भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 4160

[024।20-024।21]
अष्टादशानं धातूनां कश्छीनत्ति कशिचिआद्यते को दहति को दह्यते कस्तुलयति कस्तुल्यते ।
[024।22]
छिनत्ति च्छिद्यते चैव बाह्यं धातुए चतुष्टयम् ।
[024।23]
रूपगन्धरसस्प्रष्टव्याख्यं परशुदार्वादिसंज्ञकम् ।
छेदो नाम क एष धर्मः ।
[024।23-024।24]
संबन्धोत्पादिनः संघातस्रोतसो विभक्तोत्पादनम् ।
[024।24]
न कायेन्द्रियादीनि च्छिद्यन्ते ।
[024।24-024।25]
निरवशेषाङ्गच्छेदे तदद्वैधीकरणात् ।
[024।25]
न हीन्द्रियाणि द्विधा भवन्ति ।
[024।25-024।26]
छिन्नस्याङ्गस्य निरिन्द्रियत्वात् ।
[024।26]
न चापि च्छिन्दन्ति ।
मणिप्रभावदन्धत्वात् ।
[024।26-024।27]
यथा च्छिनत्ती च्छियते चैव बाह्यं धातुचतुष्टयम् ।
[025।01]
दह्यते तुलयत्येवं
[025।02]
तदेव दह्यते तदेव तुलयति ।
नेन्द्रियाण्यच्छत्वान्मणिप्रभावत् ।
न शब्द उछेदित्वात् ।
[025।03]
विवादो दग्धृतुल्ययोः
[025।04]
केचिदाहुः तदेव धातुचतुष्टयं दाहकं तुल्यं च
[025।04-025।05]
केचिदाहुस्तेजोधातुरेव दग्धा गुरुत्वमेव च तुल्यमिति ।
[025।06-025।07]
कति विपाकजाः धातवः कत्यौपचयिकाः कति नैह्ष्यन्दिकाः कति द्रवयुक्ताः कति क्षणिकाः ।
[025।07]
आह ।
[025।08]
विपाकजौपचयिकाः पञ्चाध्यात्मं ।

[025।09-025।10]
अध्यात्मं तावत् पञ्च धातवः चक्षुरादयो विपाकजाश्चौपचयिकाश्च ।
[025।10]
नैःष्यन्दिका न सन्ति ।
तद्व्यतिरिक्तनिष्यन्दाभावात् ।
[025।10-025।11]
तत्र विपाकहेतोर्जाताः विपाकजाः ।
[025।11]
मध्यपदलोपात् गोरथवत् ।
[025।11-025।12]
फलकालप्राप्तं वा कर्म विपाक इत्युच्यते ।
[025।12]
विपच्यत इति कृत्वा ।
तस्माज्जाता विपाकजाः ।
[025।12-025।13]
फलं तु विपक्तिरेवेति विपाकः ।
[025।13]
भवतु फलहेतौ फलोपचारो यथा फले हेतूपचारः ।
[025।13-025।14]
"षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यम्"इति ।
[025।14-025।15]
आहारसंस्कारस्वप्नसमाधिविशेषैरुपचिता औपचयिकाः ।
[025।15]
ब्रह्ंअचर्येण चेत्येके ।
अनुपघातमात्रं तु तेन स्यान्नोपचयः ।
[025।15-025।16]
विपाकसन्तानस्योपचयसन्तानः प्रतिप्राकार इवारक्षा ।
[025।16-025।17]
शब्द औपचयिको नैःष्यन्दिकश्चास्ति ।
[025।18]
विपाकजः ।
[025।19]
न शब्दः
[025।20]
किं कारणम् ।
ईहातः प्रवृत्तेः ।
[025।20-025।21]
यत्तर्हि प्रज्ञप्तिशास्त्रे उक्तं "पारुष्यविरतेः सुभावितत्वाद् ब्रह्मस्वरता महापुरुषलक्षणं निर्वर्त्त इति ।
[025।21]
तृतीया ऽसौ परंपरेत्येके ।

[025।22]
कर्मभ्यो हि भूतानि भूतेभ्यः शब्दः इति ।
पञ्चम्यसौ परंपरेत्यपरे ।
[025।22-025।24]
कर्मभ्यो हि विपाकजानि महाभूतानि तेभ्यश्चौपचयिकानि तेभ्यो नैःष्यन्दिकानि तेभ्यः शब्द इति ।
[025।24-025।25]
एवम् तर्हि शाही हिक्यपि वेदना कर्मजभूतसंभूतत्वान्न विपाकः प्रप्नोति ।
[025।25]
यदि शब्दवद् युक्तिविरोधः स्यात् ।
[025।26]
अप्रतिघा अष्टौ नैःष्यन्दिकविपोआकजाः
[025।27]
कतमे ऽष्टौ ।
सप्त चित्तधातवो धर्मधातुश्च ।
नैःष्यन्दिकाः सभागसर्वत्रगहेतुजनिताः ।
[026।01]
विपाकजा विपाकहेतुजनिताः ।
औपचयिका न सन्त्यप्रतिघानां सञाभावात् ।
[026।02]
त्रिधा ऽन्ये
[026।03]
अन्ये चत्वारः शेषा रूपरसगन्धस्प्रष्टव्यधातवः ।
[026।03-026।04]
ते विपाकजा अप्यौपचयिका अपि नैःष्यन्द्रिका अपि ।
[026।05]
द्रव्यवानेकः
[026।06]
असंस्कृतं हि सारत्वाद् द्रव्यम् ।
तच्च धर्मधातावस्त्यतो धर्मधातुरेको द्रव्ययुक्तः ।
[026।07]
क्षणिकाः पश्चिमास्त्रयः ।
[026।08]
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च पाठक्रमेण पश्चिमाः ।
[026।08-026।09]
ते प्रथमानास्रवे दुःखे धर्मज्ञानक्षान्तिकलापे क्षणमेकमनैःष्यन्दिका भवन्त्यतः क्षणिका इत्युच्यन्ते ।
[026।09-026।10]
अन्यसंभूतसंस्कृतो नास्ति कश्चिदनैःष्यन्दिकः ।
[026।10-026।11]
तत्र दुःखे धर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तं मनोधातुर्मनोविज्ञानधातुश्च ।
[026।11]

