अभिधर्मकोशभाष्य · भाग 541560
प्रज्ञा ।
[342।06-342।07]
तया हि तद्वाननुपश्यः क्रियते ।
[342।07-342।08]
यतश्चोक्त "मध्यात्मं काये कायानुपश्यी विहरती"ति ।
[342।08]
अनुपश्यमस्यास्ति दर्शनमित्यनुपश्यी ।
काये ऽनुपश्यी कायानुपश्यी ।
[342।09]
कस्मात् प्रज्ञा स्मृत्युपस्थानमित्युक्ता भगवता ।
स्मृत्युद्रेकत्वादिति वैभाषिकाः ।
[342।10]
स्मृतिवलाधानवृत्तित्वादिति यो ऽर्थः ।
दारूपाटन कीलसंधारणवत् ।
[342।10-342।11]
एवं तु युज्यते ।
[342।11]
स्मृतिरनयोपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञा यथादृष्टस्याभिलपनात् ।
[342।12-342।13]
तद्यथा ह्युक्तमायुष्मता अनिरुद्धेन "तस्य काये कायानुपशियनो विहरतः कायालल्म्बनानुस्मृतिस्तिष्ठति संतिष्ठत" इति विस्तरः ।
[342।13-342।14]
भगावता ऽपि चोक्तं "तस्य काये कायानुपशियनो विहरत उपस्थिता स्मृतिर्भवत्यसंमूढे"ति ।
[342।14-342।15]
यत्र तूक्तं "कथं भिक्षवश्चतुर्णां स्मृत्युपस्थानानां समुदयश्च भवत्यस्तङ्गमश्च ।
[342।15-342।17]
आहरसमुदयात्कायस्य समुदयो भवत्याहारनिरोधात्कायस्यास्तङ्गम"इत्यत्रालम्बनमेव स्मृत्युपस्थानमुक्तम् ।
[342।17]
स्मृतिरत्रोपतिष्ठत इति कृत्वा ।
[342।17-342।18]
यथालम्बनं चैषां नाम स्वपरोभयसंतत्यालम्बनत्वात् प्रत्येकमेषां त्रैविध्यम् ।
[342।19]
क्रमः ।
[342।20]
यथोत्पत्ति
[342।21]
कस्मात्पुनरेवमुत्पत्तिः ।
औदारिकस्य पूर्वं दर्शनात् ।
[342।22-342।23]
यतो वा कामरागस्य कायो ऽधष्ठानं स च वेदना ऽभिलाषात्स च चित्तस्यादान्तत्वात् तत्क्लेशाप्रहाणादिति वैभाषिकाः ।
[342।24]
चतुष्कं तु विपर्यासविपक्षतः
[343।01-343।03]
शुचिसुखनित्यात्मविपर्यासनां चतुर्णां प्रतिपक्षेण चत्वारि स्मृत्युपस्था नान्युक्तानि यथाक्रमं नाधिकन्यूनानि एवं च त्रीण्यसंभिन्नालम्बनानि चतुर्थमुभयथा ।
[343।03]
यदिधर्मानेव पश्यत्यसंभिन्नालम्बनम् ।
[343।03-343।04]
अथ कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यति संभिन्नालम्बनम् ।
[343।04-343।05]
एवं कायाद्यालम्बनानि स्मृत्युपस्थानान्यभ्यस्य
[343।06-343।07]
स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः ।
आनत्यदुःखतः शून्यानात्मतस्तान्विपश्यति
[343।08-343।09]
संभिन्नलम्बने धर्मस्मृत्युपस्थाने स्थितस्तान् कायादीन् सर्वानभिसमस्य चतुर्भिराकारैः पश्यति ।
[343।09]
अनित्यतो दुःखतः शून्यतो ऽनात्मतश्च ।
[343।10]
तत् ऊष्मगतोत्पत्तिः
[343।11-343।12]
तस्माद्धर्मस्मृत्युपस्थानादेवमभ्यस्तात् क्रमेणेष्मगतं नाम कुशामूलमुत्पद्यते ।
[343।12]
ऊष्मगतमिवोष्मगतम् ।
क्लेशेन्धनदहनस्यार्यमार्गाग्नेः पूर्वरूपत्वात् ।
[343।13]
तच्चतुःसत्यगोचरम् ।
[343।14]
तदूष्मगतं प्राकर्षिकत्वाच्चतुःसत्यालम्बनम् ।
[343।15]
षोडशाकारम्
[343।16-343।17]
दुःखं चतुर्भिराकारैः पश्यत्यनित्यतो दुःखत्ः शून्यतो ऽनात्मतश्च ।
[343।17]
समुदयं चतुर्भिर्हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च ।
[343।17-343।18]
निरोधं चतुर्भिः निरोधतः शान्ततः प्रणीततो निःसरणतश्च ।
[343।18-343।19]
मार्गं चतुर्भिर्मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्च ।
[343।19]
एषां तु विशेषणम् पश्चाद्वक्षयामः ।
[343।20]
ऊष्मभ्यो मूर्धानः
[343।21]
ते ऽपि तादृशाः
[344।01]
यादृशा ऊष्माणश्चतुःसत्यालम्बनाः षोडशाकाराश्च ।
[344।01-344।02]
उत्कृष्टतरत्वात्तु नामान्तरं चल कुशलमूलमूर्धत्वात् मूर्धानः ।
[344।02]
एभ्यो हि पातो ऽतिक्रमो वा ।
