अभिधर्मकोशभाष्य · भाग 601620
आदिकर्मिकावस्थायां कायाद्युपलक्षणार्थं स्मृत्युपस्थानानि ।
[384।18-384।19]
विशेषाधिगमेन वीर्यसंबधंनादूष्मगतेषु सम्यक्प्रधानानि ।
[384।19-384।20]
अपरिहाणीयकुशलमूलप्रवेशत्वात् मूर्धष्वृद्धिपादाः ।
[384।20]
अपुनःपरिहाणित आधिपत्यप्राप्तत्वात् क्षान्तिष्विन्द्रियाणि ।
[384।21]
क्लेशानवमर्दनीयत्वाद्ग्रधर्मेषु बलानि लौकिकान्यधर्मानवमर्दनीयत्वाद्वा ।
[384।21-384।22]
बोध्यासन्नत्वात् भावनामार्गे बोध्यङ्गानि ।
[384।22]
गमनप्रभावित्वाद्दर्शनमार्गे मार्गाङ्गानी ।
[384।23]
तस्याशुगामित्वात् ।
संख्यानुपूर्वीविधानार्थं तु पूर्व सप्तोक्तानि पश्चादष्टौ ।
[384।23-384।25]
तत्र धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं च सम्यग्दृष्टिर्मार्गो मार्गाङ्गं चेति वैभाषिकाः ।
[384।25-384।26]
अपरे पुनरभित्त्वैव क्रमं बोधिपक्ष्याणामानुपूर्वी वर्णयन्ति ।
[384।26-385।02]
"आदित एव तावद्वहुविधविषपव्यासेकविसारिणीनां बुद्धीनां निग्रहार्य स्मृत्युपस्थानानि चेतस उपनिबद्धानि भवन्ति यावदेव गर्धाश्रितानां स्मरसंकल्पानां प्रतिविनोदनाये"ति सूत्रे वचनात् ।
[385।02-385।03]
तद्वलेन वीर्यसंवर्धनाच्चतुर्विधकार्यसंपादनाय सम्यक्चित्तं प्रदधातीति सम्यक्प्रधानानि ।
[385।03-385।04]
ततः समाधिविशोधनादृद्धिपादाः ।
[385।04]
समाधिसंनिश्रयेण लोकोत्तरधर्माधिपतिभूतानि श्रद्धादीनीन्द्रियाणि ।
[385।05]
तान्येव च निर्जितविपक्षसमुदाचाराणि बलानि ।
दर्शनमार्गे बोध्यङ्गानि ।
[385।06]
प्रहमतो धर्मतत्त्वावलोकात् उभयोर्मार्गाङ्गानि ।
[385।06-385।07]
तथा ह्युक्तम् "आर्याष्टाङ्गे खलु मार्गे भावनापरिपूरि गच्छति ।
[385।07-385।08]
चत्वारि स्मृत्युपस्थानानि भावनापरिपूरिं गच्छन्ति यावत् सप्त बोध्यङ्गानी"ति ।
[385।08-385।10]
पुनश्चोक्तं "यथाभूतवचनारोचनमिति भिक्षवश्चतुर्णामार्यसत्यानामेतदधिवचनं यथागतेन मार्गेण प्रक्रमणमिति भिक्षो आर्याष्टाङ्गस्य मार्गस्यैतदधिवचनमि"ति ।
[385।10-385।11]
तस्मादुभयोरार्याष्टाङ्गो मार्ग एष्टव्यः ।
[385।11]
सिद्धो ऽनुक्रमः ।
[385।12]
इदं तु वक्तव्यम् ।
[385।12-385।13]
कति बोधिपक्षा धर्माः सास्रवा इति कत्यनास्रवा इति ।
[385।14]
अनास्रवाणि बोध्यङ्गमार्गाङ्गानि
[385।15]
भावनादर्शनमार्ग योस्तद्वच्यवस्थापनात् ।
[385।15-385।16]
लौकिका अपि हि सम्यग्दृष्टच्यादयः सन्ति ।
[385।16]
ते तु नार्यमार्गशब्दं लभन्ते ।
[385।17]
द्विधेतरे ।
[385।18]
अन्ये बोधिपक्षाः सास्रवाः ।
कस्यां भूमौ कति बोधिपक्षाः ।
[385।19]
सकलाः प्रथमे ध्याने
[385।20]
सर्वे सप्तत्रिंशत्प्रथमे ध्याने ।
[385।21]
अनागम्ये प्रीतिवर्जिताः
[385।22]
कस्मादनागम्ये प्रीत्यभावः ।
[385।22-385।23]
सामन्तकानां बलवाहनीयत्वादधरभूमिसाशङ्कत्वाच्च ।
[386।01]
द्वितीये ऽन्यत्र संकल्पात्
[386।02]
द्वितीये ध्याने सम्यक्संकल्पवर्ज्याः षट्त्रिंशदेव ।
तत्र वितर्काभावात् ।
[386।03]
द्वयोस्तद्द्वयवर्जिताः ।
[386।04]
तृतीयचतुर्थयोर्ध्यानयोः प्रीतिसंकल्पाभ्यां वर्जिताः पञ्चत्रिंशत् ।
[386।05]
ध्यानान्तरे च
[386।06]
ताभ्यामेव द्वाभ्यां वर्जिताः पञ्चत्रिंशदेव ।
[386।07]
शीलाङ्गैस्ताभ्यां च त्रिष्वरुपिषु
[386।08]
वर्जिता इति वर्तते ।
[386।08-386।09]
आरुप्येसु सम्यग्वाक्कर्मान्ताजीवैः प्रीतिसंकल्पाभ्यां च वर्जिता द्वात्रिंशत् ।
[386।10]
कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः ।
[386।11]
द्वार्विशतिर्बोधिपक्ष्यास्तयोरनास्रवमार्गाभावात् ।
[386।12]
बोधिपक्षेषु वर्तमानस्य कस्यामवस्थायामवेत्यप्रसादलाभो वेदितव्यः ।
[386।13]
त्रिसत्यदर्शने शीलधर्मावेत्यप्रसादयोः
[386।14]
लाभो मार्गाभिसमये बुद्धतत्संघयिओरपि ।
[386।15-386।16]
दुःखसमुदयनिरोधसत्यान्यभिसमयन् धर्मे चावेत्यप्रसादमार्यकान्तानि च शीलानि प्रतिलभते ।
[386।16-386।17]
मार्गसत्यमभिसमयन् बुद्धे तस्य च श्रावकसंघे ऽवेत्यप्रसादं प्रतिलभेते ।
[386।17-386।18]
यो हि तयोः प्रसादः सो ऽशैक्ष्येषु बुद्धकरकेषु धर्मेषु शैक्षायाशैक्षेषु च संघकरकेषु प्रसादः ।
[386।18]
अपि शब्दाच्छीलधर्मावेत्यप्रसादौ च प्रतिलभते ।
[386।19]
को ऽयमिह धर्मो ऽभिप्रेतः ।
[387।01]
धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः
[387।02]
मार्गश्च
[387।03]
अतश्चत्वर्यपि सत्यान्यभिसमयतो धर्मावेत्यप्रसादलाभः ।
[387।03-387।04]
त एते श्रद्धाधिष्ठानभेदान्नामतश्चत्वारो ऽवेत्यप्रसादा उच्यन्ते ।
[387।05]
द्रव्यतस्तु द्वे श्रद्धा शीलं च
[387।06-387।07]
बुद्धधर्मसंघावेत्यप्रसादाः श्रद्धास्वभावाः आर्यकान्तानि च शीलानि शीलमिति द्वे द्रव्ये भवतः ।
[387।07]
किं पुनरेते सास्रवानास्रवा एकान्तेनावेत्यप्रसादाः ।
[387।08]
निर्मला ।
[387।09]
अवेत्यप्रसादा इति को ऽर्थः ।
यथाभूतसत्यान्यवबुध्य संप्रत्ययो ऽवेत्यप्रसादः ।
[387।10]
यथा च व्युत्थितः संमुखीकरोति तथैषामानुपूर्वीम् ।
[387।10-387।11]
कथं व्युत्थितः संमुखी करोति ।
[387।11-387।12]
सम्यक्संबुद्धो वत भगवान् स्वाख्यातो ऽस्य धर्मविनयः सुप्रतिपन्नो ऽस्य श्रावकसंघ इति वैद्यभैषज्योपस्थापकभूतत्वात् ।
[387।12-387।13]
चित्तप्रसादकृतश्च शीलप्रसाद इत्युच्यते चतुर्थ उक्तः ।
[387।13]
एवं प्रसन्नस्यैषा प्रतिपत्तिरिति ।
[387।14]
आरोग्यभूतत्वाद्वा देशिक मार्ग सार्थिकयानवद्वा ।
[387।14-387।15]
सूत्र उक्त"मष्टाभिरङ्गै समन्वागतः शैक्षो दर्शभिरङ्गैः समन्वागतो ऽशैक्ष" इति ।
[387।15-387।16]
कस्माच्छैक्षस्य सम्यक् विमुक्तिः सम्यग्ज्ञानं च नोक्तम् ।
[387।17]
नोक्ता विमुक्तिः शैक्षाङ्ग बद्धत्वात् ।
[387।18]
बद्धो हि शैक्षः क्लेशबन्धनैरद्यापीति ।
[387।18-387।19]
कथं बद्धस्यैव सतो विमुक्तिर्व्यवस्थाप्येत ।
[387।19]
न हि बन्धनैकदेशान्मुक्तो मुक्त इत्युच्यते ।
[387।19-387।20]
बिना च विमुक्तच्या कथं विमुक्तिज्ञानम् व्यवस्थाप्यते ।
[387।20-387।21]
अशैक्षस्तु सर्वक्लेशबन्धनात्यन्तनिर्मोक्षाद्विमुक्तितत्प्रत्यात्मज्ञानाभ्यां प्रभावित इति तस्यैव तद्वचनं न्याय्यम् ।
[388।01]
केयं विमुक्तिर्नाम ।
[388।02]
सा पुनर्द्विधा
[388।03]
संस्कृता चासंस्कृता च ।
तत्र ।
[388।04]
असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता ।
[388।05]
क्लेशप्रहाणमसंस्कृता विमुक्तिः ।
अशैक्षाधिमोक्षः संस्कृता विमुक्तिः ।
[388।06]
साङ्गः
[388।07]
सैवासंस्कृता विमुक्तिरशैक्षाङ्गयुक्ता ।
अङ्गानां संस्कृतत्वात् ।
[388।08]
सैव विमुक्ती द्वे
[388।09]
सैव संस्कृता विमुक्तिर्द्वे विमुक्ती सूत्र उक्ते ।
[388।09-388।10]
चेतो विमुक्तिः प्रज्ञाविमुक्तिश्च ।
[388।10]
विमुक्तिस्क्न्धो ऽपि स एव द्रष्ट्टव्यः ।
[388।10-388।11]
यत्तर्हि सूत्र उक्तं "कतमच्च व्याग्राबोध्यायना विमुक्तिपरिशुद्धिप्रधानम् ।
[388।11-388।13]
इह भिक्षवो रागाच्चित्तं विरक्तं भवति विमुक्तं द्वेषान्मोहाच्चित्तं विरक्तं भवति विमुक्तमित्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये परिपूर्णस्य चानुग्रहाय च्छन्दोवीर्यमि"ति विस्तरः ।
[388।14]
तस्मानाधिमोक्ष एव विमुक्तिः ।
किं तर्हि ।
[388।14-388।15]
तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यं विमुक्तिरित्यपरे ।
[388।15]
उक्ता विमुक्तिः ।
[388।16]
सम्यग्ज्ञानं तु सम्यग्दृष्टिः ।
व्यतिरिक्तं कतमत् ।
[388।17]
ज्ञानं बोधिर्यथोदिता
[388।18]
यैव हि पूर्वं बोधिरुक्ता सैवेह सम्यग्ज्ञानं वेदितव्यम् ।
[388।18-388।19]
यदुत क्षयज्ञानमनुत्पादज्ञानं च ।
[388।20]
कतमत् पुनश्चित्तं विमुच्यते किमतीतमनागतं प्रत्युत्पन्नम् ।
[388।21-438।821]
विमुच्यते जायमानसशैक्षं चित्तमावृतेः ।
[389।01]
"अनागतं चित्तमुत्पद्यमानं विसुच्यते अशैक्षमावरणेभ्य" इति शास्त्रपाठः ।
[389।02]
किं पुनस्तस्यावरणम् ।
क्लेशप्राप्तिस्तदुत्पत्तिविवन्धत्वात् ।
[389।02-389।03]
वज्रोपमे हि समाधो स च प्रहीयते ।
[389।03]
तच्चोत्पद्यमानमशैक्षं चित्तं विमुच्यते ।
सा च प्रहीणा भवति ।
[389।04]
तचाशैक्षं चित्तमुत्पन्नं विमुक्तं च ।
यत्तर्हि नोत्पद्यमानं लौकिकं च ।
[389।04-389।05]
तदपि विमुच्यते ।
[389।05]
यत्तु नियतमुत्पत्तौ तदेवोक्तम् ।
[389।05-389।06]
लौकिकं कुतो विमुच्यते ।
[389।06]
तत एवोत्पत्त्यावरणात् ।
[389।06-389।07]
ननु चामुक्तस्यापि शैक्षस्य लौकिकमुत्पद्यते न तत्तादृशम् ।
[389।07]
कीदृशं तत् ।
क्लेशप्राप्तिसहितम् ।
[389।07-389।08]
किमवस्थो मार्गस्तदुत्पत्त्यावरणं प्रजहाति ।
[389।09]
निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम्
[389।10]
वर्तमान इत्यर्थः ।
[389।11-389।12]
या चासंस्कृता विमुक्तिरुक्ता ये च त्रयोधातव उच्यन्ते प्रहाणधातुर्विंरागधातुनिरोधधातुरिति ।
[389।12]
क एषां विशेषः ।
[389।13]
असंस्कृतैव धात्वाख्या
[389।14]
सैवासंस्कृता विमुक्तिस्त्रयो धातवः ।
तत्र पुनः
[389।15]
विरागो रागसंक्षयः ।
[389।16]
रागस्य प्रहाणं विरागधातुः ।
[389।17]
प्रहाणधातुरन्येषां ।
[389।18]
संक्षय इति वर्तते ।
रागादन्येषां क्लेशानां प्रहाणं प्रहाणधातुः ।
[389।19]
निरोधाख्यस्तु वस्तुनः
[389।20]
संक्षय इत्येवानुवर्तते ।
क्लेशनिर्मुक्तस्य वस्तुनः प्रहाणं निरोधधातुः ।
[389।21]
येन वस्तु निर्विद्यते विरज्यते ऽपि तेन वस्तुना ।
चतुष्कोटिकम् ।
कथं कृत्वा ।
[390।01]
निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः
[390।02]
दुःखे समुदयक्षान्तिज्ञानैरेव निर्विद्यते नान्यैः ।
[390।03]
विरज्यते ।
[390।04]
सर्वैर्जहाति यैः
[390।05]
सर्वैरपि दुःखसमुदयनिरोधमार्ग क्षान्तिज्ञानैर्विरज्यते ।
[390।05-390।06]
यैः क्लेशान् प्रजहाति ।
[390।07]
एवं चतुष्कोटिकसंभवः
[390।08]
एवं चतुष्कोतिकं सिध्यति ।
निर्विद्यत एव दुःखसमुदयक्षान्तिज्ञानैः ।
[390।09]
क्लेशान् प्रजहत् निर्वेदवस्त्वालम्बनत्वात् ।
[390।09-390।10]
विरज्यत एव निरोधमार्गक्षान्तिज्ञानैः क्लेशान् प्रजहत् ।
[390।10]
प्रामोद्यवस्त्वालम्बनत्वात् ।
[390।10-390।11]
उभयं पूर्वैः क्लेशान् प्रजहत् ।
[390।11]
नोभयमुत्तरैः क्लेशानप्रजहदिति ।
[390।11-390।12]
तत्र वीतरागः सत्यानि पश्यन्धर्मज्ञानक्षान्तिभिः क्लेशान्न प्रजहाति ।
[390।12-390।13]
ज्ञानैस्तु प्रयोगविमुक्तिविशेषमार्गसंगृहीतैर्न प्रजहातीति ।
=====================================================================
[390।14-390।15]
अभिधर्मकोशभाष्ये मार्गपुद्गलनिर्देशो नाम षष्ठं कोशस्थानं समाप्तमिति
[390।16]
॥श्री लामावाकस्य यदत्र पुण्यम् ॥
सप्तमं कोशस्थानम्
=====================================================================
नमो बुद्धाय
=====================================================================
[391।02]
क्षान्तयश्चोच्यन्ते ज्ञानानि च सम्यग्दृष्टिः सम्यग्ज्ञानं च ।
[391।03]
किं पुनः क्षान्तयो न ज्ञानं सम्यग्ज्ञानं च न दृष्टिः ।
[391।04]
नामला क्षान्तयो ज्ञानं
[391।05]
तत्प्रहेयस्य विचिकित्सा ऽनुशयस्याग्रहीणत्वात् ।
[391।05-391।06]
दृष्टयस्तु ता सन्तिरणात्मकत्त्वात् यथा च क्षान्तयो दृष्टिर्न ज्ञानमेवं पुनः
[391।07]
क्षयानुत्पादधीर्न दक् ।
[391।08]
क्षयानमनुत्पादज्ञानं च न दृष्टिरसन्तीरणापरिमार्गणाशयत्वात् ।
[391।09]
तद्न्योभयथार्या धीः
[391।10]
क्षान्तिक्षयानुत्पादज्ञानेभ्यो ऽन्या ऽनास्रवा प्रज्ञा दृष्टिः ज्ञानं च ।
[391।11]
अन्या ज्ञानं
[391।12]
लौकिकी प्रज्ञा सर्वैव ज्ञानम् ।
[391।13]
दृशश्च षट्
[391।14]
पञ्च दृष्टयो लौकिकी च सम्यग्दृष्टिः ।
[391।14-391।15]
एषा षड्विधा लौकिकी प्रज्ञादृष्टिः अन्या न दृष्टिः ।
[391।15]
ज्ञानं त्वेषा चान्या च ।
कियता सर्वज्ञानसंग्रहः ।
दशभिर्ज्ञानैः ।
[591।16]39116]
समासेन तु
[391।17]
सास्रवानास्रवं ज्ञानं
[391।18]
तयोः पुनः
[391।19]
आद्यं संवृतिज्ञापकम् ।
[392।01]
यत्सास्रवं तत्संवृतिज्ञानम् ।
प्रायेण घटपटस्त्रीपुरुषादिसंवृतिग्रहात् ।
[392।01-392।02]
अज्ञानसंवृतत्वात् इत्यपरे ।
[392।03]
अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च
[392।04]
अनास्र्वं ज्ञानं द्विधा भिद्यते ।
धर्मज्ञानमन्वयज्ञानं च ।
[392।04-392।05]
एवगेते द्वे ज्ञाने त्रीणि भवन्ति ।
[392।05]
संवृतिज्ञानं धर्मज्ञानं च ।
तत्र
[392।06]
सांवृतं सर्वविषयं
[392।07]
संवृतिज्ञानस्य सर्वधर्माः सष्कृतासंस्कृता आलम्बनं संभवतः ।
[392।08]
कामदुःखदिगोचरम् ।
[392।09]
धर्मख्यम्
[392।10]
धर्मज्ञानस्य कामावचरं दुखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् ।
[392।11]
अन्वयज्ञानं तूर्ध्वदुःखादिगोचरम्
[392।12]
अन्वयज्ञानस्य रूपारुप्यावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् ।
[392।13]
ते एव सत्यभेदेन चत्वारि
[392।14]
ते एव धर्मज्ञानान्वयज्ञाने सत्यभेदेन पुनश्चत्वारि ज्ञानानि भवन्ति ।
[392।14-392।15]
दुःखसमुदयनिरोधमार्गज्ञानानि ।
[392।15]
तदालम्बनत्वात् ।
[392।16]
एते चतुर्विधे ।
[392।17]
अनुत्पादक्षयज्ञाने
[392।18-392।19]
एते एव धर्मज्ञानान्वयज्ञाने चतुर्विधे अदृष्टिस्वभावे क्षयज्ञानमनुत्पादज्ञानं चोच्यते ।
[392।20]
ते पुनः प्रथमोदिते
[393।01]
दुःखहेत्वन्वयज्ञाने
[393।02-393।03]
प्रथमोत्पन्ने तु क्षयज्ञानानुत्पादज्ञाने दुःखसमुदयान्वयज्ञाने दुःखसमुदयाकारैर्भावाग्रिकस्कन्धालम्बनत्वात् ।
[393।03]
किम् खलु वज्रोपमो ऽपि ताभ्यामेकालम्वनो ऽस्ति ।
[393।04]
यदि दुःखसमुदयालम्वनो भवति ।
अथ निरोधमार्गालम्बनो नैकालम्बनः ।
[393।05]
चतुर्भ्यः परचित्तवित् ।
[393।06]
वेत्तीति वित् ज्ञानम् ।
परचित्तज्ञानं चतुर्भ्यो ज्ञानेभ्यो द्रष्टव्यम् ।
[393।06-393।07]
धर्मान्वयज्ञानमार्गः संवृतिज्ञानेभ्यः ।
[393।07]
तस्य पुनरयं नियमः
[393।08]
भूम्यक्षपुद्गलोत्क्रान्तम् नष्टाजातं न वेति तत्
[393।09]
भूम्यतिक्रान्तं न जानातीति ।
[393।09-393।10]
अधरध्यानभूमिकेनोत्तरध्यानभूमिकमिन्द्रियातिक्रान्तं न जानाति ।
[393।10-393।11]
श्रद्धाधिमुक्तसमयमुक्तमार्गेण दृष्टिप्राप्तासमयविमुक्तार्ग पुद्गलोत्क्रान्तं न जानाति ।
[393।11-393।12]
अनागाम्यहञ्च्छावक प्रत्येकबुद्धबुद्धमार्ग्गणामधरेणोत्तरं नष्टाजातं न जानाति ।
[393।12-393।13]
अतीतानागतं वर्तमानपर चित्तचैत्तविषयत्वात् ।
[393।13]
किं च भूयः
[393।14]
त धर्मान्वयधीपक्ष्यमन्यो ऽन्यं
[393।15]
धर्मज्ञानपक्ष्यं परचित्तज्ञानमन्वयज्ञानपक्ष्यं चित्तं न जानाति ।
[393।15-393।16]
अन्वयज्ञानपक्ष्यं च धर्मज्ञानपक्ष्यं न जानाति ।
[393।16]
कामधातुर्ध्वधातुप्रतिक्षालम्बनत्वात्तयोः ।
[393।16-393।17]
दर्शनमार्गे परचित्तज्ञानं नास्ति ।
[393।17]
तदालम्बनं त्वस्ति ।
[393।17-393।18]
तत्र परचित्तज्ञानेन दर्ज्ञनमार्ग ज्ञातुकामः प्रयोगं कृत्वा प्रथमौ
[393।19-393।20]
दर्शनक्षणौ ।
श्रावको वेत्ति खङ्गस्त्रीन् सर्वान्बुद्धो ऽप्रयोगतः
[393।21]
श्रावको दर्शनमार्गात् परचित्तज्ञानेन द्वौ क्षणौ जानाति ।
[393।21-393।22]
दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं च ।
[393।22]
अन्वयज्ञानपक्षालम्बनस्यान्यप्रयोगसाध्यत्वात् ।
[393।22-394।01]
यावच्च स तत्र प्रयोगमार मते तावदयं षोडशचित्तमनुप्राप्तो भवतीत्यन्तरा न जानाति ।
[394।01-394।02]
प्रत्येकबुद्धस्त्रीन् क्षणान् ।
[394।02]
प्रथमौ च द्वावष्टमं च समुदयान्वयज्ञानं मृदुप्रयोगत्वात् ।
[394।03]
प्रथमद्वितीयपञ्चदशानित्यपरे ।
[394।03-394।04]
बुद्धस्तु सर्वानेव दर्शनमार्गक्षणानप्रयोगेण जानाति ।
[394।05]
अथ क्षयज्ञानानुत्पादज्ञानयोः को विशेषः ।
[394।06-394।07]
क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः ।
न परिज्ञेयमित्यादिरनुत्पादमतिर्मता
[394।08]
क्षयज्ञानं कतमत् ।
दुःखं मे परिज्ञातमिति जानाति ।
[394।08-394।09]
समुदयः प्रहीणो निरोधः साक्षातकृतो मार्गो भावित इति जानाति ।
[394।09-394।10]
तदुपादाय यत् ज्ञानं दर्शनं विद्या बुद्धिर्बोधिः प्रज्ञा आलोको ऽभिसमयमिदमुच्यते क्षयज्ञानम् ।
[394।10-394।11]
अनुत्पादज्ञानं कतमत् ।
[394।11-394।12]
दुःखं मे परिज्ञातं न पोउनः परिज्ञेयमिति जानाति यावत् मार्गो भावितो न पुनर्भावयितव्य इति ।
[394।12]
तदुपादाये"ति विस्तरेणोक्तं शास्त्रे ।
[394।12-394।13]
कथमनास्रवेण ज्ञानेनैवं जानाति ।
[394।13]
तत्पृष्ठलब्धेन व्युत्थित एवं जानाति ।
[394।13-394।14]
अतस्तद्विशेषेण तयोर्विशेषः ।
[394।14]
शास्त्रे ज्ञापिओत इति काश्मीराः ।
[394।14-394।15]
अनास्रवेणाप्येवं जानातीत्यपरे दर्शनवचनं तु भाष्याक्षेपात् ।
[394।15]
ज्प्रत्यक्षवृत्तित्वाद्वा ।
[394।15-394।16]
अत एवोक्तं "यावत् ज्ञानं दर्शनमपि तदि"ति ।
[394।16-394।18]
इत्येतानि दश ज्ञानानि भवन्ति यदुत धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं दुःखज्ञानं समुदयञ्ण्यानं निरोधज्ञानं मार्गज्ञानं परचित्तज्ञानं क्षयज्ञानमनुत्पादज्ञानं च ।
[394।18-394।19]
तत्र संवृतिज्ञानमेकं ज्ञानमेकस्य च भागः ।
[394।19]
धर्मज्ञानमेकं ज्ञानं सप्तानां च भागः ।
[394।19-394।20]
दुःखसमुदयनिरोधमार्ग क्षयानुत्पादपरचित्तज्ञानानाम् ।
[394।20]
एवमन्वयज्ञानम् ।
[394।20-394।21]
दुःखज्ञानमेकं ज्ञानं चतुर्णा च भागः ।
[394।21]
धर्मान्वयक्षयानुत्पादज्ञानानाम् ।
एवं समुदयनिरोधज्ञाने चतुर्णां भागः ।
[394।22]
मार्गज्ञानमेकं ज्ञानं पञ्चानां च भागः ।
चतुर्णामनन्तरोक्तानां परचित्तस्य च ।
[394।23]
परचित्तज्ञनमेकं ज्ञानं चतुर्णां च भागः ।
धर्मान्वयमार्ग संवृतिज्ञानानाम् ।
[394।24]
क्षयज्ञानमेकं ज्ञानं षण्णां च भागः ।
धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानाम् ।
[394।25]
एवमनुत्पादज्ञानम् ।
[394।16-394।26]
कस्मात् पुनरेतानि वीणि सन्ति दश व्यवस्थाप्यन्ते ।
[395।01-395।02]
स्वभावप्रतिपक्षान्यामाकाराकारगोचरात् ।
प्रयोगकृतकृत्यत्वहेतूपचयोतो दश
[395।03]
सप्तभिः किल कारणैर्दश ज्ञानानि व्यवस्थाप्यन्ते ।
[395।03-395।04]
स्वभावतः संवृतिज्ञानमपरमार्थज्ञानत्वात् ।
[395।04]
प्रतिपक्षतो धर्मान्वयज्ञाने ।
कामथातुर्ध्वधातुप्रतिपक्षत्वात् ।
[395।05]
आकारतो दुःखसमुदयज्ञाने ।
आलम्बनाभेदात् ।
[395।05-395।06]
आकारालम्बनतो निरोधमार्गज्ञाने ।
[395।06]
आकारालम्बनभेदात् ।
प्रयोगतः परचित्तज्ञानम् ।
न हि तेन चैत्ता न ज्ञायते ।
[395।07]
चित्तज्ञानार्थे तु प्रयुक्तस्याभिनिष्पत्तेः परचित्तज्ञानमुक्तम् ।
[395।07-395।08]
कृतकृत्यतः क्षयज्ञानं कृतकृत्यसंतानोत्पत्तेः ।
[395।08-395।09]
प्रथमतः हेतूपचयतो ऽनुत्पादज्ञानं सर्वानास्रवहेतुकत्वादिति ।
[395।10]
सकलस्य सकलप्रतिपक्षत्वात् कामधातुप्रतीपक्षो धर्मज्ञानमित्युक्तम् ।
[395।11]
अपि तु
[395।12]
धर्मज्ञाननिरोधे यन्मार्गे वा भावनापथे ।
[395।13]
त्रिधातुप्रतिपक्षस्तत्
[395।14]
निरोधमार्गज्ञाने भावनामार्गसंगृहीते त्रिधातुप्रतिपक्षः ।
[395।15]
कामधातोस्तु नान्वयम्
[395।16]
अन्वयज्ञानम् तु सर्वथा नास्ति कामधातुपोरतिपक्षः
[395।17]
एषां दशानां ज्ञानानां
[395।18]
धर्मज्ञानान्वयज्ञानं षोड्डशाकारम्
[395।19]
तान् पुरस्तादुपदेक्ष्यामः ।
[395।20]
अन्यथा ।
[395।21]
तथा च सांवृतं
[395।22]
संवृतिज्ञानं षोडशाकारमन्यथाकारं च सर्वधर्माणां स्वसामान्यलक्षणादिग्रहणात् ।
[395।23]
स्वैः स्वैः सत्याकारैश्चतुष्टयम्
[396।01-396।02]
दुःखसमुदयनिरोधमार्ग ज्ञानानि स्वैः स्वैः सत्याकारैः प्रवर्तन्त इत्येकैकं चतुराकारं भवन्ति ।
[396।03]
तथा परमतोज्ञानं निर्मलं
[396।04]
अनास्रवं परचित्तज्ञानं तथेव ।
स्वसत्याकारत्वाच्चुतुराकारं मार्गज्ञानत्वात् ।
[396।05]
समलं पुनः ।
[396।06]
शेयस्वलक्षणाकारं
[396।07]
सास्रवं परचित्तज्ञानं ज्ञेयानां चित्तचैत्तानां यत् स्वलक्षणम् तदाकारयति ।
[396।08]
स्वलक्षणग्राहकत्वात् ।
लभयमपि तु
[396।09]
एकैकद्रव्यगोचरम्
[396।10-396।11]
यदा चित्तं गृह्लाति न तदा चित्तानां यदा वेदनां न तदा संज्ञामित्येवमादि ।
[396।11-396।12]
यत्तर्हि भगवतीक्तम् "सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाती"त्येवमादि ।
[396।12]
न तयोर्दुगपद्ग्रहणम् ।
वस्त्रमलायुगापद्ग्रहणवत् ।
[396।12-396।13]
सरागं चित्तमिति द्विधा सरागता ।
[396।13]
संसृष्टसरागता संयोइग सरागता च ।
[396।13-396।14]
तत्र सरागं संप्रयुक्तं चित्तं द्वाभ्यां सरागं ततो ऽन्यत्सास्रवं संयोगसरागतया सरागम् ।
[396।14-396।15]
अत्र तु सूत्रे रागसंप्रयुक्तं सरागं रागप्रतिपक्षी विगतरागमित्येके ।
[396।15-396।16]
यदि हि रागेणासंप्रयुक्तं विगतरागं स्यादन्यक्लेशसम्प्रयुक्तमपि स्यात् ।
[396।16-396।17]
एवं तर्हि तदप्रतिपक्षः सास्रवं चित्तमक्लिष्टं नैव सरागं न विगतरागं स्यादित्येवमादि ।
[396।17-396।18]
तस्माद्रागसंप्रयुक्ततया ऽपि सरागं चित्तमत्रेष्टव्यमित्यपरे ।
[396।18-396।19]
एवं यावत्समोहं विगतमोहं च वेदितव्यम् ।
[396।19]
संक्षिप्तं कुशलमालम्बनाभिसंक्षेपात् ।
[396।19-396।20]
विक्षिप्तं क्लिष्टं विक्षेपसंप्रयोगात् ।
[396।20]
संक्षिप्तं मिद्धसंप्रयुक्तं विक्षिप्तमन्यत क्लिष्टमिति पाश्चात्त्याः ।
[396।21]
तदेतन्न वर्णयन्ति ।
तदेव हि चित्तं संक्षिप्तविक्षिप्तं स्यात् क्लिष्टमिद्धसंप्रयीगात् ।
[396।22]
शास्त्रविरोधश्च स्यात् ।
"संक्षिप्तं चित्तं यथाभूतं प्रजानाति ।
[396।22-396।23]
तज्ज्ञानं चत्वारि ज्ञानानि धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं मार्गज्ञानमि"ति ।
[396।24]
लीनं चित्तं क्लिष्टं कौशीद्यसंप्रयोगात् ।
प्रगृहीतं कुशलं वीर्यसंप्रयोगात् ।
[396।24-396।25]
परीतां क्लिष्टं व्यवदानपरीत्तैर्निषेवितत्वात् ।
[396।25]
महद्गतं कुशलं तद्विपर्ययात् ।
[396।25-397।01]
मूलमूल्यपरिवारानुपरिवर्तकवलाल्पवहुत्वाच्च ।
[397।01-397।02]
क्लिष्टचित्तं द्वाभ्यामकुशलमूलाभ्यां समुलम् ।
[397।02]
कुशलं त्रिभिः कुशलमूलैः ।
क्लिष्टमल्पमूल्यमयत्न-साध्यत्वात् ।
[397।03]
कुशलं भुमूल्यं वहाभिसंस्कारसाध्यत्वात् ।
[397।03-397।04]
क्लिष्टं तज्जातीयानागतभावना ऽभावान्न महापरिवारं त्रिभिश्च स्कन्धैः सानुपरिवर्तम् ।
[397।04-397।05]
कुशलं तु महापरिवारं चतुर्भिश्च स्कन्धैः सानुपरिवर्तम् ।
[397।05-397।06]
अल्पबलं खल्वपि क्लिष्टं बहुबलं कुशलम् ।
[397।06]
एकया हि दुःखे धर्मज्ञानक्षान्त्या दशानुशयात्यन्तसमुद्घातः क्रियते ।
[397।07]
तस्मादपि क्लिष्टम् परीत्तं कुशलं महद्गतम् ।
उद्धतं क्लिष्टमौद्धत्यसंप्रयोगात् ।
[397।08]
अनुद्धतं कुक्शलं तत्प्रतिपक्षत्वात् ।
एवमब्युपशान्त्ं व्युपशान्तं च ।
[397।08-397।09]
असमाहितं क्लिष्टं विक्षेपसंप्रयोगात् ।
[397।09]
समाहितं कुशलं तत्प्रतिपक्षत्वात् ।
[397।09-397।10]
अभावितं क्लिष्टं प्रतिलम्भतिषेवणभावनाभ्यामभावितत्वात् ।
[397।10-397।11]
भावितं कुशलं ताभ्यां भावितत्वात् विमुक्तं क्लिष्टं स्वभावसंतानविमुक्तिभ्यामविमुक्तत्वात् ।
[397।12]
विमुक्तं कुशलं ताभयं विमुक्तत्वादिति वैभाषिकाः ।
एवं तु सूत्रं नानुलोमितं भवति ।
[397।13]
एषां च पदानां नार्थविशेष उक्तो भवति ।
[397।13-397।14]
सूत्र उक्तं "कथं चित्तमध्यात्मं संक्षिप्तं भवति ।
[397।14-397।15]
यच्चित्तम् स्त्यानमिद्धसहगतमध्यात्मं संनिरोधसहगतं नो तु विपश्यनया समन्वागतम् ।
[397।15-397।16]
कथं वहिर्विक्षिप्तं भवति ।
[397।16]
यच्चित्तं पञ्चसु कामगुणेष्वनुविक्षिप्तं भवत्यनुविसृतमि"ति ।
[397।16-397।17]
ननु चोक्तं तदेव चित्तं संक्षिप्तं स्याद्विक्षिप्तं चेति ।
[397।17-397।18]
उक्तमिदमयुक्तं तूक्तं विद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानात् ।
[397।18]
ननु चोक्तं शास्त्रविरोधः स्यादिति ।
[397।18-397।19]
वरं शास्त्रविरोधो न सूत्रविरीधः ।
[397।19]
कथमेषां पदानां नार्थविशेष उक्तो भवति ।
[397।20-397।21]
विक्षिप्तलिलिनोद्धताव्युपशान्तासमाहिताभाविताविमुक्तानां चित्तानामभिन्नलक्षणवचनात् संक्षिप्तप्रगृहीतादीनां च ।
[397।21]
न वै नोक्तः पदानामर्थविशेषो भवति ।
[397।21-397।22]
क्लिष्टसामान्ये ऽपि तद्दोषसंदर्शनात् ।
[397।22-397।23]
इत्यप्येतत् क्लिष्टं चित्तं विक्षिप्तं लीनमिति विस्तरः ।
[397।23-397।24]
एवं कुशलस्यापि गुणविशेषसंदर्शनादुक्त एवर्थविशेषो भवति ।
[397।24]
सूत्रविरोधस्यापरिहारान्नैष एषां पदानामर्थः ।
[397।24-397।25]
यदि च सूत्रे तदेव लीनं चित्तं तदेवोद्धतमित्यभिप्रेतं स्यात् इदं नोक्तं स्यात् ।
[397।25-397।27]
"यस्मिन्समये लीनं चित्तं भवति लयाभिर्शङ्क वा अकालस्तस्मिन्समये प्रस्रब्धिसमाध्युपेक्षासंवोध्यङ्गानां भावनायाः ।
[397।27-397।28]
यस्मिन्सगये उद्धातं चित्तं भवति औद्धत्याभिशङ्कि वा अकालस्तस्मिन्समये धर्मविचयवीर्यप्रीतिसंवोध्यङ्गानां भावनाया" इति ।
[397।28-398।01]
किं पुनर्वोध्यङ्गानां व्यग्रा भावना ।
[398।01]
मनसिकरणं तेषां भावनेष्टा न संमुखीभाव इत्यदोष एषः ।
[398।01-398।02]
कौशीद्याधिकमत्र चित्तं लीनमित्युक्तम् ।
[398।02]
औद्धत्याधिकं चोद्धतमित्यविरोधः ।
[398।02-398।03]
तयोस्तु सहभावात्तदेव चित्तं लीनं तदेवोद्धतमिति ब्रूमः ।
[398।03]
नाभिप्रयिकं वचनं वार्यते ।
[398।03-398।04]
सूत्रे तु नायमभिप्राय इति ब्रूमः ।
[398।04]
यत्तूक्तं "सर्वमेव रागसंप्रयुक्तं चित्तं सरागमि"ति ।
[398।05]
कतमच्चित्तं रागसंप्रयुक्तम् ।
रागप्राप्तिसहितं चेत् ।
[398।05-398।06]
असास्रवमिति सरागं प्राप्नोति शैक्षचित्तम् ।
[398।06]
रागालम्बनं चेत् ।
अर्हतो ऽपि सास्रवं चित्तं सरागमिति गृह्लीयात् ।
[398।07]
रागालम्बनत्वात्
कथं वा तत्सास्रवम् ।
[398।07-398।08]
सामान्य क्लेशालम्बनत्वादिति चेत् ।
[398।08]
एवमपि समोहं गृह्लीयान्मोहालम्बनत्वात् ।
[398।08-398।09]
न च परचित्तज्ञानं प्राप्त्यालम्बनं नापि तच्चित्तालम्बनं रागालम्बनम् ।
[398।09-398।10]
तस्मान्न रागसंप्रयोगात्सरागं चित्तमत्रेष्टम् ।
[398।10]
किं तर्हि ।
[398।10-398।11]
रागसंप्रयुक्तं चित्तं सरागमसंप्रयुक्तं विगतरागमिति सूत्राभिग्रायो दृश्यते ।
[398।11-398।12]
यत् तूक्तं "विगतरागमस्य तच्चित्तं भवति विगतद्वेषं विगतमोहमनावर्त्तिकधर्मि कामभवे रूपभवे आरुप्यभवे" इति ।
[398।13]
तत्र तत्प्रप्तिविगमं संधायोक्तम् ।
[398।13-398।14]
ननु चोक्तम् अन्यक्लेशसंप्रयुक्तमपि चित्तं रागविप्रयुक्तत्वाद्विगतरागं स्यादि"ति ।
[398।14]
एतेनाभिसंधिना न दोषः ।
[398।14-398।15]
न तु तद्विगतरागमिति कृत्वा गृह्यते ।
[398।15]
किं तर्हि ।
सद्वेषं समोहमित्येवमादि ।
[398।15-398।16]
अलं प्रसङ्गेन सिद्धान्तो वर्ण्यताम् ।
[398।17]
किं परचित्तज्ञानं परचित्तस्याकारमालम्बनं वा गृह्लाति ।
[398।17-398।19]
न गृह्लाति आकारलम्बननिरपेक्षंं हि तद्रक्तमिदं चित्तमिति जानाति नत्वमुष्मिन् रुपे रक्तमिति जानाति ।
[398।19-398।20]
अन्यथा हि तद्रूपालम्बनमपि स्यात् तदालम्बनं च परचित्तं गृह्लतः स्वभावग्रहणं प्राप्नुयात् ।
[398।20-398।22]
सर्वं च परचित्तज्ञानं द्रव्यस्वलक्षणचित्तचैत्तप्रत्युत्पन्नपरसंततिकामरूपप्रतिसंयुक्ताप्रतिसंयुक्तविषयं दर्शनमार्गप्रतिषिद्धं भावनामार्ग उपलभ्यते ।
[398।22-398।23]
शून्यता ऽनिमित्तसमाधि विप्रयुक्तं क्षयानुत्पादज्ञानासंगृहीतमानन्तर्यमार्ग प्रतिषिद्धं च वेदित्तव्यम् ।
[398।23]
उक्तं परचित्तज्ञानम् ।
[399।01]
शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते ।
[399।02]
क्षयानुत्पादज्ञाने शेषे ते चतुर्दशाकारे शून्यानात्मकारौ वर्जयित्वा ।
[399।02-399।04]
पारमार्थिकयोरपि संवृतिभजनात् शीणा मे जातिर्नापरमस्माद्भवं प्रजानामीति तद्वलानुव्यवहारतः ।
[399।05]
किमनास्रवः स्वलक्षणाकारो ऽस्त्यथ न ।
काश्मीराणां तावत्
[399।06]
नामलः षोडशभ्यो ऽन्य आकारः
[399।07]
नास्त्यनास्रवाकारः षोडशाकारनिर्मुक्तः ।
[399।08]
अन्ये ऽस्ति शास्त्रतः
[399।09]
श्रन्ये पुनरस्तीत्याहुर्वहिर्देशकाः ।
कथं गम्यते ।
शास्त्रतः इति ।
[399।09-399।10]
शास्त्रे ह्येवमाह ।
[399।10]
"स्यादप्रतिसंयुक्तेन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयात् ।
[399।11]
अनित्यतो दुःखतः शून्यतो ऽनात्मतः हेतुतः समुदयतः प्रभवतः प्रत्ययतः ।
[399।11-399।12]
अस्त्येतस्थानमस्त्येतद्वस्त्विति ।
[399।12]
योगविहितती विजानोयादि"ति ।
[399।12-399।14]
नास्यायमर्थो यदस्त्येतत्स्थानमस्त्येतद्वस्त्वित्येवं विजानीयादिति अपि त्वस्त्येतत् स्थानमस्त्येतद्वस्तु यदनित्यादितो विजानीयादिति चेत् ।
[399।14]
न।
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0