शेषास्तत्सहभुवो धर्मधातुः ॥
[026।12-025।12]
इदं विचार्यते ।
[026।12-026।13]
यश्चक्षुर्धातुना ऽसमन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुना ऽपि सः ।
[026।13]
यो वा चक्षुर्विज्ञानधातुना चक्षुर्धातुना ऽपि सः ।
आह ।
[026।14]
चक्षुर्विज्ञानधात्वोः स्यात् पृथक् लाभः सहापि च
[026।15]
पृथक् तावत् स्याच्चक्षुर्धातुना न चक्षुर्विज्ञानधातुना ।
[026।15-026।16]
कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः ।
[026।16]
आरुप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः ।
[026।16-026।17]
स्याच्चक्षुर्विज्ञानधातुना न चक्षुर्धातुना ।
[026।17-026।18]
द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञान संमुखीकुर्वाणस्तत्प्रच्युतश्चाधस्तादुपपद्यमानः ।
[026।18-026।19]
सहापि स्यादुभयेन समन्वागमं प्रतिलभते ।
[026।19]
आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः ।
नोभयेन ।
[026।20]
एतानाकारान् स्थापयित्वा ।
यश्चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञानधातुना ऽपि सः ।
[026।21]
चतुष्कोटिकः ।
प्रथमा कोटिर्द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानासंमुखीकुर्वाणः ।
[026।22]
द्वितीया कामधातावलब्धविहीन चक्षुः ।
[026।22-026।23]
तृतीया कामधातौ लब्धाविहीनचक्षुः प्रथमध्यानोपपन्नो द्वितीयादिध्यानोपपन्नश्च पश्यन् ।
[026।23-026।24]
चतुऋथ्येतानाकारान् स्थापयित्वा ।
[026।24-026।25]
एवं चक्षुर्धातुरूपधात्वोश्चक्षुर्विज्ञानरूपधात्वोश्च प्रतिलम्भसमन्वागमौ यथायोगमभ्यूहितव्यौ ।
[026।25]

एतस्य प्रसङ्गस्य समुच्चयार्थश्चशब्दः सहापि च इति ।
[027।01]
कत्याध्यात्मिका धातवः कति बाह्याः ।
[027।02]
द्वादशाध्यात्मिकाः
[027।03]
कतमे द्वादश ।
[027।04]
हित्वा रूपादन्
[027।05]
षड् विज्ञानानि षडाश्रया इत्येते द्वादश धातव आध्यात्मकाः ।
[027।05-027।06]
रूपादयस्तु षड् विषयधातवो बाह्याः ।
[027।06]
आत्मन्यसति कथमाध्यात्मिकं बाह्यं वा ।
[027।06-027।07]
अहङ्कारसन्निश्रयत्वाच्चित्तमात्मेत्युपचर्यते ।
[027।08]
"आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः"
[027।09-026।09]
इत्युक्तम् ।
[027।09]
चित्तस्य चान्यत्र दमनमुक्तं भगवता ।
[027।10]
"चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्" इति ।
[027।11]
अत आत्मभूतस्य चित्तस्याश्रयभावेन प्रत्यासन्नत्वात् ।
[027।11-027।12]
चक्षुरादीनामाध्यात्मिकत्वं रूपादीनां विषयभावाद् बाह्यत्वम् ।
[027।12-027।13]
एवम् तर्हि षड् विज्ञानधातव आध्यात्मिका न प्राप्नुवन्ति ।
[027।13]
न ह्येते मनोधातुत्वमप्राप्ताश्चित्तस्याश्रयीभवन्ति ।
[027।13-027।14]
यदा तदा त एव ते भवन्तीति लक्षणं नातिबर्त्तन्ते ।
[027।14-027।15]
अन्यथा हि मनोधातुरतीत एव स्यान्नानागतप्रत्युत्पन्नः ।
[027।15]
इष्यन्ते चाष्टादश धातवस्त्रैयध्विकाः ।
[027।15-027।16]

यदि चानागतप्रत्युत्पन्नस्य विज्ञानस्य मनोधातुलक्षणं न स्यात् अतीते ऽप्यध्वनि मनोधातुर्न व्यवस्थाप्येत ।
[027।17]
नहि लक्षणस्याध्वसु व्यभिचारो ऽस्तीति ॥
[027।18]
कति धातवः सभागाः कति तत्सभागाः ।
एकान्तेन तावत्
[027।19]
धर्मसंज्ञकः ।
[027।20]
सभागः
[027।21-027।22]
यो हि विषयो यस्य विज्ञानस्य नियतो यदि तत्र तद्विज्ञानमुत्पन्तं भवत्युत्पत्तिधर्मि वा एवं स विषयः सभाग इत्युच्यते ।
[027।22-027।23]
न च सो ऽस्ति कश्चिद्धर्मधातुर्यत्र नानन्तं मनोविज्ञानमुत्पन्नमुत्पत्स्यते वा ।
[027।23-027।24]
तथा हि सर्वार्यपुद्गलानामिदं चित्तमवश्यमुत्पद्यते "सर्वधर्मा अनात्मान" इति ।
[027।14-027।25]
तस्य च स्वभावसहभूनिर्मुक्ताः सर्वधर्मा आलम्बनम् ।
[027।25-027।26]
स पुनश्चित्तक्षणो ऽन्यस्य चित्तक्षणस्यालम्बनमिति द्वयोः क्षणयोः सर्वधर्मा ह्यालम्बनं भवन्ति ।
[027।26]
तस्माद् धर्मधातुअर्नित्यं सभागः ।
[027।27]
तत्सभागाश्च शेषाः
[027।28]
सभागश्चेति चशब्दः ।
को ऽयं तत्सभागो नाम ।
[028।01]
यो न स्वकर्मकृत्
[028।02]
उक्तं भवति यः स्वकर्मकृत् स सभाग इति ।
[028।02-028।03]
तत्र येन चक्षुषा रूपाण्यपश्यत् पश्यति द्रक्ष्यति वा तदुच्यते सभागं अचक्षुः ।
[028।03-028।04]
एवं यावन्मनः स्वेन विषयकारित्रेण वक्तव्यम् ।
[028।04]
तत्सभागं चक्षुः काश्मीराणां चतुर्विधम् ।
[028।04-028।05]
यद् दृष्ट्वा रूपाणि निअरुद्धं निरुध्यते निरोत्स्यते वा यच्चानुत्पत्तिधर्मि ।
[028।05-028।06]

पाश्चात्त्यानां पुनः पञ्चविधम् ।
[028।06]
तदेवानुत्पत्तिधर्मि द्विधा कृत्वा विज्ञानसमायुक्तं चासमायुस्क्तं च ।
[028।07]
एवं यावत् कायो वेदितव्यः ।
मनस्त्वनुत्पत्तिधर्मकमेव तत्सभागम् ।
[028।07-028।08]
रूपाणि च यानि चक्षुषा ऽपशायत् पश्यति द्रक्ष्यति वा तानि सभागानि ।
[028।08]
तत्सभागानि चतुर्विधानि ।
[028।09]
यान्यदृष्टान्येव निरुद्धानि निरुध्यन्ते निरुत्स्यन्ते वा यानि चानुत्पत्तिधर्मीणि ।
[028।09-028।10]
एवं यावत् स्प्रष्टव्यानि ।
[028।10]
स्वेन्द्रियकारित्रेण सभागतत्सभागानि वेदितव्यानि ।
[028।10-028।11]
यदेकस्य चक्षुः सभागं तत्सर्वेषाम् ।
[028।11]
एवं तत्सभागमपि ।
[028।110-02811]
तथ यावन्मनः ।
[028।11-028।12]
रूपं तु यः पश्यति तस्य सभागं यो न पश्यति तस्य तत्सभागम् ।
[028।12]
किं कारणम् ।
[028।12-028।13]
अस्ति हि संभवो यद्रूपमेकः पश्यति तद्धवो ऽपि पश्येयुर्यथा चन्द्रनट्मल्लप्रेक्षासु ।
[028।13-028।14]
नतु संभवो ऽस्ति यदेकेन चक्षुषा द्वौ पश्येताम् ।
[028।14]
अतो ऽस्यासाधारणत्वादेकसन्तानवशेन व्यवस्थानम् ।
[028।15]
रूपस्य तु साधारणत्वात् अनेकसन्तानवशेन ।
[028।15-028।16]
यथा रौपमेवं शब्दगन्धरसस्प्रष्टव्यधातवो वेदितव्याः ।
[028।16]
भवतु शब्द एवम् ।
[028।16-028।18]
गन्धादयस्तु य एकेन गृह्यन्ते न ते ऽन्येन प्राप्तगृहणादित्यसाधारणत्वादेषां चक्षुरादिवदतिदेशो न्याय्यः ।

[028।18]
अस्त्येतदेवमपि त्वेशामपि संभवं प्रति साधारणत्वम् ।
[028।18-028।19]
अस्ति ह्येष संभवो य एव गन्धादय एकस्य घ्राणादिविज्ञानमुत्पादयेयुस्त एवान्येषामपि ।
[028।20]
न त्वेवं चक्षुरादयः ।
तस्मान्देषां रूपादिवदतिदेशः ।
[028।20-028।21]
चक्षुर्विज्ञानादीनां सभागतत्सभागत्वमुत्पत्त्यनुत्पत्तिधर्मित्वाद्यथा मनोधातोः ।
[028।22]
सभाग इति को ऽर्थः ।
[028।22-028।23]
इन्द्रियविषयविज्ञानानामन्योन्यभजनं कारित्रभजनं वा भागः ।
[028।23]
स एषामस्तीति सभागः ।
स्पर्शसमानकार्यत्वाद्वा ।
[028।23-028।24]
ये पुनरसभागास्ते तेषा सभागानां जातिसामान्येन सभागत्वात् तत्सभागाः ।
[028।25]
कति धातवो दर्शनहेयाः कति भावनाहेयाः कत्यहेयाः ।
रूपिणस्तावत्
[028।26]
दश भावनया हेयाः पञ्च च
[028।27]
विज्ञानधातवः ।
[028।28]
अन्त्यास्त्रयस्त्रिधा ।
[028।29]
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च ।
एते त्रयो धातवः पाठानुपूर्व्या ऽन्त्यास्त्रिप्रकाराः ।
[029।01]
अष्टाशीत्यनुशयाः तत्सहभुवस्तत्प्रप्तयशाच सानुचरा दऋशनहेयाः ।
[029।01-029।02]
शेषाः सास्रवा भावनाहेयाः ।
[029।02]
अनास्रवा अहेयाः ।
[029।02-029।03]
ननु चान्यदपि दर्शनप्रहातव्यमस्ति पृथग्जनत्वमापायिकं च कायवाक्कर्म ।
[029।03-029।04]
आर्यमार्गविरोधित्वात् न तद् दऋशनप्रहातव्यम् ।

[029।04]
एष हि संक्षेपः ।
[029।05]
न दृष्टिहेयमक्लिष्टं न रूपं नाप्यडड्त्ःअजं
[029।06]
नास्ति किञ्चिदक्लिष्टं दर्शनप्रहातव्यं नापि रूपम् ।
[029।06-029।07]
अक्लिष्टव्याकृतं च पृथग्जनत्वम् ।
[029।07]
समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वामत् रूपं कायवाक्कर्म ।
[029।08]
तस्मान्न दर्शनप्रहातव्यम् ।
[029।08-029।09]
सत्येष्व विप्रतिपत्तेर्दुःखे धर्मज्ञानक्षान्तौ प्र्थग्जनत्वप्रसङ्गाच्च ।
[029।10]
नाप्यषष्टजम्
[029।11]
षष्ठमुच्यते मन आयतनम् ।
[029।11-029।12]
तस्मादन्यत्र जातमषष्ठजं पञ्चेन्द्रियजं च यत्तदपि नास्ति दर्श्नप्रहातव्यम् ॥
[029।13]
अष्टादशानां धातूनां कति दृष्टिः कति न दृष्टिः ।
[029।14]
चक्षुश्च धर्मधातोश्च प्रदेशु दृष्टिः
[029।15]
कतमः स इत्याह
[029।16]
अष्टधा ।
[029।17-029।18]
पञ्च सत्कायदृष्ट्यादिका दृष्टयः लौकिकी सम्यग् दृष्टिः शैङ्क्षी दृष्टिरशैक्षी दृष्टिरित्ययमष्टप्रकारो धर्मधातुर्दृष्टि रव्रशिष्टो न दृष्टिः ।
तत्र सत्कायदृष्ट्यादीनामनुशायनिर्देशे निर्द्देशः प्राप्तकालो भविष्यति ।
[029।19-029।20]
लौकिकी पुनः सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्ता कुशलसास्रवा प्रज्ञा ।
[029।20-029।21]
शैक्षस्यनास्रवा दृष्टिः षैक्षी अशैक्षस्य अक्शैक्षी ।
[029।21-029।22]
समेघामेघरत्रिन्दिवरूपदर्शनवत् क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्टिभिर्धर्मदर्शनम् ।
[029।22]
अथ कस्माल्लौदिकी सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्तैवोच्यते ।
[029।23]

यस्मात् ।
[029।24]
पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात्
[029।25]
सन्तीरिका हि दृष्टिरुपध्यानप्रवृत्तत्त्वात् ।
न चैवं पञ्चविज्ञानसहाजा प्रज्ञा ।
[030।01]
तस्माद्सौ न दृष्टिः ।
अत एव चान्या ऽपि क्लिष्टा ऽक्लिष्टा वा प्राज्ञा न दृष्टिः ।
[030।02]
चक्षुरिदानीमसन्तीरकत्वे कथं दृष्टिः ।
रूपालोचनार्थेन ।
यस्मात्
[030।03]
चक्षुः पश्यति रूपाणि
[030।04]
यदि चक्षुः पश्येदन्यविज्ञानसमङ्गिनो ऽपि पश्येत् ।
न वै सर्वं चक्षुः पश्यति ।
किं तर्हि ।
[030।05]
सभागं
[030।06]
सविज्ञानकं यदा भवति तदा पश्यत्यन्यदा नेति ।
[030।06-030।07]
एवम् तर्हि तदेव चक्षुराश्रितम् विज्ञानं पश्यतीत्यस्तु ।
[030।08]
न तदाश्रितम् ।
[030।09]
विज्ञानं
[030।10]
पश्यतीति शस्यमविज्ञातुम् ।
किं कारणम् ।
[030।11]
दृश्यते रूपं न किलान्तरितं यतः
[030।12]
यस्मात् किल रूपं कुड्यादिव्यवहितं न दृश्यते ।
[030।12-030।13]
यदि हि विज्ञानं पश्येत्तस्स्याप्रतिघत्वात् कुड्यादिषु प्रतिघातो नास्ति इत्य्वाऋतमपि रूपं पश्येत् ।
[030।13-030।14]
नैव हावृते चक्षुर्विज्ञानमुत्पद्यत इत्यनुत्पन्नं कथं द्रक्ष्यति ।

[030।14]
किं खलु नोत्पद्यते ।
[030।14-030।16]
यस्य तु चक्षुः पश्यति तस्य चक्षुषः सपरतिघत्वाद्व्ययवहिते वृत्त्यभाव इति विज्ञानस्यानुत्पत्ति राश्रयेणैक विषयप्रवृत्तत्वात् युज्यते ।
[030।16-030।17]
किं नु वै चक्षुः प्राप्तविषयं कायेन्द्रियवत् यत आवृतं न पश्येत् ।
[030।17]
सप्रतिघत्वात् ।
[030।17-030।18]
काचाभ्रपटलस्फटिकाम्बुभिश्चान्तरितं कथं दृश्यते ।
[030।18]
सप्रतिघत्वाच्चक्षुष आवृतस्य रूपस्यादर्शनम् ।
[030।19]
किं तर्हि ।
[030।19-030।20]
यत्रालोकस्याप्रतिबन्ध आवृते ऽपि रुपे तत्रोपपद्यत एव चक्षुर्विज्ञानम् ।
[030।20-030।21]
यत्र तु प्रतिबन्धस्तत्र नोत्पद्यत इत्यनुत्पन्नत्वादावृतं नेक्ष्यते ।
[030।21]
यत्तर्हि सूत्र उक्तं "चक्षुषा रूपाणि दृष्ट्वे"ति ।
[030।21-030।22]
तेनाश्रयेणेत्ययमत्राभिसन्धिर्यथा "मनसा धर्मान् विज्ञाये" त्याह ।
[030।22-030।23]
न च मनो धर्मान् विजानाति ।
[030।23]
अतीतत्वात् ।
किं तर्हि ।
मनोविज्ञानम् ।
[030।23-030।24]
आश्रितकर्म वा आश्रयस्योपचर्यते ।
[030।24]
यथा मञ्चाः क्रोशन्तीति ।
[030।24-030।25]
यथा च सूत्र उक्तं "चक्षुर्विज्ञेयानि रूपाणीष्टानि कान्तानि"ति ।
[030।25]
न च तानि चक्षुषा विज्ञायन्ते ।
[030।25-030।27]
उक्तं च सूत्रे "चक्षुर्ब्राह्मण द्वारं यावदेव रूपाणां दर्शनाय" इत्यतो गम्यते चक्षुषा द्वारेण विज्ञानं पश्यतीति ।
श्
[030।27]

दर्शने तत्र द्वाराख्या ।
नह्येतद्युज्यते ।
चक्षुर्दार्शनं अरूपाणां दर्श्नायेति ।
[031।01]
यदि विज्ञानं क्पश्यति को विजानाति कश्चानयोर्विशेषः ।
[031।01-031।02]
यदेव हि रूपस्य विज्ञानं तदेवास्य दर्श्नमिति ।
[031।02-031।03]
तद्यथा काचित् प्रज्ञा पश्यतीत्यप्युच्यते प्रजानातीत्यप्येवं किञ्चिद्विज्ञानं पश्यतीत्यप्युच्याते विजानातीत्यपि ।
[031।03]
अन्ये पुनराहुः ।
[031।03-031।04]
"यदि चक्षुः पश्यति कर्तृभूतस्य चक्षुषः का ऽन्या दृशिक्रिये"ति वक्तव्यम् ।
[031।04]
तदेतदचोद्यम् ।
[031।04-031।05]
यदि हि विज्ञानं विजानातीतीष्यते ।
[031।05]
न च तत्र कर्तृक्रियाभेदः ।
एवमत्रापि ।
[031।05-031।06]
अपरे पुनर्ब्रुवते ।
[031।06-031।07]
"चक्षुर्विज्ञानं दर्शनं तस्याश्रयभावाच्चक्षुः पश्यतीत्युच्यते ।
[031।07]
यथा नादस्याश्रयभावात् घण्टा नदतीत्युच्यते" इति ।
[031।07-031।08]
ननु चईवं विज्ञानस्याश्रयभावाचक्षुर्विजानातीति प्राप्नोति ।
[031।08]
न प्राप्नोति ।
[031।08-031।09]
तद्विज्ञानं दर्शनमिति रुढं लोके ।
[031।09]
तथा हि तस्मिन्नुत्पन्ने रूपं दृष्टमित्युच्यते न विज्ञातम् ।
[031।09-031।10]
विभाषायामप्युक्तं "चक्षुः संप्रप्तं चक्षुर्विज्ञानानुभूतं दृष्टमित्युच्यत" इति ।
[030।10-031।11]
तस्माच्चक्षुः पश्यतीत्येवोच्यते न विजानातीति ।
[031।11]
विज्ञानं तु सान्निध्यमात्रेण रूपं विजानातीत्युच्यते ।

[031।12]
यथा सूर्यो दिवसकर इति ।
अत्र सौत्रान्तिका आहुः ।
किमिदमाकाशं खाद्यते ।
[031।13]
चक्षुर्हि प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् ।
तत्र कः पश्यति को वा दृश्यते ।
[031।14]
निव्र्यापारं हीदं धर्ममात्रं हेतुफलमात्रं च ।
[031।14-031।15]
तत्र व्यवहारार्थं च्छन्दत उपचाराः क्रियन्ते ।
[031।15]
चक्षुः पश्यति विज्ञानं विजानातीति नात्राभिनिवेष्टव्यम् ।
[031।15-031।16]
उक्तं हि भगवता "जनपदनिरुक्तिं नाभिनिविशेत संज्ञां च लोकस्य नाभिधावेदि"ति ।
[031।16-031।17]
एष तु काश्मीरवैभाषिकाणां सिद्धान्तः ।
[031।17-031।18]
चक्षुः पश्यति श्रोत्रं शृणोति घ्राणं जिघ्रति जिह्वा आस्वादयति कायः स्पृशति मनो विजानातीति ।
[031।19]
तद्यदि चक्षुः पश्यति किमेकेन चक्षुषा रूपाणि पश्यत्याहोस्विदुभाभ्याम् ।
[031।20]
नात्र नियमः ।
[031।21]
उभाभ्यामपि चक्षुभुयां पश्यति व्यक्तदर्शनात् ।
[031।22]
उभाभ्यामपि चक्षुर्भ्यां पश्यतीत्याभिधार्मिकाः ।
[031।22-031।23]
तथा हि द्वयोर्विवृतयोः परैशाउद्धतरं दराशनं भवति ।
[031।23-031।24]
एकस्मिंश्चीन्मीलिते चक्षुषि द्वितीये चार्धनिमीलिते द्विचन्द्रादिग्रहणं भवति ।
[031।24]
नैकतरान्यथीभावात् ।
[031।24-031।25]
न चाश्रयविच्छेदाद् विच्छेदपरसङ्गो विज्ञानस्य देशाप्रतिष्ठितत्वाद् रौपवदिति ।
[031।26-031।27]
यदि चक्षुः पश्यति श्रोत्रं शृणोति यावन्मनो विजानाति किमेषां प्राप्तो विषय आहोस्विदप्राप्तः ।
[032।01]
चक्षुःश्रोत्रमनो ऽप्राप्तविषयं
[032।02]

तथा हि दूराद्रूपं पश्यत्यक्षिस्थमञ्जनं न पश्यति ।
दूराच्छब्दं शृणोति ।
[032।02-032।03]
सति च प्राप्तविषयत्वे दिव्यं चक्षुःश्रोत्रमिह ध्यायिनां नोपजायेत ।
[032।03]
घ्राणादिवत् ।
[032।03-032।04]
यद्यप्राप्तविषयं चक्षुः कस्मान्न सर्वमप्राप्तं पश्यति दूरं तिरस्कृतं च ।
[032।04-032।05]
कथं तावदय्स्कान्तो न सर्वमप्राप्तमयः कर्षति ।
[032।05]
प्राप्तविषयत्वे ऽपि चैतत्समानम् ।
[032।05-032।06]
कस्मान्न सर्वं प्राप्तं पश्यत्यञ्जनं शलाकां वा ।
[032।06-032।07]
यथा च घ्राणादीनं प्राप्तो विषयो न तु सर्वः ।
[032।7-03207]
सहभूगन्धाद्यग्रहणात् ।
[032।07]
एवं चक्षुषो ऽप्यप्राप्तः स्यान्न तु सर्वः ।
[032।07-032।08]
मनस्त्वरूपित्वात् प्राप्तुमेवाशक्तम् ।
[032।08]
केचित् पुनः श्रोत्रं प्रप्ताप्राप्तविषयं मन्ययन्ते ।
[032।09]
कर्णभ्यन्तरे ऽपि शब्दश्रवणात् ।
शेषं तु घ्राणजिह्वाकायाख्यम् ।
[032।10]
त्रयमन्यथा
[032।11]
प्राप्तविषयमित्यर्थः ।
घ्राणं कथं प्राप्तविषयम् ।
निरुच्छ्वासस्य गन्धाग्रहणात् ।
[032।12]
केयं प्राप्तिर्नाम ।
निरन्तरोत्पत्तिः ।
[032।12-032।13]
किं पुनः परमाणवः स्पृशन्त्यन्योन्यमाहोस्विन्न ।
[032।13-031।13]
न स्पृशन्तीति काश्मीरकाः ।

[032।13]
किं कारणम् ।
[032।13-032।14]
यदि तावत् सर्वान्मना स्पृशेयुर्मिश्रीभवेयुर्द्रव्याणि ।
[032।14]
अथैकदेशेन सावयवाः प्रसज्येरन् ।
[032।15]
निरवयवाश्च परमाणवः ।
कथं शब्दाभिनिश्पत्तिर्भवति ।
[032।15-032।16]
अत एव यदि हि स्पृशेयुर्हस्तो हस्ते ऽभ्याहतः सज्येतो पलश्चोपले ।
[032।16-032।17]
कथं चितं प्रत्याहतं न विशीर्यते ।
[032।17]
वायुधातुसंधारितत्वात् ।
[032।17-032।18]
कश्चिद्वायुधातुर्विकिरणाय प्रवृत्तो यथा संवर्त्तन्यां कश्चित् संधारणाय यथा विवर्त्तन्यामिति ।
[032।18-032।19]
कथमिदानीं निरन्तर प्राप्त्या प्राप्तविषयं त्रयमुच्यते ।
[032।19]
तदेवैषां निरुत्तरत्वं यन्मध्ये नास्ति किञ्चित् ।
[032।20]
अपिख्लु संघाताः सावयवत्वात् स्पृशन्तीत्यद्वीषः ।
[032।20-032।21]
एवं च कृत्वा ऽयमपि ग्रन्थ उपपन्नो भवति विभाषायाम् ।
[032।21-032।22]
किं नु स्पृष्टहेतुकं स्पृष्टमुत्पद्यते आहोस्विदस्पृष्टहेतुकमिति प्रश्नयित्वाह"कारणं प्रति ।
[032।22-032।23]
कदाचित् स्पृष्टहेतुकमस्पृष्टमुत्पधते यदा विशीर्यते ।
[032।23]
कदाचिदस्पृष्टहेतुकं स्पृष्टं यदा चयं गच्छति ।
[033।01]
कदाचित् स्पृष्टहेतुकं स्पृष्टं यदा चयवतां चयः ।
[033।01-033।02]
कदाचिदस्पृष्टहेतुकमस्पृष्टं यदा वातायनरज" इति ।
[033।02]
यदि परमाणवः स्पृशेयुरुत्तरक्षणावस्थानं स्यादिति भदन्तवसुमित्रः ।
[033।03]
न स्पृशन्ति ।
निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः ।

भदन्तमतं चैष्टव्यम् ।
[033।04]
अन्यथा हि सान्तराणां परमाणूनां शून्येष्वन्तरेषु गतिः केन प्रतिबध्येत ।
[033।04-033।05]
यतः सप्रतिघा इष्यन्ते ।
[033।05]
नच परमाणुभ्यो ऽन्ये संघाता इति ।
[033।05-033।06]
त एव ते संघाताः परमाणवः स्पृश्यन्ते यथा रूप्यन्ते ।
[033।06-033।07]
यदि च परमाणोर्दिग्भागभेदः कल्प्यते स्पृष्टस्यास्पृष्टस्य वा सावयवत्वप्रसङ्गः ।
[033।07]
नो चेत् स्पृष्टस्याप्यप्रसङ्गः ॥
[033।08-033।09]
किं पुनरेभिश्चक्षुरादिभिरात्मपरिमाणतुल्यस्यार्थस्य ग्रहणं भवत्याशुवृत्त्या च पर्वतादीनामलातक्रादिवदाहोस्वित्तुल्यातुल्यस्य ।
[033।09-033।10]
यानि तावदेतानि प्राप्तविषयाण्युक्तान्येभिः ।
[033।11]
त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम् ।
[033।12]
यावन्तो हीन्द्रियपरमाणवस्तावन्तो हि विषयपरमाणवः समेत्य विज्ञानं जनयन्ति ।
[033।13]
चक्षुःश्रोत्राभ्यां त्वनियमः ।
कदाचिदल्पीयांसो यदा वालाग्रं पश्यति ।
[033।13-033।14]
कदाचित् समा यदा द्राक्षाफतं पश्यति ।
[033।14-033।15]
कदाचित् भूयांसो यदा महान्तं पर्वतं पश्यत्युन्मिषितमात्रेण ।
[033।15]
एवम् श्रोत्रेण मशकमेघादिशब्दश्रवणे घोषम् ।
[033।15-033।16]
मनस्त्वमूर्त्तिवदेवेति नास्य परिमाणपरिच्छेदः संप्रधार्यते ।
[033।16]
कतहं पुनरेषां चक्षुरादीन्द्रियपरमाणूनां संनिवेशः ।
[033।17]
चक्षुरिन्द्रियपरमाणवस्तावदक्षितारकायामजाजीपुष्पवदवस्थिताः ।
[033।17-033।18]
अच्छचर्मावच्छादितास्तु न विकीर्यन्ते ।
[033।18-033।19]
अधरौत्तर्येण पिण्डवदवस्थिता इत्यपरे ।

[033।19]
न चान्यो ऽन्यमावृण्वन्ति स्फटिकवदच्छत्वात् ।
[033।19-033।20]
श्रोत्रेन्द्रियपरमाणवो भूर्जाभ्यन्तरावस्थिताः ।
[033।20]
घ्राणेन्द्रियपरमाणवो घटाभ्यन्तरेण शलाकावत् ।
[033।20-033।21]
आद्यानि त्रीणीन्द्रियाणि मालावदवस्थितानि ।
[033।21]
जिह्वेन्द्रियपरमाण्वो ऽर्धचन्द्रवत् ।
[033।21-033।22]
वालाग्रमात्रं किल मध्यजिव्हायां जिह्वेन्द्रियपरमाणुभिरस्फुटम् ।
[033।22-033।23]
कायेन्द्रियपरमाणवः कायवदवस्थिताः ।
[033।23]
स्त्रीन्द्रियपरमाणवो भेरीकटाहवत् ।
पुरुषेन्द्रियपरमाणवो ऽङ्गुष्ठवत् ।
[033।24]
तत्र चक्षुरिन्द्रियपरमाणवः कदाचित् सर्वे सभागा भवन्ति कदाचित्तत्सभागाः ।
[033।24-033।25]
कदाचिदेके सभागाः एके तत्सभागाः ।
[033।25]
एवम् यावज्जिह्वेन्द्रियपरमाणवः ।
[033।25-033।26]
कायेन्द्रियपरमाणवस्तु सर्वे सभागा न भवन्ति ।
[033।26-033।27]
प्रदीप्तनरकाभ्यन्तरावरुद्धानामपि ह्यपरिमाणाः कायेन्द्रियपरमाणवस्तत्सभागा भवन्ति ।
[033।27-034।01]
सर्वैः किल विज्ञानोत्पत्तावाश्रयो विशीर्येत ।
[034।01]
न चैक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानं जनयति ।
[034।01-034।02]
संचिताश्रयालम्बनत्वात् पञ्चानां विज्ञानकायानाम् ।
[034।02]
अत एवानिदर्शनः परमाणुरदृश्यत्वात् ॥
[034।03-034।04]
य इमे षड्विज्ञानधातव उक्ताश्चक्षुर्विज्ञानं यवन्मनोविज्ञानं किमेषां यथ विषयो वर्त्तमानः पञ्चानां चरमस्य त्रिकाल एवमाश्रयो ऽपि ।
[034।05]
नेत्याह ।
[034।05-034।-5]

किं तर्हि ।
[034।06]
चरमस्याश्रयो ऽतीतः
[034।07]
मनोविज्ञानधातोः समनन्तरनिरुद्धं मन आश्रयः ।
[034।08-034।07]
पञ्चानां सहजश्च तैः
[034।09]
अतीतश्चेति चशब्दः ।
[034।09-034।10]
तत्र चक्षुर्विज्ञानस्य चक्षुः सहज आशारयो यावत् कायविज्ञानस्य कायः ।
[034।10]
अतीतः पुनरेषामाश्रयो मन इत्यप्येते पञ्च विज्ञानकाया इन्द्रियद्वयाश्रयाः ।
[034।11]
अत एवोच्यते "यश्चक्षुर्विज्ञानस्याश्रयभावेन समनन्तरप्रत्ययभावेनापि स तस्ये"ति ।
[034।12]
चतुष्कोतिकः ।
प्रथमा कोतिश्चक्षुः ।
द्वितीया समनन्तरातीतश्चैतसिको धर्मधातुः ।
[034।13]
तृतीया समनन्तरातीतं मनः ।
चतुर्थी कोटिरुक्तनिर्मुक्ता धर्माः ।
[034।13-034।14]
एवं यावत् कायविज्ञानस्य स्वमिन्द्रियं वक्तव्यम् ।
[034।14]
मनोविज्ञानस्य पूर्वपादकः ।
[034।14-034।15]
यस्तावदाश्रयभावेन समनन्तरप्रत्ययभावेनापि सः ।
[034।15]
स्यात्समनन्तरप्रत्ययभावेन नाश्रयभावेन ।
[034।15-034।16]
समनन्तराभ्यतीतश्चेतसिको धर्मधातुरिति ।
[034।17-034।18]
किं पुनः कारणमुभयाधीनायां विज्ञानोत्पत्तौ चक्षुरादयः एवाश्रया उच्यन्ते न रूपादयः ।
[034।19]
तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः ।
[034।20]
धातव इत्यधिकारः ।
[034।20-034।21]
चक्षुरादीनां हि विकारेण तद्विज्ञानानां विकारो भवत्यनुग्रहोपघातपटुमन्दतानुविधानात् न तु रूपादीनां विकारेण तद्विकारः ।

[034।22]
तस्मात् साधीयस्तदधीनत्वत् त एवाश्रया न रूपादयः ।
[034।23-034।24]
किं पुनः कारणं रूपादयश्च तैर्विज्ञायन्ते चक्षुर्विज्ञानं चोच्यते यावन्मनोविज्ञानम् ।
[034।24]
न पुना रूपविज्ञानं यावद्धर्मविज्ञानमिति ।
[034।24-034।25]
य एते चक्षुरादय आश्रया एषाम् ।
[034।26]
अतो ऽसाधारणत्वाद्धि विज्ञानं तैर्निरुच्यते
[034।27]
कथमसाधारणत्वम् ।
न हि चक्षुरन्यस्य विज्ञानस्याश्रयीभवितुमुत्सहते ।
[034।27-034।28]
रूपं तु मनोविज्ञानस्यालम्बनीभवत्यन्यचक्षुर्विज्ञानस्यापीति ।
[034।28]
एवं यावत् कायो वेदितव्यः ।
[034।29]
तस्मादाश्रयभावादसाधारणत्वाच्च विज्ञानं तेनैव निर्दिश्यते न रूपादिभिः ।
[034।29-034।30]
यथा भेरीशब्दो यवाङ्कुर इति ।
[035।01-035।02]
अथ यत्र काये स्थितश्चक्षुषा रूपाणि पश्यति किं तानि कायचक्षूरूपविज्ञानान्येकभूमिकान्येव भवन्त्याहोस्विदन्यभूमिकान्यपि ।
[035।02]
आह ।
सर्वेषां भेदः ।
[035।03]
कामधातूपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकम् भवति ।
[035।04-035।05]
तस्यैव स्वानि रूपाणि प्रथमध्यानभूमीनि पश्यनो रूपाणि त्रीणपि तद्भूमिकानि ।
[035।06-035।07]
द्वितीयध्यानचक्षुषा स्वानि रूपोआणि पश्यतः कायरूपे स्वभूमिके चक्षुस्तद्भूमिकं विज्ञानं प्रथमध्यान भूमिकम् ।
[035।07-035।06]
प्रथमध्यानभूमीनि पश्यतो विज्ञानरुपे तद्भूमिके कायः कामावचरश्चक्षुर्द्वितीयद्यानभूमिकम् ।
[035।08-035।10]
द्वितीयध्यानभूमीनि पश्यतश्चक्षूअरूपे तद्भूमिके कायः कामावचरो विज्ञानं प्रथमभूमीकम् ।
[035।10-035।11]
एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभुमिकानि रूपाणि पश्यतो योजयितव्यम् ।
[035।11-035।12]
प्रथ्मध्यानोपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकमधराणि पश्यतः त्रयं स्वभूमिकं ।

[035।12-035।13]
द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं स्वभूमिकं चक्षुस्तद्भूमिकम् ।
[035।13-035।14]
कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके रूपाण्यधराणि चक्षुस्तद्भूमिकम् ।
[035।14-035।15]
द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे तद्भूमिके शेषं स्वभूमिकम् ।
[035।15]
एवं तृतीयध्यानचक्षुषा योज्यम् ।
[035।16-035।17]
द्वितीयादिध्यानोपपन्नस्य स्वपरचक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथायोगं योजयितव्यम् ।
[035।17]
अयं तु नियमः ।
[035।18]
न कायस्याधरं चक्षुः ।
[035।19]
पञ्चभूमिकानि हि कायचक्षूरूपाणि कामावचराणि यावच्चतुर्थध्यानभूमिकानि ।
[035।20]
द्विभूमिकं चक्षुर्विज्ञानं कामावचरं प्रथमध्यानभूमिकं च ।
[035।20-035।21]
तत्र यद्भूमिकः कायस्तद्भूमिकं चक्षुरूर्ध्वभूमिकं वा चक्षुर्भवति न त्वधरभूमिकम् ।
[035।21-035।22]
यद्भूमिकं चक्षुस्तद्भूमिकमधरभूमिकं वा रूपं विषयो भवति ।
[035।23]
ऊध्र्वं रूपं न चक्षुषः ।
[035।24]
न हि कदाचिदूर्ध्र्वभूमिकं रूपमधोभूमिकेन चक्षुषा द्रष्टुं शक्यते ।
[035।25]
विज्ञानं च
[035।26]
ऊर्ध्व न चक्षुषो रूपवत् ।
[036।01]
अस्य रूपं तु कायस्योभे च सर्वतः
[036।02]
अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्य रूपं सर्वतो विषयः ऊर्ध्वमधः स्वभूमौ च ।
[036।03]
कायस्य चोभे रूपविज्ञाने सर्वतो भवतः ।
यथा चेचं चक्षुरुत्तं विस्तरेण वेदितव्यम्
[036।04]
तथा श्रोत्रं
[036।05-036।06]

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc