भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 621640

अन्यत्रावचनात् ।
[399।15]
एष चेच्छास्त्रार्थो ऽभविष्यत् ।
[399।15-399।16]
यदिदं पठच्यते "स्याद्दर्शनप्रहातव्येन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयादिति ।
[399।16]
आह ।
विजानीयात् ।
[399।16-399।18]
आत्मत आत्मीयत उच्छेदतः शाश्वततः अहेतुतो ऽक्रियातो ऽपवादतो ऽग्रतः श्रेष्ठतो विशिष्टतः परमतः शुद्धितो मुक्तितो नैर्याणिकतः काङ्क्षातो विमतितो विचिकित्सातः ।
[399।18-399।19]
रज्येत द्विष्यान्मन्येत मुह्येदयोगविहिततो विजानीयादि"ति ।
[399।19]
अत्राप्येवं पाठो ऽभविष्यत् ।
[399।19-399।20]
अस्त्येतत् स्थानमस्त्येतद्वस्त्विति ।
[399।20]
न त्वेवं पठच्यते ।
तस्मान्नास्यायमर्थः ।
[399।21]
किं पुनरिमे षोडशाकारा नामत आहोस्वित् द्रव्यतः ।
[399।21-399।22]
सप्त द्रव्यतो नामतः षोडशेत्येके ।
[399।22]
दुःखकाराश्चत्वारः समुदयनिरोधमार्गाकाराणामेककद्रव्यत्वात् ।
[399।23]
एवं तु वर्णयन्ति ।
[400।01]
द्रव्यतः षोडशाकाराः
[400।02]
तत्प्रत्ययाधीनत्वात् अनित्यम् ।
षीडात्मकत्वात् दुःखम् ।
[400।02-400।03]
आत्मीयदृष्टिविपक्षेण शून्यम् ।
[400।03]
आत्मदृष्टिविपक्षेणानात्मा ।
हेतुर्वीजधर्मयोगेन ।
[400।03-400।04]
समुदयः प्रादुर्भावयोइगेन ।
[400।04]

प्रभवः प्रबन्धयोगेन ।
[400।04-400।05]
अभिनिष्पादनार्थेन प्रत्ययः ।
[400।05-400।06]
तद्यथा मृत्पिण्ददण्दचत्रसूत्रोदकसमवायात् घटाभिनिष्पत्तिर्भवति तद्वदिति ।
[400।06]
अक्न्धोपरमत्वात् निरोधः ।
अग्निनिर्वाषणात् शान्तः ।
[400।06-400।07]
निरूपद्रव्त्वात् प्रणीतः ।
[400।07]
सर्वापक्षालविमुक्तत्वान्निः सरणमिति ।
गमनार्थेन मार्गः ।
[400।07-400।08]
योगयुक्तत्वान्न्यायः ।
[400।08]
सम्यक्प्रतिपादनार्थेन प्रतिपत् ।
अत्यन्तसमतिक्रमणान्नैर्याणिक इति ।
[400।09]
अथवा अनात्यन्तिकत्वादनित्यम् ।
अभिन्यासभूतत्वात् दुःखम् ।
[400।09-400।010]
अन्तर्व्यापारपुरुषपरहितत्त्वाच्छून्यम् ।
[400।10]
अकामकारित्वादनात्मा ।
[400।10-400।010]
हेतुरागमनयोगेन ।
[400।10-400।11]
समुदय उन्मज्जनयोगेन ।
[400।11]
प्रभवः प्रसरणयोगेन ।
प्रतिसरणार्घेन प्रत्यय इति ।
[400।11-400।12]
असंबन्धः संबन्धोपरमत्वान्निरोधः ।
[400।12]
त्रिसंस्कृतलक्षणविमुक्तत्वाच्छान्तः ।
[400।12-400।13]
कुशलत्वात् प्रणीतः ।
[400।13]
परमाश्वासत्वान्निः सरणमिति ।

कुमार्गविपक्षेण मार्गः ।
[400।13-400।14]
अन्यायविपक्षेण न्यायः ।
[400।14]
निर्वाणपुराविरोधनार्थेन प्रतिपत् ।
सर्वभवप्रतिपक्षत्वान्नैर्याणिकः ।
[400।15]
इत्येषां व्याख्यानमनेकपर्यायः ।
यथाभिप्रेतं प्रवक्ष्यामः ।
उदयव्ययत्वादनित्यम् ।
[400।16]
प्रतिकूलभावात् ।
दुःखम् ।
आत्मरहितत्वाच्छून्यम् ।
स्वयमनात्मत्वादनात्म ।
[400।17]
हेतुसमुदयप्रभवप्रत्ययत्वं तु यदेव सूत्र उक्तम् ।
[400।17-400।18]
"इमे पञ्चोपादानस्कन्धाश्छन्दमूलकाश्छन्दसमुदयाश्छन्दजातीयाश्छन्दप्रभवा" इति ।
[400।18-400।19]
प्रभवशब्दः केवलं पश्चात् पठितव्यः शास्त्रे ।
[400।19]
कः पुनरेषां विशेषः ।
चतुर्विधो हि च्छन्दः ।
[400।20]
अस्मीत्यभेदेनात्मभाव्च्छन्दः ।
स्यामित्यभेदेन पुनर्भवच्छन्दः ।
[400।20-400।21]
इत्यं स्यामिति भेदेन पुनर्भवच्छन्दः ।
[400।21]
प्रतिसंधिवन्धच्छन्दश्चतुर्थः ।
कर्माभिसंस्कारच्छन्दो वा ।
[400।22]
तत्र प्रथोमो दुःखस्यादिकारणत्वान्मूलहेतुः ।
फलस्येव वीजम् ।
[400।22-400।23]
द्वितीयः समुदयस्तेन तत्समुदागमात्फलस्येवाङ्कुरादिप्रसवः ।
[400।23-400।24]
तृतीयस्तज्जातीयदुःखप्रत्ययः ।
[400।24]

फलस्येव क्षोत्रोदकपाश्यादिकम् ।
[400।24-400।26]
क्षेत्रादिवशेन हि फलस्य गन्धरसवीर्यविपाकप्रभावभेदा भवन्ति चतुर्थः प्रभवस्ततः एव तत्संभवात् फलस्येव पुष्पावसानमिति ।
[400।26]
अथवा ।
[400।26-401।01]
तृष्णाविचरितानां द्वौ पञ्चकौ द्वौ चतुष्कौ चत्वारश्छन्दाः ।
[401।01-401।02]
"अस्मीति भिक्षवः साति इत्थमस्मीति भवति एवमस्मीति भवति अन्यथा ऽस्मीति सदस्मीति असदस्मीति ।
[401।02-401।03]
भविष्यामीत्यस्य भवति न भविष्यामि इत्थं भविष्यामि एवं भविष्यामि एवं भविष्यामि श्रन्यथा भविष्यामि ।
[401।04-401।05]
स्यामित्यस्य भवति इत्थं स्याम् एवं स्याम् अन्यथा स्याम् अपितु स्याम् अपीत्थं स्याम् अप्येवं स्याम् अप्यन्यथा स्यामित्यस्य भवति ।
[401।06]
प्रवृत्त्युपर्मत्वान्निरोधः ।
निर्दुःखत्वाच्छन्तः ।
[401।06-401।07]
"इति हि भिक्षवो दुःखाः संस्काराः शान्तं निर्वाणमि"ति वचनात ।
[401।07]
निरुत्तरत्वात् प्रणीतः ।
[401।07-401।08]
अपुनरावृत्तित्वान्निःसरणम् ।
[401।08]
पथिभूतत्वान्मार्गः ।
यथाभूतप्रवृत्तत्वान्न्यायः ।
[401।08-401।09]
प्रतिनियतत्वात् प्रतिपत् ।
[401।09]
यथोक्तम्
[401।10]
"एष मार्गो हि नास्त्यन्यो दर्शनस्य विशुद्धय" इति
[401।11]
अत्यन्तनिर्याणान्नैर्याणिकः ।
[401।11-401।12]
अथवा नित्यसुखात्मीयात्मदृष्टिचरितानां प्रतिपक्षेणानित्यदुःखशुन्यानात्माकाराः ।
[401।12-401।13]
अहेत्वेकहेतुपरिणामबुद्धिपूर्वक दृष्टिचरितानां प्रतिपक्षेण हेतुसमुदयप्रभवप्रत्ययाकाराः ।
[401।13-401।14]
नास्ति मोक्ष इति दृष्टिचरितानां निरोधाकारः ।
[401।14]

दुःखो मोक्ष इति दृष्टिचरितानां शान्ताकारः ।
[401।14-401।15]
ध्यानसुखप्रणीतदृष्टिचरितानां प्रणीताकारः ।
[401।15-401।16]
पुनः पुनः परिहाणितो नात्यन्तिको मोक्ष इति दृष्टिचरितानां निःसरणाकारः ।
[401।16-401।17]
नास्ति मार्गः कुमार्गो ऽयमन्यो मार्गः पुनरावर्ती मार्ग इति दृष्टिचरितानां मार्गन्यायप्रतिपन्नैर्याणिकाकारा इति ।
[401।18]
आकारो नाम क एष धर्मः ।
[401।19]
प्रज्ञाकारः
[401।20]
एवं तर्हि प्रज्ञा साकारा न भविष्यति ।
प्रज्ञान्तरासंयोगात् ।
एवं तु युक्तं स्यात् ।
[401।21]
सर्वेषां चित्तचैत्तानामालम्बनग्रहणप्रकार आकार इति ।
[401।22]
अथ किं प्रज्ञैवाकारयति नेत्याह ।
किं तर्हि ।
[401।23]
तया सह ।
[401।24]
आकारय्न्ति सालम्बाः
[402।01]
प्रज्ञा चान्ये च सर्वे सालम्बना धर्मा आकारयन्ति ।
[402।02]
सर्वमाकार्यते तु सत्
[402।03]
यत्किञ्चिदस्ति सर्वमाकार्यते ।
[402।03-402।04]
तदेवं कृत्वा सिद्धं भवति प्रज्ञा आकारश्चाकारयति चाकार्यन्ते च ।
[402।04-402।05]
आलम्बना आकार्यन्त एवेति ।
[402।06]
अतः परमेषां ज्ञानानां कुशलादिभेदं निर्वेक्ष्यामः ।
[402।07]
त्रिधाद्यं कुशलान्यन्यानि
[402।08]
संवृतिज्ञानं श्लोकादौ भवत्वादाद्यम् ।

तत्त्रिविधम् ।
[402।08-402।09]
कुशलाकुशलाव्याकृतम् ।
[402।09]
अन्यानि नव ज्ञानानि कुशलान्येव ।
[402।10]
आद्यं सर्वासु भूमिषु ।
[402।11]
कामधाती यावद्भवाग्रे ।
[402।12]
धर्माख्यं षट्सु
[402।13]
धर्मज्ञानं चतुर्षु ध्यानेष्वनागम्ये ध्यानान्तरे च ।
[402।14]
नवसु त्वन्वयाख्यं
[402।15]
अन्वयज्ञानं तास्वेव च षट्सु भूमिष्वारुप्यत्रये च ।
[402।16]
तथैव षट्
[402।17]
दुःखसमुदयनिरोधमार्गक्षयानुत्पादज्ञानान्यप्येतास्वेव नवसु भूमिष्वभेदेन ।
[402।18]
भेदेन पुन्र्धर्मज्ञानसंगृहीतानि षट्सु अन्वयज्ञान संगृहीतानि नवसु ।
[402।19]
ध्यानेष्वन्यमनोज्ञानं
[403।01]
परचित्तज्ञानं चतुर्ष्वेव ध्यानेषु नान्यत्र ।
[403।02]
कामरूपाश्रयं च तत् ।
[403।03]
कामरूपधात्वोश्च तत् परचित्तज्ञानं संमुखीक्रियते ।
[403।04]
कामाश्रयं तु धर्मारुयम्
[403।05]
धर्मज्ञानं तु कामधात्वाश्रयमेव ।
न रूपारुप्यधात्वोः संमुखीक्रियते ।
[403।06]
अन्यत्त्रैधातुकाश्रयम्
[403।07]
किं पुनरन्यत् ।

परचित्तज्ञानं धर्मज्ञाननिर्मुक्तम् ।
कृतो भूम्यश्रयनिर्देशः ।
[403।08]
स्मृत्युपस्थानसंग्रहो वक्तव्यः ।
सो ऽयमुच्यते ।
[403।09]
स्मृत्युपस्थानमेकं धीर्निरोधे
[403।10]
धीः प्रज्ञा ज्ञानमिति पर्यायाः ।
निरोधज्ञानमेकं धर्मस्मृत्युपस्थानम् ।
[403।11]
परचित्तधीः ।
[403।12]
त्रीणि
[403।13]
परचित्तज्ञानं त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि ।
[403।14]
चत्वारि शेषाणि
[403।15]
निरोधपरचित्तज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि
[403।16]
कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् ।
[403।17]
धर्मधीगोचरो नव
[403।18]
धर्मज्ञानस्य नव ज्ञानान्यालम्बनमन्यत्रान्वयज्ञानात् ।
[404।01]
नव मार्गान्वयदियोः
[404।02]
अन्वयज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र धर्मज्ञानात् ।
[404।02-404।03]
मार्गज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र संवृतिज्ञानात् ।
[404।04]
दुःखहेतुधियोर्द्वयम् ।
[404।05]
दुःखसमुदयज्ञानयोर्द्वे संवृतिपरचितज्ञाने आलम्बनम् ।
[404।06]
चतुर्णां दश
[404।07]
संवृतिपरचित्तक्षयानुत्पादज्ञानानां दश ज्ञानान्यालम्बनम् ।

[404।08]
नैकस्य
[404।09]
एकस्य निरोधज्ञानस्य नैव ज्ञानमालम्बनम् ।
[404।10]
योज्या धर्माः पुनर्दश
[404।11]
कतमे दश ।
[404।12]
त्रैधातु कामला धर्मा अकृताश्च द्विधा द्विधा ।
[404।13]
संकृता धर्मा अष्टधा क्रियन्ते ।
[404।13-404।14]
कामरूपारुप्यावचरानास्रवाणां संप्रयुक्तविप्रयुक्तभेदात् ।
[404।14]
असंस्कृता द्विधा क्रियन्ते ।
कुशलाव्याकृतभेदात् ।
[404।14-404।15]
इमे दश धर्माः कथं योज्याः कस्य ज्ञानस्य कत्यालम्बनमिति ।
[404।15-404।16]
तत्र संवृतिज्ञानस्य सर्वे दश धर्मा आलम्बनम् ।
[404।16]
धर्मज्ञानस्य पञ्च ।
कामावचरानास्रवा श्चत्वारः कुशलं चासंस्कृतम् ।
[404।17]
अन्वयज्ञानस्य सप्त ।
रूपारुप्यावचरानास्रवाः षट् कुशलं चासंस्कृतम् ।
[404।17-404।18]
दुःखसमुदयज्ञानयोः कामरूपारुप्यावचराः षट् ।
[404।18]
निरोधज्ञानस्यैकः ।
[404।18-404।19]
कुशलमेवासंस्कृतम् ।
[404।19]
मार्गज्ञानस्य द्वावनास्रवौ ।
परचित्तज्ञानस्य त्रयः ।
[404।19-404।20]
कामरूपावचरानास्रवाः संप्रयुक्ताः ।
[404।20-404।21]
क्षयानुत्पादज्ञानयोः नव धर्मा आलम्बनमव्याकृतमसंस्कृतं मुक्त्वा ।

[404।22]
स्यादेकेन ज्ञानेन सर्वधर्मान् जानीयात् ।
न स्यात् ।
अपि तु
[405।01]
सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः
[405।02-405।03]
संवृतिज्ञानं स्वस्मात्कलापादन्यान् सर्वधर्माननात्वतो जानीयात् सर्वधर्मा अनात्मान इति ।
[405।03]
ज्स्वभावस्तत्सहभुवश्च धर्मास्तस्य स्वकलापः ।
[405।03-405।04]
तेषामग्रहणं विषयविषयिभेदादेकालम्बनत्वादिति ।
[405।04]
संनिकृष्टत्वाच्च ।
[405।04-405।05]
तच्च कामावचरं श्रुतचिन्तामयं रूपावचरं श्रुतमयम् भावनामयम् ।
[405।05-405।06]
तस्य व्यवच्छिन्नभूम्यालम्बनत्वात् ।
[405।06]
अन्यथा हि युगपत्सर्वतो वैराग्यं स्यात् ।
गतमेतत् ।
[405।07]
इदं तु वक्तव्यम् ।
कः कतिभिर्ज्ञानैः समन्वागत इति ।
[405।07-405।08]
पृथग्जनस्तावदेकेन समन्वागतः ।
[405।08]
संवृतिज्ञानेन ।
वीतरागस्तु परचित्तज्ञानेनापि ।
आर्यः पुनः ।
[405।09]
एकज्ञानान्वितो रागीप्रथमे ऽनास्रवक्षणे ।
[405।10]
कामावीतरागो दुःखधर्मज्ञानक्षान्तवेकेनैव संवृतिज्ञानेन समन्वागतो भवति ।
[405।11]
द्वितीये त्रिभिः
[405।12]
दुःखधर्मज्ञाने त्रिभिः संवृतिज्ञानधर्मज्ञानदुःखज्ञानैः ।
[405।13]
ऊर्ध्वस्तु चतुष्र्वेकैकवृद्धिमान्

[405।14]
अतः परं चतुर्षु क्षणेषु एकैकज्ञानवृद्धिरस्य ज्ञातव्या ।
[405।14-405।15]
दुःखे ऽन्वयज्ञाने ऽन्वयज्ञानं वर्धते ।
[405।15-405।16]
समुदयनिरोधमार्गधर्मज्ञानेषु समुदयनिरोधमार्गज्ञानानि वर्धन्त इति मार्गधर्मज्ञाने सप्तभिर्ज्ञानैः समन्वागतो भवति ।
[405।16-405।17]
वीतरागस्तु सर्वत्राधिकेन परचित्तज्ञानेन समन्वागतो वेदितव्यः ।
[405।18]
अथ कस्यामवस्थायां कति ज्ञानानि भव्यन्ते ।
[405।19]
यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने ।
[405।20]
अनागतानि
[406।01-406।02]
दर्शनमार्गे यद्यदेवोत्पद्यते क्षान्तिर्ज्ञानं वा तज्जातीयमनागतं भावनां गच्छति तदाकारा एव चत्वारः ।
[406।02-406।03]
कस्माद्दर्शनमार्गे सभागज्ञानाकारभावनैव गोत्राणामपोरतिलब्धत्वात् ।
[406।04]
तत्रैव सांवृतं चान्वयत्रये
[406।05-406।06]
तत्रैव दर्शनमार्गे संवृतिज्ञानं चापि भाव्यते त्रिषु दुःखसमुदयनिरोधान्वयज्ञानेषु ।
[406।06]
न धर्मज्ञानेष्वकृत्स्नसत्याभिसमयात् ।
[406।07]
अतो ऽभिसमयान्त्याख्यं
[406।08]
अत एव तदाभिसमयान्तिकं संवृतिज्ञानमाख्यावते ।
[406।08-406।09]
एकैकसत्याभिसमयान्ते भावनात् ।
[406।09]
कस्मान्न मार्गान्वयज्ञाने भावनां गच्छति ।
[406।09-406।10]
मार्गसत्यस्य पूर्व लौकिकेन मार्गेणानभिसमितत्वात् अकृत्स्नाभिसमयाच्च ।
[406।10-406।12]
कृत्स्नं हि दुःखं शक्यते परिज्ञातुं समुदयः प्रहातुं निरोधः साक्षात्कर्तु न तु मार्गः शक्यते कृत्स्नो भावयितुम् इत्यभिसमयान्ताभावान्न तस्मिन्नाभिसमयान्तिकं भाव्यते ।
[406।12-406।13]
समुदयो ऽपि न तदा सर्वः प्रहीणो भवतीति न स्यादाभिसमयान्तिकम् ।
[406।13]
न ।

[406।13-406।14]
तत्सत्यदर्शनहेयः सर्वः प्रहीण्नो भवति ।
[406।14-406।15]
मार्गस्तद्दर्शनहेयप्रतिपक्षो न सर्वः शक्यते भावयितुं वहुगोत्रत्वात् इत्यस्ति महान्विशेषः ।
[406।15]
दर्शनमार्गपरिवारत्वादित्यपरे ।
[406।15-406।16]
तदिदं साध्यत्वादज्ञापकम् ।
[406।16]
किं पुनस्तदाभिसमयान्तिकं सम्वृतिज्ञानं कदाचित्संमुखीक्रियते ।
[406।16-406।17]
न कदाचित् एकान्तेन हि
[406।18]
तदानुत्पत्तिधर्मकम् ।
[406।19]
कथं पुनस्तद्भावितं भवति ।
[406।19-406।20]
अलब्धलाभात् कथमिदानीं तत्प्रतिलब्धं यदि नैव संमुखीकर्तु शक्यते ।
[406।20]
प्राप्तितः ।
[406।20-406।21]
यस्माल्लब्धं तस्माल्लब्धमित्यपूर्वैषा निर्देशजातिः ।
[406।21]
तस्मान्नैवं भावना सिध्यति ।
[406।21-406।22]
एवं तु सिध्यति यद् आहुः पूर्वाचार्याः ।
[406।22]
कथं च पूर्वाचार्या आहुः ।
[406।22-406।24]
लोकोत्तरमार्ग-सामर्थ्यात् संवृतिज्ञानं भाव्यते यद् व्युत्थितः सत्यालम्बनम् विशिष्टतरं लौकिकं ज्ञानं संमुखीकरोति ।
[406।24-407।01]
एष एव च तस्य लाभो यत्-तत्-संमुखीभाव-समर्थाश्रयलाभः ।
[407।01]
गोत्रे हि लब्धे लब्धं गौत्रिकं भवति ।
एव तु नेच्छन्ति वैभाषिकाः ।
[407।02]
कतिभूमिकं पुनस्तत्संवृतिज्ञानं भाव्यते ।
दर्शनमार्गस्य
[407।03]
स्वधोभूमि

[407।04]
यद्भूमिको दर्शनमार्गो भवति तद्भूमिकम् चावरभूमिकं च संवृतिज्ञानं भाव्यते ।
[407।05]
आनागम्यभूमिकश्चेद्भवति द्विभूमिकं बाव्यते ।
अनागम्यभूमिकं कामावचरं च ।
[407।06]
एवं यावच्चतुर्थध्यानभूमिके दर्शनमार्गे सप्तभूमिकं संवृतिज्ञानं भाष्यते ।
[407।07]
तत्र पुनः कति स्मृत्युपस्थानानि ।
[407।08]
निरोधे ऽन्त्यं
[407।09]
निरोधे ऽभिसमिते यत् संवृतिज्ञानं तदन्त्यं स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् ।
[407।09-407।10]
एकस्य परिसंख्यानात्सिद्धं भवति शेषं चत्वारि स्मृत्युपस्थानानीति ।
[407।10-407।11]
तच्चैतदाभिसमयान्तिकं संवृतिज्ञानं
[407।12]
स्वसत्याकारं
[407।13]
यत्सत्याभिसमयाल्लभ्यते तत्सत्याकारमेव ।
[407।13-407।14]
तदाकारवचनादालम्बनस्य तदेव सत्यमित्युक्तं भवति ।
[407।14]
दर्शनमार्गलभ्यत्वाच्च तत् ।
[407।15]
यत्निकम्
[407।16]
प्रायोगिकमित्यर्थः ।
[407।16-407।17]
सपरिवारग्रहणात्कामरूपावचाराणि चतुष्पञ्चस्कन्धस्वभावानि ।
[407।18]
षोडशे षट् सरागस्य
[407।19]
भाव्यन्त इति वर्तते ।
[407।19-407।20]
अवीतरागस्य षोडशे मार्गान्वयज्ञानक्षणे द्वे ज्ञाने प्रत्युत्पन्ने ।
[407।20]
मार्गज्ञानमार्गान्वयज्ञाने ।
पुरागतानि षट् भाव्यन्ते ।

[407।20-407।21]
धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि ।
[408।01]
वीतरागस्य सप्त तु ।
[408।02]
वीतरागस्य परचित्तज्ञानं सप्तमं भाव्यते ।
[408।03]
सरागभावना मार्गे तदूर्ध्वं सप्तभावना
[408।04-408।05]
षोडशात् क्षणादुर्ध्वं भावनामार्गे यावन्न वीतरागो भवति तावत् सर्वेषु प्रयोगान्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते ।
[408।05-408।06]
धर्मान्वयदुःखसमुदयनिरोधमार्गसंवृतिज्ञानानि ।
[408।06]
लौकिकश्चेत् भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् ।
[408।07]
लोकोत्तरश्चेत् चतुर्णां धर्मज्ञानानामन्यतमत् ।
[408।08-408।09]
सप्तभूमिजया ऽभिज्ञाकोप्याप्त्याकीर्णभाविते
आननतर्यपथेषूर्ध्वं मुक्तिमार्गाष्टके ऽपि च
[408।10]
सप्तज्ञानानि भाव्यन्ते इति वर्तते ।
[408।10-408।11]
सप्त भूमयः चत्वारि ध्यानानि त्रयश्चारुप्याः ।
[408।11-408।13]
तासां जयः वैराग्यं तस्मिन् सप्तभूमिके वैराग्ये पञ्चसु चाभिज्ञासु अकोप्यप्रतिवेधे च व्यवकीर्णभाविते च ध्याने शैक्षस्य यावन्तः आनन्तर्यमार्गास्तेष्वपि सर्वेषु सप्त ज्ञानानि भाव्यन्ते तान्येव ।
[408।13-408।14]
लौकिकेश्चेत् भाव्नामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् ।
[408।14-408।15]
लोकोत्तरश्चेच्चतुर्णामन्वज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् ।
[408।15]
अकोप्यप्रतिवेधे तु संवृतिज्ञानं न भाव्यते ।
[408।15-408।16]
भवाग्राप्रति पक्षत्वात् ।
[408।16]
तत्र जयज्ञानं सप्तमं वेदितव्यम् ।
[408।16-408।17]
सप्तभूमिवैराग्यादपि चोर्ध्वंभवाग्रवैराग्ये विमुक्तिमार्गेष्वष्टासु सप्तैव ज्ञानानि भाव्यन्ते ।
[408।17-408।18]
धर्मान्वयदुःखसमुदयनिरोधमार्गपरचित्तज्ञानानि ।
[408।18]

संवृतिज्ञानं न भाव्यते ।
भवाग्राप्रतिपक्षत्वात् ।
[408।18-408।19]
प्रत्युत्पन्नं तु चतुर्णामन्वयज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् ।
[408।20]
शैक्षोत्तापनमुक्तौ वा षट्सप्तज्ञानभावना ।
[408।21-408।23]
शैक्षस्येन्द्रियोत्तापनायां विमुक्तिमार्गे सरागस्य षण्णां भावना धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां वितरागस्य सप्तानां परचित्तज्ञानं प्रक्षिप्य ।
[408।23]
संवृतिज्ञानस्याप्युभयोरिति केचित् ।
तत्र मतविकल्पज्ञापनार्थो वाशब्धः ।
[408।24]
प्रयोगमार्गे तु तयोः संवृतिज्ञानस्यापि भावना ।
[409।01]
आनन्तर्यपथ षण्णां
[409।02-409।03]
वीतरागस्यावीतरागस्य वा शैक्षस्येन्द्रियोत्तापनायामानन्तर्यमार्गे षण्णां भावना पूर्ववत् ।
[409।03]
न संवृतिज्ञानस्य ।
दर्शनमार्ग सादृश्यात् ।
[409।04]
न परचित्तज्ञानस्य ।
सर्वानन्तर्यमार्ग प्रतिपिद्धत्वात् ।
किमर्थ प्रतिपिध्यते ।
[409।04-409।05]
अप्रतिपक्षत्वात् ।
[409।06]
भवाग्रविजये तथा
[409।07]
भवाग्रवैराग्ये ऽप्यानन्तर्यमार्गेषु षण्णां भावना तथैव ।
[409।08]
नवानां तु क्षयज्ञाने
[409।09]
भवाग्रवैराग्ये नवमो विमुक्तिमार्गः क्षयज्ञानम् ।
[409।09-409।10]
तत्र नवानां ज्ञानानां भावना अन्यत्रानुत्पादज्ञानात् ।
[409।11]
अकोप्यस्य दश भावना ।
[409।12]
यस्त्वकोप्यधर्मा भवति तस्य दशानां ज्ञानानां भावना ।

[409।12-409।13]
अनुत्पादज्ञानलाभात् ।
[409।14]
तत्संचरे ऽन्त्यमुक्तौ च
[409।15]
यो ऽप्यकोप्यतां संचरति तस्याप्यन्त्ये विमुक्तिमार्गे दशानां भावना ।
[409।16]
प्रोक्तशेषे ऽष्टभावना
[409।17]
किं पुनः शेषम् ।
[409।17-409।19]
कामवैराग्ये नवमो विमुक्तिमार्गः सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गः अकोप्यप्रतिवेधो ऽष्टौ विमुक्तिमार्गाः सर्वे च वीतरागस्य प्रयोगविशेषमार्गाः ।
[409।19]
तेषु सर्वेष्वष्टौ ज्ञानानि भाव्यन्ते ।
[409।20]
अनागतभावनया क्षयानुत्पादज्ञाने हित्वा ।
शैक्षस्यैवम् ।
[409।20-409।21]
अशैक्षस्य पुनरभिज्ञादिप्रयोगविमुक्तविशेषमार्गेषु नव ज्ञानानि दश वा ।
[409।21-409।23]
अभिज्ञाव्यवकीर्णभावितानन्तर्यविमुक्तिमार्गेषु त्वष्टौ नव वा द्वयोस्त्वभ्हिज्ञाविमुक्तिमार्गयोरव्याकृतत्वान्न किचिदनागते भाव्यते ।
[409।23-410।01]
पृथग्जनस्य तु कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गेषु ध्यानभूमिकेषु च प्रयोगाभिज्ञात्रयविमुक्तिमार्गाप्रमाणादिगुणाभिनिर्हारेषु संवृतिज्ञानमनागतं भाव्यते परचित्तज्ञानं चान्यत्र निर्वेधभागीयेभ्यः ।
[410।01]
तेषु हि परचित्तज्ञानं न भाव्यते ।
दर्शनमार्गपरिवारत्वात् ।
[410।02]
अन्यत्रापूर्वमार्गलाभे संवाऋतिज्ञानमेवानागतं भाव्यते ।
[410।03]
अथ कस्मिन्मार्गे कतिभूमिकं ज्ञानं भाव्यते ।
[410।03-410।04]
संवृतिज्ञानं तावद्यद्भूमिको मार्गो यां च प्रथमतो भूमि लभते तद्भूमिकमनागतं भाव्यते ।
[410।04-410।05]
अनास्रवं तु न केवलं यद्भूमिको मार्गः ।
[410।05]
किं तर्हि ।
[410।06]
यर्द्वराग्याय यल्लाभस्तत्र चाधश्च भाव्यते ।
[410।07-410।09]
यद्भूमिवैराग्यायापि हि द्विविधो ऽपि मार्गो भवति प्रयोगमार्गादिः यां च भूमि लभते वैराग्यतस्त्द्भूमिकान्यधोभूमिकानि चानास्रवाणि ज्ञानानि भावनां गच्छन्ति ।

[410।10]
सास्रवाश्च क्षयज्ञाने
[410।11-410।13]
क्षयज्ञाने तु सर्वभूमिकाः सास्रवा अपि गुणाः क्षयज्ञानलाभिका भावनां गच्छन्ति अ4उभानापानस्मृतिस्मृत्युपस्थानाप्रमाणविमोक्षादयः रज्जुच्छेदादुच्छ्वसन्तीव पेडासाधर्म्येण ।
[410।13-410।14]
स्वचित्ताधिराज्यप्राप्तस्य प्राप्तिभिः सर्वकुशलधर्मप्रत्युद्गमनादाधिराज्यपोरप्तौ प्राभृतेन विषयप्रत्युद्गमनवत् ।
[410।15]
यत् किचिल्लभ्यते तत्सर्व भाव्यते ।
यदपूर्व लभ्यते तत् भाव्यते ।
[410।16]
लब्धपूर्व न भाव्यते
[410।17]
यद्विहीनं पुनर्लभ्यते न त्त् भाव्यते ।
भावितोत्सृष्टत्वात् ।
[410।18]
किं खलु प्रतिलम्भ एव भावना नेत्युच्यते ।
चतुर्विधा हि भावना ।
[410।19]
प्रतिलम्भभावना निषेवणभावना प्रतिपक्षभावना विनिर्धावनभावना च ।
तत्र
[410।20-410।21]
प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने ।
प्रतिपक्षविनिर्धवभावने सास्रवस्य तु
[411।01]
प्रतिलम्भनिषेवणभावने कुज्ञलसंस्कृतानां धर्माणामनागतानामेका प्रत्युत्पन्नानामुभे ।
[411।02]
प्रतिपक्षविनिर्धावनभावने सास्रवाणां धर्माणाम् ।
[411।02-411।03]
तदेवं कुशलसास्रवाणां चतस्रो भावना भवन्ति ।
[411।03]
अनास्रवाणां द्वे क्लिष्टाव्याकृतानां च ।
[411।03-411।04]
बाह्याभिधर्मिकाणां षट् भाव्नाः ।
[411।04]
एताश्चतस्रः संवरभावना विभावन च ।
[411।04-411।05]
इन्द्रियाणां पूर्वी कायस्योत्तरा ।
[411।05-411।06]
"षडिगानीन्द्रियाणि सुदान्तानि यावत्सुभावितानि तथा सन्त्यस्मिन्काये क्लेशा" इति विस्तरः ।
[411।06-411।07]

ते तु प्रतिपक्षनिर्धावभावनान्तर्भूते इति काश्मीराः ।
[411।07-411।08]
सामान्येन सर्वेषां पुद्गलानां क्षयज्ञाने गुणभावनोक्ता ।
[411।09]
अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः ।
[411।10]
ये बुद्धस्यैव भगवतः क्षयज्ञाने भावनां गच्छन्ति नान्यस्य ।
कतमे ऽष्टादश ।
[411।11]
दश बलानि चत्वारि वैशारद्यानि त्रीणि स्मृत्युपस्थानानि महाकरुणा च ।
[411।11-411।12]
असाधारणं ह्यावेणिकमित्युच्यते ।
[411।12]
तत्र
[411।13]
स्थानास्थाने दश ज्ञानानि
[411।14]
स्थानास्थानज्ञानबलं दश ज्ञानानि ।
[411।15]
अष्टौ कर्मफले
[411।16]
कमविपाकज्ञानबलमष्टी ज्ञानानि ।
निरोधमार्गज्ञाने हित्वा ।
[411।17]
नव
[411।18]
ध्यानाद्यक्षाध्हिमोक्षेषु धातौ च
[411।19]
ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नव ज्ञानानि ।
निरोध ज्ञानं हित्वा ।
[411।19-411।20]
एवमिन्द्रियपरापरज्ञान बलं नानाधिमुक्तिज्ञानबलं नानाधातुज्ञानबलं वेदितव्यम् ।
[411।21]
प्रतिपत्सु तु ।
[412।01]
दश वा
[412।02]
नव वेति मतविकल्पा ऽर्थो वाशब्दः ।
यदि सफला प्रतिपत् गृह्यते ।
[412।02-412।03]

सर्वत्रगामिनी प्रतिपज्ज्ञानबलं दश ज्ञानानि ।
[412।03]
न चेन्नव ।
अन्यत्र निरोधज्ञानात् ।
[412।04]
संवृतिज्ञानं द्वयोः
[412।05]
पूर्वनिवासानुस्मृतिज्ञानबलं च संवृतिज्ञानम् ।
[412।06]
षट् दश वा क्षये
[412।07]
आस्रवक्षयज्ञानबलं सड् ज्ञानानि धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानिं ।
[412।08]
यदि निरोधज्ञानमेवास्रवक्षयज्ञानम् ।
[412।08-412।09]
अथ क्षीणस्रवसंताने ज्ञानमास्रवक्षयज्ञानं ततो दश ज्ञानानि ।
[412।10]
उक्तः स्वभावो भूमिरिदानीमुच्यते ।
[412।11]
प्राङिनविसच्युतोत्पादबलध्यानेषु
[412।12]
च्युतिरेव च्युतम् ।
पूर्वनिवासच्युत्युपपतीज्ञानं बलं चतुर्ध्यानभूमिकम् ।
[412।13]
शेषितम् ।
[412।14]
सर्वभूमिषु
[412।15]
शेषं बलं सर्वभूमिसंगृहीतम् ।
ताः पुनरेकादश ।
[412।15-412।16]
कामधातुरनागम्य ध्यानान्तरं ध्यानारुप्याश्च ।
[412।16]
सर्वाणि ।
जम्बूद्वीपपुरुषाश्रयाणि ।
अन्यत्र दुद्धानुत्पादात् ।
[412।16-412।17]
तदेतद्दशविधं ज्ञानमन्यस्य बलं नोच्यते ।
[412।17]
बुद्धस्यैव बलमिति ।

[412।18]
केनास्य बलमव्याहतम् यतः
[412।19]
यस्मादस्य सर्वत्र ज्ञेये ज्ञानभव्याहतं वर्तते तस्माद्वलम् ।
[412।19-412।20]
अनेषां तु व्याहन्यते ।
[412।20-413।01]
ज्ञानं ववचिदिच्छतामप्यप्रवृत्तेरिति नार्हति तद्बलाध्यां लब्धुम् ।
[413।01-413।02]
स्थविरशारिपुत्रेण प्रव्रज्यापेक्षपुरुषप्रत्याख्यानं श्येनोपद्रुतस्य पक्षिण उपपत्त्यादीपर्यन्ताज्ञानं चात्रोदाहरणम् ।
[413।02-413।03]
एवं तावदव्याहतज्ञानत्वाद्बुद्धानां ज्ञेयवदनन्तं मानसं बलम् ।
[413।04]
नारायणबलं काये
[413।05]
काये पुनर्बुद्धस्य नारायणं बलं वर्णयति
[413।06]
संधिष्वन्ये
[413।07]
सन्धौ सन्धौ नारायणबलमित्यपरे ।
[413।07-413।08]
मानसवत् कायिकमप्यस्यान तं बलमिति भदन्तः ।
[413।08]
अन्यथा ह्यननतज्ञानबलसहिष्णु नं स्यादिति ।
[413।08-413।09]
नागग्रन्धिशङ्कलाशङ्कुसंधयश्च बुधप्रत्येकबुद्धचक्रवर्तिनः ।
[413।10]
किं पुनर्नारायणस्य बलस्य प्रमाणम् ।
[413।11]
दशाधिकम् ।
[413।12]
हस्त्यादिसप्तकबलम्
[413।13]
यद्दशानां प्राकृतहस्तिनां बलं तदेकस्य गन्धहस्तिनः ।
[413।13-413।14]
एवं महानग्नप्रस्कन्दिवराङ्गचानूरनारायणानां दशोत्तरवृद्धिर्वत्तव्या ।
[413।14-413।15]
प्राकृतगन्धहस्तिमहानग्नप्रस्कन्दिनां दशात्तरवृद्धच्यार्धनारायणं बलं तत् द्विगुणं नारायण मित्यपरे ।
[413।15-413।16]
यथा तु वहुतर तथा युज्यते ।

[413।17]
स्प्रष्टव्यायतनं च तत्
[413।18]
तच्चतत्कायिकं बलं सर्वस्यैव स्प्रष्टव्यायतनस्वभावं महाभूतविशेष एव ।
[413।19]
उपादायरूपं सप्तभ्यो ऽर्थान्तरमित्यपरे ।
उक्तानि वलानि ।
[413।20]
वैशारध्यं चतुर्धा तु
[413।21]
यथासूत्रम् ।
एतानि पुनश्चत्वारि वैशारद्यानि
[414।01]
यथाद्यदशमे बले ।
[414।02]
द्वितीयसप्तमे चैव ।
[414।03-414।04]
यथा स्थानास्थानज्ञानबलमेवं सम्यक्संबुद्धस्य वत मे सते इत्येतद्वैशारद्यं वेदितव्यम् ।
[414।04]
यथास्रवक्षयज्ञानबलमेवं क्षीणास्रवस्य वत मे सत इत्येतद्वैशारद्यम् ।
[414।05-414।06]
यथा कर्मस्वकज्ञानवलमेवं ये वा पुनर्मया श्रावकाणामन्तरायिका धर्मा आध्याता इत्येतद्वैशारद्यम् ।
[414।06-414।07]
यथा सर्वत्रगामिनी प्रतिपज्ज्ञानं वलमेवं यो व पुनर्मया श्रावकाणां निर्याणाय मार्ग आध्यात इत्येतद्वैशारद्यं वेदितव्यम् ।
[414।07-414।08]
कथं न ज्ञानमेव वैशार्द्यम् ।
[414।08]
निर्भयता हि वैशारद्यम् ।
[414।08-414।09]
एभिश्च निर्भयो भवति ।
[414।09]
ज्ञानकृतं वैशारद्यं युज्यते ।
न ज्ञानमेव ।
[414।10]
त्रीणि स्मृत्युपस्थानानि पर्षद्भेदात् भवन्ति यथासूत्रम् ।
तत्त्वेतत्
[414।11]
स्मृतिप्रज्ञात्मकं त्रयम्
[414।12]
स्मृतिसंप्रज्ञानस्वभावान्येतानि त्रीणि स्मृत्युपस्थानानि ।

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc