भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 521540

दुःखायाः दुःखस्वभावेनैव दुःखता ।
[329।07-329।08]
"दुःखा वेदना उत्पाददुःखा स्थितिदुःखा" इति सूत्रे ।
[329।08]
अदुःखासुखावेदनायाः संस्कारेणैव दुःखता ।
[329।09]
"प्रत्ययाभिसंस्करणाद्यदनित्यं तद्दुःखमि"ति ।
[329।09-329।10]
वेदनावत्तद्वेदनीया अपि संस्कारा उच्यन्ते ।
[329।10]
दुःखमेव दुःखता दुःखदुःखता ।
एवं यावत् संस्कारा एव दुःखतेत्यपरे ।
[329।11]
असाधारणत्वात् मनाषा ऽमनापानां विपरिणामदुःखदुःखते उक्ते ।
[329।11-329।12]
सर्वे तुसंस्काराः संस्कारदुःखतया दुःखाः ।
[329।12]
तांस्त्वार्या एव पश्यन्ति ॥
आह चात्र ।
[329।13-329।16]
"ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वेद्यते पुम्भिः
अक्षिगतं तु तथैव हि जनयत्यरतिं च पीडं च ।
करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म
अक्षिसदृशस्तु विद्वांस्तेनैवोद्विज्यते गाढमि"ति ॥
[329।17-329।18]
न हि बालानामावीचिकेष्वपि स्कन्धेषु तथा दुःखबुद्धिः प्रवर्तते यथार्याणां भावाग्रिकेष्वपीति ।
[329।18]
एवं तर्हि मार्गस्यापि संस्कारदुःखताप्रसङ्गः ।
[329।19]
संस्कृतत्वात् ।
प्रतिकूलं हि दुःखमिति लक्षणान्न मार्गो दुःखम् ।
[329।19-329।20]
न हि तस्योत्पाद आर्याणां प्रतिकूलः सर्वदुःखक्षयावाहनात् ।
[329।20-329।21]
यदापि ते निर्वाणं शान्ततः पश्यन्ति तदापि यदेव दुःखतो दृष्टं तस्यैव निरोधं शान्ततः पश्यन्तिन मार्गस्य ।
[329।21-329।22]
यदापि दुःखमप्यत्रास्ति तस्मात् दुःखमेवार्यसत्यमुच्यते ।
[329।22-329।23]
सुखस्याल्पत्वात् मूद्गादिभावे ऽपि माषराश्यपदेशवदित्येके ।
[329।23-329।24]

को हि विद्वान् परिषेकसुखाणुकेन गण्डसुखमिति व्यवस्येत् ।
[329।24]
आह खल्वपि
[329।25-329।26]
"दुःखस्य च हेतुत्वात् दुःखैश्चानल्पकैः समुदितत्वात् ।
दुःखे च सति तदिष्टेर्दुःखं सुखमिति व्यवस्यन्ति" इति ॥
[330।01]
सहैव तु सुखेन सर्वं भवमार्या दुःखतः पश्यन्ति ।
संस्कारदुःखतैकरसत्वात् ।
[330।01-330।02]
अतो दुःखमेवार्यासत्यं व्यवस्थाप्यते न सुखम् ।
[330।02-330।03]
कथमिदानीं सुखस्वभावां वेदनां दुःखतः पश्यन्ति ।
[330।03]
अनित्यतया प्रतिकूलत्वात् ।
यथा रूपसंज्ञादीन्यपि दुःखतः पश्यन्ति ।
[330।04]
न चतान्येवं दुःखानि यथा दुःखवेदनेति ।
यस्तु मन्यते दुःखहेतुत्वादिति ।
[330।05]
तस्यासौ समुदयाकारः स्यान्न दुःखकारः ।
[330।05-330।06]
आर्याणां चरूपारुप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्तेत ।
[330।06-330।07]
न हि पुनस्तेषां दुःखवेदनाहेतुः स्कन्धा भवन्ति ।
[330।07]
संस्कारदुःखता च सूत्रे किमर्थं पृथगुक्ता भवेत् ।
[330।07-330।08]
यदि तर्ह्यनित्यत्वात् दुःखतःपश्यन्ति ।
[330।08]
अनित्यदुःखाकारयोः कः प्रतिविशेषः ।
[330।08-330।09]
उदयव्ययधर्मित्वादनित्यं पश्यन्ति ।
[330।09]
प्रतिकूलत्वात् दुःखम् ।
[330।09-330।10]
अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्यनित्याकारो दुःखाकारमाकर्षति ।
[330।10-330।11]
नास्त्येव सुख वेदनेत्येकीया दुःखैव तु सर्वा ।
[330।11]

कथमिदं गम्यते ।
सूत्राद्युक्तितश्च ।
कथं तावत्सूत्रात् ।
[330।11-330।12]
उक्तं हि भगवता "यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति ।
[330।12-330।13]
"दुःखा वेदना दुःखतो द्रष्टव्ये"ति ।
[330।13]
"दुःखे सुखमिति संज्ञाविपर्यास" इति ।
एवं तावत्सूत्रात् ।
कथं युक्तितः ।
[330।14]
सुखहेत्वव्यवस्थानात् ।
[330।14-330।15]
य एव हि केचित्पानभोजनशीतोष्णादय इष्यन्ते सुखहेतवस्त एवात्युपयुक्ता अकालोपयुक्ताश्च पुनर्दुःखहेतवः संपद्यन्ते ।
[330।15-330।17]
न च युक्ता सुखहेतुबृद्धच्या समेन वा ऽन्यस्मिन्काले दुःखोत्पत्तिरित्यादित एव ते दुःखहेतवो न सुखस्य ।
[330।17]
अन्ते तु तद्दुःखं वृद्धिमापन्नं व्यक्तिमापद्यत इति ।
[330।17-330।18]
एवमीर्यापथविकल्पे ऽपि वक्तव्यम् ।
[330।18]
दुःखप्रतिकारे च सुखबुद्धेर्दुःखविकल्पे च ।
[330।18-330।20]
न हि तावत् सुखमिति वेद्यते किञ्चिद्यावन्न दुःखान्तरेणोपद्रुतो भवति क्षुत्पिपासाशीतोष्णश्रमकामरागप्रभवेण ।
[330।20-330।21]
तस्मात् प्रतीकार एवाविदुषां सुखबुद्धिर्नसुखे दुःखविकल्पे च वालः सुखबुद्धिमुत्पादय्न्ति यथांशादंशं भारं संचारयन्तः ।
[330।22]
तस्मान्नास्त्येव सुखमिति ।
अस्त्येवेत्याभिवार्मिकाः ।
एष एव चन्यायः ।
[330।22-330।23]
कथं कृत्वा ।
[330।23]
इदं हि तावदयं प्रष्टव्यः सुखापवादी ।
किमिदं दुःखं नाम ।
[330।23-330।24]
यद्वाधनात्मकं चेत् ।
[330।24]
कथमिति वक्तव्यम् ।

उपघातकं चेत् ।
अनुग्राहकं सुखमिति सिद्धम् ।
[330।24-330।25]
अनभिप्रेतं चेत् ।
[330।25]
अभिप्रेतं सुखमिति सिद्धम् ।
[330।25-330।26]
तदेव ह्यभिप्रेतं पुनरनभिप्रेतं भवत्यार्याणां नैवाल्पकाले ।
[330।26]
तस्मादनिष्पनमभिप्रेतत्वं चेत् ।
न ।
अन्यथा ऽनभिप्रेतत्वात् ।
[330।27]
या हि वेदना स्वेन लक्षणेनाभिप्रेता नासौ पोउओनस्तेनैव जात्वनभिप्रेता भवति ।
[330।27-331।02]
तथा ह्येनामाकारान्तरेण विदूषयन्त्यार्याः प्रमादपदं चैनां पश्यन्ति महाभिसंस्कारसाध्यां च विपरिणामिनीं चानित्यां चयेनानभिप्रेता भवति ।
[331।02]
न तु खलु स्वलक्षणाकारेण ।
[331।03-331।04]
यदि चासौ स्वेनात्मनानभिप्रेता भवेन्नैव तस्यां कस्यचिद्रागो भवेद्यतो वैराग्यार्थं प्रकारान्तरेणापि दोषवतीं पश्येयुः ।
[331।04]
तस्मादस्त्येव स्वलक्षणतः सुख वेदना ॥
[331।05-331।07]
यत्तु भगवतोक्तं "यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति तद्भगवतैव नीतार्थं "संस्कारानित्यतामानन्द मया संघाय भाषितं संस्कारविओपरिणामतां च यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति ।
[331।07-331।08]
अतो न दुःख-दुखतां संधायैतदुक्तमिति सिद्धं भवति ।
[331।08-331।09]
यदिच स्वभावत एव सर्वं वेदितव्यं दुःखमभविष्यत्किमर्थमार्यानन्द एवं भगवन्तमप्रक्ष्यत् ।
[331।09]
तिस्र इमे वेदना उक्ता भगवता सुखा दुःखा ऽदुःखासुखा च ।
[331।10]
उक्तं चेदं भगवता "यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति ।
[331।10-331।11]
किं नु संधाय भगवता भाषितम् यत्किञ्चिद्वेदितमिदमत्र दुःखस्येति ।
[331।11-331।12]
एवं हि सो ऽप्रक्ष्यत् किं नु संधाय भाषितं तिस्रो वेदना इति ।
[331।12]
भगवानष्येव व्याकरिष्यत् ।
[331।12-331।13]
इदं मया संधाय भाषितं तिस्रो वेदना इति ।

[331।13]
न त्वेवमाह ।
तस्मात्सन्त्येव स्वभावतस्तिस्रो वेदनाः ।
[331।14-331।15]
इदं तु संधाय मया भाषितं यत्किम्चिद्वेदितमिदमत्र दुःखस्येत्याभीप्रायिकमेतद्वाक्यं दर्शयति ।
[331।15]
यदष्युक्तं "सुखा वेदना दुःखेति द्रष्टव्ये"ति ।
उभयं तस्यामस्ति ।
[331।15-331।16]
सुखत्वं च स्वभावतोमनापत्वाद् दुःखत्वं च पर्यायतो विपरिणामानित्यधर्मत्वात् ।
[331।16-331।17]
सा तु सुखतो दृश्यमाना बन्धाय कल्पते तदास्वादनात् ।
[331।17-331।18]
दुःखतो दृश्यमाना मोक्षाय कल्पते ।
[331।18]
तद्वैराग्यादिति ।
[331।18-331।19]
यथा दृश्यमाना मोक्षाय कल्पते तथैनां द्रष्टुमाज्ञापयन्ति बुद्धाः ।
[331।19]
कथमिदं गम्यते स्वभावतः सा सुखेति ।
य दाह
[331।20-331।21]
"संस्कारानित्यतां ज्ञात्वा अथो विपरिणामताम् ।
वेदना दुःखतः प्रोक्ता संबुद्धेन प्रजाननेति" ॥
[331।22]
यदपि चोक्तं "दुःखे सुखमिति संज्ञाविपर्यास" इति ।
आभिप्रायिक एष निर्देशः ।
[331।23]
लोकस्य हि सुखसंज्ञा वेदनायां कामगुणेषूपपत्तौ च ।
[331।23-331।24]
तत्र सूखं वेदनां पर्यायेण दुःखं सतीमेकान्तसुखां पश्यतो विपर्यासः ।
[331।24]
एवमुपपत्तिम् ।
[331।25]
तस्मान्नातः सुखवेदना ऽभावसिद्धिः ।
[331।25-331।26]
यदि तु स्वभावत एव सर्वं वेदितं दुःखमभविष्यत् तिस्रो वेदना इति वचने कोगुणो ऽभविष्यत् ।
[331।26-332।01]
लोकानुवृत्त्येति चेत् न ।
[332।01-332।02]

सर्ववेदितदुःखत्वस्य संस्कारविपरिणामानित्यतां संधाय भाषितवचनात् यथाभूतवचनाच्च ।
[332।02-332।04]
"यच्च सुखेन्द्रियं यच्च सौमनस्येन्द्रियं सुखैषा वेदना द्रष्टव्ये" ति विस्तरेणोक्त्वा "येनेमानि पञ्चेन्द्रियाण्येवं यथाभूतं सम्यक् प्रज्ञया दृष्टानि त्रीणि चास्य संयोजनानि प्रहीणानि भवन्ती" त्येवमादि ।
[332।04-332।05]
लोको ऽपि च कथं दुःखां वेदनां त्रिविधां व्यवस्येत् ।
[332।05]
मृद्वधिमात्रमध्यासु यथाक्रमं सुखादिबुद्धिरिति चेत् ।
न ।
[332।06]
सुखस्यापि त्रिविधत्वात् मृद्वादिषु दुःखेष्वधिमात्रा दिसुखबुद्धिः स्यात् ।
[332।06-332।08]
यदा च गन्धरसस्प्रष्टव्यविशेषजं सुखं वेदयते तदा कतमत् दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर्भवति ।
[332।08-332।09]
अनुत्पन्नविनष्टे चतस्मिन्मृदुनि दुःखे सुतरां सुकबुद्धिः स्यात् ।
[332।09]
अशेषदुःखापगमात् ।
एवं कामसुखसंमुखीभावे ऽपि वक्तव्यम् ।
[332।10-332।11]
कथं च नामेदं योज्यते यन्मृदुनिवेदिते सुव्यक्तस्तीव्रो ऽनुभवो गृह्यते मध्ये पुनरव्यक्त इति ।
[332।11]
त्रिषु च ध्यानेषु सुखवचनात् मृदु दुःखं स्यात् ।
[332।11-332।12]
ऊर्ध्वमदुःखसुखवचनान्मध्यं दुःखमिति न युज्यते मृद्वादिषु दुःखेषु दुःखेषु सुखादिवेदनाव्यवस्थानम् ।
[332।12-332।14]
उक्तं च भगवता "रूपं चेन्महानामन्नेकान्तदुःखमभविष्यन्न सुखं न सुखानुगतमि"त्येवमादि ।
[332।14]
तस्मादप्यस्ति किञ्चित्सुखम् ।
[332।14-332।15]
एवं तावन्न सूत्रात्सुखवेदना ऽभावः सिध्यति ।
[332।15]
यत्पुनः सुखहेत्वव्यवस्थानादित्युक्तम् ।
हेत्वपरिज्ञानादिदमुच्यते ।
[332।16]
आश्रयविशेषापेक्षो हि विषयः सुखहेतुर्वा भवति दुःखहेतुर्वा ।
न केवलो विषयः ।
[332।17-332।18]
स यां कामवस्थां प्राप्य सुखहेतुर्भवति न तां पुनः प्राप्य कदाचिन्न भवतीति व्यवस्थित एव सुखहेतुः ।
[332।18-332।20]
तद्यथा स एवाग्निः पाक्यभूतविशेषापेक्षः स्वादुपाकहेतुर्भवति स एवास्वादपाकहेतुः न तु यां पाक्यभूतावस्थां प्राप्य स्वदुपाकहेतुस्तां पुनः प्राप्य न हेतुरित्येष दृष्टान्तः ।
[332।20-332।21]

ध्यानेषु च कथं न व्यवस्थितः सुखहेतुः ।
[332।21-332।22]
यत्तु पुनः दुःखप्रतिकारे सुखबुद्धिरित्युक्तं तत्र विहितः प्रतीकारः ।
[332।22-332।23]
यदा गन्धादिविशेषजं सुखं वेदयते तदा कस्य प्रतीकारेषु सुखबुद्धिर्भवत्यनुत्पन्नविनष्टे च तस्मिन् दुःखे सुतरां सुखबुद्धिः स्यात् ।
[332।23-332।24]
ध्यानजे सुखे कः कस्य प्रतीकार इत्येवमादि ।
[332।24-332।25]
भावसंचारे ऽपि चावस्थान्तरजं सुखमेवोत्पद्यते ।
[332।25]
यावदसौ तादृशी कायावस्था ऽन्तर्घीयते ।
[332।25-332।26]
अन्यथा हि पश्चाद्भूयसी सुखबुद्धिः स्यात् ।
[332।26]
एवं श्रान्तस्येर्यापथविकल्पेषु वेदितव्यम् ।
[332।27]
"अन्ते कुतो दुःखबुद्धिरारम्भो यदि नादित" इति
[333।01]
चेत् ।
कायपरिणामविशेषान्मद्यादीनामन्ते माधुर्यशुक्ततावत् ।
[333।01-333।02]
तस्मादस्त्येव सुखा वेदनेति सिद्धम् ।
[333।02]
त्रिदुःखतायोगाद्वा सर्वं सास्रवं दुःखमिति ।
[333।02-333।03]
यत्तु समुदयसत्यं तदेवोच्यते ।
[333।03]
इदमुत्सूत्रम् सूत्रे हि तृष्णैवोक्ता ।
प्रधान्यादसौ सूत्र उक्ता ।
[333।03-333।04]
अन्ये ऽपि तु समुदयः ।
[333।04]
कथमिदं प्रत्येतव्यम् ।
अन्यत्रान्यस्यापि वचनात् ।
उक्तं हि भगवता ।
[333।05]
"कर्म च तृष्णा च अथो अविद्या संस्काराणां हेतुरभिसंपराय" इति ।
[333।06]
पुनश्चोक्तं "पञ्च बीजजातानीति सोपादानस्य विज्ञानस्यैतदधिवचनम् ।
[333।07]

पृथिवीधातुरिति चतसृणां विज्ञानस्थितीनामेतदधिवचनमि"ति ।
[333।07-333।08]
तस्मादाभिप्रायिकः सूत्रेषु निर्देशो लाक्षणिकस्त्वभिधर्मे ।
[333।08-333।09]
अपि त्वभिनिर्वृत्तिहेतुं ब्रूवता समुदयसत्यं तृष्णैवोक्ता ।
[333।09-333।10]
उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रूवता गाथायां कर्म च तृष्णा चाविद्योक्ता ।
[333।10-333।11]
"कर्महेतुरूपपत्तये तृष्णाहेतुरभिनिर्वृत्तय" इति सूत्रे वचनात् ।
[333।11-333।12]
सहेतुसप्रत्ययसनिदानसूत्रक्रमेण वा बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयो ऽष्युक्ताः ।
[333।12]
का पुनरुषपत्तिः का चाभिनिर्वृत्तिः ।
[333।12-333।13]
धातुगतियोन्यादिप्रकारभेदेनात्मभावस्योषपदनमुपपत्तिः ।
[333।13]
अभेदेन पुनर्भवप्रतिसंधानमभिनिर्वृत्तिः ।
[333।14]
तयोर्यथाक्रमं कर्म च भवतृष्णा च हेतुः ।
[333।14-333।15]
तद्यथा बीजं शालिवादिजातिप्रकारभेदेनाङ्कुरोओपपदनस्य हेतुः ।
[333।15]
आपः पुनरभेदेन सर्वङ्कुरप्ररोहमात्रस्येत्येव दृष्टान्तः ।
[333।16]
तृष्णा ऽभिनिर्वृत्तिहेतुरिति का ऽत्र युक्तिः ।
वीततृष्णस्य जन्माभावात् ।
[333।16-333।17]
उभये ऽपि ब्रियन्ते ।
[333।17]
सतृष्णा वीततृष्णाश्च ।
सतृष्णा एव जाता दृश्यन्ते न वीततृष्णा इति ।
[333।18]
विना तृष्णया जन्माभावात् ।
भवस्याभिनिर्वृत्तौ तृष्णाहेतुं प्रतीमः ।
[333।18-333।19]
संततिनमनाच्च ।
[333।19]
यत्र च सतृष्णा तत्राभीक्ष्णं चित्तसंततिं नमन्तीं पश्यामः ।
[333।19-333।20]
तस्मात् पुनर्भवे ऽष्येवमिति व्यवस्यामः ।

[333।20-333।21]
न चात्मभाव एवं केनचिदागृहीतो यथा तृष्णया ।
[333।21]
शुष्कमसूरोपस्नानलेपाङ्गवत् ।
[333।21-333।22]
न चान्यो हेतुरेवमनुषत्तो यथात्मस्नेह इत्येषा युक्तिः ।
[333।23]
चत्वार्यपि सत्यान्युक्तानि भगवता ।
[333।23-333।24]
द्वे अपि सत्ये संवृतिसत्यं परमार्थसत्यं च ।
[333।24]
तयोः किं लक्षणम् ।
[334।01-334।02]
यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् ।
घटार्थवत्संवृतिसत् परमार्थसदन्यथा
[334।03]
यस्मिन्नवयवशो भिन्ने न तद्बुद्धिर्भवति तत् संवृतिसत् ।
तद्यथा घटः ।
[334।04]
तत्र हि कपालशो भिन्ने घटबुद्धिर्न भवति ।
[334।04-334।05]
तत्र चान्यानपोह्य धर्मान् बुद्धच्या तद्बुद्धिर्न भवति तच्चापि संवृतिसद्वेदितव्यम् ।
[334।05]
तद्यथाम्बु ।
[334।05-334।06]
तत्र हि बुद्धच्या रूपादीन्धर्मानषोह्याम्बुबुद्धिर्न भवति ।
[334।06-334।07]
तेष्वेव तु संवृतिसंज्ञा कृतेति संवृतिवशात् घटश्चाम्बु चास्तीति ब्रूबन्तः सत्यमेवाहुर्न मृषेत्येतत्संवृतिसत्यम् ।
[334।07-334।08]
अतोन्यथा परमार्थ सत्यम् ।
[334।08]
तत्र भिन्ने ऽपोइ तद्बुधिर्भवत्येव ।
[334।08-334।09]
अन्यधर्मापोहे ऽपि बुद्धच्या तत् परमार्थसत् ।
[334।09]
तद्यथा रूपम् ।
[334।09-334।10]
तत्र हि परमाणुशो भिन्ने वस्तुनि रसार्हानपि च धर्मानपोह्य बुद्धच्या रूपस्य स्वभावबुद्धिर्भवत्येव ।
[334।10]
एवं वेदनादयो ऽपि द्रष्टव्याः ।

[334।10-334।11]
एतत् परमार्थेन भावात् परमार्थसत्यमिति ।
[334।11-334।12]
यथा लोकोत्तरेन ज्ञानेन गृह्यते तत् पृष्ठलब्धेन वा लौकिकेन तथा परमार्थसत्यम् ।
[334।12-334।13]
यथान्येन तथा संवृतिसत्यम् इति पूर्वाचार्याः ।
[334।13]
उक्तानि सत्यानि ।
[334।14]
कथं पुनस्तेषां दर्शनं भवति ।
वक्तव्यम् ।
अत आदिप्राथानमारभ्योच्यते ।
[334।15]
वृत्तस्थः श्रुतचिन्तावान्भावनायां प्रयुज्यते ।
[334।16]
सत्यानि ह द्रष्टुकाम आदित एव शीलं पालयति ।
[334।16-334।17]
ततः सत्यदर्शनस्यानुलोमं श्रुतमुद्गृह्लात्यर्थं वा श्रुणेनि ।
[334।17-334।18]
श्रुत्वा चिन्तयति अविपरीतं चिन्तयित्वा भावनायां प्रयुज्यते ।
[334।18]
समाधौ तस्य श्रुतमयीं प्रज्ञां निश्रित्य चिन्तामयी जायते ।
[334।18-334।19]
चिन्तामयीं निश्रित्य भावनामयी जायते ।
[334।20]
किं पुनरासां प्रज्ञानां लक्षणम् ।
[334।21]
नामोभयार्थविषया श्रुतमय्यादिका धियः
[334।22]
नामालम्बना किल श्रुतमयी प्रज्ञा ।
नामार्थालम्बना चिन्तामयी ।
[334।22-334।23]
कदाचिद्वच्यञ्जनेनार्थमाकर्षति कदाचिदर्थेन व्यञ्जनम् ।
[334।23]
अर्थलम्वनैव भावनामयी ।
[334।24]
सा हि व्यञ्जननिरपेक्षा अर्थे प्रवर्तते ।
[334।24-335।01]
तद्यथा ऽम्भसि प्लोतुमशिक्षितः प्लवन्नेव मुञ्चति ।
[335।01]

कियच्छिक्षितः कदाचित् मुञ्चेत् कदाचिदालम्वते ।
[335।01-335।02]
सुशिक्षिता प्लवन् निरपेक्षस्तरतीत्येष दृष्टान्तः इति वैभाषिकाः ।
[335।02-335।03]
अस्यां तु कल्पनायां चिन्तामयी प्रज्ञा न सिद्धच्यतीत्यपरे ।
[335।03-335।04]
याहि नामालम्बना श्रुतमयी प्राप्नोति या ऽर्थालम्बना भावनामयीति ।
[335।04-335।05]
इदं तु लक्षणं नानिरवद्यं विद्यते ।
[335।05]
आप्तवचनप्रामाण्यजातनिश्चयः श्रुतमयी ।
युक्तिनिध्यानजश्चिन्तामयी ।
[335।06]
समाधिज्जो भावनामयीति ।
हेतौ मयट्विधानात् ।
[335।06-335।07]
यद्यथा ऽन्नमयाः प्राणाः तृणमय्यो गायः इति ।
[335।08]
तस्य पुनरेवं भावनायां प्रयुक्तस्य कथं भावना संपद्यत इत्याह ।
[335।09]
व्यपकर्षद्वयवतः
[335।10]
यदि हि कायचित्ताभ्यां व्यपकृष्टो भवति ।
संसर्गाकुशलवितर्कदूरीकरणात् ।
[335।11]
तत्तर्हि व्यपकर्षद्वयं कस्य सुकरं भवति ।
यो ऽल्पेच्छः संतुष्टश्च ।
[335।12]
नासंतुष्टमहेच्छयोः ।
[335।13]
का पुनरियमसंतुष्टिः ।
का च महेच्छता ।
[335।14]
लब्धे भूयःस्पृहा ऽतुष्टिरलब्धेच्छा महेच्छाता
[335।15]
लब्धेषु किल प्रणीतेषु चीवरादिषु भूयस्कामत ऽसंतुष्टिः ।
[335।15-335।16]
अलब्धेषु तत्कामता महेच्छतेत्याभिधार्मिकाः ।
[335।16-335।17]
ननु च सा ऽतिभूयस्कामता ऽलब्ध एव न लब्धे भवतीति को ऽनयोर्विशेष इति वक्तव्यमेतद् ।

[335।17]
एवं तु युज्यते ।
[335।17-335।18]
लब्धेनाप्रणीतेनाप्रभूतेन परितापो ऽसंतुष्टिः ।
[335।18]
अलब्धप्रणीतप्रभूतेच्छा महेच्छता ।
[335।19]
विपर्यासात्तद्विपक्षौ
[335।20]
असंतुष्टिमहेच्छताविपर्ययेण तत्प्रतिपक्षौ वेदितव्यौ ।
[335।20-335।21]
संतुष्टिश्चाल्पेच्छता चेति ।
[336।01]
त्रिधात्वाप्तामलौ च तौ ।
[336।02]
तद्विपक्षाविति वर्तते ।
त्रिधातुकौ च पोरतिसंयुक्तौ च ।
सास्रवानास्रवत्वात् ।
[336।03]
असंतुष्टिमहेच्छते च कामावचर्यावेव ।
[336।04]
कः पुनरनयोरल्पेच्छतासंतुष्टच्योः स्वभाव इत्याह ।
[336।05]
अलोभः
[336।06]
अलोभस्वभावे ह्येते ।
[336।07]
आर्यवंशाश्च
[336।08]
अलोभ इति वर्तते ।
आर्याणामेभ्यः प्रसवादार्यवंशाश्चत्वारः ।
[336।08-336।09]
ते ऽप्यलोभस्वभावाः ।
[336।10]
तेषां तुष्टच्यात्मकास्त्रयः
[336।11]
ज्संतुष्टिस्वभावाः ।
चीवरपिण्डपातशयनासनसंतुष्टयः ।
[336।11-336।12]
प्रहाणभावनारामता चतुर्थ आर्यवंशः कथमलोभस्वभावः ।

[336।12]
भवकामरागवैमुख्यात् ।
[336।13]
अथ चतुर्भिरार्यवंशैः किं दर्शितं भगवता ।
[336।14]
कर्मान्तेन त्रिभिर्वृत्तिः
[336।15-336।16]
धर्मस्वामिना हि भगवता परित्यक्तस्ववृत्तिकर्मान्तेभ्यः शिष्येभ्यो मोक्षार्थमभ्युपगतेभ्यो द्वयं प्रज्ञप्तं वृत्तिश्च कर्म च ।
[336।16]
त्रिभिरार्यवंशैर्वृत्तिश्चतुर्येन कर्म ।
[336।17]
अनया वृत्त्येदं कर्म कुर्वाणा भवन्ती न चिरान्मोक्षं प्राप्स्यन्तीति ।
[336।17-336।18]
कस्मात्पुनरियमीदृशी वृत्तिरिदं च कर्म प्रज्ञप्तम् ।
[336।19]
तृष्णोत्पादविपक्षतः ।
[336।20]
चत्वारस्तृष्णोत्पादाः सूत्र उक्ताः ।
[336।20-336।21]
"चीवरहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यते प्रतितिष्ठन्ति प्रतितिष्ठति अभिनिविशमाना ऽभिनिविशते ।
[336।21-336।22]
पिण्डपातहेतोः शय्यासनहेतोरिति ।
[336।22]
भवविभवहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यत" इति विस्तरः ।
[337।01]
एषां प्रतिपक्षेण चत्वार आर्यवंशा देशिताः ।
[337।02]
ममाह कारवस्त्विच्छातत्कालात्यन्तशान्तये
[337।03]
स एवार्थः पुनः परिशेषेणोच्यते ।
[337।03-337।04]
ममकारवस्तु चीवरादयो ऽहं कारवस्त्वात्मभावः ।
[337।04]
तत्रेच्छा तृष्णा ।
[337।04-337।05]
तत्र ममकारवस्त्विच्छायास्तत्कालशान्तये त्रय आर्यवंशा भवन्ति ।
[337।05]
उभयेच्छात्यन्तशान्तये चतुर्थ इति ।
[337।05-337।06]
उक्तामिदं यथा भूतस्य भावना संपद्यते ।

[337।07]
तस्य त्वेवं पात्रोभूतस्य कथम् तस्यां भावनायामवतारो भवति ।
[337।08]
तत्रावतारो ऽशुभया चानापानस्मृतेन च ।
[337।09]
स्मृतिरेव स्मृतम् ।
केषां पुनरशुभया केषामानापानस्मृत्या ।
यथाक्रमम्
[337।10]
अधिरागवितर्काणाम्
[337।11]
अधिको रागो वितर्कश्चैषां त इमे अधिरागवितर्काः ।
[337।11-337।12]
यो हि प्रत्यासन्नमत्यर्थं रागचरितस्तस्याशुभया ।
[337।12]
यो हि वितर्कचरितस्तस्यानापानस्मृत्येति ।
[337।12-337।13]
अविचित्रालम्बनत्वादेषां वितर्कोपच्छेदाय संवर्तत इत्येके ।
[337।13-337।14]
अशुभा तु यत्र संस्थानविशेषालम्बनत्वाद्वितर्कमावहतीति ।
[337।14]
अवहिमुखत्वादित्यपरे ।
[337।14-337।15]
अशुभा हि चक्षुर्विज्ञानवद्बहिर्मुखी ।
[337।15]
तद्विषयोपनिध्यानात् ।
[337।15-337।16]
तत्र पुनश्चतुर्विधो रागः वर्णरागः संस्थानरागः स्पर्शराग उपचाररागश्च ।
[337।16-337।17]
प्रथमस्य प्रतिपक्षेण विनोलकाद्यालम्बनामशुभां वर्जयन्ति ।
[337।17-337।19]
द्वितियस्य विखादितकविक्षिप्तालम्बनां तृतीयस्य विपटुम्ना पूयनिबद्धास्थ्यालम्बनां चतुर्थस्य निश्चेष्टमृत्कायालम्बनाम् ।
[337।19]
अभदेन तु शस्यते
[337।20]
शङ्कला सर्वरागिणाम्
[338।01-338।02]
अस्थिसंकक्लायां हि सर्वमेतच्चतुर्विधं रागस्तु नास्तीति अधिमुक्तिप्रादेशिकमनस्कारत्वादशुभया न क्लेशप्रहाणम् विष्कम्भणं तु ।
[338।02-338।03]
स पुनर् अयम् अशुभां भावयन् योगाचारस् त्रिविध उच्यते ।

[338।03]
आदिकार्मिकः कृतपरिजयो ऽतिक्रान्तमनस्कारश् च ।
तत्र
[338।04]
आसमुद्रास्थिविस्तारसंक्षेपाद् आदिकर्मिकः ।(6-10अब्)
[338।05]
अशुभां भावयितुकाम आदितो योगाचारः ।
[338।05-338।06]
स्वाङ्गावयवे चित्तं निबध्नाति पादाङ्गुष्ठे ललाटे यत्र चास्याभिरतिः ।
[338।06-338।07]
स तत्र मांसक्लेदपीता धिमोक्षक्रमेणास्थिविशोधयन् सकलामस्थिसंकलां पश्यति ।
[338।07-338।09]
तथैव च पुनर्द्वितीयामधिमुच्यते यावद्विहारारामक्षेत्रक्रमेण समुद्रपर्यन्ताम् पृथिवीमस्थिसंकलां पूर्णामधिमुच्यते ऽधिमोक्षाभिवर्धनार्थम् ।
[338।09-338।10]
पुनश्च संक्षिपन्यावदेकामेव स्वमस्थिसंकलामधिमुच्यते चित्तसंक्षेपार्थम् ।
[338।10]
इयता किल कालेनाशुभा ओपरिनिष्पन्ना भवति ।
[338।10-338।11]
अयम् आदिकर्मिको योगाचारः ।
[338।12]
पादास्थ्न आकपालार्थत्यागात् कृतजयः स्मृतः
[338।13-338।14]
स पुनः चित्तसंक्षेपविशेषार्थ तस्यामस्थिशङ्कलायां पादास्थीनि हित्वा शेषं मनसि करोति ।
[338।14-338।15]
एवं क्रमेण यावत् कपालस्यार्धं हित्वा ऽर्धं मनसि करोति क्षयकृतपरिजयः ।
[338।16]
अतिक्रान्तमनस्कारो ब्रूमध्ये चित्तधारणात् ।(6-11अब्)
[338।17]
सो ऽर्धमपि कपालस्य मुक्त्वा ब्रूवोर्मध्ये चित्तं धारयति ।
[338।17-338।18]
अयं किलाशुभायामतिक्रान्तमनस्कारो योगाचारः ।
[338।18-338।19]
अस्त्यशुभा आलल्म्बनपरीत्ततया परीत्ता न वशितापरीत्ततया परीत्तेति चतुष्कोटिकम् ।
[338।19-338।20]
जिताजितमनस्कारयोरजितजितमनस्कारयोश्च स्वकायसमुद्रपर्यन्तालम्बनात् ।
[338।21]
अथ किंस्वभावेयमशुभा कतिभूमिका किमालम्बना क्व चोत्पद्यते ।
[338।22]
यथाक्रमम् ।
[338।23]

अलोभो दशभूः कामदृश्यालम्बा नृजा ऽशुभा
[338।24-338।26]
अलोभस्वभावा दशभूमिका ससामन्तकध्यानान्तरेषु चतुर्षु ध्यानेषुइ कामधातौ च कामावचर दृष्यालम्बना किं पोओउन्र्दृश्यवस्तुसंस्थाने ।
[338।25-338।26]
अथ एवार्थालम्वनेति सिद्धम् ।
[338।26]
मनुष्येष्वेवोत्पद्यते ।
नान्यस्यां गतौ ।
कुत एव धातौ ।
[339।01]
तत्रापि नोत्तरकुरौ ।
नाम्नैव सिद्धमशुभाकारेति ।
यदध्विका तदध्वालम्बना ।
[339।02]
अनुत्पत्तिधर्मिणी तु व्यध्वालम्बना ।
अधिमुक्तिमनस्कारत्वात्सास्रवा ।
[339।02-339।03]
वैराग्यलाभिकी च प्रायोगिकी च ।
[339।03]
उचितानुचितत्वात् ।
[339।03-339।04]
उक्तमशुभायाः सप्रभेदं लक्षणम् ।
[339।05]
आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा ।
[339।06]
कामाश्रया
[339।07]
आननमान आश्वासो यो वायुः प्रविशति ।
[339।07-339।08]
अपाननमपानः प्रश्वासो यो वायुः निष्क्रामति ।
[339।08]
तयोः स्मृतिरानापानस्मृतिः ।
सैव प्रज्ञास्वभावा ।
[339।08-339।09]
स्मृतिवचनं तु स्मृत्युपस्थानवत्तद्वलाधानवृत्तित्वात् ।
[339।09-339।10]
पञ्चसु भूमिसु त्रिषु सामन्तकेषु ध्यानान्तरे कामधातौ चोपेक्षासंप्रयोगित्वात् ।
[339।10-339।11]
वितर्कानुगुणत्वात् किल ल्सुखदुःखयोस्तत्प्रतिपक्षस्य ताभ्यामसंप्रयोगः ।
[339।11-339।12]

सुखसौमनस्ययोश्चावधानपरिपन्थित्वात् तस्याश्चावधाने साध्यत्वादिति ।
[339।12-339।13]
ये तु मौलेष्वपि ध्यानेषु समापन्नस्योपेक्षामिच्छन्ति नेषामष्टभूमिका ।
[339।13]
परेणाश्वासप्रश्वासानमभूमित्वात् ।
[339।13-339।14]
वाय्वालम्बना चैषा कामधात्वाश्रया ।
[339।14]
देवमनुष्येषु प्रायोगिकी वैराग्यलाभिको च ।
[339।14-339।15]
तत्वमनस्कारश्चैषा ।
[339।15]
इदं धर्माणामेव ।
[339।16]
न बाह्यानाम्
[339।17]
उपदेशाभावात् ।
स्वयं च सूक्ष्मधर्मानभिसंबोधात् ।
सा चेयं
[339।18]
षड्विधा गणनादिभिः
[339।19]
षट्कारणयुक्ता चैषा परिपूर्णा भवति ।
[339।19-339।20]
गणनया ऽनुगमेन स्थापनया उपलक्षणया विवर्त्तेन परिशूद्धच्या च ।
[339।20-339।22]
तत्र च गणना नाम आश्वासप्रश्वासेषु चित्तं दत्त्वा ऽनभिसम्स्कारेण कायं चित्तं चाध्युपेक्ष्य स्मृतिमात्रेण गणयत्येकं द्वौ यावद्दश ।
[339।22]
चित्ताभिसंक्षेप विक्षेपभयान्नाल्पवहुतरा ।
[339।22-339।23]
तस्यां तु त्रयो दोषाः ।
[339।23]
ऊनगणना यदि द्वावेकं गृह्लाति ।
[339।23-339।24]
अधिकगणना यद्येकं द्वाविति ।
[339।24]
संकरो यद्याश्वासं प्रश्वासतो गृह्लाति विपर्ययाद्वा ।
[339।24-340।01]
अतो ऽन्यथा सम्यग्गणना ।
[340।01]

अन्तरविक्षेपे पुनरादितो गणयितव्यं तावद्यावत्समाधि लभते ।
[340।02]
अनुगमो नाम अनभिसंस्कारेणाश्वासप्रश्वासानां गतिमनुगच्छति ।
[340।02-340।03]
कियद्दूरमेते प्रविशन्ति वा निष्क्रामन्ति वा किमेते सर्वशरीरव्याओपिन एकदेशचारिण इति ।
[340।04]
तान् प्रविशतः कण्ठहृदयनाभिकट्युरुजङ्घाप्रवेशक्रम्4ण यावत् पादावनुगच्छति ।
[340।05]
निष्क्रामतो वितस्तिव्यामान्तरं यावद्वायुमण्डलं वैरम्भाश्च वायव इत्यपरे ।
[340।06]
तदेतत्तत्वमनसिकारत्वान्न युक्तम् ।
[340।06-340।07]
स्थापना नाम नासिकाग्रे यावत् पादन्ङ्गुष्ठे स्थितां पश्यति ।
[340।07]
मणिसूत्रवत् ।
[340।07-340।08]
किमनुग्राहका एते उपधातकाः शीता उष्णा इति ।
[340।08]
उपलक्षणा नाम नैते केवला वायव एव ।
[340।08-340।10]
चत्वार्येतानि महाभूतानि महाभूताभिनिर्वृत्तमुपादायरूपं तदाश्रिताश्चित्तचैत्ता इति पञ्चस्कन्धानुपलक्षयति ।
[340।10-340।11]
विवर्तो नाम वाय्वालम्बनां वृद्धिं विवर्त्त्योत्तरेषु कुशलमूलेषु संनियोजनं यावदग्रधर्मेषु ।
[340।11]
परिशुद्धिर्दर्शनमार्गादिष्ववतारः ।
[340।12]
स्मृत्युपस्थानादिवज्रोपमसमाध्यन्ता विवर्त इत्यपरे ।
क्षयज्ञानादिशुद्धिरिति ।
[340।13-340।14]
"गणनानुगमः स्थानं लक्षणार्थविवर्त्त्ना
परिशुद्धिश्च षोढेयमानापानस्मृतिर्मता" इति संग्रहश्लोकाः ।
[340।15]
तत्र पुनर्वेदितव्यौ
[340।16]
आनापातौ यतः कायः ।
[340।17]
यद्भूमिको हि कायः तद्भूमिकावेतै ।
कायैकदेशत्वात् ।
[340।17-340।18]
कायचित्तविशेषसंनिश्रिता आश्वासप्रश्वासा वर्तन्ते ।

[340।18-340।19]
आरुप्यकललादिगतानामभावात् अचित्तचतुर्थध्यानसमापन्नानां च ।
[340।19-340।20]
यदि हि कायः शुषिरो भवति आश्वासप्रश्वासभूमिकं च चित्तं संमुखीभूतमेवं ते वर्त्तन्ते ।
[340।20-340।21]
जायमानस्य चतुर्थध्यानाद्व्युत्तिष्ठमानस्य च प्रविशन्ति भियमाणस्य चतुर्थं च ध्यानं समापद्यमानस्य निष्क्रामन्ति ।
[340।21-340।22]
एतौ चानापानौ ।
[340।23]
सत्त्वाख्यौ
[340।24]
नासत्त्वसंख्यातौ ।
[340।25]
अनुपात्तकौ ।
[341।01]
इन्द्रियविनिर्भागित्वात् ।
[341।02]
नैःष्यन्दिकौ
[341।03]
नौपचयिकविपाकजौ ।
कायोपचयनानुपचयात् छ्हिन्नानां पुनः प्रतिसंधानाच्च ।
[341।04]
नह्येतद्विपाकरूपस्यास्ति ।
[341।05]
नाधरेण लक्षयेते मनसा च तौ
[341।06]
स्वभूम्युपरिभूमिकेन च तयोश्चित्तेनोपलक्षणम् ।
नावरेणेर्यापथिक नैर्माणिकेन ।
[341।07]
उक्ते द्वे अवतारमुखे ।
ताभ्यां तु समाधिलब्धा
[341।08]
निष्पन्नशमथः कुर्यात् स्मृत्युपस्थानभावनाम् ।
[341।09]
विपश्यनायाः संपादनार्थम् ।
कथं च पुनः कुर्यात् ।
[341।10]
कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात्
[341।11]
कायं स्वसामान्यलक्षणाभ्यां परीक्षते ।

वेदनां चित्तं धर्माश्च ।
[341।11-341।12]
स्वभाव एवैषां स्वलक्षणम् ।
[341।12-341।13]
सामान्यलक्षणं तु अनित्यता संस्कृतानां दुःखता सास्रवाणां शुन्यता ऽनात्मते सर्वधर्माणाम् ।
[341।13]
कायस्य पुनः कः स्वभावः । भूतभौतिकत्वम् ।
[341।14]
धर्मास्त्रिभ्यो ऽन्ये ।
[341।14-341।15]
सामाहितस्य किल कायं परमाणुशः क्षणिकतश्च पश्यतः कायस्मृत्युपस्थाणं निष्पन्नं भवति ।
[341।16]
अथ स्मृत्युपस्थानानां कः स्वभावः ।
[341।16-341।17]
विविधस्मृत्युपस्थानं स्वभावसंस्र्गालम्बनस्मृत्युपस्थानम् ।
[341।17]
तत्र स्वभावस्मृत्युपस्थानम् ।
[341।18]
प्रज्ञा
[341।19]
कीदृशी प्रज्ञा ।
[341।20]
श्रुतादिमयी
[342।01]
श्रुतमयी चिन्तामयी भावनामयी च ।
[342।01-342।02]
त्रिविधानि स्मृत्युपस्थानानि श्रुतचिन्ताभावनामयानि ।
[342।03]
अन्ये संसर्गालम्बनाः
[342।04]
अन्ये तत्सहभुवो धर्माः संसर्गस्मृत्युपस्थानम् ।
[342।04-342।05]
तदालम्बना आलम्बनस्मृत्युपस्थानम् ।
[342।05]
स्वभावस्मृत्युपस्थानं प्रज्ञेति ।
कुत एव तत् ।
[342।05-342।06]
"कामे कायानुपश्यना स्मृत्युपस्थान"मिति वचनात् ।
[342।06]
का पुनरनुपश्यना ।

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc