अभिधर्मकोशभाष्य · भाग 581600
यत्त्रयाणां संयोजनानां प्रहाणं रागद्वेषमोहानां च ततुत्वमिति ।
[370।20]
अनागामिफलं कतमत् ।
[370।20-370।21]
यदुत पञ्चानामवरभागीयानां सम्योजनानां प्रहाणमि"ति ।
[370।21]
अनास्रवया च विसंयोगाप्राप्त्या तत्प्रहाणं सधार्यते ।
[370।21-370।22]
तद्वलेन परिहीणामरणात् ।
[370।22]
अतो ऽप्यस्य मरणं युक्तं श्रामण्यफलम् ।
[370।22-370।23]
यदेव चैतच्छ्रामण्ययुक्तं ।
[370।24]
ब्राह्मण्यं ब्रह्मचक्रं च तदेव
[370।25]
क्लेशानां वाहनाद्वाह्मण्यं ब्रह्मचक्रं तु
[371।01]
ब्रह्मावर्तनात् ।
[371।02]
अनुत्तरब्रह्मण्ययोगात् भगवान्ब्रह्मा ।
[371।02-371।03]
"एष हि भगवान् ब्रह्मा इत्यपि शान्तः शीतीभूत इत्यपी"ति सूत्रात् ।
[371।03]
तस्येदं चक्रमिति ब्राह्मं तेन प्रर्तितत्वात् ।
[371।04]
धर्मचक्रं तु दृङ्मार्गः
[371।05]
चङ्क्रमणाच्चक्रं तत्साधर्म्याद्दर्शनमार्गो धर्मचक्रम् ।
कथमस्य साधर्म्यम् ।
[371।06]
आशुगत्वाद्यरादिभिः
[371।07]
आशुगत्वात्त्यजनक्रमणात् अजितजयजिताध्यवसनादुत्पतननिपत्तनाच्च ।
[371।07-371।08]
एवमाशुगत्वादिभिः अरादिभिः साधर्म्यादार्याष्टाङ्ङ्गो मार्गश्चक्रमिति भदन्तघोषकः ।
[371।08-371।09]
सम्यग्दृष्टिसंकल्पव्यायामस्मृतयो ह्यरस्थानीयाः ।
[371।09-371।10]
सम्यग्वाक्कर्मान्ताजीवा नाभिस्थानीयाः समाधिर्नेमिस्थानीय इति दर्शनमार्गो धर्मचक्रमिति ।
[371।10-371।11]
कुत एतत् आर्यकौण्डिन्यस्य तदुत्पत्तौ "प्रवर्त्तितं धर्मचक्रमि"ति वचनात् ।
[371।11-371।12]
कथं तत्त्रिपरिवर्तं द्वादशाकारं च ।
[371।12]
इदं दुःखमार्यसत्यम् ।
[371।12-371।13]
तत् खलु परिज्ञेयं तत् खलु परिज्ञातमित्येते त्रयः परिवर्ताः ।
[371।13-371।14]
एकैकस्मिंश्च परिवर्ते चक्षुरुदपादि ज्ञानं विद्या बुद्धिरुदपादि इत्येते द्वादशाकाराः ।
[371।14]
प्रतिसत्येमेवं भवन्ति ।
[371।14-371।15]
त्रिकद्वादशकसाधर्म्यात्तु त्रिपरिवर्तं द्वादशाकारमुक्तम् ।
[371।15]
द्वयसप्तस्थानकौशलादेशनावत् ।
[371।15-371।16]
एभिश्च परिवर्तैर्दर्शनभावनाशैक्षमार्गा यथासंख्यं दर्शता इति वैभाषिकाः ।
[371।16-371।17]
यद्येवं न तर्हि दर्शनमार्ग एव त्रिपरिवर्त्तो द्वादशाकार इति कथमसौ धर्मचक्रं व्यवस्थाप्यते ।
[371।17-371।18]
तस्मात्स एव धर्मपर्यायो धर्मचक्रं त्रिपरिर्तं द्वादशाकारं च युज्यते ।
[371।18]
कथं च पुनस्त्रिपरिवर्तम् ।
[371।19]
सत्यानां त्रिः परिवर्त्तनात् ।
कथं द्वादशाकारम् ।
चतुर्णां सत्यानां त्रिधाकरणात् ।
[371।20]
दुःखं समुदयो निरोधो मार्ग इति ।
[371।20-371।21]
परिज्ञेयं प्रहेयं साक्षात्कर्तव्यं भावयितव्यमिति ।
[371।21]
परिज्ञातं प्रहीणं साक्षात्कृतं भावितमिति ।
[371।21-371।22]
तस्य पुनः प्रवर्तनं परसंताने गमनमर्थज्ञापनात् ।
[371।22]
अथवा सर्व एवार्यमार्गो धर्मचक्रं वेनेयसंतानक्रमणात् ।
[371।23-371।24]
तत्तु परसंताने दर्शनमार्गोत्पादनाद्वर्तयितुमारब्धमतः प्रवर्तितमित्युच्यते ।
[372।01]
अथ कस्मिन्धातौ कति श्रामण्यफलानि प्राप्यन्ते ।
[372।02]
कामे त्रयाप्तिः
[372।03]
कामधातावेव त्रयाणां श्रामण्यफलानां प्राप्तिर्नान्यत्र ।
[372।04]
अन्त्यस्य त्रिषु
[372।05]
अन्त्यं श्रामण्यफलमर्हत्वं तस्य त्रिषु धातुषु प्राप्तिः ।
[372।05-372।06]
फलद्वयस्य तावदवीतरागप्राप्यत्वादूर्ध्वमप्राप्तिर्युक्ता ।
[372।06]
तृतीयस्य तु कस्मादप्राप्तिः ।
[372।07]
नोर्ध्वं हि दृक्पथः ।
[372।08]
ऊर्ध्वं हि कामधातोर्दर्शनमार्गो नास्ति ।
[372।08-372।09]
न च तेन विना ऽस्ति वीतरागस्यानागामि फलप्राप्तिरित्येतत् कारणम् ।
[372।09]
किं पुनः कारणं तत्र दर्शनमार्गो नास्ति ।
[372।10]
आरुप्येषु तावत् श्रवणाभावादधोधात्वनालम्बनाच्च ।
रूपधातौ तु
[372।11]
असंवेगादिह विधा तत्र निष्ठेति चागमात्
[372।12]
रूपावचरा हि पृथग्जनाः समापत्तिमुखसङ्गा दुःखवेदनाभावाच्च न संविजन्ते ।
[372।12-372।13]
न च विना संगेनार्यमार्गः शक्तो लब्धुम् ।
[372।13]
इयं तावद्युक्तिः ।
[372।13-372।14]
आगमो ऽप्ययं "पञ्चानां पुद्गलानामिह विधा तत्र निष्ठा अन्तरापरिनिर्वायिणो यावदूर्ध्वंस्रोतस" इति ।
[372।15]
विधा हि मार्गरम्भो निर्वाणोपायत्वात् ।
[372।16]
इदमुक्तं "यद्यकोप्यः क्षयज्ञानादनुत्पादमति" रिति ।
[372।16-372।17]
तत्र किमर्हतमप्यस्ति भेदः ।
[372।17]
अस्तीत्युच्यते ।
[372।18]
षडर्हन्तो मताः
[372।19-372।20]
सूत्र उक्तं षडर्हन्तः परिहाणधर्मा चेतनाधर्मा अनुरक्षणा धर्मा स्थिताकम्पोयः प्रतिवेधनाभव्यो ऽकोप्यधर्मा चेति ।
[372।21]
तेषां पञ्च श्रद्धाध्हिमुक्तिजाः ।
[373।01]
अकोक्प्यधर्माणं वर्जयित्वा ऽन्ये पञ्च श्रद्धाधिमुक्ति पूर्वकाः ।
[373।02]
विमुक्तिः सामयिक्येषाम् ।
[373।03]
एषां च पञ्चानां सामयिकी कान्त चेतोविमुक्तिर्वेदितव्या ।
[373।03-373।04]
नित्यानुरक्ष्यत्वात् ।
[373।04]
अत एवैते समयविमुक्ता उच्यन्ते ।
[373।04-373।05]
समयापेक्षाश्चैते ऽधिमुक्ताश्चेति समयविमुक्ता मध्यपदलोपात् धृतघटवत् ।
[373।05-373।06]
एषां हि समयापेक्षासमाधिसंमुखीभाव उपकरणारोग्यदेशविशेषापेक्षत्वात् ।
[373।07]
अकोप्याकोप्यधर्मणः
[373।08]
अकोप्यधर्मणस्त्वकोप्या विमुक्तिः ।
कोपयितुमशक्यत्वादपरिहाणितः ।
[373।09]
अतो ऽसमयमुक्तो ऽसौ
[373।10]
अत एवासमयविमुक्ति उच्यते ।
स ह्यसमयापेक्षाविमुक्तिश्च ।
[373।10-373।11]
इच्छातः समाधिसंमुखीभावात् ।
[373।11-373।12]
कालान्तरात्यन्तविमुक्तितो वा कोप्याकोप्यधर्मणोः समयासमये विमुक्तत्वं परिहाणिसंभवासंभवतः ।
[373।13]
दृष्टिप्रप्तान्वयश्च सः ।
[373।14]
स चाकोप्यधर्मा दृष्टिप्राप्तपूर्वको वेदितव्यः ।
[373।15]
किं पुनरेते षडर्हन्त आदित एव तद्गोत्रा भवन्त्यथ पश्चात् ।
[373।16]
तद्गोत्रा आदितः केचित्केचिदुत्तापनागताः
[373।17]
कश्चित्प्रथमत एव चेतनाधर्मगोत्रको भवति ।
[373।17-373।18]
कश्चित्पुनः परिहाणधर्मा भूत्वेन्द्रियाणामुत्तापनया चेतनाधर्मतां गतः ।
[373।18-373।19]
एवं यावदकोओप्यधर्मतां गतो वेदितव्यः ।
[373।19-373।20]
तत्र परिहाणधर्मा यः परिहातुं भव्यो न चेतनादिधर्मा ।
[373।20]
चेतनाधर्मा यश्चेतयितुं भव्यः ।
अनुरक्षणाधर्मा यो ऽनुरक्षितुं भव्यः ।
[373।21-374।01]
स्थिताकम्प्यो यः परिहाणिप्रत्ययं बलवन्तमन्तरेणानुरक्षन्नपि स्थातुं भव्यो न हातुं नापि वर्धयितुं विनाभियोगेन ।
[374।01]
प्रतिवेधनाभव्यो यो ऽकोप्यः प्रतिवेद्धं भव्यः ।
[374।02]
अकोप्यधर्मा यो नैव परिहातुं भव्यः ।
[374।02-374।03]
प्रथमौ द्वौ पूर्वमेव शैक्षावस्थायां सातत्यसत्कृत्यप्रयोगविकलौ ।
[374।03]
तृतीयः सातत्यप्रयोगी ।
चतुर्थः सत्कृत्यप्रयोगी ।
[374।03-374।04]
पञ्चम उभयथाप्रयोगी मृद्विन्द्रियस्तु ।
[374।04]
षष्ठ उभयथाप्रयोगी तीक्ष्णेन्द्रियश्च ।
[374।04-374।05]
नचावश्यं वरिहाणधर्मा परिहीयते नापि यावत् प्रतिवेधनाभव्यः प्रतिविध्यति ।
[374।05-374।06]
संभवं तु प्रत्येवमुच्यते ।
[374।06]
एवं कृत्वा धातुत्रये ऽपिषडर्हन्तो युज्यन्ते ।
[374।06-374।08]
येषां त्ववश्यं परिहीयते यावत् प्रतिविध्यति तेषां कामधातौ षट् रूपारुप्यधात्वोः स्थिताकम्प्यो ऽकोप्यधर्मा च ।
[374।08]
तयोःपरिहाणिचेतनेन्द्रियसंचाराभावात् ।
[374।09]
कः पुनरेषां कुतः परिहीयते ।
फलात् गोत्राद्वा ।
[374।10]
गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः
[374।11]
चेतनाधर्मादीनां चतुर्णां गोत्रात्परिहाणिः ।
[374।11-374।12]
न हि परिहाणधर्मा पुनः स्वगोत्रात् परिहीयते ।
[374।12-374।13]
परिहाणधर्मादीनां पञ्चानां फलात् परिहाणिः ।
[374।13]
तेषामपि तु
[374।14]
न पूर्वकात् ।
[374।15]
यस्य यत् प्रथमगोत्रं स तस्मान्न परिहीयते ।
शैक्षाशैक्षमार्गाभ्यां दृढीकुतत्वात् ।
[374।16]
शैक्षस्तु लौकिकलोकत्तराभ्यां दृढीकृतत्वात् न परिहीयते स्वगोत्रात् ।
[374।16-374।17]
यत्तु पश्चात् प्रतिलब्धमुत्तापनया तस्मात् परिहीयते ।
[374।17-374।18]
यस्य च यत् प्रथमं फलं स तस्माना परिहीयते ।
[374।18]
शेषात् परिहीयते ।
[374।18-374।19]
अत एव स्रोत आपत्तिफलान्नास्ति परिहाणिः ।
[374।19]
एवं च कृत्वा परिहाणधर्मणस्त्रयः प्रकारा भवन्ति ।
[374।19-374।20]
तदवस्थस्य परिनिर्वाणमिन्द्रियसंचारः ।
[374।20]
परिहाय वा शैक्षत्वम् ।
चेतनाधर्मणश्चत्वारः ।
[374।20-374।21]
एत एव त्रयः परिहाणधर्मगोत्रप्रत्यागमनं च ।
[374।21-374।22]
एवमन्येषां त्रयाणामेकैकप्रकारवृद्धच्या यथाक्रमं पञ्च षट् सप्त प्रकारा वेदितव्याः ।
[374।22-374।23]
यस्य च यत् प्रथमं गोत्रं स परिहाय शैक्षोभूतस्तत्रैवावतिष्ठते नान्यस्मिन् ।
[374।23-374।24]
अन्यथा हि तद्गोत्रविशेष लभाद् वृद्धिरेवास्य स्यान्न परिहाणिः ।
[374।25]
किं पुनः कारणं प्रथमानाम् नास्ति परिहाणिः ।
दर्शनहेयानामवस्तुकत्वात् ।
[374।26]
आत्माधिष्ठानप्रवृत्ता ह्येते ।
सत्कायदृष्टिमूलकत्वात् ।
[375।01]
स चात्मा नास्तीति ।
असदालम्बनास्तर्हि प्राप्नुवन्ति ।
नासदालम्बनाः ।
[375।01-375।02]
सत्यालम्बनत्वात् ।
[375।02]
वितथालम्बनास्तु ।
कतमश्च क्लेशो नैवमस्ति विशेषः ।
[375।02-375।04]
आत्मदृष्टिहि रूपादिके वस्तुनि कारकवेदकवशवर्तित्वेनात्मत्वमभूतमध्यारोपयति तदधिष्ठानानुवृत्ताश्चान्तग्राहदृष्टच्यादय इत्यवस्तुका उच्यन्ते ।
[375।04-375।06]
भावनाहेयास्तु रागप्रतिघमानाविद्या रूपादिके वस्तुनि केवलं सक्त्याघातोन्नत्यसंप्रख्यानभावेन वर्तन्त इति सवस्तुका उच्यन्ते ।
[375।06-375।07]
अस्ति च तच्ध्रातादिमात्रं यत्र तेषां प्रवृत्तयः न त्वात्मादिलेशो ऽपि ।
[375।07-375।08]
तथा हि भावनाहेयानामस्ति प्रतिनियतं वस्तुमनापामनापलक्षणं न तु दर्शनहेयानामात्मादिलक्षणम् ।
[375।08-375।09]
तस्मादप्यवस्तुकाउच्यन्ते ।
[375।09-375।10]
अपि खल्वार्यस्यानुपनिध्यायतः स्मृतिसंप्रमोषात् क्लेश उत्पद्यते नोपनिध्यायतो रज्ज्वामिव सर्पसंज्ञा ।
[375।10-375।12]
न चानुपनिध्यायत आत्मदृष्टच्यादीनामुपपत्तिर्युज्यते सन्तीरकत्वादिति नास्ति दर्शनहेयक्लेश प्रहाणात्परिहाणिः ।
[375।12]
अर्हत्वादपि नास्ति परिहाणिरिति सौत्रान्तिकाः ।
[375।12-375।13]
एष एव चन्यायः ।
[375।13]
कथमिदं गम्यते ।
आगमाद्युक्तितश्च ।
कथमागमात् ।
[375।13-375।14]
"तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञया प्रहीणमि"त्युक्तम् ।
[375।14-375।15]
आद्यन्तयोश्च फलयोरार्ययैव प्रज्ञया ऽधिगमः ।
[375।15-375।16]
"शैक्षस्य चाप्रमादकरणिये ऽप्रमादकरणीयं वदामी" त्युक्तं ना ऽर्हतः ।
[375।16-375।17]
"अर्हतो ऽप्यहमानन्द लाभसत्कारमन्त्रायकरं वदामी"त्यत्र सूत्रे दृष्टधमेसुखविहारमात्रादेव परिहाणिरुक्ता ।
[375।17-375।18]
"या त्वनेनाकोप्यचेतोविमुक्तिः कायेन साक्षात्कृता ।
[375।18]
ततो ऽहं न केनचित् पर्यायेण परिहाणं वदामी"ति चोक्तम् ।
[375।19]
सामयिक्या अस्तीति चेत् ।
वयमप्येवं ब्रूमः ।
सा तु विचार्या ।
[375।19-375।20]
किमर्हत्त्वमाहोस्विद्धच्यानानीति ।
[375।20-375।21]
मौलो हि ध्यानसमाधिः समये संमुखीभावात्सामयिकी चिमुक्तिरित्युच्यते ।
[375।21]
दृष्टधर्मसुखविहारार्थं च पुनः पुनरेषणीयत्वात्कान्तेत्युच्यते ।
[375।22]
आस्वादनीयत्वादित्यपरे ।
[375।22-375।23]
अर्हत्त्वविमुक्तिस्तु नित्यानुगतत्वान्न युज्यते ।सामयिकी अपुनःप्रर्थनीयत्वान्न कान्तेति ।
[375।23-375।24]
यदि चार्हत्त्वात् परिहणिसंभवो ऽभविष्यत् किमर्थं भगवानाधिचेतसिकेभ्य एव दृष्टधर्मसुखविहारेभ्यः परिहाणिमवक्ष्यत् ।
[375।24-375।25]
अतो गम्यते सर्वस्यैवार्हतो विमुक्तिरकोप्यादृष्टध्र्मसुखविहारेत्युस्तु ।
[375।25-375।26]
कश्चित् लाभसत्कारव्याक्षेपदीषात् परिहीयते वशित्वब्र्हशाद्यो मृद्विन्द्रियः ।
[375।27]
कश्चिन्न परिहीयते यस्तीक्ष्णेन्द्रियः ।
तत्र यः परिहीयते स परिहाणधर्मा ।
[375।27-375।28]
यो न परिहीयते सो ऽपरिहाणधर्मा ।
[375।28]
एवं चेतनाधर्मादयो ऽपि योज्याः ।
[375।28-376।01]
अपरिहाणधर्मस्थिताकम्प्याकोप्यधर्मणां को विशेषः ।
[376।01]
अपरिहाणधर्मा ऽनुत्तापनागतः ।
[376।02]
अकोप्यधर्मा तूत्तापनागतः ।
[376।02-376।03]
तौ हि यं यमेव समापत्तिविशेषमुत्पादयतस्तस्मान्न परिहीयेते ।
[376।03-376।04]
स्थिताकम्प्यस्तु यस्मिन्नेव गुणे स्थितस्तस्मात्केवलं न परिहीयते न त्वन्यमुत्पादयति ।
[376।04]
उत्पादयति वा तस्मात्तु कम्पत इत्येव विशेषो लक्ष्यते ।
[376।05-376।07]
आयुष्मान्भौतिकः शैक्षीभूतः सामयिक्या विमुक्तेरत्यास्वादनान्मृद्विन्द्रियत्वाच्चभीक्ष्णं परिहीयमाणो निर्विण्नः शस्त्रमाधारयन् कायजीवितनिरपेक्षत्वान्मरणकाल एवार्हत्त्वप्राप्तः परिनिर्वृत्तश्च ।
[376।07]
तस्मात्सो ऽपि नार्हत्त्वात् परिहीणः ।
[376।07-376।08]
दशोत्तरे चोक्तम् ।
[376।08]
"एको धर्म उत्पादयितव्यः सामयिकी कान्ता चेतोविमुक्तिः ।
[376।08-376।09]
एको धर्मः साक्षात्कर्तव्यः अकोप्या चेतोविमुक्तिरि"ति ।
[376।09-376।10]
यदि चार्हत्त्वं सामयिकी कान्ता चेतोविमुक्तिरभविष्यत् किमर्थं तत्रैव दशके ऽर्हत्त्वस्य द्विग्रहणमकरिष्यात् ।
[376।10-376।11]
न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तम् ।
[376।11]
किं तर्हि ।
[376।11-376।12]
साक्षात्कर्तव्यं मृद्विन्द्रियसंगृहीतं चार्हत्त्वमुत्पादयितव्यमिति ।
[376।12]
किमनेन ज्ञापितं भवति ।
[376।12-376।13]
यदि तावदुत्पादयितुं शक्यमित्यदपि शक्यम् ।
[376।13]
अथोत्पादनमर्हतीति ।
[376।13-376।14]
अन्यत्सुतरामर्हति ।
[376।14]
तस्मान्न सामयिकी विमुक्तिरर्हत्त्वम् ।
[376।14-376।15]
कथं तर्हि समयविमुक्तो ऽर्हन्नुच्यते ।
[376।15]
यस्य मृद्विन्द्रियत्वात्समयापेक्षः समाधिसमुखीभावः ।
[376।15-376।16]
विपर्ययादसमयविमुक्तः ।
[376।16]
अभिधर्मे ऽपि चोक्तं "त्रिभिः स्थानेः कामरागानुशयस्योत्पादो भवति ।
[376।17-376।18]
कामरागानुशयिओ ऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार" इति ।
[376।18]
परिपूर्णोत्पत्तिरेवमिति चेत् ।
[376।19]
कस्य वा परिपूर्णकारणस्योत्पत्तिः ।
एवं तावदागमात् ।
कथं युक्तितः ।
[376।19-376।21]
यदि तावदर्हतस्तद्रूपः प्रतिपक्ष उत्पन्नो येन क्लेशा अत्यन्तमनुत्पत्तिधर्मतामापन्नाः कथं पुनः परिहीयते ।
[376।21]
अथ नोत्पन्नः ।
कथं क्षीणास्रवो भवति ।
[376।21-376।22]
अत्यन्तमनयोद्ध्रतायां तद्बीजधर्मतायामक्षीणास्रवो वा पुनः कथमर्हन्भवतीत्येवं युक्तिः ।
[376।22-376।23]
अङ्गारकर्षूपोमं सूत्रं तर्हि परिहार्यम् ।
[376।23-376।25]
यत्रेदमुक्तं "तस्य खलु श्रुतवत आर्यश्रावकस्यैवं चरत एवं विहरतः कदाचित्कर्हिचित् स्मृतिसंप्रमोषादुत्पद्यन्ते पापका अकुशला वितर्का" इति ।
[376।25]
स हि तत्रार्हन्नेव ज्ञापितः ।
[376।25-377।01]
"दीर्घरात्र विवेकनिम्नं चित्तं भवति यावन्निर्वाणप्राग्भारमि"ति वचनात् ।
[377।01-377।02]
अर्हतो ह्येतद्बलमन्यत्रोक्तम् ।
[377।02-377।03]
"सर्वैरास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्तीभूतमि"ति चाभिधानात् अस्त्येतदेवम् ।
[377।03-377।04]
यावत्तु चारो न सुप्रतिबद्धस्तावदेवं चरतो ऽपि शैक्षस्यास्ति संभवः क्लेशोत्पत्ताविति शैक्षावस्थामधिकृत्यैवं वचनाददोषः ।
[377।05]
प्रतिज्ञायते हि लौकिकमार्गप्रतिलब्धात्फलद्वयात्परिहाणिः ।
[377।05-377।06]
अर्हत्त्वादपि तु परिहाणिं वर्णयन्ति वैभाषिकाः ।
[377।07]
किं पुनरिमे ऽर्हन्त एव षड्गोत्रा भवन्ति अथान्ये ऽपि षड्गोत्रा भवन्ति ।
[377।08]
शैक्षानार्याश्च षड्गोत्राः
[377।09]
शैक्षपृथग्जना अप्येवं षड्गोत्राः ।
तत्पूर्वकाण्येव ह्यर्हतां गोत्राणि ।
अपि तु
[377।10]
संचारो नास्ति दर्शने
[377।11]
दर्शनमार्गादन्यत्रेन्द्रियसंचारो भवति ।
प्रयोगासंभवान्न दर्शनमार्गे ।
[377।11-377।12]
कश्चित् पृथग्जनावस्थायामिन्द्रियाणि संचरति ।
[377।12]
कश्चिच्छद्धाधिमुक्तावस्थायाम् ।
[377।13-377।16]
यदिदं सूत्र उक्तं "ये त्वनेन चत्वार आधिचैतसिका दृष्टधर्मसुखविहारा अधिगतास्ततो ऽहमस्यान्यतमान्यतमस्मात् परिहाणिं वदामि या त्वनेनैकाकिना यावदकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता ततो ऽहं न केनचित् पर्यायेण परिहाणिं वदामी"ति ।
[377।16-377।17]
कथमकोप्यधर्मणो दृष्ट्धर्मसुखविहारेभ्यः परिहाणिः ।
[377।18]
परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः ।
[377।19]
प्राप्तपरिहाणिर्यदि प्रतिलब्धात् गुणात् परिहीयते ।
[377।19-377।20]
अप्राप्तपरिहाणिर्यदि प्राप्यं गुणं न प्राप्नोति ।
[377।20]
उपभोगपरिहाणिर्यदि प्राप्तगुणं न संमुखीकरोति ।
[377।20-377।21]
आसां पुनः परिहाणीनाम्
[377।22]
अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा
[378।01]
बुद्धस्योपभोगपरिहाणिरेव नान्या ।
अकोप्यधर्मणः सा चाप्राप्तपरिहाणिश्च ।
[378।02]
पुद्गलविशेषधर्माप्रापणात् ।
अन्यस्यार्हतः प्राप्तपरिहाणिरप्यस्ति ।
[378।02-378।03]
अत उपभोगपरिहाणिवचनादकोप्यधर्मणः सूत्रविरोधः ।
[378।03]
सर्वस्यानास्रवा विमुक्तिरकोप्या ।
[378।04]
अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् ।
अत एतद्चोद्यमित्यपरिहाणिवादी ।
[378।05]
अथ योइ ऽर्हत्फलात्परिहीयते किमसौ पुनर्जायते ।
नास्त्येतत् ।
यस्मात्
[378।06]
म्रियते न फलभ्रष्टः
[378।07]
नैव हि कश्चित्फलात् परिहीणः कालं करोति ।
[378।07-378।09]
"धन्धा भिक्षव आर्यश्रावकस्य स्मृतिसंप्रमोषा अथ च पुनः क्षिप्रमेवान्तं परिक्षयं सपदि संगच्छनीति सूत्रे वचनात् ।
[378।09]
अन्यथा ह्यनाश्वासिकं ब्रह्मचर्यं स्यात् ।
[378।09-378।10]
यतश्च फलात् परिहीयते तत्फलस्थेन यदकार्यं
[378।11]
तादकार्यं करोति न ।
[378।12]
परिहीणो ऽपि संस्तत्फलविरुद्धां क्रियां न करोति ।
शूरप्रस्खलनापतनवत् ।
[378।13]
अथेन्द्रियाणि संचरतां कत्यानन्तर्यविमुक्तिमार्गा भवन्ति ।
[378।14]
विमुक्त्यानन्तर्यपथा नवोकोप्ये
[378।15-378।16]
अकोप्यगोत्रे प्रतिविध्यमाने प्रितिवेधभावनाभव्यस्य नवानन्तर्यमार्गा विमुक्तिमार्गाश्च भवन्ति ।
[378।16]
यथार्हत्त्वं प्राप्नुवतः ।
किं कारणम् ।
[378।17]
अतिसेवनात्
[378।18]
तस्य मृद्विन्द्रियगोत्रं भवतीति नाल्पेन व्यावर्त्तयितुं शक्यते ।
[378।18-378।19]
शैक्षाशैक्ष मार्गभ्यां दृढीकृतत्वात् ।
[378।20]
दृष्टच्याप्ततायामेकैकः
[379।01-379।02]
दृष्टिप्राप्तायां प्रतिविध्यमानायामेक एवानन्तर्यमार्गो भवत्येको विमुक्तिमार्गः ।
[379।02]
प्रयोगमार्गस्तु सर्वत्रैक एव ।
ते पुनः सर्व एवानन्तर्यविमुक्तिमार्गाः
[379।03]
अनास्रवाः
[379।04]
न हि सास्रवेण मार्गेणार्याणामिन्द्रियसंचारः ।
क्व पुनरिन्द्रियाणि वर्धन्ते ।
[379।05]
नृषु वर्धनम् ।
[379।06]
मनुष्येष्वेवेन्द्रियसंचारो नान्यत्र ।
परिहाण्यसंभवात् ।
[379।07]
कः पुनः कतमां भूमि निश्रित्येन्द्रियाणि संचरति ।
[379।08]
अशैक्षो नव निश्रित्य भूमीः
[379।09]
अनागम्यस्यानन्तरं चत्वारि ध्यानानि त्रीणि चारुप्याणि ।
[379।10]
शैक्षस्तु षट्
[379।11]
आरुप्यवर्ज्यः ।
किं कारणम् ।
[379।12]
यतः
[379।13]
सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन् ।
[379।14-379।15]
इन्द्रियाणि हि संचरन् फलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियगोत्रकं फलमार्गमेव प्रतिलभते ।
[379।15-379।16]
न चानागामिफलमारुप्यभूमिसंगृहीतमस्तीत्येतत् कारणम् ।
[379।17]
त एते षडेवार्हन्तो नव भवन्ति ।
इन्द्रियभेदात् ।
कथं कृत्वा ।
[379।18]
द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः
[380।01]
कतमे सप्त श्रावकाः ।
परिहाणधर्मादयः पञ्च ।
[380।01-380।02]
अकोप्यधर्मा च द्विविध उत्तापनागत आदितश्च तद्गोत्रः अकोप्यभेद एव ।
[380।02]
द्वौ बुद्धौ प्रत्येकबुद्धो बुद्धश्च ।
[380।03]
इत्यते मृदुमृद्वादिनवप्रकारेन्द्रियभेदान्नव पुद्गला भवन्ति ।
[380।04]
सर्व एव त्वार्यपुद्गलाः सप्त भवन्ति ।
[380।04-380।05]
श्रद्धानुसारी धर्मानुसारी श्रद्धाधिमुक्तो दृष्टिओप्राप्तः कायसाक्षी प्रज्ञाविमुक्त उभयतोविमुक्तश्च ।
[380।05]
एते पुनः
[380।06]
प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः ।
[380।07]
पुद्गलाः सप्त
[380।08]
प्रयोगतः श्रद्धाधर्मानुसारिणौ ।
पूर्वमेव परप्रत्ययधर्मानुसाराभ्यामर्थेषु प्रयोगात् ।
[380।09]
इन्द्रियत श्रद्धाधिमुक्तदृष्टिप्राप्तौ ।
[380।09-380।10]
मृदुतीक्ष्णेन्द्रियत्वात् श्रद्धाधिमोक्षप्रज्ञाधिक्यतः ।
[380।10-380।11]
समापत्तितः कायसाक्षी निरोधसमापत्ति साक्षात्करणात् ।
[380।11]
विमुक्तितः प्रज्ञाविमुक्तः ।
समापत्तिविमुक्तितः उभयतोभागविमुक्तः ।
[380।12]
नामत एते सप्त पुद्गलाः ।
[380।13]
षट् त्वेते ।
[380।14]
द्रव्यतस्त्वेते षट् भवन्ति ।
[380।15]
द्वौ द्वौ मार्गत्रये यतः
[380।16]
दर्शनमार्गे हि द्वौ पुद्गलौ श्रद्धाधर्मानुसारिणौ ।
तावेव भावनामार्गे द्वौ भवतः ।
[380।17]
श्रद्धाधिमुक्तदृष्टिप्राप्तौ ।
तौ पुनरशैक्षमार्गे द्वौ भवतः ।
समयासमयविमुक्ताविति ।
[380।18]
तत्रेन्द्रियतस्त्रयः ।
श्रद्धानुसारिणः गोत्रतः पञ्च ।
मार्गतः पञ्चदश ।
[380।18-380।19]
अष्ट क्षान्तिसप्तज्ञानस्थाः ।
[380।19]
वैराग्यतस्त्रिसप्ततिः ।
सकलबन्धनः ।
कामवैराग्यान्नव ।
[380।20]
एवं यावदाकिञ्चन्यायतनवैराग्यात् ।
आश्रयतो नव ।
त्रिद्वीपषाड्देवनिकायजाः ।
[380।21-380।22]
इन्द्रियगोत्रमार्गवैराग्याश्रयतः पण्डिताः शतसहस्रं संपद्यन्ते सहस्राणि च सप्तचत्वारिंशच्छतानि चाष्टौ पञ्चविशतिश्च ।
[380।22]
एवमन्ये ऽपि पुद्गलाः संभवतः संख्येयाः ।
[381।01]
कोयिमुभयतोभागविमुक्त इत्युच्यते कश्च प्रज्ञाविमुक्तः ।
[381।02]
निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः ।
[381।03]
यो निरोधसमापत्तिलाभी स उभयतोभागविमुक्तः ।
[381।03-381।04]
प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वात् ।
[381।04]
इतरः प्रज्ञाविमुक्तः ।
[381।04-381।05]
प्रज्ञाबलेन केवलं क्लेशावरणविमुक्तत्वात् ।
[381।06-381।07]
यदुक्तं भगवता "क्लेशान् प्रहायेह हि यस्तु पञ्च अहार्यधर्मा परिपूर्णः शैक्ष" इति ।
[381।07]
कियता परिपूर्णः शैक्षो भवति ।
[381।08]
समापत्तिन्द्रियफलैः पूर्णः शैक्षो ऽभिधीयते
[381।09]
त्रिविधा शैक्षस्य परीपूरिः ।
फलतः इन्द्रियतः समापत्तितश्च ।
[381।09-381।10]
फलत एव श्रद्धाधिमुक्तस्याकायसाक्षिणो ऽनागामिनः ।
[381।10-381।11]
इन्द्रियत एव दृष्टिप्राप्तस्यावीतरागस्य ।
[381।11]
फलेन्द्रियतो दृष्टिप्राप्तस्य कायसाक्षिणो ऽनागामिनः ।
[381।11-381।12]
फलसमापत्तितः श्रद्धाधिमुक्तस्य कायसाक्षिणः ।
[381।12]
फलेन्द्रियसमापत्तितो दृष्टिप्राप्तस्य कायसाक्षिणः ।
[381।13]
समापत्तित एव समापत्तीन्द्रियश्च परिपूर्णत्वं नास्ति विन फलेन ।
[381।14]
अशैक्षपरिपूर्णत्वं द्वाभ्याम्
[381।15]
इन्द्रियतः समापत्तिश्च ।
[381।15-381।16]
फलेन त्वपरिपूर्णस्याशैक्षत्वमेव नास्तीति नास्य पुनः फलेन परिपूर्णपरिपूर्णत्वं व्यवस्थाप्यते ।
[381।16-381।17]
इन्द्रियत् एवासमयविमुक्तस्य प्रज्ञाविमुक्तस्य ।
[381।17]
समापत्तित एव समयविमुक्तस्योभयभागविमुक्तस्य ।
[381।17-381।18]
इन्द्रियसमापत्तिभ्यामसमयविमुक्तस्योभयतोभागविमुक्तस्य ।
[381।19-381।20]
वहव इमे मार्गभेदा उक्ता लौकिकलोकोक्त्तरदर्शनभावना ऽशैक्षमार्गाः प्रयोगानन्तर्यविमुक्तिविशेषमार्गा इति ।
[381।20]
कतिविध एष समासतो मार्ग इति ।
[381।21]
मार्गः समासतः ।
[381।22]
विशेषमुक्त्यानन्तर्यप्रयोगाख्यश्चतुर्विधः
[382।01]
प्रयोगमार्गो यस्मादनन्तर्मानन्तर्यमार्गोत्पत्तिः ।
[382।01-382।02]
आनन्तर्यमार्गो येनावरणं प्रजहाति ।
[382।02]
विमुक्तिमार्गो यस्तत्प्रहेयावरणविनिर्मुक्तस्तत् प्रथमत उत्पद्यते ।
[382।03]
विशेषमार्गो य एभ्यो ऽन्यो मार्गः ।
कस्मात् मार्ग इत्युच्यते ।
[382।03-382।04]
एष हि निर्वाणस्य पन्था एतेन तद्गमनात् ।
[382।04]
निर्वाणं मार्गयन्त्यनेनेति वा ।
[382।04-382।05]
विमुक्तिविशेषमार्ग योः कथं मार्गत्वम् ।
[382।05-382।06]
तज्जातीयादधिमात्रतरत्वादुत्तरोत्तरप्रापणात् निरूपधिशेषप्रवेशाद्वा ।
[382।07]
मार्ग एव पुनः प्रतिपदित्युक्तो निर्वाणप्रतिपादनात् ।
चतस्रः प्रतिपदः ।
[382।08]
अस्ति प्रतिपद्दुःखा धन्धाभिज्ञा ।
अस्ति दुःखा क्षिप्राभिज्ञा ।
[382।08-382।09]
एवं सुखा ऽपि द्विधा ।
[382।09]
तत्र
[382।10]
ध्यानेषु मार्गः प्रतिपत्सुखा
[382।11-382।12]
चतुर्ध्यानेषु मार्गः सुखा प्रतिपदङ्गपरिग्रह शमथविपश्यना समताभ्यामयिअत्नवाहित्वात् ।
[382।13]
दुःखा ऽन्यभूमिषु ।
[382।14-382।16]
अन्यास्वनागम्यध्यानान्तरारुप्यभूमिषु मार्गो दुःखा प्रतिदङ्गापरिग्रहाच्छमथविपश्यनान्यूनत्वाच्च यत्नवाहित्वात् शमथन्यूने ह्यनागम्यध्यानान्तरे विपश्यनान्यूना आरुप्या इति ।
[382।16]
सा पुनर्द्विविधा ऽपि प्रतिपत्
[382।17]
धन्याभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु
[382।18-382।19]
मृद्विन्द्रियस्य सुखा दुःखा वा प्रतिपद्धन्धाभिज्ञा तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा धन्धाभिज्ञा अस्यां प्रतिपदि ।
[382।19]
सेयं धन्धाभिज्ञा ।
[382।19-382।20]
एवं क्षिप्राभिज्ञा ।
[382।20]
धन्धस्य वा पुद्गलस्येयमिति धन्धाभिज्ञा ।
[382।20-382।21]
पुनरप्येष मार्गो बोधिपक्ष्याख्यां लभते ।
[382।21]
सप्तत्रिंशद्वोधिपक्षा धर्माः ।
चत्वारि स्मृत्युपस्थानानि ।
[382।22]
चत्वारि सम्यक् प्रहाणानि ।
चत्वार ऋद्धिपादाः ।
पञ्चेन्द्रियाणि ।
[382।22-382।23]
पञ्च बलानि ।
[382।23]
सप्त बोध्यङ्गानि ।
आर्याष्टाङ्गो मार्गः इति ।
तत्र
[382।24]
अनुत्पादक्षयज्ञाने बोधिः
[383।01]
क्षयज्ञानमनुत्पादज्ञानं च ।
पुद्गलभेदेन तिस्रो बोधय उत्पद्यन्ते ।
[383।01-383।02]
श्रावकबोधिः प्रत्येकबोधिरनुत्तरा सम्यक्संबोधिरिति ।
[383।02]
अशेषाविद्याप्रहाणात् ।
[383।02-383।03]
ताभ्यां स्वर्थस्य यथाभूत कृतापुनःकर्तव्यताववोधाच्च ।
[383।04]
तादनुलोम्यतः ।
[383।05]
सप्तत्रिंशत्तु तत्पक्ष्याः
[383।06]
बोधेरनुलोमत्वाद्बोधिपक्ष्याः सप्तत्रिंशदुत्पद्यन्ते ।
[383।07]
नामतो द्रव्यतो दश
[383।08]
दश द्रव्याणि सर्वे बोधिपक्ष्याः ।
कतमानि दश ।
[383।09]
श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे ।
[383।10]
प्रश्रब्धिशीलसंकल्पाः
[383।11]
इत्येतानि दश द्रव्याणि ।
कथं कृत्वा ।
[383।12]
प्रज्ञा हि स्मृत्युपस्थितिः
[383।13]
वीर्यं सम्यक्प्रहाणाख्यमृद्धिपादाः समाधयः ।
[383।14-383।17]
प्रज्ञावीर्यसमाधिस्वभाधा हि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः अत इन्द्रियाणि तावद्वलानि च नामग्राहिकया श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाद्रव्याणि च स्मृत्युपस्थानानि धर्मप्रविचयसंबोध्यङ्गं सम्यगृष्टिश्च प्रज्ञैव ।
[383।17]
सम्यक्प्रहाणानि वीर्यसंबोध्यङ्गं सम्यग्व्यायामश्च वीर्यमेव ।
[383।17-383।18]
ऋद्धिपादाः समाधिसम्बोध्यङ्गं सम्यक् समाधिश्च समाधिरेव ।
[383।18-383।19]
स्मृतिसंबोध्यङ्गं सम्यक् स्मृतिश्च स्मृतिरेव ।
[383।19]
किमवशिष्यते ।
[383।19-383।20]
प्रीतिप्रस्रब्ध्युपेक्षसंबोध्यङ्गानि सम्यक्संकल्पः शीलाङ्गनि च ।
[383।20-383।21]
तान्येतानि पञ्च द्रव्याणि एवमेते बोधिपक्ष्या दश द्रव्याणि भवन्ति ।
[383।21]
वैभषिकाणा मेकादश ।
[383।21-384।01]
कायवाक्कर्मणोरसंभिन्नत्वात् शीलाङ्गानि द्वे द्रव्ये इति ।
[384।01-384।02]
यत्त्वेतदुक्तं "प्रज्ञावीर्यसमाधिस्वभावाः स्मृत्युपस्थानादय" इति ।
[384।02]
अत्र वेदितव्यम् ।
[384।03]
प्रधानग्रहणं सर्वे गुनाः प्रायोगिकास्तु ते
[384।04]
प्रधानग्रहणेनैवमुक्तम् ।
[384।04-384।05]
सर्वे तु प्रायोगिका गुणाःः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः ।
[384।05]
कस्माद्वीर्य सम्यक्प्रधानमुक्तम् ।
[384।05-384।06]
तेन सम्यक्कायवाङ्मनांसि प्रधीयन्ते ।
[384।06]
समाधिः कस्माद् ऋद्धिपाद उक्तः ।
तत्प्रतिष्ठत्वात्सर्वगुणसंपत्तेः ।
[384।07]
ये त्वाहुः "समाधिरेवर्द्धिः पादाश्छन्दादय" इति ।
[384।07-384।08]
तेषां द्रव्यतस्त्रयोदश बोधिपक्ष्याः प्राप्नुवन्ति ।
[384।08]
च्छन्दचित्तयोइराधिक्यात्सूत्रं च विरुध्यते ।
[384।08-384।09]
"ऋद्धिम् च वो भिक्षवो दर्शयिष्यामि ऋद्धिपादांशच यावदृद्धिः कतमा ।
[384।09-384।10]
इह भिक्षुरनेकविधमृद्धिविषयं प्रत्यनुभवति ।
[384।10]
एको भूत्वा बहुधा भवती"ति विस्तरः ।
[384।11]
कस्मादिन्द्रियाण्येव वलान्युक्तानि ।
मृद्वधिमात्रभेदादवमर्दनीयानवमर्दनीयत्वात् ।
[384।12]
इन्द्रियाणां किङ्कृतो ऽनुक्रमः ।
श्रद्दधानो हि फलार्थं वीर्यमारभते ।
[384।12-384।13]
आरब्धवीर्यस्य स्मृतिरूपतिष्ठते ।
[384।13]
उपस्थितस्मृतेरविक्षेपाच्चित्तं समाधीयते ।
[384।13-384।14]
समाहितचित्तो यथाभूतं प्रजानातीति ।
[384।15]
कस्यामवस्थायां कतमे ते बोधिपक्ष्याः प्रभाव्यन्ते ।
[384।16-384।17]
आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः ।
भावने दर्शने चैव सप्त वर्गा यथाक्रमम्
[384।18]
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0