अभिधर्मकोशभाष्य · भाग 561580
मार्गो हि स तज्जातीयः ।
सप्तपदाशीविष दष्टवच्चातुर्थकज्वरवच्च ।
[356।23]
सप्तसंयोजनावशेषत्वाच्च ।
द्वे अवरभागीये पञ्च चोर्ध्वभागीयानीति ।
[356।23-356।24]
अन्तरेणाप्यार्यमार्गं संमुखीकुर्वाणो न परिनिर्वाति ।
[356।24-356।25]
तावत् भववेदनीयस्य कर्मणो वलाधानात् ।
[356।25]
असति बुद्धोत्पादग्रहस्थ एवार्हत्त्वं प्राप्नोति ।
[356।25-356।26]
अगारं तु पोउनर्नाध्यावसति ।
[356।26]
धर्मताप्रतिलम्भिकं तु भिक्षुलिङ्ग प्रतिलभते ।
[356।26-356।27]
अन्याश्रमिकं लिङ्गेनेत्यपरे ।
[356।27]
कस्मादविनिपातकधर्मा भवति ।
[356।27-356।29]
तद्गामि कर्मानुपचयादुपचितविपाकदानवैगुण्याच्च संततेर्बलवत्कुशला धिवासनात्प्रयोगाशयशुद्धितः ।
[356।29]
अपायनिपाते तु कर्मण्यसौ क्षान्तिमपि नोत्पादयेत् ।
आह चात्र
[357।01-357।04]
"कृत्वा बुधो ऽल्पमपि पापमधः प्रयाति
कृत्वा बुधो महदपि प्रजहात्यनर्थम्
मज्जन्यधो ऽल्पमपि वारिणि संहतं हि
पात्रिकृतं महदपि प्लवते तदेव" इति ।
[257।05]
दुःखस्यान्तं करोतीति को दुःखस्यान्तः ।
[357।05]
यस्मात् परेण दुःखं नास्ति ।
[357।06]
अप्रतिसंधिकं दुःखं करोतीत्यर्थः ।
अथवा निर्वाणमन्तः ।
कथं निर्वाणं करोति ।
[357।07]
तत्प्राप्तिविवन्धापनयनात् ।
यथाकाशं कुरु मण्डपं पातयेति भवन्ति वक्तारः ।
[357।08]
अन्यो ऽपि च स्यात्सप्तकृत्वः परमो न तु नियत इति नोच्यते ।
[357।08-357।09]
एवं तावदक्षीणभावनाहेयः फलस्थः सप्तकृत्वः परमो भवति ।
[357।10]
त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलङ्कुलः
[357।11]
स एव स्रोत आपन्नस्त्रिभिः ।
[357।11-357।12]
क्लेशप्रहाणतस्त्रिचतुःपोरकारप्रहीणत्वात् ।
[357।12]
इन्द्रियतस्तत्प्रतिपक्षानास्रवेन्द्रियलाभात् ।
[357।12-357।13]
जन्मतो द्वित्रिजन्मावशेषत्वात् ।
[357।13-357।14]
श्लोके तु द्वयोर्ग्रहणं स्रोत आपन्नस्य पश्चात्प्रहीणे सति तत्प्रतिपक्षानास्रवेन्द्रियस्यानुक्तसिद्धत्वात् ।
[357।14-357।15]
जन्म तु कदाचिदल्पीयः स्यात् ।[35715]
परेण भव्यत्वाद् ।
[357।15]
अतो ऽस्य ग्रहणम् ।
[357।15-357।16]
कस्मान्न पञ्चप्रकारप्रहाणात् ।
[357।16-357।17]
तत्प्रहाणे षष्ठस्यावश्यं प्रहाणात् नहि तस्यैकः प्रकारः फलं विघ्नयितुं समर्थः ।
[357।17]
एकवीचिकस्येव धात्वनतिक्रमात् ।
[357।17-357।18]
स एव कुलङ्कुलो द्विविधः ।
[357।18-357।19]
देवकुलङ्कुलो यो देवेष द्वे त्रीणि वा कुलानि संश्रित्य परिनिर्वाति तत्र वा ऽन्यत्र वा देवनिकाये ।
[357।19-357।20]
मनुष्यकुलङ्कुलो यो मनुष्येषु तत्र वा ऽन्यत्र व द्वीपे परिनिर्वाति ।
[357।20]
स एव पुनः फलस्थः
[357।21]
आपञ्चमप्रकारघ्नो द्वितीयप्रतीपन्नकः ।
[357।22-357।23]
यस्य फलस्थस्यैकप्रकारोयावत्पञ्चमः प्रहीणो भवति असौ द्वितीयफलप्रतिपन्नको वेदितव्यः ।
[357।24]
क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः
[358।01]
द्वितीयफलप्राप्तो भवति ।
[358।01-358।02]
देवान् गत्वा सकृन्मनुष्यलोकागमनात्सकृदागामी ।
[358।02]
परेण जन्माघावात् ।
रागद्वेषमोहानां च तनुत्वादित्युच्यते ।
[358।03]
मृदुप्रकारावशेषत्वात् ।
स एव पुनः फलस्थः ।
[358।04]
क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः ।
[358।05]
तृतीयप्रतिपन्नश्च
[358।06]
त्रिभिः कारणैः ।
स एव सकृदागाम्येकवीचिदो वेदितव्यः ।
[358।06-358।07]
सप्ताष्टप्रकारप्रहाणात् ।
[358।07-358।08]
तत्प्रतिपक्षानास्रवेन्द्रियलाभादेकजन्मावशेषत्वात् ।
[358।08]
कथमस्यैकः प्रकारः फलं विध्नयितुम् शक्नोति ।
धात्वतिक्रमात् ।
[358।09]
अवस्थात्रये हि कर्माणि विध्नायोपतिष्ठन्त" इत्युक्तं प्राक् ।
[358।09-358।10]
यथा कर्माण्येवं क्लेशा अपि वेदितव्या इति ।
[358।10]
विपाकनिःष्यन्दफलभूम्यतिक्रमात् ।
[358।10-358।12]
वीचिर्नामान्तरं तस्य चैकजमव्यवहितत्वात् निर्वाणस्य एकक्लेशप्रकारव्यवहितत्वाद्वा ऽनागामिफलस्यैको वीचिरस्येत्येकवीचिकः ।
[358।12-358।13]
तृतीयफलप्रतिपन्नकश्चैकवीचिको वेदितव्यः प्रहीणसप्ताष्टप्रकारः ।
[358।13-358।14]
पूर्वप्रहीणप्रकारस्तु फलप्राप्तौ न तावत्कुलङ्कुलो भवत्येकवीचिको वा यावत्फलविशिष्टो मार्गो न समुखीकृतः ।
[358।15]
सो ऽनागामी नवक्षयात्
[358।16]
स एवपुनः फलस्थो नवप्रकारप्रहाणादनागामी उपदिष्टः ।
[358।16-358।17]
कामधात्वनागमनात् ।
[358।17-258।18]
"पञ्चानामवरभागीयानां संयोजनानां प्रहाणादि"त्युच्यते प्रहाणसंकुलनात् ।
[358।18]
अवश्यं द्वे त्रीणि वा पूर्वं प्रहीणानि भवन्ति ।
[358।19]
सो ऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः ।
[358।20]
ऊर्ध्वस्रोताश्च
[358।21]
अन्तरा परिनिर्वृतिरस्येत्यन्तरापरिनिर्वृतिः ।
[358।21-358।22]
एवमुत्पन्नस्य संस्कारेणासंस्कारेणेति योज्यम् ।
[358।22]
स एवानागामी पुनः पञ्चधा भवति ।
[359।01]
अन्तरापरिनिर्वायी यो ऽन्तराभवे परिनिर्वाति ।
[359।01-359।02]
उपपद्यपरिनिर्वायी य उपपन्नमात्री न चिरात् परिनिर्वात्यभियुक्तवाहिमार्गत्वात् ।
[359।02]
सोपधिशेषनिर्वाणेन ।
[359।02-359।03]
सो ऽप्पि निरूपधिशेषेणेत्यपरे ।
[359।03]
नायुरुत्सर्गावशित्वात् ।
[359।03-359।04]
साभिसंस्कारपरिनिर्वायी किल उपपद्याप्रति प्रस्रब्धप्रयोगः ।
[359।04]
साभिसंस्कारं परिनिर्वात्यभियुक्तावाहिमार्गत्वात् ।
[359।05]
अनभिसंस्कारपरिनिर्वायी त्वंनभिसंस्कारेणाभियोगवाहिमार्गाभावात् ।
[359।05-359।06]
संस्कृतासंस्कृतालम्बनमार्गनिर्वाणादित्यपरे ।
[359।06]
तत्तु न ।
अतिप्रसङ्गात् ।
[359।06-359।07]
सूत्रे त्वनाभिसंस्कारपरिनिर्वायी पूर्व पठच्यते ।
[359।07]
तथैव च युज्यते ।
[359।07-359।08]
वाह्यवाहिमार्गयोरनभिसंस्काराभिसंस्कारसाध्यत्वादयत्नयत्नप्राप्तितः ।
[359।08-359।09]
उपपद्यपरिनिर्वायिणस्तु वाहितरो ऽधिमात्रतरश्च मार्गो मृदुतराश्चानुशया इति ।
[359।09-359।10]
ऊर्ध्वस्रोता यस्योर्ध्वं गतिर्न तत्रिव परिनिर्वाणं यत्रोपपन्नः ।
[359।10]
स्रोतो गतिरित्येको ऽर्थः ।
[359।11]
स ध्याने व्यवकीर्णो ऽकनिष्ठगः
[359।12]
ऊर्ध्वस्रोता द्विवधो हेतुतः फलतश्च ।
हेतुतो व्यवकोर्णाव्यवकीर्णध्यानत्वात् ।
[359।13-359।14]
फलतो ऽकनिष्ठभवाग्रपरमत्वात् तत्र येन ध्यानं व्यवकीर्णं सो ऽकनिष्ठान् गत्वा परिनिर्वाति ।
[359।15]
स प्लुतो ऽर्धप्लुतः सर्वच्युतश्च
[359।16]
स पुनरेषो ऽकनिष्ठपरम ऊर्ध्वंस्रोतास्त्रिविधः ।
प्लुतादिभेदात् ।
[359।16-359।19]
तत्र प्लुतो नाम य इह ध्यानानि व्ययकीर्य ध्यानच्यात् ओपरिहीणं प्रथमं ध्यानमास्वाद्य ब्रह्मकायिकेषूपपन्नः पूर्वाभ्यासवशाच्चतुर्थं ध्यानं व्यवकीर्य तस्मात् प्रच्युतो ऽकनिष्ठेषूपपद्यते ।
[359।19]
एष हिमध्यानिमज्जनात् प्लुतः ।
[359।19-359।20]
अर्ध्प्लुतो नाम यस्ततः शुद्धावासेषूपपद्य मध्यादेकमपि स्थानान्तरं विलङ्घच्याकनिष्ठान् प्रविशति ।
[359।20-359।21]
महाब्रह्मस्वार्यो नोपपद्यते दृष्टिस्थानत्वादेकनायकत्वाच्चेति ।
[359।21-359।22]
सर्वच्युतो नाम यः सर्वाणि स्थानान्तराणि संचर्याकनिष्ठान् प्रविशति ।
[359।22]
न च दकाचिदनागामी ।
[359।22-359।23]
तत्रैवोल्पत्यायतने द्वितीयं जन्माभिनिर्वर्तयति ।
[359।23]
विशेषगामित्वात् ।
[359।23-359।24]
एवं चास्य परिपूर्णमनागामित्वं भवति ।
[359।24]
यत्रोपपन्नस्तस्याधस्तत्र चात्यन्तमनागमनात् ।
[359।14-359।15]
एवं तावद्धच्याने व्यवकीर्णे ऽकनिष्टगो वेदितव्यः ।
[359।15-359।25]
ततः
[360।01]
अन्यो भवाग्रगः ।
[360।02]
अव्यवकीर्णध्यान ऊर्ध्वंस्रोता भवाग्रनिष्ठो भवति ।
[360।02-360।04]
स हि समापत्त्यन्तराण्यास्वादयन् सर्वस्थानान्तरेषूपपद्याप्रविश्यैव शुद्धावसानारुप्यक्रमोत्पत्तितो भवाग्रं गत्वा परिनिर्वाति ।
[360।04]
शमथचरितो ह्येषः ।
[360।04-360।05]
पूर्वकस्तु विपश्यनाचरितः ।
[360।05]
अन्तरापि तु परिनिर्वाणमूर्ध्वंस्रोतसो युज्यमानं पश्यामः ।
[360।05-360।06]
अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावाद्यथा सप्त कृत्वःपरमत्वं स्रोत आपन्नस्येति ।
[360।06-360।07]
इमे तावत् पञ्च रुपोपगा अनागामिनः ।
[360।08]
आरुग्यगश्चतुर्धान्यः
[360।09]
अन्य आरुप्यगो ऽनागामी यो रूपवीतराग इतश्चच्युत्वारुप्येषुपपद्यते ।
[360।09-360।10]
स पुनश्चतुर्विध उपपद्यादिपरिनिर्वायिभेदात् ।
[360।10]
त एते षडनागामिनो भवन्ति ।
ततः
[360।11]
इह निर्वापको ऽपरः
[360।12]
इहैव जन्मन्यपरः परिनिर्वाति ।
स दृष्टधर्मपरिनिर्वायो सप्तमः ।
[360।13]
पुनस्त्रींस्त्रिविधान् कृत्वा नव रुपोपगाः स्मृताः ।
[360।14]
पुनस्त्रयाणामनागामिनां त्रिधा भेदाद्रूपोपगा नवानागामिनो भवन्ति ।
[360।15]
कतमेषां त्रयाणाम् ।
अन्तरोपपद्यपरिनिर्वायिणोरुर्ध्वस्रोतसश्च ।
कथं त्रिधाभेदात् ।
[360।16]
अन्तरापरिनिर्वायिणस्तावदाश्वनाशुचिरपरिनिर्वाणात् दृष्टान्तत्रयेण ।
[360।16-360।17]
उपपद्यपरिनिर्वायिण उपपद्याभिसंस्कारानभिसंस्कारपरिनिर्वाणात् ।
[360।17-360।18]
सर्वे ह्येते त्रयो ऽप्युपपन्न परिनिर्वाणादुपपद्यपरिनिर्वायिणः ।
[360।18]
ऊर्ध्वंस्रोतसः प्लुतादिभेदात् ।
[360।18-360।19]
सर्वेषां वा त्रयाणामाश्वनाशुचिरपरिनिर्वाणादिति त्रित्वम् ।
[360।20]
तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः
[360।21]
तेषां पुनस्त्रयाणां नवानां चानागामिनां कर्मक्लेशेन्रियविशेषाद्विशेषः ।
[360।21-361।01]
त्रयाणां तावदभिनिर्वृत्त्युपपद्यापरपर्यायवेदनीयकर्मोपचितत्वाद्यथाक्रमं मृदुमध्याधिमात्र क्लेशसमुदाचार त्वादधिमात्रमध्यमुद्विन्द्रियत्वाच्च ।
[361।01-361।02]
तेषामपि नवानां प्र्त्येकमत एव यथायोगं विशेषः ।
[361।02]
प्रथमयोस्त्रिकयोः क्लेशेन्द्रियविशेषात् पूर्ववत् ।
[361।02-361।03]
पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच्चेति ।
[361।03-361।04]
त एते नवप्रकारक्लेशेन्द्रियत्वान्नवानागामिनो भवन्ति ।
[361।04]
कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिताः ।
[361।05]
ऊर्ध्वंस्रोतुरभेदेन सप्त सद्गतयो मताः ।
[361।06]
ऊर्ध्वं स्रवणधर्मा ऊर्ध्वंस्रोता ।
[361।06-361।07]
तस्याभेदनिर्देशात्सप्त सत्पुरुषगतयः सूत्रे ऽभिहिताः ।
[361।07]
कस्मात् पुनरेता एव सत्पुरुषगतयो नान्याः शैक्षगतयः ।
[361।07-361।08]
एता हि गतयो येषां तेषां सत्येव कर्माणि वृत्तिः कुशले असत्यवृत्तिरकुशले ।
[361।08-361।09]
एताश्च गतीर्गतानां न पुनः प्रत्यागतिरस्ति ।
[361।09]
नत्वेतद्यथोक्तमन्यत्रास्ति ।
अतः
[361।10]
सदसद्वृत्त्यवृत्तिभ्यां गताओप्रत्यागतेश्च ताः
[361।11]
सप्त सत्पुरुषगतयो नान्या इति ।
[361।11-361।12]
यत्तर्हि सूत्रे एवोक्तं "सत्पुरुषाः कतमः ।
[361।12]
शैक्ष्यः सम्यग्दृष्टच्या समन्वागत" इति विस्तरः ।
[361।12-361।13]
अन्येषामप्यस्ति पोआर्यायिकं सत्पुरुषत्वम् ।
[361।13-361।14]
पञ्चविधस्य पापस्यात्यन्तमकरणसंवरप्रतिलम्भात् प्रायेणाकुशलप्रहाणाच्च ।
[361।14]
येषां तु निष्पर्यायेण तेषामिहाध्हिकारः ।
[361।15]
किं पुनः परिवृत्तजन्मनो ऽप्यनागामिन एष भेदो ऽस्ति ।
यस्मात्
[361।16]
न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः ।
[361।17]
कामधातौ परावृत्तजन्मान्तर आर्यो न धात्वन्तरं गच्छति ।
[361।17-361।18]
अनागामि फलं प्राप्य तत्रैव जन्मनि परिनिर्वाणात् ।
[361।18-361।19]
रूपधातौ तु परावृत्तजन्म कदाचिदारुप्यान्प्रविशति ।
[361।19]
य ऊर्ध्वंस्रोता भवाग्रपरमः ।
[361।19-361।20]
यत्तर्हि शक्रेणोक्तं "ये ते देवा अकनिष्ठा इति विश्रुताः ।
[361।20]
अन्ते मे हीयमानस्य तत्रोपपत्तिर्भविष्यति" ।
[361।20-361।21]
अभिधर्मा नभिज्ञत्वादिति वैभाषिकाः ।
[361।21]
भवता "प्यनिवारणं संहर्षणीयत्वा" दिति ।
[362।01]
स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाक्
[362।02-362।03]
स च कामधातौ परिवृत्तजन्मा ऊर्ध्वधातूपपन्नश्चार्यो नैवेन्द्रियाणि संचरति नापि कथञ्चित् परिहीयते ।
[362।03-362।04]
किं पुनः कारणं परिवृत्तजन्मान्तास्यार्यस्य रूपारुप्यप्रवेशेन्द्रियसंचारपरिहाणयो नेष्यन्ते ।
[362।04]
यस्मान्न सन्ति ।
कस्मान्न सन्ति ।
[362।04-362।05]
जन्मान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वादाश्रयविशेषलाभाच्च ।
[362।06]
अथ कस्माद्वीतरागः शैक्षो नान्तराये परिनिर्वायी भवति ।
[362।06-362।08]
मार्गस्याजितत्वादसंमुखीभावतः अनुशयानां च नातिमन्दत्वात् दुःसमतिक्रामत्वात्कामवातोरिति वैभाषिकाः ।
[362।08]
बहु ह्यनेन कर्तव्यं भवति ।
[362।08-362।09]
अकुशलाम्याकृतक्लेशप्रहाणं द्वित्रिश्रामण्यफलप्राप्तिस्त्रिधातुसमतिक्रमश्च ।
[362।09]
तच्चान्तराभवस्थो न शक्तः कर्तुमिति ।
[362।10]
यदुक्तं "स ध्याने व्यवकीर्णे ऽकनिष्ठग" इति ।
[362।10-362।11]
अथ कतमद्धच्यानं प्रथमतो व्यवकीर्यते ।
[362।12]
आकीर्यते चतुर्थं प्राक्
[362।13]
स हि सर्वकर्मण्यः समाधिः सुखप्रतिपदामग्रच्यत्वात् ।
[362।13-362।14]
एवं च पुनः व्यवकीर्यते ।
[362।14]
अर्हन्ननागामी वा प्रवाहयुक्तमनास्रवं चतुर्थं ध्यानं समापद्यते ।
[362।15]
तस्माद्वच्युत्थाय प्रवाहयुक्तं तदेव सास्रवं समापद्यते पुनश्चानास्रवम् ।
[362।15-362।17]
एवं प्रवाहाप्रहासेन यदा किल द्वौ क्षणावनास्रवौ समापद्यते द्वौ सास्रवौ पुनश्चानास्रवावयं व्यवकिरणस्य प्रयोगः ।
[362।18]
निष्पत्ति क्षणमिश्रणात् ।
[362।19]
यदा त्वनास्रवस्य क्षयस्यानन्तरं सास्रवं संमुखीकरोति सास्रवस्यानास्रवम् ।
[362।20-362।21]
एवं सास्रवस्य क्षणस्यानास्रवाभ्यां मिश्रणात् व्यवकिरणं निष्पन्नं भवतीति वैभाषिकाः ।
[362।21-362।22]
द्वौ हि क्षणावानन्तर्यमार्गसदृशौ तृती यो विमुक्तिमार्गसदृश इति ।
[362।22]
एवं चतुर्थं ध्यानं व्यवकीर्य तद्वलेल्नान्यान्यपि व्यवकीर्यन्ते ।
[362।22-362।23]
कामधातौ त्रिषु द्वीपेषु प्रथमं व्यवकीर्यते ।
[362।23]
पश्चात् परिहीणेन रूपधातौ ।
[362।23-362।24]
अशक्यं तु क्षणव्यवकिरणमन्यत्र बुद्धात् ।
[362।24-362।25]
अत इच्छातः प्रवाहत्रयसमापत्तितो निष्पन्नं भवतीति पश्यामः ।
[362।26]
किमर्थं पोउनर्ध्यानं व्यवकीर्यते ।
[363।01]
उपपत्तिविहारार्थं क्लेशभीरुतया ऽपि च
[363।02]
त्रिभिः कारणैर्ध्यानं व्यवकिरन्ति ।
[363।02-362।03]
तीक्ष्णेन्द्रिया अनागामिनः शुद्धावासोपपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च ।
[363।03-363।04]
मृद्विन्द्रियाः क्लेशभिरुतया चास्वादनासंप्रयुक्तसमाधिदूरीकरणादपरिहीणार्थम् ।
[363।04]
अर्हन्तस्तु तीक्षणेन्द्रिया दृष्टधर्मसुखविहारार्थम् ।
[363।05]
मृद्विन्द्रियाः क्लेशभीरुत्वाच्चापरिहीणार्थम् ।
[363।06]
अथ कस्मात् पञ्चैव शुद्धावासोपपत्तयः ।
[363।06-363।07]
यदेतद्वच्यवकीर्णभावितं चतुर्थं ध्यानमुक्तम्
[363।08]
तत्पाञ्चविध्यात्पञ्चैव शुद्धावासोपपत्तयः ।
[363।09]
सा हि व्यवकीर्णभावना पञ्चप्रकारा म्र्दुमध्याधिमात्रतरतमभेदात् ।
[363।09-363।10]
प्रथमायां त्रीणि चित्तानि संमुखीद्रियन्ते ।
[363।10]
अनास्रवं सास्रवमनास्रवं च ।
द्वितीयायां षट् ।
[363।11]
तृतीयायां नव ।
चतुर्थ्यां द्वादश ।
पञ्चम्यां पञ्चदश ।
[363।11-363।12]
तासां यथासंख्यं पञ्च शुद्धावासाः फलम् ।
[363।12]
यत्तत्र सास्रवं तद्वशात्तेषूपपत्तिः ।
[363।12-363।13]
श्रद्धादीन्द्रियाधिक्यात् पञ्चेत्यपरे ।
[363।14]
निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः
[363।15]
निरोधलाभो ऽस्यास्तीति निरोधलाभी ।
[363।15-363।16]
यो हि कश्चिदनागामी निरोधसमापत्तिलाभी स कायसाक्षीत्युच्यते ।
[363।16-363।17]
निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्करणात् ।
[363।17]
कथं पुनः कायेन साक्षात्करोति ।
चित्ताभावात् कायाश्रयोत्पत्तेः ।
[363।18]
एवं तु भवितव्यम् ।
[363।18-363।19]
स हि तस्माद्व्युत्थायाप्रतिलब्धपूर्वा सविज्ञानकां कायशान्तिं प्रतिलभते ।
[363।19-363।20]
यतो ऽस्यैवं भवति शान्ता वत निरोधसमापत्तिर्निर्वाणसदृशी वत निरोधसमापत्तिरिति ।
[363।20]
एवमनेन तस्याः शान्तत्वं कायेन साक्षत्कृतं भवति ।
[363।21]
प्राप्तिज्ञानसाक्षात्क्रियाभ्यां प्रत्यक्षीकारो हि साक्षात्क्रिया ।
[363।21-363।22]
अष्टादश शैक्षा" इत्यत्र सूत्रे कि कारणं कायसाक्षी नोक्तः ।
[363।22]
कारणाभावात् ।
कि पुनः कारणम् ।
[363।23]
अनास्रवास्तिस्रः शैक्षास्तत्फां च ।
तद्विशेषेण हि शैक्षाणां व्यवस्थानम् ।
[363।23-363।24]
निरोधसमापत्तिश्च नैवशैक्षानाशिक्षा फलम् ।
[363।24]
अतो न तद्योगाच्धैक्षविशेष उक्तः ।
[363।24-363।25]
एष तावदनागामिनां यथास्थूलं भेदः ।
[363।25]
सूक्ष्मं तु भिद्यमानाः सहस्रशो भिद्यन्ते ।
[363।26]
अन्तरापरिनिर्वायिणस्त्रयो मृदुमध्याधिमात्रेन्द्रियभेदात् ।
भूमिभेदाच्चत्वारः ।
[364।01]
परिहाणधर्मादिगोत्रभेदात् षट् ।
[364।01-364।02]
स्थानान्तरभेदात् षोडश भूमिवैराग्यभेदात् षट्त्रिंशत् ।
[364।02-364।03]
रूपधतौ सकलाबन्धनो यावच्चतुर्थध्यानाष्टप्रकारवीतरागः ।
[364।03]
स्थानान्तरगोत्रवैराग्येन्द्रियभेदाद्वानवतानि पञ्चविंशतिः शतानि ।
[364।04]
कथं कृत्वा ।
एकस्मिन् स्थाने षट् गोत्राणि ।
[364।04-364।06]
गोत्रे गोत्रे नव पुद्गलाः सकलबन्धनो यावदष्टप्रकारवीतरागः स्वस्मात्स्थानात् षण्ण्णवकानि चतुष्पञ्चाशत् षोडश चतुष्पञ्चाशत्कानि चतुःषष्टान्यष्टौ शतानि ।
[364।06-364।07]
इन्द्रियभेदात् पुनस्त्रिगुणा इत्येवं कृत्वा यो ऽधरध्याने नवप्रकारवीतरागः स उत्तरे सकलबन्धन उक्तः ।
[364।07-364।08]
समगणनार्थम् ।
[364।08-364।09]
यथान्तरापरिनिर्वायिण एवं यवदूर्ध्वस्रोतस इत्यभिसमस्य सर्वे चत्वारिंशदूनानि त्रयोदशसहस्राप्यनागामिनां भवन्ति ।
[364।10]
आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपक्षकः ।
[364।11]
अनागामीत्यधिकृतम् ।
[364।11-364।12]
स खल्वयमनागामी प्रथमध्यानैकप्रकारवैराग्यात् प्रबृति यावत् भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नको भवन्ति ।
[364।13]
नवमस्याप्यानन्तर्यपथे
[364।14-364।15]
नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे सो ऽर्हत्त्वप्रतिपन्नक एव ।
[364।16]
वज्रोपमश्च सः
[364।17]
स चानन्तर्यमार्गो वज्रोपमः समाधिरित्युच्येत ।
[364।18]
सर्वानुशयभेदित्वात् ।
भिन्नत्वादसौ न पुनः सर्वान् भिनत्ति ।
[364।18-364।19]
सर्वास्तु भेत्तुं समर्थः ।
[364।19]
सर्वानन्तर्यमार्गाणामधिमात्रतमत्वात् ।
[364।19-364।20]
वज्रोपमानां तु बहुभेदं वर्णयन्ति ।
[364।20-364।21]
अनागाम्यसंगृहीता भावाग्रिकदुःखसमुदायालम्बनैर्दुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ ।
[364।21]
निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ ।
[364।22]
निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथमध्याननिरोधालम्बनाश्चत्वारः ।
[364।22-364।23]
एवं यावत् भवाग्रनिरोधालम्बनाश्चत्वारः ।
[364।23]
मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारः ।
[365।01]
कृत्स्नस्यान्वयज्ञानपक्षस्यालम्बनात् ।
[365।01-365।02]
त इमे ज्ञानाकारालम्बनभेदभिन्ना द्वापञ्चाशद्वज्रोपमा भवन्ति ।
[365।02]
यथा ऽनागाम्यसंगृहीता एवं यावच्चतुर्थध्यानसंगृहीताः ।
[365।03-365।04]
आकाशविज्ञानानन्त्याकिञ्चन्यायतनसंगृहीता यथासंख्यमष्टाविंशतिश्चतुर्विंशतिविंशतिश्च भवन्ति ।
[365।04-365।05]
तेषु धर्मज्ञानस्याधोभूमिनिरोधालम्बनस्य चान्वयज्ञानस्याभावात् ।
[365।05]
अधोभूमिप्रतिपक्षालम्बनं तु भवति ।
तस्यान्यो ऽन्यहेतुत्वादिति ।
[365।05-365।07]
येषां तु मार्गान्वयज्ञानमप्येकैकभूमिप्रतिपक्षालम्बनमिष्टं तेषामष्टाविंशतिमधिकान् प्रक्षीप्यानागम्यसंगृहीता अशीतिर्वज्रोपमा भवन्ति ।
[365।07-365।08]
एवं यावच्चतुर्थध्यान संगृहीताः ।
[365।08-365।09]
आकाशानन्त्यायतनादिषु यथाक्रमं चत्वारिंशत् द्वात्रिंशच्चतुर्विशतिश्च भवन्ति ।
[365।09]
पुनर्गोत्रेन्द्रियभेदात् भूयांसो भवन्ति ।
[365।10]
यस्त्वसौ भावाग्रिको नवमः प्रकार उक्तो यस्य वज्रोपमेन प्रहाणं
[365।11]
तत्क्षयाप्त्या क्षयज्ञानं
[365।12]
तस्य पुनर्नवमस्य प्रकारस्य सह क्षयप्राप्त्या क्षयज्ञानमुत्पद्यते ।
[365।12-365।13]
वज्रोपमसमाधेरनन्तरं पश्चिमो विमुक्तिमार्गः ।
[365।13-365।14]
अत एव तत्क्षयज्ञानं सर्वास्रवक्षयप्राप्तिसहजत्वात्प्रथमतः ।
[365।15]
अशैक्षो ऽर्हन्नसौ तदा ।
[365।16-365।17]
उत्पन्ने च पुनः क्षयज्ञाने सो ऽर्हत्त्वप्रतिपन्नकः अशैक्षो भवत्यर्हश्चार्हत्त्वफलप्राप्तः ।
[365।17]
फलान्तरं प्रति पुनः शिक्षितव्याभावादशैक्षः ।
[365।17-365।19]
अत एव स परमार्तं करणार्थत्वात् सर्वसरागपूजार्हत्त्वाच्चार्हन्निति सिद्धं भवत्यन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति ।
[365।19]
केन ते शैक्षाः ।
[365।19-365।20]
आस्रवक्षयाय नित्यं शिक्षणशीलत्वाच्छिक्षात्रये अधिशीलमधिचित्तमधिप्रज्ञं च ।
[365।20]
ताः पुनः शीलसमाधिप्रज्ञास्वभावाः ।
[365।21]
पृथग्जनो ऽपि शैक्षः प्राप्नोति ।
न ।
यथाभूतं सत्याप्रज्ञानात् पुनश्चापशिक्षणात् ।
[365।22-365।23]
अत एव द्विरभिधानं सूत्रे "शिक्षायां शिक्षते शिक्षायां शिक्षत इति शिवकतस्माच्छैक्ष इत्युच्यत" इति ।
[365।23-365।24]
यः शिक्षत एव नापशिक्षते स शैक्ष इत्यवधारणं यथा विज्ञायेत ।
[365।24]
प्रकृतिस्थ आर्यः कथं शिक्षणशीलः ।
[365।25]
आशयतः ।
स्थिताध्वगवत् प्राप्त्यनुषङ्गतश्च षिक्षात्रयस्य ।
[365।25-365।26]
अथ शैक्षा धर्माः कतमे ।
[365।26]
शैक्षस्यानास्रवाः ।
अशैक्षाः कतमे ।
अशैक्षस्यानास्रवाः ।
[365।26-365।27]
निर्वाणं कस्मान्न शैक्षम् ।
[365।27]
अशैक्षपृथग्जनयोरपि तद्योगात् ।
कस्मान्नाशैक्षम् ।
[365।27-366।01]
शैक्षपृथग्जनयोरपि तद्योगात् ।
[366।01]
त एते सर्व एवाष्टावार्यपुद्गला भवन्ति ।
[366।01-366।02]
प्रतिपन्नकाश्चत्वारश्च फले स्थिताः ।
[366।02]
तद्यथा स्रोत आपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः स्रोत आपन्नः ।
[366।03]
एवं यावदर्हत्त्वफलसाक्षात्क्रियायै प्रतिंपन्नको ऽर्हन्निति ।
नामत एते ऽष्टौ भवन्ति ।
[366।04]
द्रव्यतस्तु पञ्च ।
प्रथमः प्रतिपन्नकश्चत्वारश्च फलस्थाः ।
[366।04-366।05]
शेषाणां प्रतिपन्नकानां त्रिफलस्थाव्यतिरेकात् ।
[366।05]
अनुपूर्वाधिगमं प्रत्येवमुच्यते ।
[366।05-366।07]
भूयःकामवीतरागौ तु स्यातां दर्शनमार्गे सकुदागाम्यनागामिफलप्रतिपन्नकौ न च स्रोत आपन्न सकृदागामिनाविति ।
[366।08]
द्विविधो हि भावनामार्ग उक्तो लौकिको लोकोत्तरश्चेति ।
[366।08-366।09]
केनायं शैक्षंः कुतो वैराग्यं प्राप्नोति ।
[366।10]
लोकोत्तरेण वैराग्यं भवाग्रात्
[366।11]
न लौकिकेन ।
कि कारणम् ।
[366।11-366।12]
तत ऊर्ध्व लौकिकाभावात् स्वभूमिकस्य वा प्रतिपक्षत्वात् ।
[366।12]
कस्मान्न प्रतिपक्षः ।
[366।12-366।13]
तत्क्लेशानुशयितत्वात् ।
[366।13-366।14]
यो हि क्लेशो यत्र वस्तुन्यनुशेते न तस्य तद्वस्तु ओप्रहाणाय संवर्तते यस्य च यः प्रतिपक्षो न तत्र स क्लेशो ऽनुशेते इति ।
[366।15]
अन्यतो द्विधा
[366।16]
भवाग्रादन्यतः सर्वतो भूमेलौकिकेनाओपि वैराग्यं लोकोत्तरेणापि ।
तत्र पुनः
[366।17]
लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा ।
[366।18-366।19]
लौकिकेन मार्गेणार्यवैराग्यं गच्छतो द्विविधा विसंयोगप्राप्तय उत्पद्यन्ते लौकिक्यो लोकोत्तराश्च ।
[366।20]
लोकोत्तरेण चेत्येके
[366।21]
लोकोत्तरेणाप्येवमित्यपरे ।
किं कारणम् ।
[366।22]
त्यवते क्लेशासमन्वयात्
[367।01-367।03]
यदि ह्यार्यमार्गेण वैराग्यं प्राप्नुवतो लौकिकी विसंयोगप्रापोतिर्नोत्पद्यते एवं सति य आर्यमार्गेणाकिञ्चन्यायतनाद्वीतरागो ध्यानं निश्रित्येन्द्रियाणि संचरति सकृत्स्नपूर्वमार्गत्यागात्केवलफलमार्गलाभाच्चोर्ध्वभूमिक्लेशविसंयोगेनासमन्वागतः स्यात् ।
[367।04]
त्यक्ते च तस्मिन् तैः क्लेशैः समन्वागतः स्यादिति ।
[367।05]
भवाग्राधविमुक्तोर्ध्वजातवत्त्वसमन्वयः ।
[367।06-367।07]
असत्यामपि तु तस्यां लौकिक्यां विसंयोगप्राप्तौ न तैः समन्वागमः स्यात् ।
[367।07-367।09]
तद्यथा भवाग्रादर्ध प्रकारविमुक्तस्यासत्यामपि तु लौकिक्यां तद्विसंयोगप्राप्तौ त्यक्तायामपि चेन्द्रियसंचारेण लोकोत्तरायां न पुनस्तैः क्लेशैः समन्वागमो भवति ।
[367।09-367।10]
यथा च पृथग्जनस्य प्रथमध्यानभूमेरुर्ध्वं जातस्य कामावचरक्लेशविसंयोगप्राप्तित्यागान्न पुनस्तैः समन्वागमो भवतीत्यज्ञापकमेतत् ।
[367।11]
कतपया पुनर्भूम्या कुतो वैराग्यं भवति ।
[367।12]
अनास्रवेण वैराग्यमनागाम्येन सर्वतः
[367।13]
आभवाग्रात् ।
[367।13-367।14]
अथ यः सामन्तकं निश्रित्याधरभूमिवैराग्यं प्राप्नोति किमस्यानन्तर्यमागवत्सर्वे विमुक्तिमार्गाः सामन्तकाद्भवन्ति ।
[367।14]
नेत्याह ।
किं तर्हि ।
[367।15]
ध्यानात्सामन्तकाद्वा ऽन्त्यो मुक्ति मार्गस्त्रिभूजये ।
[367।16]
नव ह्यपपत्तिभूमयः ।
सर्वकामधातुरष्टौ च ध्यानारुप्याः ।
[367।16-367।17]
तत्र यावत् द्वितीयध्यानवैराग्यं त्रिभूमिजयः ।
[367।17-367।18]
तस्मिन् पश्चिमो विमुक्तिमार्गः सामन्तकाद्भवति ध्यानाद्वा मौलात् ।
[367।19]
नोर्ध्वं सामन्तकात्
[367।20]
त्रिभूमिजयादूर्ध्वं मौलादेव न पुनः सामन्तकादुपेक्षेन्द्रियसामान्यात् ।
[367।20-367।21]
त्रिषु हि ध्यानेषु सामन्तकमौलयोरिन्द्रियभेदात् कश्चिन्न शक्नोति मौलं ध्यानं प्रवेष्टुम् ।
[368।01]
इन्द्रियसंचारस्य दुष्करत्वात् ।
[368।01-368।02]
अतस्त्रिभूमिवैराग्ये ध्यानसामन्तकादप्यन्यो विमुक्तिमार्गो भवति ।
[368।03]
"अनास्रवेण वैराग्यमनागम्येन सर्वत" इत्युक्तमन्यैस्तु नोक्तम् ।
अत उच्यते
[368।04]
आर्यैरष्टाभिः स्वोर्ध्वभूजयः
[368।05-368।06]
अनास्रवैरष्टाभिर्ध्यानध्यानान्तरारुप्यैः स्वस्या ऊर्ध्वायाश्च भूमेर्वैराग्यं नाधराया वीतरागत्वात् ।
[368।06-368।07]
तत्र लोकोत्तरा आनन्तर्यविमुक्तिमार्गाः सत्यालम्बनत्वात्सत्याकारप्रवृत्ता इति सिद्धम् ।
[368।08]
विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम् ।
[368।09]
शान्ताद्युदाराद्याकाराः
[368।10]
विमुक्तिमार्गाः शान्ताद्याकारा आनन्तर्यमार्गा औदारिकाद्याकाराः ।
[368।10-368।11]
ते पुनर्यथाक्रमम्
[368।12]
उक्तराधरगोचराः
[368।13]
विमुक्तिमार्गा उत्तरां भूमिं शान्ततः प्रणीततो निःसर्णतश्चाकारयन्ति संभवतः ।
[368।14]
आनन्तर्यमार्गा अधरां भूमिमौदारिकतो दुःखिलतः स्थूलभित्तिकतश्च ।
[368।14-368।15]
अशान्तत्वादौदरिकतो महाभिसंस्कारतरत्वात् ।
[368।15-368।16]
अप्रणीतत्वात् दुःखिलतो बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावात् ।
[368।16-368।17]
स्थूलभित्तिकतस्तयैव तद्भूम्यनिःसरणात् भित्त्यनिःसरणवत् ।
[368।17]
एषां विपर्ययेण शान्तप्रणीतनिःसरणाकाराः ।
गत मानुषङ्गिकम् ।
[368।18]
इदं तु वक्तव्यम् ।
[368।19]
अथ क्षयज्ञानाकनन्तरं किमुत्पद्यते
[368।20]
यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः
[368।21]
अकोप्यधर्मा चेदर्हन्भवति क्षयज्ञानात्समनन्तरमनुत्पादज्ञानमस्योत्पद्यते ।
[368।22]
न चेत् ।
[369।01]
क्षयज्ञानमशैक्षी वा दृष्टिः
[369।02-369।03]
न चेदकोप्यधर्मा भवति क्षयज्ञानात् क्षवज्ञानमेवोत्पद्यते अशैक्षी वा सम्यग्दृष्टिः ।
[369।03]
न त्वनुत्पादज्ञानं परिहाणिसंभवात् ।
[369।03-369।04]
किं पुनरकोपोयधर्मणः सा नैवोत्पद्यते ।
[369।05]
सर्वस्य सा ऽर्हतः
[369।06-369।07]
अकोप्यधर्मणो ऽप्यनुत्पादज्ञानात्कदाचिदनुत्पादज्ञानमेवोत्पद्यते कदाचिदशैक्षी सम्यग्दृष्टिः ।
[369।08]
यान्येतानि चत्वारि फलान्युक्तानि कस्यैतानि फलानि ।
श्रमण्यफलानि ।
[369।09]
किमिदं श्रामण्यं नाम ।
[369।10]
श्रावण्यममलो मार्गंः
[369।11]
अनास्रवो मार्गः श्रमण्यम् ।
तेन ह्हि श्रमणो भवति ।
क्लेशसंशमनात् ।
[369।12-369।13]
"शमिता अनेन भवन्ति अनेकविधाः षापका अकुशला धर्मा विस्तरेण यावज्जरामरणीयास्तस्माच्छ्रमण इत्युच्यत" इति सूत्रे वचनात् ।
[369।13-369।14]
अनत्यन्तशमनान्न पृथग्जनः परमार्थश्रमणः ।
[369।14]
तस्य पुनः श्रामण्यस्य ।
[369।15]
संस्कृतासंस्कृतं फलम् ।
[369।16]
संस्कृतासंस्कृतानि हि श्रामण्यफलानि पुनश्चत्वार्युक्तानि सूत्रे ।
अपि तु
[369।17]
एकान्ननवतिस्तानि
[369।18]
कानि पुनस्तानि
[369।19]
मुक्तिमार्गाः सह क्षयैः
[369।20-369।22]
दर्शनहेयप्रहाणायाष्टावानन्त्र्यमार्गा अष्टौ विमुक्तिमार्गा भावनाहेयप्रहाणाय नवसु भूमिषु प्रत्येकं नव प्रकाराणां क्लेशानां प्रहाणाय तावन्त एवानन्तर्यमार्गा विमुक्तिमार्गाश्च ।
[369।22-370।01]
तत्रानन्तर्यमार्गाः श्रामण्यं विमुक्तिमार्गाः संस्कृतानि श्रामण्यफलानि ।
[370।01]
तन्निष्यन्दपुरुषकारफलत्वात् ।
[370।01-370।02]
तेषां क्लेशानां प्रहाणान्यसंस्कृतानि श्रामण्यफलानि ।
[370।02]
एवमेकान्ननवतिर्भवन्ति ।
[370।02-370।03]
एवं तर्हि बुद्धस्योपसंख्यानं कर्तव्यं जायते ।
[370।03]
न कर्तव्यम् ।
यद्यपि भूयांसि फलानि
[370।04]
चतुष्फलव्यवस्था तु पञकारणसंभवात् ।
[370।05-370।06]
यस्यां हि प्रहाणमार्गावस्थायां पञ्च कारणानि संभवन्ति तस्यां किअ भगवता फलं व्यवस्थापितम् ।
[370।06]
कतमानि पञ्च ।
[370।07]
पूर्वत्यागो ऽन्यमार्गाप्तिः क्षयसंकलनं फले
[370।08]
ज्ञानाष्टकस्य लाभो ऽथ षोडशाकारभावना ।
[370।09]
पूर्वमार्गत्यागो ऽपूर्वमार्गाप्तिः प्रतिपन्नकफलमार्गत्यागलाभात् ।
[370।09-370।10]
प्रहाणसंकलनं सर्वस्यैकप्राप्तिलाभात् ।
[370।10]
युगपदष्टज्ञानलाभश्चतुर्विधनां धर्मान्वयज्ञानानाम् ।
[370।11]
षोडशाकारभावना अनित्याद्याकाराणाम् ।
[370।11-370।12]
इमानि हि पञ्च कारणानि फले फले भवन्ति ।
[370।13-370।14]
यद्यनास्रवो मार्गः श्रामण्यं कथं लौकिकमार्गप्राप्तं फलद्वयं श्रामण्यफलं युज्यते ।
[370।15]
लौकिकाओप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलल्म्
[370।16-370।17]
न हि तत्र लौकिकमार्गफलमेव् प्रहाणं सकृदागामिफलं वा भवत्यनागामिफलं वा ।
[370।17]
किं तर्हि ।
[370।17-370।18]
दर्शनमार्गफलमपि प्रहाणं तत्र मिश्रीक्रियते ।
[370।18]
सर्वस्य तत्फलसंगृहीतैकविसंयोगप्राप्तिलाभात् ।
[370।18-370।19]
अत एव हि सूत्र उक्तं "सकृदागामिफलं कतमत् ।
[370।19-370।20]
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0