानसाक्षात्क्रियैवाशैक्षी विद्या ।
[424।03]
तदास्ये द्वे तत्संतानसुद्भवात् ।
[424।04]
अन्ये द्वे अशैक्ष्यसंतानसंभूतत्वादशैक्ष्यावुच्येते ।
नैव तु ते शैक्ष्यो नाशैक्ष्यौ ।
[424।04-424।05]
किं पुनरेते अभिज्ञे शैक्ष्यस्य नोच्येते ।
[424।05]
यतः शैक्ष्यौ विद्ये नोच्येते ।
[424।06]
इष्टे शैक्ष्स्य नोक्ते तु विद्ये साविद्यसंततेः
[424।07]
न हि साविद्यसंताने विद्याव्यवस्थानं युज्यते ।
पुनरप्यविद्याभिभवात् ।
[424।08]
आसां चाभिज्ञानाम्
[424।09]
आद्या तृतीया षष्ठी च प्रातिहार्याणि
[424।10-424।11]
ऋद्धिचेतःपर्यायास्रवक्षयाभिज्ञास्त्रीणि प्रातिहार्याणि यथाक्रमम् ऋद्धच्यादेशनानुशासनप्रातिहार्याणि ।
[424।11-424।12]
विनेयमनसामादितो ऽत्यर्थ हरणात् प्रातिहार्याणि प्रातिशब्दयोरादिकर्मबृशार्थत्वात् ।
[424।12-424।13]
प्रतिहतमध्यस्थानां मनांस्येभिः प्रतिहरन्तीति प्रातिहार्याणि वा ।
[424।13]
एषां पुनः
[424।14]
शासनम् ।
[424।15]
अग्च्र्यम्
[424।16]
अनुशासनं प्रतिहार्यमग्च्य म् ।
[424।17]
अव्यभिचारित्वाद्धितेष्टफलयोजनात्
[424।18]
ऋद्धच्यादेशने हि विद्यया विकेइयेते ।
[424।18-424।19]
अस्ति हि च गान्धारी नाम विद्या ययाफाशेन गच्छति ईक्षणिका च नाम विद्या यया परचित्तं जानाति ।
[424।19-425।01]
न तु यथाभूतानुशासनम् अन्यथा शक्यं कर्तुमव्य्भिचारित्वात् ।
[425।01-425।03]
प्रधानमावर्जनमात्रं च ताभ्यामनुशासनप्रातिहार्येण तु हितेन इष्टेनफलेन योगो भवत्युपायोपदेशादित्येवावश्यम् ऋद्धिरित्युच्यते ।
[425।04]
केयमृद्धिः ।
वैभाषिकन्यायेन
[425।05]
ऋद्धिः समाधिः
[425।06]
ऋध्यत्यनेनेति कृत्वा योजयितव्यम् ।
किं तेन समृध्यति ।
[425।07]
गमनं निर्माणं च
[425।08]
ततस्तत्र
[425।09]
गतिस्त्रिधा ।
[425।10]
शरीरवाहिनी आधिमोक्षिकी मनोजवा च तत्र गतिः ।
[425।11]
शास्तुर्मनोजवा
[425।12]
मनस इवास्या रव इति मनोजवा गतिर्बुद्धस्यैव नान्यस्य ।
[425।12-425।13]
सुदूरमपि देशं चित्तोत्पादकालेल्न गमनात् ।
[425।13]
अत ए"वाचिन्त्यो बुद्धानां बुद्धविषय" इत्युक्तं भगवता ।
[425।14]
इतरे तु गती बुद्धस्यानुक्तसिद्धे ।
[425।15]
अन्येषां वाहिन्यप्याधिमोक्षिकी
[425।16]
श्रावकप्रत्येकबुद्धानां शरीरवाहिनी च गतिः ।
पक्षिवत्क्रमेण शरीरवाहनात् ।
[425।17]
आधिमोक्षिकी च दूरस्यासन्नाधिमोक्षेणाशुगमनात् ।
निर्माणं पुनर्द्विविधम् ।
[425।18]
कामावचरं रूपावचरं च ।
तत्र तावत्
[425।19]
कामाप्तं निर्मितं बाह्यं चतुरायतनं
[425।20]
कामावचरं निर्माणं रूपरसगन्धस्प्रष्टव्यायतनस्वभावम् ।
तत् पुनर्
[426।01]
द्विधा ।
[426।02]
स्वपरशरीरसंबद्धम् ।
[426।03]
रूपाप्तं द्वे तु
[426।04]
रूपावचरनिर्माणं द्वे रूपस्प्रष्टव्यायतने ।
तत्र गन्धरसाभावात् ।
[426।04-426।05]
तदपि द्विविधं तथैव ।
[426।05-426।06]
कामधाताविदं चतुर्विधं निर्माणमेवं रूपधातौ-इत्यष्टविधं समासतो निर्माणम् ।
[426।06-426।07]
कथं रूपधातूपपन्नस्य कामावचरनिर्माणे गन्धरसाभ्यां न समन्वागमो भवति ।
[426।07]
वस्त्राभरणवन्न समन्वागमः ।
[426।07-426।08]
द्वच्यायातनं निर्मिणोतीत्यपरे ।
[426।08]
किं खल्वभिज्ञयैव निर्माणं निर्मीयते ।
नेत्युच्यते ।
किं तर्हि ।
[426।09]
अभिज्ञाफलैः ।
[426।10]
निर्माणचित्तैस्तानि चतुर्दश
[426।11]
तानि पुनश्चतुर्दश निर्माणचित्तानि
[426।12]
यथाक्रमं ध्यानफलं द्वे यावत् पञ्च ।
[426।13]
प्रथमध्यानफलं द्वे कामधातुप्रथमध्यानभूमिके निर्माणचित्ते ।
[426।13-426।14]
द्वितीयध्यानफलं त्रीणि कामधातुप्रथमद्वितीयध्यानभूमिकानि ।
[426।14-426।15]
एवं तृतीयचतुर्थध्यानभूमिकानि चत्वारि पञ्च च योज्यानि ।
[426।15]
स्वभूमिकाधरभूमिकं निर्माणचित्तं ध्यानफलं वेदितव्यम् ।
[426।16]
नोर्ध्वजम् ।
[426।17]
नोर्ध्वभूमिकं निर्माणचित्तमधरध्यानफलमस्ति ।
[426।17-426।18]
द्वितीयादिध्यानफलं कामावचरं निर्माणं प्रथमध्यानभूमिकाद्गतितो विशिष्यते ।
[426।19]
तल्लभो ध्यानवत्
[426।20]
तेषां च निर्माणचित्तानां ध्यानवल्लाभः ।
[426।20-426।21]
कि खलु निर्माणचित्तादेव स्यात् व्युत्थानम् ।
[426।21]
नास्त्येतत् ।
यस्मादुत्पद्यते ।
[427।01]
शुद्धात्तत्स्वतश्च
[427।02]
शुद्धकाद्धच्यानादन्तरं निर्माणचित्तमुत्पद्यते निर्माणचित्तद्वा नान्यतः ।
[427।03]
ततो ऽपि ते
[427।04]
निर्माणचित्तादपि शुद्धकं ध्यानं निर्माणचित्तं चोत्पद्यते नान्यत् ।
[427।04-427।05]
न हि समाधिफलस्थितस्वाप्रविश्य पुनः समाधिं तस्मात् व्युत्थानमस्ति ।
[427।05-427।06]
सर्वस्य च निर्मितस्य
[427।07]
स्वभूमिकेन निर्माणं
[427।08]
नान्यभूमिकेन निर्माणचित्तेनान्यभूमिकं निर्माणं निर्मीयते ।
[427।09]
भाषणं त्वधरेण च ।
[427।10]
स्वभूमिकेन चेति च-शब्दः ।
[427।10-427।11]
कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाष्यते ।
[427।11]
ऊर्ध्वभूमिकस्तु प्रथमध्यानभूमिकेन ।
[427।11-427।12]
ऊर्ध्वं विज्ञप्तिसमुत्थापकाभावात् ।
[427।12]
वहूनां निर्मितानां भाषणं
[427।13]
निर्मात्रैव सहाशास्तुः
[427।14]
बुद्धादन्यस्य निर्माणं निर्मात्रा सह भाषते ।
[427।14-427।15]
यदा च वहवो निर्मिता भवन्ति तदा युगपत् भाषन्ते ।
[427।16]
एकस्य भाषमाणस्य भाषन्ते सह निर्मिताः ।
[427।17]
एकस्य तूष्णींभूतस्य सर्वेतूष्णीं भवन्ति त" इति गाथा ।
[427।18]
बुद्धस्य पूर्व पश्चाद्वा यथेच्छं निर्मिता भाषन्ते ।
[427।18-427।19]
यदा भाषणचित्तं तदा निर्माणचित्ताभावो निर्माणचित्ताभावान्निर्मिताभाव इति कथमेनं भाषयन्ति ।
[427।20]
अधिष्ठायान्यवर्त्तनात्
[428।01]
निर्माणमधिष्ठायावस्थानकामतया ऽन्येन मनसा वाचं प्रवर्तयन्ति ।
[428।01-428।02]
किं जीवित एवाधिष्ठानमनुवर्तते अथ मृतश्चापि ।
[428।03]
मृतस्याप्यस्त्यधिष्ठानं
[428।04]
आर्यमहाकश्यपाधिष्ठानेन तदस्थिसंकलावस्थानात् ।
तत्तु
[428।05]
नास्थिरस्य
[428।06]
अस्थिरस्य तु भावस्य नास्त्यधिष्ठानम् ।
आर्यकाश्यपेन मांसादीनामध्हिष्ठानात् ।
[428।07]
अपरे तु न ।
[428।08]
अपरे पुनराहुर्नास्ति मृतस्याधिष्ठानम् ।
[428।08-428।09]
अस्थिशङ्कलावस्थानं तु देवतानुभावादिति ।
[428।09]
किमेकेन चित्तेनैकमेव निर्मित निर्मिणोति ।
[428।10]
आदावेकमनेकेन जितायां तु विपर्ययात्
[428।11]
आदित एकं निर्मितमनेकेन निर्माणचित्तेन निर्मिणोति ।
[428।11-428।12]
जितायां त्वभिज्ञायामेकेन चित्तेनानेकं निर्मिणोति यावन्निर्मातुमिष्टं भवति ।
[428।12-428।13]
अथ किं सर्वनिर्माणचित्तमव्याकृतं भवति ।
[428।14]
अव्याकृतं भावनाजं
[428।15]
यद्भावनाफलं तदवश्यमव्याकृतं भवति ।
[428।16]
त्रिविधं तूपपतीजम् ।
[428।17-428।18]
उपपत्तिप्रतिलम्भिकं तु निर्माणचित्तं कुशलाकुशलमव्याकृतं भवति देवनागपिशाचादीनाम् ।
[428।18-428।19]
तत्कृतं च स्वपरशरीरनिर्माणं नवायतनिकं भवत्यशब्दरुप्यायतनत्वादिन्द्रियाविनिर्भूतत्वात् ।
[428।19]
न त्विन्द्रियं निर्मीयते ।
[428।19-428।20]
किमेषैव द्विविधर्द्धिभावनामयी चोपपत्तिलाभिका च ।
[428।20]
एषा च द्विविधा
[429।01]
ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा
[429।02]
समास्तः पञ्चविधामृद्ध्हिं वर्णयन्ति ।
[429।02-429।03]
भावनाफलमुपपत्तिलाभिकं मन्त्रजामौषधजां कर्मजां च ।
[429।03]
यथा मान्धातुरन्तराभविकानां च ।
[429।04]
यदिदं दिव्यश्रोत्रमुक्तं चक्षुश्च ।
[429।04-429।05]
किमेते दिव्ये एव आहोस्वित् दिव्ये एव दिव्ये ।
[429।05]
यथा बोधिसत्त्वचक्रवर्तिगृहपतिरत्नानाम् ।
[429।06]
दिव्यश्रोत्राक्षिणी
[429।07]
यस्मात्ते
[429।08]
रूपप्रसादौ ध्यानभूमिकौ ।
[429।09-429।11]
ध्यानसमापन्नस्य शब्दालोकाभोगप्रयोगेण ध्यानभूमिकानि भूतान्युपादाय रूपप्रसादौ निर्वर्तेते चक्षुःश्रोत्रसामन्तके रूपशब्द्योर्दर्शनश्रवणहेतू इति ध्यानभूमिकत्वात् दिव्ये एव ते चक्षुःश्रोत्रे ।
[429।11]
ते च पुनः
[429।12]
सभागाविकले नित्यं दूरसूक्ष्मादिगोचरे
[429।13-429।14]
नास्ति दिव्यं चक्षुः श्रोत्रं च तत्सभागं नित्यं विज्ञानसहितत्वात् नापि विकलं काणविब्रान्ताभावात् ।
[429।14]
रूपावचरसत्त्ववत् ।
[429।14-429।15]
दूरसूक्ष्मवतान्यपि रूपाणि शब्धाश्च तयिओर्विष्यः ।
[429।15]
आह चात्र
[429।16-429।17]
दूरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति ।
मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते ॥
[429।18]
कियद्दूरं पुनर्दिव्येन चक्षुषा पश्यति ।
यस्य यादृशं चक्षुर्भवति ।
[429।18-429।20]
श्रावकप्रत्येकबुद्धबुद्धास्त्वनभ्हिसंस्कारेण साहस्रद्विसाहस्रत्रिसाहस्रकान् लोकधातून् यथासंख्यं पश्यन्ति ।
[429।20]
अभिसंस्कारेण तु
[430।01]
द्वित्रिसाहस्रकासंख्यदृशो ऽर्हत्खङ्गवैशिकाः ।
[430।02]
सर्वाभ्हिसंस्कारेण सह श्रावको ऽपि द्विसाहस्र लोकधातुं दिव्येन चक्षुषा पश्यति ।
[430।03]
त्रिसाहस्रं खङ्गविषाणकल्पः ।
[430।03-430।04]
बुद्धस्तु भगवानसंख्येयान् लोकहातून् पश्यति यावदेवेच्छति ।
[430।05]
किमृद्धिरेवोपपत्तिलाभिका भवत्यर्हान्यदपि ।
[430।06]
अन्यदप्युपपत्त्याप्तं
[430।07]
दिव्यश्रोत्रादिकमपि चतुष्टयमुपपत्तिप्रतिलभ्यमस्ति ।
[430।07-430।08]
न तूपपत्त्याप्तं किञ्चिदभिज्ञाख्यां लभते ।
[430।08]
यत्तूपपत्तिप्रतिलम्भिकं दिव्यं चक्षुः
[430।09]
तद्दृश्यो नान्तरीभवः
[430।10]
अभिज्ञाचक्षुषैव ह्यन्तराभवो दृश्यते ।
नोपपत्तिप्रतिलब्धेन ।
[430।11]
चेतोज्ञानं तु तत्त्रेधा
[430।12]
उपपत्त्याप्तमिति वर्तते ।
[430।12-430।13]
परचित्तज्ञानं तूपपत्तिप्रतिलब्धं त्रिविधं वेदितव्यं कुशलाकुशलाव्याकृतम् ।
[430।14]
तर्कविद्याकृतं च यत् ।
[430।15-430।16]
यच्चापि तार्किकं परचित्तज्ञानं नैमित्तिकानां यच्च विद्याकृतं तदपि त्रिविधं वेदितव्यम् ।
[430।16]
न यथा भावनाफलं कुशलमेव ।
[430।16-430।17]
उपपत्तिप्रतिलम्भिकाभ्यां तु परचित्तज्ञानपूर्वनिवासानुस्मृतिभ्यां
[430।18]
जानते नारका आदौ
[430।19]
यावन्न दुःखवेदनाभ्याहता भवन्ति ।
अन्यगतिस्था नित्यं जानते ।
[430।20]
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0