[344।03]
उभयाकरणं धर्मेण
[344।04]
एषां पुनरुभयेषमूष्मगतमूर्ध्नां धर्मस्मृत्युपस्थानेनाकरणम् ।
[344।04-344।05]
किमिदमाकरणम् ।
[344।05]
सत्येष्वकाराणां प्रथमतोविन्यसनम् ।
[344।06]
अन्यैरपि तु वर्धनम् ।
[344।07]
चतुर्भिरपि स्मृत्युपस्थानैरेषां वर्धनम् ।
[344।07-344।08]
विवर्धयतः पूर्वप्रतिलब्धानामंसंमुखीभाबो ऽवहुमानत्वात् ।
[344।08]
मृदुमध्याधिमात्रक्रमाभिवृद्धेभ्यः पुनरुत्पद्यते
[344।09]
तेभ्यः क्षान्तिः
[344।10]
अधिमात्रस्य क्षमणादपरिहाणितः ।
सा ऽपि त्रिप्रकारा मृद्वी मध्या ऽधिमात्रा च ।
[344।11]
द्विधा तद्वत्
[344।12]
यथा मूर्धान उक्ताः एवं मृदुमध्ये क्षान्ती तथैवाकरणात् ।
[344।12-344।13]
विवर्धने त्वयं विशेषः ।
[344।13]
सर्वस्याः
[344।14]
क्षान्त्या धर्मेण वर्धनम्
[344।15]
स्मृत्युपस्थानेनैव नान्येन ।
[344।16]
कामाप्तदुःखविषया त्वधिमात्रा
[344।17]
क्षान्तिरिति वर्त्तते ।
अप्रधर्मसंश्लेषादसौ कामावचरदुःखालम्बनैव ।
[344।18]
अत एवोष्मगतादीनां त्रैधातुकदुःखद्यालम्बनत्वसिद्धिर्नियमावचनात् ।
[344।18-344।20]
यदा किल रूपारुप्यप्रतिपक्षाद्येकैकसत्यालम्बनापह्लासेन यावत् कावावचरमेव दुखं द्वाभ्यां क्षणाभ्यां मनसि करोत्येषा सर्वैव मध्या क्षान्तिर्यदैकमेव क्षणं तदधिमात्रेति ।
[345।01]
क्षणं च सा ।
[345।02]
क्षणिका चासौ न प्राकर्षिकी ।
[345।03]
तथाग्रधर्माः
[345।04]
यथैवाधिमात्रा क्षान्तिः ।
[345।04-345।05]
ते ऽपि हि कामावचरदुःखालम्बनाः क्षणिकाश्च लौकिकाश्चैते ऽग्राश्च धर्माः ।
[345।05]
सर्वलौकिकश्रेष्ठत्वादिति लौकिकाग्रधर्माः ।
[345।05-345।06]
विना सभागहेतुना मार्गस्य तत्पुरुषकारेणाकर्षणात् ।
[345।06-345।07]
त एत ऊष्मगतादयः स्मृत्युपस्थानस्वभावत्वात् प्रज्ञात्मका उच्यन्ते ।
[345।08]
सर्वे तु पञ्चस्कन्धाः
[345।09]
सपरिवारग्रहणात् ।
[345।10]
विनाप्तिभिः
[345।11]
प्राप्तयो नोष्मगतादिभिः संगृह्यन्ते ।
[345।11-345।12]
मा भूदार्यस्य तत्संमुखीभावादूष्मगतादीनां संमुखीभाव इति ।
[345।12-345।13]
तत्र त्रिसत्यालम्बनोष्मगताकरणे धर्मस्मृत्युपस्थानं प्रत्युत्पन्नमनागतानि चत्वारि भाव्यन्ते ।
[345।14]
निरोधसत्यालम्बने तदेवोभयथा ।
सर्वत्राकाराः सभागाः ।
[345।14-345।15]
विवर्धने चतुर्णामन्यतमदनागतानि चत्वारि ।
[345।15-345।16]
तत्रैव निरोधालम्बने ऽन्त्यमनागतानिचत्वारि आकाराः सर्वे ।
[345।16]
लब्धत्वाद्गोत्राणाम् ।
[345।16-345।17]
मूर्धाकरणे चतुःसत्यालम्बने ऽपि निरोधालम्बनवर्धने चान्त्यमनागतानि चत्वारि आकाराः सर्वे ।
[345।17-345।18]
त्रिसत्यालम्बनवर्धने चतुर्णामन्यतमदनागतानिचत्वारि आकाराः सर्वे ।
[345।18]
क्षान्तीनां सर्वत्र चान्त्यम् ।
[345।19]
अनागतानि चत्वारि आकाराः सर्वे ।
[345।19-345।20]
अग्रधर्मेष्वन्त्यमनागतानि चत्वारि आकाराश्चत्वार एव ।
[345।20]
अन्याभावाद्दर्शनमार्गसादृश्याच्च ।
[345।21]
इति निर्वेधभागीयं चतुर्धा
[346।01-346।02]
इत्येतानि चत्वारि निर्वेधभागीयानि कुशलमूलानि यदुतोष्मगतं मूर्धानः क्षान्तयो ऽग्रधर्माश्च ।
[346।02-346।03]
एषां द्वे मृदूनी चलत्वात् परिहाणितः क्षान्तयो मध्यमग्रधर्मा अधिमात्रम् ।
[346।03]
निर्वेधभागीयानीति को ऽर्थः ।
विध विभागे ।
[346।03-346।05]
निश्चितो वेधा निर्वेधः आर्यमार्गस्तेन विचिकित्सा प्रहाणात् सत्यानां च विभजनादिदं दुःखमयं यावत् मार्ग इति ।
[346।05]
तस्य भागो दर्शनमार्गैकदेशः ।
[346।05-346।06]
तस्यावाहकत्वेन हितत्वान्निर्वेधभागीयानि ।
[346।06]
तच्चैतच्चतुर्विधमपोइ निर्वेधभागीयम्
[346।07]
भावनामयम् ।
[346।08]
न श्रुतचिन्तामयम् ।
[346।09]
अनागम्यान्तरध्यानभूमिकम्
[346।10]
अनागम्यं ध्यानान्तरं चत्वारि च ध्यानान्यस्य भूमिस्तत्संगृहीतत्वात् ।
[346।11]
नोर्ध्व दर्शनमार्गपरिवारत्वात् ।
तदभावः कामधात्वालम्बनत्वात् ।
[346।11-346।12]
तस्य च पूर्वपरिज्ञेयप्रहेयत्वात् ।
[346।12]
तेषां रूपधातौ पञ्चस्कन्धको विपाकः ।
[346।12-346।13]
पूरिपूरकाण्येवनाक्षेपकाणि ।
[346।13]
भवद्वेषित्वात् ।
[346।14]
द्वे त्वधो ऽपि वा
[346।15]
वाशब्दो मतविकल्पार्थः ।
[346।15-346।16]
भदन्तघोषकस्य तु द्वे प्रथमे निर्वेधभागीये सप्तभूमिके कामावचरे अपि तः ।
[346।17]
सर्वाण्यपि त्वेतानि चत्वारि
[346।18]
कामाश्रयाणि
[346।19]
त्रीणि मनुष्येष्वेवोत्पद्यन्ते ।
त्रिषु द्वीपेषु ।
उत्पादितपूर्वाणां तु देवेषु संमुखीभावः ।
[346।20]
चतुर्थं देवेष्वपि ।
त्रीणि स्त्रीपुरुषा उभयाश्रयाणि लभन्ते ।
[346।21]
अग्रधर्मान् द्वच्याश्रयान् लभते ऽङ्गना ।
[347।01]
अग्रधर्मास्तु स्त्र्येव द्वच्याश्रयान् लभते ।
पुरुषः पुरुषाश्रयानेव ।
[347।01-347।02]
स्त्रीत्व स्याप्रतिसंख्यानिरोधलाभात् ।
[347।02]
कथं निर्वेधभागीयानां त्यागः ।
[347।03]
भूमित्यागात्त्यजत्यार्यस्तानि
[347।04-347।05]
यद्भूमिकान्यनेन प्रतिलब्धानिभवन्ति तां भूमि त्यजन्नार्यस्तान्यपि त्यजति नान्यथा भूमित्यागः पुनर्भूमिसंचारात् ।
[347।06]
अनार्यस्तु मृत्युना
[347।07]
पृथग्जनस्तु निकायसभागत्यागेनैव त्यजतिसत्यसति वा भूमिसंचारे ।
[347।08]
आद्ये द्वेपरिहाण्या च
[347।09]
त्यजति मृत्युना च पृथग्जन एव ।
आर्यस्य तु नास्ति ताभ्यां परिहाणिः ।
[347।09-347।10]
क्षान्त्यग्रधर्माभ्यां तु पृथग्जनस्यापि नास्ति परिहाणिः ।
[347।11]
मौलेस्तत्रैव सत्यदृक् ।
[347।12-347।13]
यो मौलध्यानभूमिकानि निर्वेधभागीयान्युत्पादयति सतत्रैव जन्माति सत्यान्यवश्यं पश्यति ।
[347।13]
तीव्रसंवेगत्वात् ।
[347।14]
अपूर्वाप्तिर्विहीनेषु
[347।15]
यदा विहिनेषु पुनर्लाभोभवत्यपूर्वाण्येव तदा लभ्यन्ते न पूर्वं त्यक्तानि ।
[347।16]
प्रतिमोक्षसंवरवदनुचितयत्नसाध्यत्वात् ।
[347।16-347।17]
सति प्रतिसीमादैशिके परेणोत्पादयत्यसति मूलादेव ।
[347।18]
एते पुनर्विहीनिपरिहाणी किंस्वभावे ।
[347।19]
हानी द्वे असमन्वितिः
[347।20]
उभे अप्येते असमन्वागमस्वभावे ।
[347।22]
परिहाणिस्तु दोषकृता नावश्यं विहानिः ।
[347।23]
गुणविशेषकृता च सा ।
परिहीणो ऽप्यूष्मगतलाभी नियतं परिनिर्वाणधर्मा भवति ।
[347।24]
मोक्षभागीयात्को विशेषः ।
सत्यदर्शनासन्नतरत्वमसत्यन्तराये ।
[348।01]
मूर्धलाभी न मूलच्छित्
[348।02-348।03]
परिहीणो ऽपि मूर्धलाभी कुशलमूलानि न समुच्छिनत्ति ।
[348।03]
अपायांस्तु पापादानन्तर्याण्यपि कुर्यात् ।
[348।04]
क्षान्तिलाभ्यनपायगः ।
[348।05-348।06]
विहीनायामपि क्षान्तौ न पुनरपायान्याति तद्भूमिककर्मक्लेशदूरीकरणात् ।
[348।06-348।07]
क्षान्तिलाभादेव हि गतियोन्युपपत्त्याश्रयाष्टमादिभवक्लेशानां केषाञ्चिदनुत्पत्तिधर्मता प्रतिलभते ।
[348।07-348।09]
अपायगतीनामण्डजसंस्वेदजयोन्योरसंज्ञिसत्त्वोत्तरकुरुमहाब्रह्मोपपत्तिनां शण्ढपण्डकोभयव्यञ्जनाश्रयाणामष्टमादिभवानां दर्शनहेयक्लेशानां च ।
[348।09]
तां तु यथायोगं मृद्वधिमात्रायां च ।
मृद्वच्यामपायगतीनाम् ।
[348।10]
अधिमात्रायामितरेषाम् ।
निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् ।
तत्र
[348।11]
शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात्
[348।12]
ऊष्मगतं मूर्धानं च श्रावकगोत्रादुत्पन्नं व्यावर्त्य पुनर्बुद्धः स्यादित्यस्ति संभवः ।
[348।13]
क्षान्तौ तु लब्धायां नास्त्येव संभवः ।
किं कारणम् ।
[348।13-348।14]
अपायानां किल व्यावृत्तत्वात् ।
[348।14]
बोधिसत्त्वाश्च परहित्क्रियापारतन्त्र्यादपायानप्यवगाहन्त इति ।
[348।14-348।15]
तस्यैव तु गोत्रस्याविवर्त्यत्वादसंभवः ।
[348।16]
त्रीण्यपीतरः
[348।17]
विवर्त्य स्यादिति वर्तते ।
[348।17-348।18]
त्रीण्यपि निर्वेधभागीयानि श्रावकगोत्राद्वच्यावर्त्य बुद्धादिभवः स्यात् प्रत्येकबुद्ध इत्यर्थः ।
[348।18-348।19]
प्रत्येकबुद्धगोत्राणि तु व्यावर्तयितुमशक्यानि ।
[348।20]
आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः ।
[348।21]
शास्ता बुधः खड्गविषाणकल्पः प्रत्येकबुद्धः ।
[348।21-348।22]
तयोरेकत्रैवासने चतुर्थमेव ध्यानं निश्रित्यनिञ्ज्यपटुसमाधित्वान्निर्वेधभागीयान्यारभ्य यावद्बोधिरुत्पद्यते ।
[349।01]
क्षयानुत्पादज्ञाने हि बोधिरिति पश्चादुपपादयिष्यामः ।
[349।01-349।02]
अशुभामारभ्य यावद्वोधिरित्यपरे ।
[349।02]
येषां तु खड्गादन्यो ऽपि प्रत्येकबुद्धो ऽस्तितद्गोत्राणां व्यावर्तनाप्रतिषेषः ।
[349।03]
किं पुनः प्रथम एव जन्मनि कृतप्रयोगो निर्वेधभागीयान्युत्पादयेत् ।
[349।03-349।04]
नैतदस्ति अवश्यं हि
[349।05]
प्राक्तेभ्यो मोक्षभागीयं
[349।06]
उत्पादयितव्यम् ।
सर्वस्वल्पं हि
[349।07]
क्षिप्रं मोक्षस्त्रिभिर्भवैः
[349।08]
एकस्मिन् जन्मनि मोक्षभागीयं कुशलमूलमुत्पादयेत् ।
द्वितीये निर्वेधभागीयानि ।
[349।09]
तृतीये आर्यमार्गम् ।
बीजविरोपण सस्याभिवृद्धिफलोत्पत्तिक्रमवत् ।
[349।09-349।10]
क्रमेण हि संतानस्यास्यां धर्मतायामवतारपरिपाकविमुक्तयो भवन्तीति ।
[349।10-349।11]
तच्च पुनर्मोक्षभागीयं वर्णयन्ति ।
[349।12]
श्रुतचिन्तामयं
[349।13]
न भावनामयम् ।
कति कर्माणि ।
[349।14]
त्रीणि कर्माणि
[349।15]
प्राधान्येन तु मनस्कर्म्म ।
[349।15-349।16]
तत्प्रणिधनपरिग्रहात्तु कायवाक्कर्मापि मोक्षभागोयं भवति ।
[349।16-349।17]
कश्चिदेकभिक्षामपि दत्त्वैक शिक्षामपि चादाय मोक्षाभिलाषवलाधानान्मोक्षभागीयान्याक्षिपति ।
[349।17]
तत्त्वेतत् ।
[349।18]
आक्षिप्यते नृषु ।
[349।19]
मनुष्येष्वेव त्रिषु द्वीपेषु ।
नान्यत्र ।
प्रज्ञानिर्वेदयोरभावाद्यथायोगम् ।
[349।19-349।20]
उक्तं प्रसङ्गेन मोक्षभागीयम् ।
[349।21]
अभिसमयक्रमस्तु वक्तुमारब्धः ।
तत्र च यावदग्रधर्मा उक्ताः ।
[349।21-349।22]
शेषं वक्तव्यम् ।
[349।22]
अत इदमुच्यते ।
[350।01]
लौकिकेभ्यो ऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा
[350।02]
लौकिकाग्रधर्मानन्तरमनास्रव धर्मज्ञानक्षान्तिरुत्पद्यते ।
कस्मिन्नालम्बने ।
[350।03]
कामदुःखे ।
[350।04]
कामावचरदुःखमस्या आलम्बनम् ।
सेयं दुःखे धर्मज्ञानक्षान्तिरित्युच्यते ।
[350।04-350।05]
अनास्रवज्ञानार्थं निःष्यन्देन विशेषणम् ।
[350।05]
कर्मज्ञानार्थं क्षान्तिः ।
पुष्पफलवृक्षवत् ।
[350।05-350।06]
सैव च नियामावक्रान्तिरित्युच्यते ।
[350।06]
सम्यक्त्वनियामावक्रमणात् ।
[350।06-350।07]
सम्यक्त्वं निर्वाणमुक्तं सूत्रे ।
[350।07]
तत्र नियमो नियाम एकान्तीभावः ।
तस्याभिगमनमवक्रमणम् ।
[350।08]
तस्यां चोत्पन्नायामार्यपुद्गल उच्यते ।
अनागतया पृथग्जनत्वं व्यावर्त्यते ।
[350।08-350।09]
एतदेव तस्याः कारित्रमनागतायामभ्युपगम्यते नान्यत् ।
[350।09-350।10]
प्रदीपजातिवत् ।
[350।10]
लौकिकाग्रधर्मैरित्यपरे ।
न तद्धर्मत्वात्तद्विरोधित्वाददोषः ।
[350।11]
शत्रुस्कन्धारुढतद्घातनवत् ।
उभयैरित्यपरे ।
आनन्तर्यविमुक्तिमार्गसाध्र्म्यादिति ।
[350।12]
ततो ऽत्रैव धर्मज्ञानं
[350।13]
ततः पुनर्दुःखे धर्मज्ञानक्षान्तेरनन्तरमत्रैअ कामावचरे दुःखे धर्मज्ञानमुत्पद्यते ।
[350।14]
तत् दुःखे धर्मज्ञानमित्युच्यते ।
अनास्रवाधिकारः सर्वत्र वेदितव्यः ।
[350।14-350।15]
यथा च कामावचरे दुःखे धर्मज्ञानक्षान्तिर्धर्मज्ञानं चोत्पद्यते
[350।16]
तथा पुनः ।
[350।17]
शेषे दुःखे ऽन्वयक्षान्तिज्ञाने
[350।18]
दुःखे धर्मज्ञानानन्तरं रूपारुप्यावचरे दुःखे समस्तालम्बनान्वयज्ञानक्षान्तिरुत्पद्यते ।
[350।19]
सा दुःखे ऽन्वयज्ञानक्षान्तिरित्युच्यते ।
ततो ऽन्वयज्ञानमुत्पद्यते ।
[350।19-350।20]
तत् दुःखे ऽन्वय ज्ञानमित्युच्यते ।
[350।20]
प्रथमतोधर्मतत्त्वज्ञानाद्धर्मज्ञानम् ।
[350।20-350।21]
तदन्वयादूर्ध्वं दुःखालम्बनमन्वयज्ञानम् ।
[350।21]
तथैवानुगमनात् ।
[350।21-350।22]
यथा चैतानि दुःखसत्ये चत्वारि क्षान्तिज्ञानान्युत्पद्यन्ते
[351।01]
सत्यत्रये तथा
[351।02]
दुःखान्वयज्ञानादनन्तरं कामावचरे समुदये धर्मज्ञानक्षान्तिरुत्पद्यते ।
[351।02-351।03]
ततः समुदये धर्मज्ञानम् ।
[351।02-351।06]
एवं समनन्तरोत्पत्तिक्रमेण शेषे समुदये ऽन्वयज्ञानक्षान्तिः समुदये ऽन्वयज्ञानम् कामावचरदुःखनिरोधे धर्मज्ञानक्षान्तिर्निरोधे धर्मज्ञानं शेषे निरोधे ऽन्वयज्ञानक्षान्तिर्निरोधे ऽन्वयज्ञानं कामवचरदुःखप्रतिपक्षमार्गे धर्मज्ञानक्षान्तिर्मार्गे धर्मज्ञानं शेषे मार्गे ऽन्वयज्ञानक्षान्तिर्मार्गे ऽन्वयज्ञानम् ।
[351।07]
इति षोडशचित्तो ऽयं सत्याभिसमयः
[351।08]
इत्यनेन क्रमेणायं सत्यानामभिसमयः षोडशचित्तको भवति ।
[351।08-351।09]
ये तर्हि निकायान्तरीयाः सत्यानामेकाभिसमयं वर्णयन्ति ।
[351।09]
अभिप्राय एष द्रष्टव्यः ।
[351।09-351।10]
अभेदेन ह्यभिसमय उच्यते सत्येषु
[351।11]
त्रिधा ।
[351।12]
दर्शनालम्बकार्याख्यः
[351।13]
दर्शनाभिसमयो ऽनास्रवया प्रज्ञया सत्यानाम् ।
[351।13-351।14]
आलम्बनाभिसमयस्तत्संप्रयुक्तैर्वेदनादिभिरपि ।
[351।14]
कार्याभिसमयो विप्रयुक्तैरपि शीलजात्यादिभिः ।
[351।14-351।15]
दुःखे हि दृश्यमाने तस्य त्रिविधो ऽभिसमयः समुदयादीनां कार्याभिसमयः ।
[351।15-351।16]
प्रहाणसाक्षात्करणभावनात् ।
[351।16]
तद्यदि सत्यानां दर्शनाभिसमयं प्रत्येकाभिसमयं ब्रूयात् ।
[351।17]
अयुक्तं ब्रूयादाकारभेदात् ।
अथाप्यनात्माकारेण सर्वेषां दर्शनमिति ब्रूयात् ।
[351।18]
न तर्हि सत्यानां दुःखादितो दर्शनं स्यात् ।
एवं च सूत्रविरोधः ।
[351।18-351।21]
"इहार्यश्रवकस्य दुःखं वा दुःखतो मनसि कूर्वतः समुदयं वा समुदयतो यावत् मार्ग वा मार्गतो मनसि कुर्वतो ऽनास्रवेण मनसिकारेण संप्रयुक्तो यो धर्माणो प्रविचय" इति ।
[351।21]
भावनामार्ग एवमिति चेत् ।
न ।
यथादर्शनं भावनात् ।
[352।01]
अथाप्येकस्य दर्शनाच्छेषेषु व4इत्वलाभादेकाभिसमयं ब्रूयान्न दोषः स्यात् ।
[352।01-352।02]
अन्तरा तु व्युत्थानमस्ति नास्तीति विचार्यं स्यात् ।
[352।02-352।03]
अथ पुनर्ब्रूयात् दुःखमेव परिजानन्समुदयं प्रजहाति निरोधं साक्षात् करोति मार्गं भावयति ।
[352।03-352।04]
अत इकाभिसमय इति ।
[352।04]
एवमपि न दोषः स्यादेकस्य दर्शने शेषाणां कार्याभिसमयवचनात् ।
[352।04-352।05]
दर्शनाभिसमयं तु प्रति सूत्रे सत्यानां क्रमेणाभिसमय उक्तो लक्ष्यते ।
[352।05-352।07]
"नहैव गृहपते सत्यानामेकाभिसमयो ऽपि पूर्वाभिसयय" इति विस्तरेण सदृष्टान्तानि त्रीणि सूत्राणि ।
[352।07-352।08]
"यो दुःखे निष्काङ्क्षो निर्विचिकित्सो बुद्धे ऽपि स" इति सूत्रादेकाभिसमय इति चेत् ।
[352।08]
न ।
असंमुदाचारावश्यंप्रहाणाभिसंधिवचनात् ।
[352।08-352।09]
य एषौक्तः षोढशचित्तको ऽभिसमयः
[352।10]
सो ऽग्रधर्मैकभूमिकः
[352।11]
यद्भूमिको ऽग्रधर्मस्तद्भूमिकान्येतानि षोडश चित्तानि ।
[352।11-352।12]
त पुनः षड्भूमिका इत्युक्तं प्राक् ।
[352।12]
कस्मात् पुनः क्षान्तयो ज्ञानानि चवश्यं भवन्ति ।
यस्मात्
[352।13]
क्षान्तिज्ञानान्यनन्तर्य मुक्तिमार्गा यथाक्रमम् ।
[352।14]
अनन्तर्यमार्गाः क्षान्तयः क्लेशप्राप्तिविच्छेदं प्रत्यन्तरयितुमशक्यत्वात् ।
[352।14-352।15]
विमुक्तिमार्गास्तु ज्ञानानि ।
[352।15-352।16]
क्लेशप्राप्तिविमुक्तानां विसंयोगप्राप्तिसहोत्पादात् ।
[352।16]
अत उभयैरवश्यं भवितव्यम् ।
[352।16-352।17]
द्वाभ्यां चौरनिष्कासनकपाटपिधानवत् ।
[352।17-352।18]
यदि पुनर्द्वितीयेनानन्तर्यमार्गेणैव सह विसंयोगप्राप्तिरुत्पद्येत किं स्यात् ।
[352।18]
प्रहीणविचिकित्सं ज्ञानं तत्रैवालम्बने नोत्पन्नं स्यात् ।
[352।18-352।19]
क्षान्तिभिः क्लेशप्रहाणान्नव संयोजननिकाया ज्ञानवध्या इति शास्त्रविरोध इति चेत् ।
[352।19]
न ।
[352।20]
क्षान्तीनां ज्ञानपरिवारत्वात् ।
राजपरिवारकृतस्य राजकृतव्यपदेशवत् ।
[352।21]
किं पुनः सर्वाणि षोडशचित्तानि सत्यदर्शनाद्दर्शनमार्गः ।
नेत्याह ।
किं तर्हि ।
[352।22]
अदृष्टदृष्टेर्दृण्ट्ङ्मार्गस्तत्र पञ्चदश क्षणाः
[353।01-353।02]
दुःखधर्मज्ञानक्षान्तिमारभ्य यावत् मार्गे ऽन्वयज्ञान क्षान्तिरेते पञ्चदश क्षाणा दर्शनमार्गः ।
[353।02]
कि कारणम् ।
अदृष्टसत्यदर्शनात् ।
[353।02-353।03]
षोडशे तु नास्त्यपोऊर्वं द्रव्यमिति ।
[353।03]
यथाद्रष्टाभ्यसनाद्भावनामार्ग एव ।
[353।03-353।04]
ननु च तेनाष्यदृष्टं पश्यति मार्गे ऽन्वयज्ञानक्षान्तिम् ।
[353।04]
सत्यं प्रति चिन्ता न क्षणम् ।
[353।04-353।05]
न हि क्षणेनादृष्टेन सत्यमदृष्टं भवति ।
[353।05]
यथा नैकेन लुङ्गेनालूनेन देदारमलूनं भवति ।
[353।05-353।07]
फलत्वादष्टज्ञानषोडशाकारभावनात् पूर्वमार्गविहानेः प्रवन्धिकत्वाच्च मार्गान्वयज्ञानं भावनामार्गः ।
[353।07-353।08]
अपरिहाणिस्तुदर्शनहेयक्लेशप्रहाणसंधारणात् ।
[353।08]
अत एव दर्शनमार्ग इति चेत् ।
न ।
अतिप्रसङ्गात् ।
[353।08-353।09]
सप्त ज्ञानानि कस्माद्दर्शनमार्गः ।
[353।09]
दर्शनस्यासमाप्तत्वात् ।
[353।09-353।10]
न हि सर्वं सत्यदर्शनं समाप्तमिति तदन्तरालत्वात्तन्यप्पि दर्शनमार्गः ।
[353।10-353।11]
उक्तं यथा दर्शनमार्गो भावनामार्ग श्चोत्पद्यते ।
[353।12]
यथेदानीमुत्पन्नार्यमार्गाणां पुद्गलानां व्यवस्थानं तथा वक्ष्यामः ।
[353।12-353।13]
य एते दर्शनमार्गस्वभावाः पञ्चादश क्षण उक्ता वेदितव्यौ
[353।14]
मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसरिणौ ।
[353।15]
मृद्धिन्द्रियस्तेसु वर्तमानः श्रद्धानुसारीत्युच्यते ।
तीक्ष्णेन्द्रियो धर्मानुसारीति ।
[353।16]
श्रद्धयानुसारः श्रद्धानुसारः ।
सो ऽस्यास्तीति श्रद्धानुसारी ।
[353।16-353।17]
श्रद्धयानुसर्तुं शीलमस्येति वा ।
[353।17]
पूर्वं परसंप्रत्ययेनार्थानुसरणात् ।
एवं धर्मानुसारी ।
[353।17-353।18]
पूर्वं स्वयमेव सूत्रादिभिर्धर्मैरर्थानुसरणात् ।
[353।18]
तौ पुनः
[353।19]
अहीनभावनाहेयौ फलाद्यप्रतिपन्नकौ
[353।20]
फलानामाद्यं स्रोत आपत्तिफलं सर्वफलप्राप्तौ तस्य प्रथमत्वात् ।
[353।20-353।22]
तावेव श्रद्धाधर्मानुसारिणौ यदि पूर्वं लौकिकेन मार्गेणाप्रहीणभावनाहेयौ भवतः सकलवन्धनौ तो स्रोत आपत्तिफलप्रतिपन्नकावुच्येते ।
[353।23]
यावत् पञ्चप्रकारघ्नौ
[353।24-353।25]
यदि पूर्वं लौकिकेन मार्गेण कामावचराणं भावनाहेयानां यावत् पञ्च प्रकाराः प्रहीणा भवन्ति ।
[353।25]
तथैव प्रथमफलप्रतीपन्नकावुच्येते ।
[354।01]
द्वितीये ऽर्वाङ्नवक्षयात् ।
[354।02]
द्वीतीयनिमित्तं द्वितीये ।
[354।02-354।03]
यदि तयोस्तस्मात् परेण षट् सप्ताष्टौ वा प्रकाराः पूर्वप्रहीणा भवन्ति ।
[354।03]
द्वौ तौ द्वितीयफलप्रतिपन्नकावुच्येते ।
कतमच्च द्वितीयम् ।
[354।04]
सकृदागामिफलम् ।
[354।05]
कामाद्विरक्ताबुर्ध्व वा तृतीयप्रतिपन्नकौ
[354।06-354।07]
यदि पुनर्नवमस्यापि प्रकारस्य प्रहाणात् कामधातोर्वीतरागौ भवत ऊर्ध्वं वा यावदाकिञ्चन्यायतनात् तौ तृतीय प्रतीपन्नकावुच्येते ।
[354।07]
कतमच्च तृतीयम् ।
[354।08]
अनागामिफलम् ।
[354।09]
षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः ।
[354।10]
षोडशे तु चित्त उत्पन्ने तौ न पुनः श्रद्धाधर्मानुसारिणावुच्येते ।
[354।10-354।11]
नापि प्रतिपन्नकौ ।
[354।11]
किं तर्हि ।
फलस्थो ।
[354।11-354।12]
यत्र फले यः प्रतिपन्नको भूतः स तदानीं तत्र फलस्थितो भवति ।
[354।12]
स्रोत आपत्तिफले सकृदागामिफले वा अनागामिफले वा ।
[354।13]
अर्हत्त्वं तु न शक्यमादितः प्राप्तुम् ।
दर्शनमार्गेण भावनाहेयानामप्रहाणात् ।
[354।13-354।14]
पूर्वं च भवाग्रवैराग्यासंभवात् ।
[354।15]
श्रद्धाधिमुक्तदृष्टच्याप्तौ मृदुतोक्ष्णेन्द्रियौ तदा
[354।16]
तस्मिन्काले यो मृद्विन्द्रियः श्रद्धानुसारिपूर्वी स श्रद्धाधिमुक्त इत्युच्यते ।
[354।17]
यस्तीक्ष्णेन्द्रियो धर्मानुसारिपूर्वी स दृष्टिप्राप्त इत्युच्यते ।
[354।17-354।18]
श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वात् ।
[354।18-354।19]
किं पुनः कारणं प्रहीणपञ्चप्रकारो ऽपि षोडशे चित्ते स्रोत आपन्न एवोच्यते न सकृदागामिफलप्रतिपन्नकः ।
[354।20]
यस्मात्
[354।21-354।22]
फले फलविशिष्टस्य लाभो मार्गस्य नास्त्यनः ।
नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः
[354।23]
फले हि लभ्यमाने फलविशिष्टो मार्गो न लभ्यत इत्येष नियमः ।
[354।23-354।24]
अतः फलस्थो यावन्न विशेषाय प्रयुज्यते फलान्तरप्राप्तौ तावत् प्रतिपन्नको नोच्यते ।
[354।24-354।25]
एवमन्यत्रापि फले वेदितव्यम् ।
[354।25-355।01]
यस्तु तृतीयध्यानवीतरागो ऽधरां भूमि निश्रित्य नियाममवक्रामति सो ऽवश्यं फलविशिष्टं मार्ग संमुखीकरोति ।
[355।01-355।02]
अन्यथा हि स तस्मादूर्ध्वोपपन्नः सुखेन्द्रियेणासमन्वागतः स्यात् ।
[355।02-355।03]
एवं तावद्भूयः कामवीतरागाणां नियामावक्रान्तौ पुद्गलव्यवस्थानम् ।
[355।04]
आनुपूर्विकं तु वक्तव्यम् ।
अत इदं तावद्वच्यवस्थाप्यते ।
[355।04-355।05]
यथैते कामधातौ नवप्रकाराः क्लेशा उपदिष्टा एवं
[355।06]
नवप्रकारा दोषा हि भूमौ भूमौ
[355।07]
यावद्भवाग्रे ।
यथा च दोषाः
[355।08]
तथा गुणाः ।
[355।09]
तत्प्रतिपक्षा अप्यानन्तर्यविमुक्तिमार्गाख्या गुणा भूमौ भूमौ नवप्रकारा एव ।
[355।09-355।10]
कथं कृत्वा ।
[355।11]
मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः
[355।12]
मृदुमध्याधिमात्रा हि त्रयो मूलप्रकाराः ।
[355।12-355।13]
तेषां पुनः प्रत्येकं मृदुमध्याधिमात्रत्वेन त्रिविधत्वात् नव व्यवस्थाप्यन्ते ।
[355।13-355।15]
तद्यथा मृदुमृदुः प्रकारो मृदुमध्यो मृद्वधिमात्रो मध्यमृदुर्मध्यमध्यो मध्याधिमात्रो ऽधिमात्रमृदुरधिमात्रमध्यो ऽधिमात्राधिमात्रश्चेति ।
[355।15-355।16]
तत्र मृदुमृदुनामार्गेणाधिमात्राधिमात्रस्य क्लेशस्य प्रहाणम् ।
[355।16]
एवं यावदधिमात्राधिमात्रेण मृदुमृदोः ।
[355।16-355।18]
आदित एवाधिमात्रमार्गसंभवादुत्पन्नाधिमात्रमार्गस्य चाधिमात्रक्लेशासंभवात् औदारिको हि मलश्चेलात्पूर्वं निर्दूयते पश्चात् सूक्ष्मः ।
[355।18-355।19]
औदारिकं च तमः सूक्ष्मेणालोकेन हन्यते सूक्ष्मं चाधिमात्रेणेत्येष दृष्टान्तयोगः ।
[355।19]
शुक्ला हि धर्मा वलवन्तो दुर्बलास्तु कृष्णाः ।
[355।19-355।21]
क्षणिकमृदुकेनाप्यार्यमार्गेणानादिसंसारपरंपराप्यायिताधिमात्राणां क्लेशानामुन्मूलत्वात् ।
[355।21-355।22]
बहुकालसंवर्द्धितानां दोषाणां त्रिवृत्कर्षवत् क्षणिकाल्पप्रदीपमहातमोपघातवच्य ।
[355।22]
एवं नवप्रकारेषु क्लेशेषु सर्वत्र
[355।23]
अक्षीणभावनाहेयः फलस्थः सप्तकृत्परः ।
[356।01]
यस्य हि फलस्थस्यैको ऽपि भावनाहेयः प्रकारो ऽप्रहीणः स स्रोत आपनः ।
[356।01-356।02]
सप्तजन्मानि करोतीति सप्तकृत ।
[356।02]
परः सर्वान्त्यः ।
[356।02-356।03]
न हि सर्वसप्तकृदिति ।
[356।03]
सप्तकृत्वःपरम इति सूत्रपाठः ।
सप्तकृत्वः परमं जन्मा ऽस्येत्यर्थः ।
[356।04]
प्रकर्षे परमशब्दः ।
निर्वाणस्रोतो हि मार्गस्तेन तत्र गमनात् ।
[356।04-356।05]
तदसावापन्न आगतः प्राप्त इति स्रोत आपन्नः ।
[356।05]
कथमापन्नः ।
[356।05-356।06]
आद्यमार्गलाभाच्चेत् अष्टमको ऽपि स्यात् ।
[356।06]
आद्यफललाभाच्चेत् भूयो वीतरागो ऽपि स्यात् ।
कामवीतरागः ।
[356।07]
सर्वफलप्रापिणमधिकृत्याद्यफललाभात् ।
किं पुनः कारणं स एव नाष्टमकः ।
[356।08-356।09]
प्रतिपन्नकफलमार्गलाभात् दर्शनभावनामार्गलाभात् सकलस्रोतो ऽभिसमयाच्च मार्गान्वयज्ञाने ।
[356।09-356।10]
स एव तस्मादन्यान्सप्तोपपत्तिभवान्मनुष्येषु प्रतिसंदधाति सप्तान्तराभवान् ।
[356।10]
एवं देवेष्वित्यष्टाविंशतियवान् प्रतिसंदधाति ।
[356।10-356।11]
सप्तकसामान्यात्तु सप्तकृत्वः ।
[356।11]
परम उक्तः ।
सप्तस्थानकौशलसप्तपर्णवदिति वैभाषिकाः ।
[356।12-356।13]
यत्तर्ह्हि सूत्र उक्तं "अस्थानमनवकाशो यद्दष्टिसंपन्नः पुद्गलो ऽष्टमं भवमभिनिर्वर्तयिष्यति ।
[356।13]
नेदं स्थानं विद्यत" इति ।
एकस्यां गतावित्यभिप्रायः ।
[356।13-356।15]
यथारुतं वा कल्प्यमाने ऽन्तराभवो ऽपि न स्यात् एवमप्यूरेध्वस्रोतसो भवाग्रपरमस्यैकस्यां गतावष्टम उपपत्तिभावो न प्राप्नोति ।
[356।15-356।16]
कामधात्वभि संधिवचनाददोषः ।
[356।16]
किमत्र ज्ञापकं सूत्रं युक्तिर्वा ।
[356।16-356।17]
इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु सप्तकृत्वो न पोउनरुभयेष्वेव सप्तकृत्व इति ।
[356।17]
एवं हि पठच्यते ।
[356।18]
"सप्तकृत्वो देवाश्च मनुष्याश्चे"ति ।
प्रत्येकमपि तु काश्यपीयाः पठन्ति ।
[356।19]
"सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यानि"ति ।
नात्राभिनिवेष्टव्यम् ।
[356।19-356।20]
यश्च मनुष्येसु स्रोत आपन्नो भवति स तानेवागम्य परिनिर्वाति ।
[356।20]
यो देवेषु स तानेव ।
[356।21]
किं पुनः कारणमष्टमं भवं नाभिनिर्वर्तयति ।
[356।21-356।22]
तावता ककलेनावश्यं संततिपरिपाकात् ।
[356।22]
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0