भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 501520

[313।18]
रागजौ
[313।19]
मायामदौ प्रतिघजे उपनाहविहिंसने
[314।01]
दृष्ट्यामर्शात् प्रदाशस्तु शाठ्यं दृष्टिसमुत्थितम् ।
[314।02]
"किं कुटिलं पापिका दृष्टिरिति" गाथावचनाद् युज्यते ।
[314।02-314।03]
शाठ्यं दृष्टिनिःष्यन्दः ।
[314।04]
क एषां किंप्रहातव्यः ।
यानि तावत् दश पर्यवस्थानान्युक्तानि
[314।05]
तत्राह्लीक्यानपत्राप्यस्त्यानमिद्धोद्धवा द्विधा
[314।06]
एते पञ्च धर्मा द्विविधा दर्शनभावनाप्रहातव्या उभयप्रकारक्लेशसंप्रयोगात् ।
[314।06-314।07]
यश्च यद्दर्शनहेयसंप्रयुक्तः स तद्दर्शनप्रहातव्यः ।
[314।08]
तदन्ये भावनाहेयाः
[314।09]
तेभ्यो ऽन्ये पर्यवस्थानसंगृहीता उपक्लेशा भावनाहेया एव ।
[314।09-314।10]
इर्ष्यामात्सर्यकौकृत्यक्रोधभ्रक्षाः स्वतन्त्राश्च ।
[314।10-314।11]
स्वतन्त्राश्चैते पञ्चोपक्लेशा अधिमात्रसंप्रयोगित्वात् ।
[314।11]
यथैते ईर्ष्यादयः पञ्चोपक्लेशा भावनाहेयाः
[314।12]
स्वतन्त्राश्च तथा मलाः ।
[314।13]
षट्क्लेशमलास्तथैव ।
एते पुनर्यथोक्ता उपक्लेशाः
[314।14]
कामे ऽशुभाः
[314।15]
कामधातावकुशलाः ।
तत्रापि
[314।16]

त्रयो द्विधा
[314।17]
स्त्यानौद्धत्यमिद्धान्यकुशलाव्याकृतानि ।
[314।18]
परेणाव्याकृतास्ततः
[314।19]
कामधातोरुर्ध्वमव्याकृताः उपक्लेशा यथासंभवम् ।
[315।01]
कति पुनरेषां कुतस्त्या वेदितव्याः ।
[315।02]
माया शाठ्यं च कामाद्यध्यानयोः
[315।03]
एतौ द्वौ कामधातौ प्रथमे च ध्याने ।
कथं ब्रह्मलोके मायाः ।
[315।04]
ब्रह्मवञ्चनात् ।
[315।05-315।06]
स हि तत्र महाब्रह्मा वितथात्मसंदर्शनतया आयुष्मन्तमश्वजितं वञ्चयितुं प्रवृत्तः ।
[315।06]
उक्तमपि शाठ्यं प्रसङ्गागतं पुनरेवोक्तम् ।
[315।07]
स्त्यानौद्धत्यमदा धातुत्रये
[315।08]
एते त्रयस्त्रैधातुकाः ।
[315।09]
अन्ये कामधातुजाः
[315।10]
षोडशभ्यः पञ्चापनीयान्य एकादशोपक्लेशाः कामावचरा एव ।
[315।10-315।11]
उक्ता क्लेशाः उपक्लेशाश्च ।
[315।12]
अथैषामनुशयानां कति मनोभूमिकाः कति षड्विज्ञानकायिकाः ।
संक्षेपतः
[315।13]
समानसिद्धा दृग्घेया मनोविज्ञानभूमिकाः ।
[315।14-315।15]
दर्शनप्रहातव्याः सर्वे मनोभूमिकाः सह मानसिद्धाभ्यां भावनाहेयाभ्यामपि ।
[315।15]
ते हि सकले मनोभूमिके ।
[315।16]

उपक्लेशाः स्वतन्त्राश्च
[315।17-315।18]
ये च केचिदुपक्लेशाः स्वतन्त्रास्ते भावनाहेया अपि सन्तो मनोभूमिका एव द्रष्टव्याः ।
[315।19]
षड्विज्ञानाश्रयाः परे
[315।20]
अन्ये क्लेशोपक्लेशाः षड्विज्ञानभूमिकाः वेदितव्याः ।
के पुनरन्ये ।
[316।01]
भावनाप्रहातव्या रागप्रतिघाविद्या उपक्लेशाश्च तत्संप्रयुक्ताः ।
[316।01-316।02]
आह्लीक्यानपत्राप्यस्त्यानौद्धत्यानि ।
[316।02]
ये च क्लेशमहाभूमिकेषूक्ताः ।
[316।03-316।04]
यानीमानि सुखादीनि पञ्चेन्द्रियाणि एषां कतमेनेन्द्रियेण कतमः क्लेश उपक्लेशो वा संप्रयुक्तः ।
[316।05]
सुखभ्यां संप्रयुक्तो हि रागः
[316।06]
सुखसौमनस्याभ्यां रागः संप्रयुक्तः ।
[316।07]
द्वेषो विपर्ययात् ।
[316।08]
दुःखाभ्यामित्यर्थः ।
दुःखेन दौर्मनस्येन च ।
[316।08-316।09]
हर्षदैन्याकारवर्तित्वात् षङ्विज्ञानभूमिकत्वाच्च रागद्वेषयोः ।
[316।10]
मोहः सर्वैः
[316।11]
अविद्यायाः सर्वक्लेशसंप्रयोगित्वात् पञ्चभिरपीन्द्रियैः संप्रयोगः ।
[316।12]
असद्दृष्टिर्मनोदुःखसुखेन तु
[316।13]
मनोदुःखं दौर्मनस्यं मनःसुखं सौमनस्यं च ।
[316।13-316।14]
ताभ्यं मिथ्यादृष्टिः संप्रयुक्ता पुण्यकर्मणां पापकर्मणां च यथाक्रमम् ।
[316।15]
दौर्मनस्येन काङ्क्षा
[316।16]

संशयितो हि निश्चयेनार्थी दुर्मनायते ।
[316।17]
अन्ये सौमनस्येन
[316।18]
अन्ये ऽनुशयाः सौमनस्येनैव संप्रयुक्ताः ।
के पुनरन्ये ।
चतस्रो दृष्टनो मानश्च ।
[316।19]
हर्षाकारवर्तित्वात् ।
किंप्रतिसंयुक्ता इमे ऽनुशया निर्दिष्टाः ।
आह ।
[316।20]
कामजाः ।
[317।01]
एवं प्रतिनियतं संप्रयोगमुक्त्वा सामान्येनाह
[317।02]
सर्वे ऽप्युपेक्षया
[317।03]
सर्वे ऽप्येते ऽनुशया उपेक्षेन्द्रियेण संप्रयुक्ताः ।
[317।03-317।04]
प्रवाहच्छेदकाले किल क्लेशानामवश्यमुपेक्षा संतिष्ठते ।
[317।04]
अधोभूमिकाः कथमित्याह
[317।05]
स्वैः स्वैर्यथाभुम्यूर्ध्वभूमिकाः
[317।06]
स्वैः स्वैरिन्द्रियैरुर्ध्वभूमिका अनुशयाः संप्रयुज्यन्ते ।
यस्यां भूमौ यावन्तीन्द्रियाणि ।
[317।07-317।08]
तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम् ।
[317।08]
उक्तः क्लेशानामिन्द्रियसंप्रयोगः ।
[317।09]
उपक्लेशानां पुनः
[317।10]
दौर्मनस्येन कौकृत्यमीर्ष्या क्रोधो विहिंसनम् ।
[317।11]
उपनाहं प्रदाशश्च
[317।12]
संप्रयुक्तानीति वर्तते ।

दैन्याकारवर्तित्वादेषां मनोभूमिकत्वाच्च ।
[317।13]
मात्सर्यं तु विपर्ययात्
[317।14]
सौमनस्येनेत्यर्थः ।
लोभान्वयत्वेन हर्षाकारवर्तित्वात् ।
[317।15]
माया शाठ्यमथी भ्रक्षो मिद्धं चोभयथा
[317।16]
सौमनस्यदौर्मनस्याभ्यां संप्रयुज्यन्ते ।
कदाचिद्धि सुमनाः परं वञ्चयते ।
[317।16-317।17]
कदाचिद्दुर्मनाः ।
[317।17]
एवं यावत् स्वपिति ।
[317।18]
मदः ।
[317।19]
सुखाभ्याम्
[318।01]
तृतीये ध्याने सुखेनाधस्तात्सौमनस्येन ऊर्ध्वमुपेक्षया ।
यस्मात्
[318।02]
सर्वगोपेक्षा
[318।03]
अतस्तया सर्वे ऽनुशयाः संप्रयुज्यन्ते ।
[318।03-318।04]
न हि तस्याः क्वचित् प्रतिषेधो यथा ऽविद्यायाः ।
[318।05]
चात्वार्यन्यानि पञ्चभिः
[318।06-318।07]
आह्लीक्यमनपत्राप्यं स्त्यानमौद्धत्यं चैतानिचत्वारि पर्यवस्थानानि पञ्चभिरपीन्द्रियैः संप्रयुज्यन्ते ।
[318।07]
अकुशलमहाभूमिकत्वात् क्लेशमहाभूमिकत्वाच्च ।
[318।08-318।09]
यानि सूत्रे पञ्च निवरणानि उक्तानि कामच्छन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च ।
[318।09-318।10]
तत्र किं त्रैधातुक्यः स्त्यानौद्धत्यविचिकित्सा गृह्यन्ते ।
[318।10]
अथ कामप्रतिसंयुक्ता एव ।

[318।10-318।11]
"केवलो ऽयं परिपूर्णोऽकुशल राशिर्यदुत पञ्च निवरणानी"त्येकान्ताकुशलत्ववचनात्सूत्रे ।
[318।12]
कामे निवरणानि
[318।13]
नान्यत्र धातौ ।
[318।13-318।14]
किं पुनः कारणं द्वे स्त्यानमिद्धे एकं निवरणमुक्तं द्वे चौद्धत्यकौकृत्ये एकम् ।
[318।15]
एकविपक्षाहारकृत्यतः ।
[318।16]
द्व्येकता
[318।17]
द्वयोरेकता द्व्येकता ।
विपक्षः प्रतिपक्षो ऽनाहार इत्येको ऽर्थः ।
[318।17-318।18]
स्त्यानमिद्धयोरेक आहारः सूत्रे ऽनाहारश्च ।
[318।18]
कः स्त्यानमिद्धनिवरणस्याहारः ।
पञ्च धर्माः ।
[318।19]
तन्द्रा अरतिर्विजृम्भिका भक्ते ऽसमता चेतसो लीनत्वमिति ।
[318।19-318।20]
अथ स्त्यानमिद्धनिवरणस्यानाहारः आलोकसंज्ञेति ।
[318।20]
कृत्यमनयोरप्येकम् ।
[318।20-319।01]
उभे अपि ह्येते चित्तं लयं चोदयतः ।
[319।01]
औद्धत्यकौकृत्ययोरप्येक आहार उक्तः एकोनाहारः ।
[319।02]
कश्चौद्धत्यकौकृत्यनिवरणस्याहारः ।
चत्वारो धर्माः ।
[319।02-319।03]
ज्ञातिवितर्को जनपदवितर्को ऽमरवितर्कः पौराणस्य च हसितक्रिडितरमितपरिभावितस्यानुस्मर्ता भवतीति ।
[319।04]
कश्चौद्धत्यकौकृत्यनिवरणस्यानाहारः ।
शमथ इति ।
कृत्यमप्यनयोरेकम् ।
[319।04-319।05]

उभे अपि ह्येते चित्तमव्युपशान्तं वर्तयतः ।
[319।05-319।06]
अत एकविपक्षाहारकृत्यत्वात् द्वयोरप्येकत्वमुक्तम् ।
[319।06]
यदि सर्वक्लेशा निवरणं कस्मात् पञ्चैवोक्तानि ।
[319।07]
पञ्चता स्कन्धविधातविचिकित्सनात्
[319।08]
कामच्छन्दव्यापादाभ्यां शीलस्कन्धविधातः ।
[319।08-319।10]
स्त्यानमिद्धेन प्रज्ञास्कन्धस्यौद्धत्यकौकृत्येन समाधिस्कन्धस्य समाधिप्रज्ञयोरभावे सत्येषु विचिकित्सको भवतीत्यतः पञ्चोक्तानि ।
[319।10-319।11]
एतस्यां तु कल्पनायां समाधिस्कन्धविरोधिन औद्धत्यकौकृत्यनिवरणस्य पूर्व ग्रहणं प्राप्नोति ।
[319।11]
अतो यथासंख्यमेताभ्यां समाधिप्रज्ञास्कन्धोपघात इत्यपरे ।
[319।12]
समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद्भयम् ।
धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्यादिति ।
[319।13]
अन्ये त्वन्यथा वर्णयन्ति ।
कथं वर्णयन्ति ।
[319।13-319।15]
चारगतस्य प्रियाप्रियरूपेषु विषयेषु निमित्तग्राहाद्विहारगतस्य तत्पूर्वकौ कामच्छन्दव्यापादौ समाधिप्रवेशस्यादितो ऽन्तरायं कुरुतः ।
[319।15-319।17]
ततः समाधिप्रविष्टस्याप्रयोगेण शमथविपश्यना सेवनात् स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च यथाक्रमं शमथविपश्यनयोरन्तरायं कुरुतः ।
[319।17]
व्युत्थितस्यापि धर्मनिध्यानकाले विचिकित्सान्तरायं करोति ।
[319।18]
अतः पञ्च निवरणान्युक्तानि ।
[319।19]
इदं विचार्यते ।
[319।19-319।20]
विसभागधातुसर्वत्रगाणां निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालम्बनानां यदालम्बनं परिज्ञायते तदा न प्रहीयन्ते ।
[319।20-319।21]
यदा प्रहीयन्ते तदालम्बनं न परिज्ञायते इति कथमेषां प्रहाणम् ।
[319।21-319।22]
नावश्यमालम्बनपरिज्ञानात् क्लेशानां क्षयो भवति ।
[319।22]
किम् तर्हि ।
चतुर्भिः प्रकारैः ।

कतमैश्चतुर्भिः ।
[319।22-319।23]
दर्शनहेयानां तावत्
[319।24]
आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात् ।
[319।25]
आलम्बनग्रहाणाच्च
[319।26-319।27]
तत्रालम्बनपरिज्ञानाद् दुःखसमुदयदर्शनहेयानां स्वभूम्यालम्बनानामनास्रवालम्बनानां च ।
[319।27]
तदालम्बनसंक्षयाद् विसभागधातुसर्वत्रगाणाम् ।
[319।27-320।01]
तदालम्बना हि सभागधातुसर्वत्रगाः ।
[320।01]
तेषु प्रहीणेषु ते ऽपि प्रहीणा भवन्ति ।
[320।01-320।02]
आलम्बनप्रहाणान्निरोधमार्गहेयानां सास्रवालम्बनानाम् ।
[320।02-320।03]
ते ह्यनास्रवालम्बनास्तेषामालम्बनम् ।
[320।03]
अतस्तेषु प्रहीणेषु ते ऽपिप्रहीणा भवन्ति ।
भावनाहेयानां पुनः
[320।04]
प्रतिपक्षोदयात् क्षयः
[320।05]
यस्य हि क्लेशप्रकारस्य प्रतिपक्षो मार्ग उत्पद्यते स प्रहीयते ।
[320।05-320।06]
कस्य पुनः कः प्रतिपक्षः ।
[320।06]
अधिमात्राधिमात्रस्य मृदुमृदुरिति विस्तारेण पश्चात् प्रवेदयिष्यामः ।
[320।07]
कतिविधश्च प्रतिपक्ष इत्याह
[320।08]
प्रहाणाधारभूतत्वदूषणारुयश्चतुर्विधः ।
[320।09]
प्रतिपक्षः
[320।10]
प्रहाणप्रतिपक्षः आनन्तर्यमार्गः ।
[320।10-320।11]
आधारप्रतिपक्षस्तस्मात्परेणार्यो मार्गो येन तत्प्रापितं प्रहाणमाधार्यते ।

[320।11-320।12]
दूरीभावप्रतिपक्षो विमुक्तिमार्गात्परेण यो मार्गश्छिन्नप्राप्तिदूरीकरणात् ।
[320।12]
विमुक्तिमार्गो ऽपीत्यपरे ।
सो ऽपि हि तां प्राप्ति दूरीकरोति ।
[320।13]
विदूषणाप्रतिपक्षो येन मार्गेण तं धातुम् दोषतो दर्शनाद्विदूषयति ।
[320।13-320।14]
अपि त्वेषामियमातुपूर्वीं साध्वी भवेत् ।
[320।14]
विदूषणाप्रतिपक्षो दुःखसमुदयालम्बनः प्रयोगमार्गः ।
[320।15]
प्रहाणप्रतिपक्षः सर्व आनन्तर्यमार्गः ।
आधारप्रतिपक्षो विमुक्तिमार्गः ।
[320।15-320।16]
दूरीभावप्रतिपक्षो विशेषमार्ग इति ।
[320।17]
प्रहीयमाणः क्लेशः कुतः प्रहातव्यः ।
[320।18]
प्रहातव्यः क्लेश आलम्बनात् मतः
[320।19]
न हि संप्रयोगात् क्लेशो विवेचयितुं शक्यते आलम्बनाच्च शक्यते ।
[320।19-320।20]
यस्मान्न पुनस्तदालम्ब्योत्पद्यते ।
[320।20-320।21]
अनागतस्तावच्छक्येतालम्बनाद्विवेचयितुम् ।
[320।21]
अतीतस्तु कथम् ।
अथालम्बन परिज्ञानात्प्रहातव्य इत्ययमस्यार्थः ।
[321।01]
एषो ऽपि नैकान्तः ।
तस्माद्वक्तव्यमेतत् ।
कियता क्लेशः प्रहीणो वक्तव्यः ।
[321।01-321।02]
स्वासंतानिकः प्राप्तिच्छेदात् ।
[321।02-321।03]
पारसांतानिकस्तु क्लेशः सर्वं च रूपमक्लिष्टश्च धर्मस्तदालम्बनस्वासांतानिकक्लेशप्रहाणात् ।
[321।04]
दूरीभाव इत्युच्यते ।
कतिविध्हो दूरीभावः ।

चतुर्विधा किल दूरता ।
[321।05-321।06]
वैलक्षण्याद्विपक्षत्वाद्देशविच्छेदकालतः ।
भूतशीलप्रदेशाध्वद्वयानामिव दूरता
[321।07]
विलक्षणदूरता यथा महाभूतानाम् ।
वैलक्षण्यात्सहजानामपि दूरता ।
[321।07-321।08]
विपक्षदूरता यथा शीलस्य दौःशील्यम् ।
[321।08-321।09]
देशविच्छेददूरता यथा विप्रकृष्टदेशानां देशविच्छेदात् पूर्वपश्चिमसमुद्रवत् ।
[321।09]
कालदूरता यथा अतीतानागतदूरमुच्यते ।
दुतस्तद्दूरम् ।
[321।10]
वर्तमानात् ।
यदनन्तरातमुत्पद्यमानं वा तत् कथं दूरम् ।
[321।10-321।11]
अध्वनानात्वेन तद्दूरं न चिरभूतभावित्वेन ।
[321।11]
वर्तमानमप्येवं दूरं प्राप्नोति ।
अकारित्रा त्तर्हि तद्दूरम् ।
[321।12]
असंस्कृतस्य कथमन्तिकत्वं सिध्यति ।
सर्वत्र तत्प्राप्तेः ।
[321।12-321।13]
अतीतानागते ऽपि तत्प्रसङ्गः ।
[321।13]
आकाशं च कथम् ।
[321।13-321।14]
एवं तर्ह्यतीतानागतमन्यो ऽन्यं वर्त्तमानव्यवहितत्वाद् दूरम् ।
[321।14]
वर्त्तमानमुभयो रासन्नत्वादन्तिकम् ।
[321।14-321।15]
असंस्कृतं चाप्यव्यवहितत्वादिति ।
[321।15]
एवमप्यतीतानागतं वर्त्तमानस्यान्तिकत्वादुभयं प्राप्नोति ।
[321।15-321।16]
एवं तु युक्तं स्यात् ।
[321।16]

धर्मस्वलक्षणादनागतं दूरमसंप्राप्तत्वात् ।
अतीतं च प्रच्युतत्वादिति ।
[321।17]
किम् मार्गविशेषगमनात् क्लेशानां पुनः प्रहाणविशेषो भवति ।
नैतदस्ति ।
[321।18]
सर्वेषां हि क्लेशानां
[321।19]
सकृत् क्षयः
[321।20]
यस्य यः प्रहाणमार्गस्तेनैव तस्य क्षयः ।
[321।21]
विसंयोगलाभस्तेषां पुनः पुनः ।
[322।01]
कतिषु कालेष्वित्याह षट्सु कालेषु ।
[322।02]
प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु
[322।03]
प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्नभिप्रेतः ।
फलानि चत्वारि श्रामण्यफलानि ।
[322।04]
इन्द्रियविवृद्धिरिन्द्रियसंचारः ।
एतेषु कालेषु क्लेशस्य विसंयोगलाभः ।
[322।04-322।05]
स पुनरेष यथायोगं द्रष्टव्यः ।
[322।05]
केषाञ्चित् षट्सु कालेषु केषाञ्चिद् यावद्द्वयोः ।
[322।06]
स एव विसंयोगस्तासु तास्ववस्थासु परिज्ञासंज्ञां लभते ।
[322।06-322।07]
द्वे हि परिज्ञे ज्ञानपरिज्ञा प्रहाणपरिज्ञा च ।
[322।07]
तत्र ज्ञानपरिज्ञा सास्रवं ज्ञानम् ।
[322।07-322।08]
प्रहाणपरिज्ञा तु प्रहाणमेव ।
[322।08]
फले हेतूपचारात् ।
किमेकैव परिज्ञा सर्वप्रहाणम् ।
नेत्याह ।
किं तर्हि ।

[322।09]
परिज्ञा नव
[322।10]
तत्र तावत्
[322।11]
कामाद्यप्रकारद्वयसंक्षयः ।
[322।12]
एका
[322।13-322।14]
कामधातावाद्यस्य प्रकारद्वयस्य दुःखसमुदयदर्शनहेयस्य प्रहाणमेका परिज्ञा ।
[322।15]
द्वयोः क्षये द्वे ते
[322।16]
कामधातावेव निरोधदर्शनहेयस्य प्रकारस्यप्रहाणमेका परिज्ञा ।
[322।16-322।17]
मार्गदर्शनहेयस्यैका ।
[322।17]
यथा कामावचराणां दर्शनप्रहातव्यानां प्रहाणं तिस्रः परिज्ञाः
[322।18]
तथोर्ध्वं निस्र एव ताः
[322।19]
रूपारूप्यावचराणां दर्शनप्रहातव्यानां प्रहाणं तथैव तिस्रः परिज्ञा भवन्ति ।
[322।19-322।21]
दुःखसमुदयदर्शनप्रहातव्यानां प्रहाणमेका निरोधदर्शनहेयानां प्रहाणं द्वितीया मार्गदर्शनहेयानां प्रहाणं तृतीयेति त्रैधातुकानां दर्शनहेयानां प्रहाणं षट् परिज्ञा भवन्ति ।
[323।01]
अन्या अवरभागीयरूपसर्वास्रवक्षयाः ।
[323।02]
तिस्रः परिज्ञाः
[323।03]
अवरभागीयप्रहाणमेका परिज्ञा ।
रूपास्रवप्रहाणमेका रूपरागक्षयपरिज्ञा ।
[323।04]
आरूप्याप्तानां सर्वास्रवप्रहाणमेका सर्वसंयोजनपर्यादान परिज्ञा ।
[323।04-323।05]
कस्माद्रूपारूप्यावचराणां भावनाहेयानां प्रहाणं पृथक् परिज्ञा न दर्शनहेयानाम् ।
[323।05-323।06]
भावनाहेयानामतुल्यप्रतिपक्षत्वात् ।
[323।06]
इत्येता नव परिज्ञाः ।
आसां पूर्विकाः

[323।07]
षट् क्षान्तिफलं
[323।08]
या एव दर्शनहेयप्रहाणस्वभावाः ।
[323।09]
ज्ञानस्य शेषिताः
[323।10]
अवरभागीयप्रहाणादिपरिज्ञा भावनामार्गफलत्वात् ।
[323।11]
कथं क्षान्तिफलं परिज्ञा भवन्ति ।
क्षान्तीनां ज्ञानपरिवारत्वात् ।
[323।11-323।12]
राजपरिवारे राजोपचारवत् ।
[323।12]
ज्ञानैकफलत्वाच्च ।
[323।13]
अनागम्यफलं सर्वा ध्यानानां पञ्च वाथवा ।
[323।14]
अष्टौ
[323।15-323।16]
वैभाषिकमतेन मौलध्यानफलं पञ्च परिज्ञा या रूपारूप्यावचरक्लेशप्रहाण स्वभावाः ।
[323।16]
कामावचरक्लेशप्रहाणस्यानागम्यफलत्वात् भदन्तघोषकस्य मतेनाष्टौ ।
[323।17]
स हि वीतरागस्यापि कामावचराणां दर्शनहेयानां प्रहाणं दर्शनमार्गफलमिच्छन्ति ।
[323।18]
अनास्रवविसंयोगप्राप्तिलाभात् ।
अवरभागीयप्रहाणपरिज्ञा त्वनागम्यफलमेव ।
[323।19]
ध्यानान्तरं ध्यानवद्द्रष्टव्यम् ।
आरुप्याणां तु
[323।20]
सामन्तकस्यैका
[323।21]
आकाशानन्त्यायतनसामन्तकस्यैका रूपरागक्षयपरिज्ञा फलम् ।
[324।01]
मौलारूप्यत्रयस्य च
[324।02]
मौलानां च त्रयाणामारूप्याणामेकैव सर्वसंयोजनपर्यादानपरिज्ञा फलम् ।
[324।03]

आर्यमार्गस्य सर्वाः
[324।04]
नव परिज्ञाः फलम् ।
[324।05]
द्वे लौकिकस्य
[324।06]
लौकिस्य मार्गस्य द्वे अवरभागीयरूपरागक्षयपरिज्ञे फलम् ।
[324।07]
अन्वयस्य च ।
[324।08]
अन्वयज्ञानस्यापि द्वेपरिज्ञे फलं पश्चिमे ।
[324।09]
धर्मज्ञानस्य तिस्रस्तु
[324।10]
पश्चिमा एव त्रिधातुकभावनाहेय प्रतिपक्षत्वात् ।
[324।11]
षट् तत्पक्षस्य पञ्च च
[324।12]
धर्मज्ञानपक्षस्य षट् परिज्ञाः फलं या एव धर्मज्ञान क्षन्तिज्ञानानाम् ।
[324।12-324।13]
अन्वयज्ञानपक्षस्य पञ्च या एवान्वयक्षान्तिज्ञानानाम् ।
[324।13]
पक्षग्रहणेन हि क्षान्तिज्ञानानि गृह्यन्ते ।
[324।14]
कस्मान्नैकैकं प्रहाणं परिज्ञा व्यवस्थाप्यते ।
[324।14-324।15]
यस्मात् क्षान्तिफलं तावत् प्रहाणं व्यवस्थाप्यते ।
[324।16]
अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः ।
[324।17]
हेतुद्वयसमुद्घातात् परिज्ञा
[324।18]
यत्रैतानि त्रीणि कारणानि भवन्ति तत् प्रहाणं परिज्ञोच्यते ।
[324।18-325।01]
पृथग्जनस्य तावदनास्रवा विसंयोगप्राप्तिर्नास्ति भवाग्रविकलीकरणं चेति नास्य प्रहाणं परिज्ञाख्यां लभते ।
[325।01]
आर्यस्यापि यत् क्षान्तिफलं तावत् प्रहाणम् ।
[325।01-325।02]
तत्र यावत् दुःखे ऽन्वयज्ञानक्षान्तावनास्रवा विसंयोगप्राप्तिरस्ति न तु भवाग्रविकलीकृटम् ।
[325।02-325।03]

दुःखे ऽन्वयज्ञाने उभयमस्ति न तु हेतुद्वयसमुद्घातः ।
[325।03-325।04]
समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोरप्रहीणत्वात् ।
[325।04]
अन्येषु धर्मान्वयज्ञानेषु सर्वं त्रयमस्ति ।
[325।04-325।05]
अतस्तास्ववस्थासु प्रहाणं परिज्ञाख्यां लभते ।
[325।05]
ज्ञानफलं तु प्रहाणम् ।
अतश्च कारणत्रयात् परिज्ञाख्यां लभते ।
[325।06]
चतुर्थाच्च
[325।07]
धात्वतिक्रमात्
[325।08]
यदा धातुं समतिक्रामति ।
[325।08-325।09]
कृत्स्नधातुवेराग्यात् उभयसंयोगवियोगं पञ्चमं कारणमाहुरपरे ।
[325।09-325।10]
यः प्रकारः प्रहीणो यदि तत्रान्येन तदालम्बनेन क्लेशेन विसंयुक्तो भवतीति ।
[325।10-325।11]
स तु नास्य उभयहेतुसमुद्घातात् धातुसमतिक्रमाच्चेति न ब्रूमः ।
[325।12]
कः कतिभिः परिज्ञाभिः समन्वागतः ।
[325।13]
नैकया पञ्चभिर्यावद्दर्शनस्थः समन्वितः ।
[325।14]
पृथग्जनस्तावन्नैव समन्वागतः ।
[325।14-325।15]
आर्यो ऽपि दर्शनमार्गस्थो यावत्समुदयधर्मज्ञानक्षान्तिं नैव समन्वागतः ।
[325।15]
समुदये धर्मज्ञान एकया समन्वागतः ।
[325।15-325।16]
समुदये ऽन्वयज्ञाने द्वाभ्याम् ।
[325।16-325।17]
निरोधे धर्मज्ञाने तिसृभ्हिर्निरोधान्वयज्ञाने चतसृभिर्मार्गधर्मज्ञाने पञ्चभिः ।
[325।18]
भवनास्थः पुनः षङ्भिरेकया वा द्वयेन वा
[325।19-325।20]
भावनामार्गस्थः पुनरार्यपुद्गलो मार्गान्वयज्ञाने षडिभिः परिज्ञाभिः समन्वागतो यावत् कामवैराग्यं न प्राप्तः ।

[325।20-325।21]
परिहीणो वा ततः कामवैराग्यं प्राप्तः पूर्वं पश्चाद् वा एकया ऽवरभागीयप्रहाणपरिज्ञया ।
[325।21-325।22]
अर्हत्त्वं प्राप्त एकयैव सर्वसंयोजनपर्यादानपरिज्ञया ।
[325।22-325।23]
परिहीणो ऽपि रूपावचरेण पर्यवस्थानेनैकया ऽवरभागीयप्रहाणपरिज्ञया ।
[325।23-325।24]
रूपवैराग्यं प्राप्तो द्वभ्यामवरभागीयप्रहाणरूपरागक्षयपरिज्ञाभ्याम् ।
[325।24]
प्रहीणो ऽप्यारूप्यावचरेण पर्यवस्थानेनाभ्यामेव ।
[325।24-325।25]
किं पुनः कारणमनागाम्यर्हतोरेकैव परिज्ञा व्यवस्थाप्यते न भूयस्यः ।
[325।25-325।01]
यस्मात्
[326।01]
तासां संकलनं धातुवैराग्यफललाभतः ।
[326।02-326।03]
द्वाभ्यां कारणाभ्यां परिज्ञानां संकलनं भवत्येकत्वेन व्यवस्थापनं धातुवैराग्यात् फलप्राप्तितश्च ।
[326।03]
तयोश्चावस्थयोरेतदुभयं भवति ।
[326।03-326।04]
अतः सर्वं प्रहाणं संकलय्यैका परिज्ञोच्यते ।
[326।05]
अथ कः कति परिज्ञास्त्यजति लभते वा ।
[326।06]
एकां द्वे पञ्च षट् कश्चिज्जहात्याप्नोति पञ्च न
[326।07]
एकां त्यजति अर्हत्त्वात् कामवैराग्याद् वा परिहीयमाणः ।
[326।07-326।08]
द्वे परिज्ञे त्यजत्यनागामी रूपवीतरागः कामवैराग्यात् परिहीयमाणः ।
[326।08-326।09]
पञ्च त्यजति वीतरागपूर्वी मार्गान्वयज्ञाने ।
[326।09-326।10]
स ह्यवरभागीयप्रहाणपरिज्ञालाभे पूर्विकाः पञ्च परिज्ञास्त्यजति ।
[326।10]
षट् परिज्ञास्त्यजत्यानुपोऊर्विकः कामवैराग्यात् ।
लाभे ऽप्येवमेव ।
[326।10-326।11]
कश्चिदेकां परिज्ञां लभते ।
[326।11]

यः कश्चिदपूर्वा लभते ।
[326।11-326।12]
कश्चिद् द्वे यः केवलादारूप्यधातुवैराग्यात् परिहीयते ।
[326।12]
कश्चित् षट् यो ऽनागामिफलात् परिहीयते ।
[326।12-326।13]
पञ्च तु नै कश्चिल्लभते ।
[326।14]
समाप्तः परिज्ञाप्रसङ्गः ॥
=====================================================================
[326।15-326।16]
अभिधर्मकोशभाष्ये ऽनुशयनिर्द्देशो नाम
पञ्चमं कोशस्थानं समाप्त्मिति ॥
[326।17]
श्रीलामावाकस्य यदत्र पुण्यम् ।
षष्ठं कोशस्थानम्
=====================================================================
नमो बुद्धाय
=====================================================================
[327।03]
उक्तं यथा प्रहाणं परिज्ञाख्यां लभते ।
तदपि च
[327।04]
क्लेशप्रहाणमाख्यातं सत्यदर्शनभावनात् ।
[327।05]
दर्शनहेया भावनाहेयाश्च क्लेशा इति विस्तरेणाख्यातम् ।
[327।05-327।06]
ताविदानीं दर्शनभावनामार्गौ किमनास्रवौ सास्रवाविति वक्तव्यम् ।
[327।06]
अत इदमुच्यते
[327।07]
द्विविधो भावनामार्गो दर्शनख्यस्त्वनास्रवः
[327।08]
द्विधो भवनामार्गो लौकिकोक् लोकोत्तरश्च ।
[327।08-327।09]
दर्शनमार्गस्तु लोकोत्तर एव त्रैधातुकप्रतिपक्षत्वात् ।
[327।09]
नवप्रकाराणां दर्शन हेयानां सकृत्प्रहाणाच्च ।
[327।09-327।10]
न हि लौकिकस्य एषा शक्तिरस्ति ।

[327।11]
सत्यदर्शनादित्युक्तम् ।
कानीमानि सत्यानि कति च ।
[327।12]
सत्यान्युक्तानि चत्वारि
[327।13]
ववोक्तानि ।
सास्रवानास्रवधर्मनिर्देशे ।
[327।13-327।15]
"अनास्रवा मार्गसत्यमि"ति स्वशब्देन "प्रतिसंख्यानिरोधो यो विसंयोग" इति निरोधसत्यं "दुःखं समुदयो लोक" इत्यत्र दुःखसमुदयसत्ये ।
[327।15]
किमेष एवैषामनुक्रमः ।
नेत्याह ।
किं तर्हि ।
[327।16]
दुःखं समुदयस्तथा ।
[327।17]
निरोधमार्ग इति
[327।18]
एष एषामनुक्रमः ।
स्वभावस्तु यथा पूर्वमुक्तस्तयैवेतिप्रदर्शनार्थस्तथाशब्दः ।
[327।18-327।19]
स पुनरयम्
[327।20]
एषां यथा ऽभिसमयं क्रमः
[328।01]
यस्य हि सत्यस्याभिसमयः पूर्वस्य पूर्वनिर्देशः ।
[328।01-328।02]
इतरथा हि पूर्वं हेतुनिर्देशो ऽभविष्यत् पश्चात् फलनिर्देशः ।
[328।02]
केषाञ्चिदुत्पत्त्यनुकूला देशनाः ।
[328।03]
यथा स्मृत्युपस्थानध्यानादीनाम् ।
[328।03-328।04]
देषाञ्चित्प्ररूपणानुकूला देशना यथा सम्यक् प्रहाणानाम् ।
[328।04]
न ह्येष नियमो यत् पूर्वमुत्पन्नानां प्रहाणाय च्छन्दं जनयति ।
[328।04-328।05]
पश्चादनुत्पन्नानामनुत्पादायेति ।
[328।05]

सत्यानां त्वभिसमयानुकूला देशना ।
[328।05-328।06]
किं पुनः कारणमेवमेषां सत्यानामभिसमयः ।
[328।06-328।07]
यत्र हि सत्तो येन च वाध्यते यतश्च मोक्षं प्रर्थयते तदेवादौ व्यवचारणावस्थायां दुःखसत्यं परीक्ष्यते ।
[328।07-328।08]
पश्चात्को ऽस्य हेतुरिति समुदयसत्यं को ऽस्य निरोध इति निरोधसत्यं को ऽस्य मार्ग इति मार्गसत्यम् ।
[328।08-328।09]
व्याधिं दृष्ट्वा तन्निदानक्षयमेषजान्वेषाणवत् ।
[328।09]
सूत्रे ऽप्येष एव सत्यानां दृष्टान्तो दर्शितः ।
[328।10]
कतमस्मिन् सूत्रे ।
"चतुर्भिरङ्गैः समन्वागतो भिषक्तल्पसर्त्ते"त्यत्र ।
[328।10-328।11]
यथा च व्यवचारणावस्थायां सत्यपरीक्षा तथाभिसमयावस्थायां सत्याभिसमयः ।
[328।11-328।12]
पूर्ववेधात् ।
[328।12]
दृष्टभूमिनिःसंगाश्वधावनवत् ।
अभिसमय इति को ऽर्थः ।
[328।12-328।13]
अभिसंबोध इणो बोधनार्थत्वात् ।
[328।13]
करमादनास्रव एव न सास्रवः ।
स हि निर्वाणाभिमुखः सम्यक्बोधः ।
[328।14]
सम्यगिति तत्त्वेन ।
तत्र फलभूता उपादानस्कन्धा दुःखसत्यम् ।
[328।15]
हेतुभूताः समुदयसत्यम् ।
समुदेत्यस्मादिति कृत्वा ।
[328।15-328।16]
अत एव तयोः फलहेतुभावान्नामतो भेदो न द्रव्यतः ।
[328।16]
निरोधमार्गयोस्तु द्रव्यतो ऽपि ।
[328।16-328।17]
आर्यसत्यानीति सूत्र उच्यन्ते ।
[328।17]
को ऽस्यार्थः ।

[328।17-328।18]
आर्याणामेतानिसत्यानि तस्मादार्यसत्यानीति सूत्र एवोक्तम् ।
[328।18]
किमन्येषामेतानि मृषा ।
सर्वेषामेतानि सत्यान्यविपरीतत्वात् ।
[328।18-328।19]
आर्यैस्तु यथैतानि तथा दृष्टानि नान्यैः ।
[328।19-328।20]
अत आर्याणामेतानि सत्यान्युच्यन्ते न त्वनार्याणां वीपरीतदर्शनात् ।
[328।21-328।22]
"यदार्याः सुखतः प्राहुस्तत् परे दुःखतो बिदुः ।
यत्परे सुखत्ः प्राहुस्तदार्या दुःखतो बिदुः ॥"
[328।23]
इति गाथा ।
द्वे आर्याणां सत्ये द्वे आर्ये चार्याणां च सत्ये इत्यपरे ।
[328।23-328।24]
यथा वेदनैकदेशो दुःखस्वभावः ।
[328।24]
कथं सर्वे सास्रवाः संस्कारा दुःखमित्युच्यन्ते ।
[328।25-328।26]
दुःखास्त्रिदुःखतायोगाद्यथायोगमशेषतः ।
मनाषा अमनापाश्च तदन्ये चैव सास्रवाः
[329।01]
तिस्रो हि दुःखता दुःखदुःखता संस्कारदुःखता विपरिणामदुःखता च ।
[329।01-329।02]
ताभिर्यथायोगमशेषतः सर्व सास्रवाः संस्कारा दुःखाः ।
[329।02]
तत्र मनाषा विपरिणामदुःखतया ।
[329।03]
अमनाषा दुःखदुःखतया ।
तेभ्यो ऽन्ये संस्कारदुःखतया ।
[329।03-329।04]
के पुनर्मनापाः के ऽमनाषाः के क्नोभयथा ।
[329।04-329।05]
तिस्रो वेदना यथाक्रमं तद्वशेन सुखवेदनीयादयो ऽपि संस्कारा मनापादिसंज्ञां लभन्ते ।
[329।05-329।06]
सुखाया हि वेदनाया विपरिणामेन दुःखता ।
[329।06-329।07]
सूत्र उक्तं "सुखा वेदना उत्पादमुखा स्थितिसुखा विपरिणामदुःख्"ति ।
[329।07]

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc