भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 481500

[299।17-299।18]
अध्वनो भावादनर्थान्तरत्वात् ।
[299।18]
अथ स्वात्मन्यभूत्वा भवति ।
सिद्धमिदमनागतं चक्षुर्नास्तीति ।
[299।18-299।19]
यदप्युक्तं "द्वयं प्रतीत्य विज्ञानस्योत्पादादिति इदं तावदिह संप्रधार्यम् ।
[299।20-299।21]
यन्मनः प्रतीत्य धर्मश्चोत्पद्यते मनोविज्ञानं किं तस्य यथा मनोजनकः प्रत्यय एवं धर्मा आहोस्विदालम्बनमात्रं धर्मा इति ।
[299।21-299।22]
यदि तावत् जनकः प्रत्ययो धर्माः कथं यदनागतं कल्पसहस्रेण भविष्यति वा न वा तदिदानीं विज्ञानं जनयिष्यति ।
[299।23]
निर्वाणं च सर्वप्रवृत्तिनिरोधाज्जनकं नोपपद्यते ।
अथालम्बनमात्रं धर्मा भवन्ति ।
[299।24]
अतीतानागतमप्यालम्बनं भवतीति ब्रूमः ।
यदि नास्ति कथमालम्बनम् ।
[299।24-299।25]
अत्रेदानीं ब्रूमः ।
[299।25]
यदा तदालम्बनं तथास्ति कथं तदालम्बनम् अभूत् भविष्यति चेति ।
[299।25-299।26]
न हि कश्चिदतीतं रूपं वेदनां वा स्मरन्नस्तीति पश्यति ।
[299।26]
किं तर्हि ।
अभूदिति ।
[299।26-299।27]
यथा खल्वपि वर्त्तमानं रूपमनुभूतं तथा तदतीतं स्मर्यते ।
[299।27-299।28]
यथा चानागतं वर्त्तमानं भविष्यति तथा बुद्ध्या गृह्यते ।
[299।28]
यदि च तत्तथैवास्ति वर्तमानं प्राप्नोति ।
[299।28-299।29]
अथ नास्ति ।
[299।29]
असदप्यालम्बनं भवतीति सिद्धम् ।
तदेव तद्विकीर्णमिति चेत् ।
न ।
[300।01]
विकीर्णस्याग्रहणात् ।

यदि च तत्तदेव रूपं केवलं परमाणुशो विभक्तम् ।
[300।01-300।02]
एवं सति परमाणवो नित्याः प्राप्नुवन्ति ।
[300।02-300।03]
परमाणुसंचर्यावभागमात्रं चैवं सति प्राप्नोति ।
[300।03-300।04]
न तु किञ्चिदुत्पद्यते नापि निरुध्यत इत्याजीविकवाद आलम्बितो भवति ।
[300।04-300।05]
सूत्रं चापविद्धं भवति "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छती"ति विस्तरः ।
[300।05]
अपरमाणुसंचितानां वेदनादीनां कथं विकीर्णत्वम् ।
[300।05-300।06]
ते ऽपि च यथोत्पन्नानुभूताः स्मर्यन्ते ।
[300।06]
यदि च ते तथैव सन्ति नित्याः प्राप्नुवन्ति ।
[300।06-300।07]
अथ न सन्ति ।
[300।07]
असदप्यालम्बनमिति सिद्धम् ।
[300।07-300।08]
यद्यसदप्यालम्बनं स्यात् त्रयोदशमप्यायतनं स्यात् ।
[300।08]
अथ त्रयोदशमायतनं नास्तीत्यस्य विज्ञानस्य किमालम्बनम् ।
[300।09]
एतदेव नामलम्बनम् ।
एवं तर्हि नाम एव नास्तीति प्रतीयेत ।
[300।09-300।10]
यश्च शब्दस्य प्रागभावमालम्बते किं तस्यालम्बनम् ।
[300।10]
शब्द एव ।
[300।10-300।11]
एवं तर्हि यः शब्दाभावं प्रार्थयते तस्य शब्द एव कर्तव्यः स्यात् ।
[300।11]
अनागतावस्य इति चेत् ।
[300।11-300।12]
सति कथं नास्तिबुद्धिः ।
[300।12]
वर्तमानो नास्तीति चेत् ।
न ।
एकत्वात् ।

[300।12-300।13]
यावता तस्य विशेषस्तस्याभूत्वाभावसिद्धिः ।
[300।13]
तस्मादुभयं विज्ञानस्यालम्बनम् भावश्चाभावश्च ।
[300।14-300।15]
यत्तर्हि बोधिसत्त्वेनोक्तम् "यत्तत् लोके नास्तितदहं ज्ञास्यामि वा द्रक्ष्यामि वा नेदं स्थानं विद्यत" इति ।
[300।15-300।16]
अपरे आभिमानिका भवन्त्यसन्तमप्यवभासं सन्तं पश्यन्ति ।
[300।16]
अहं तु सन्तमेवार्स्तीति पश्यामीत्ययं तत्राभिप्रायः ।
[300।16-300।18]
इतरथा हि सर्वबुद्धीनां सदालम्बनत्वे कुतो ऽस्य विमर्शः स्यात् को वा विशेषः ।
[300।18]
इत्थं चैतदेवम् ।
[300।18-300।19]
यदन्यत्र भगवतोक्तम् "एतत् भिक्षुर्मम श्रावको यावत्स मया कल्पमवोदितः सायं विशेषाय परैष्यति ।
[300।19-300।20]
सायमवोदितः कल्पं विशेषाय परैष्यति ।
[300।20-300।21]
सच्च सतो ज्ञास्यति असच्चासतः सोत्तरञ्च सोत्तरतः अनुत्तरं चानुरत्तरत" इति ।
[300।21]
तस्मादयमप्यहेतुः ।
सदालम्बनत्वाद्विज्ञानस्येति ।
[300।21-300।22]
यदष्युक्तं फलादिति ।
[300।22]
नैव हि सौत्रान्तिका अतीतात् कर्मणः फलोत्पत्ति वर्णयन्ति ।
[300।23]
किं तर्हि ।
तत्पूर्वकात्संतानविशेषादित्यात्मवादप्रतिषेधे संप्रवेदयिष्यामः ।
[300।24-300।25]
यस्य त्वतीतानागतं द्रव्यतो ऽस्ति तस्य फलं नित्यमेवास्तीति किं तत्र कर्मणः सामर्थ्यम् ।
[300।25]
उत्पादने सामर्थ्यम् ।
उत्पादस्तर्ह्यभूत्वा भवतीति सिद्धम् ।
[301।01]
अथ सर्वमेव चास्ति ।
कस्येदानीं क्व सामर्थ्यम् ।
[301।01-301।02]
वार्षगण्यवादश्चैवं द्योतितो भवति ।

[301।02]
"यदस्त्यस्त्येव तत् ।
यन्नास्ति नास्त्येव तत् ।
असतो नास्ति संभवः ।
[301।03]
सतो नास्ति विनाश" इति ।
वर्तमानीकरणे तर्हि सामर्थ्यम् ।
[301।03-301।04]
किमिदं वर्त्तमानीकरणं नाम ।
[301।04]
देशान्तराकर्षणम् चेत् ।
नित्यं प्रसक्तम् ।
अरूपिणां च कथं तत् ।
[301।04-301।05]
यच्च तदाकर्षणं तदभूत्वा भूतम् ।
[301।05-301।06]
स्वभावविशेषणं चेत् सिद्धमभूत्वा भवनम् ।
[301।06]
तस्मान्नैवं सर्वास्तिवादः शासने साधुर्भवति ।
[301।06-301।07]
यदतीतानागतं द्रव्यतो ऽस्तीति वदति ।
[301।07]
एवं तु साधुर्भवति ।
यथा सूत्रे सर्वमस्तीत्युक्तं तथा वदति ।
[301।08]
कथं च सूत्रे सर्वमस्तीत्युक्तम् ।
"सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानी"ति ।
[301।09]
अध्वत्रयं वा ।
[301।09-301।10]
यथा तु तदस्ति तथोक्तं अथासत्यतीतातानागते कथं तेन तस्मिन्वा संयुक्तो भवति ।
[301।10-301।11]
तज्जतद्धेत्वनुशयभावात् क्लेशेन तदालम्बने क्लेशानुशयभावाद्वस्तुनि संयुक्तो भवति ।
[301।11]
अस्त्येव त्वतीतानागतमिति वैभाषिकाः ।
[301।11-301।12]
यत्र नेतुम् शक्यते तत्रात्मकात्मनैवं वेदितव्यम् ।
[301।13]
गम्भीरा खलुधर्मता
[301।14]

नावश्यं तर्ह्यसाध्या भवतीति ।
अस्ति पर्यायो यदुत्पद्यते तन्निरुध्यते ।
[301।15]
रूपमुत्पद्यते रूपं निरुध्यते ।
अस्ति पर्यायो ऽन्यदुत्पद्यते ऽन्यन्निरुध्यते ।
[301।15-301।16]
अनागतमुत्पद्यते वर्त्तमानं निरुध्यते ।
[301।16]
अध्वा ऽप्युत्पद्यते ।
उत्पद्यमानस्याध्वसंगृहीतत्वात् ।
[301।17]
अध्वनो ऽप्युत्पद्यते ।
अनेकक्षणिकत्वादनागतस्याध्वनः ।
[301।17-301।18]
गतमेतत् यत्प्रसङ्गेनागतम् ।
[301।19]
इदानीमिदं विचार्यते ।
यद्वस्तु प्रहीणं विसंयुक्तः स तस्मिन्वस्तुनि ।
[301।19-301।20]
यत्र वा विसं युक्तः प्रहीणं तस्य तद्वस्त्विति ।
[301।20-301।21]
यत्र तावद्विसंयुक्तः प्रहीणं तस्य तद्वस्तु ।
[301।21]
स्यातु प्रहीणं न च तत्र विसंयुक्तस्तद्यथा
[301।22-301।23]
प्रहीणे दुःखदृग्घेये संयुक्तः शेषसर्वगैः ।
प्राक् प्रहीणे प्रकारे च शेषैस्तद्विषयैर्मलैः
[301।24-302।01]
दुःखज्ञाने समुत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखदर्शनप्रहातव्यो निकायः प्रहीणो भवति ।
[302।01]
तस्मिन् प्रहीणे तदालम्बनैः समुदयदर्शनप्रहातव्यैः सर्वत्रगैः संयुक्तः ।
[302।02-302।03]
भावनाप्रहातव्ये ऽपि निकाये नवानां प्रकाराणां यः प्रकारः प्राक् प्रहीणस्तस्मिन् प्रहीणे ऽपि शेषैस्तदालम्बनैः क्लेशैः संयुक्तो वेदितव्यः ।
[302।04-302।05]
कस्मिन्वस्तुनि कत्यनुशया अनुशेरत इति एतत्प्रतिपदमभिधीयमानं बहुतरं वक्तव्यं जायते ।
[302।05]
तस्मात् पिण्डविभाषां कुर्वन्ति ।
[302।05-302।06]
कथमल्पेनाल्पेन यत्नेन महतो महतः प्रश्नौघान् प्रतिपाद्येमहीति ।
[302।06-302।07]

समासत इमे षोडश धर्माः कामरूपारुप्यावचराः पञ्चप्रकाराः अनास्रवाश्च ।
[302।07]
चित्तान्यपि षोडश एतान्येव ।
[302।07-302।09]
तत्र कतमो धर्मः कस्य चित्तस्यालम्बनमिति ज्ञात्वा अमुष्मिन्नियन्तो ऽनुशया अनुशेरत इत्येतदभ्यूहितव्यम् ।
[302।09]
तत्र तावत्
[302।10-302।11]
दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजाः ।
स्वकत्रयैकरूपाप्तामलविज्ञानगोचराः
[302।12]
स्वकं च तत्त्रयं च स्वकत्रयम् ।
[302।12-302।13]
एकं च तद्रूप्राप्तं च एकरूपाप्तम् ।
[302।13]
एषा विग्रहजातिः ।
[302।13-302।14]
कामावचरास्तावद् दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः पञ्चानां चित्तानामालम्बनम् ।
[302।14-302।15]
स्वधातुकानां त्रयाणां तेषामेव ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव अनास्रवस्य चेति ।
[302।16]
स्वदाधरत्रयोर्ध्वैकामलानां रूपधातुजाः ।
[302।17]
रूपावचरास्त एव त्रिप्रकारा धर्मा अष्टानां चित्तानामालम्बनम् ।
[302।17-302।18]
स्वधातुकानां त्रयाणां तेषामेव ।
[302।18]
अधरधातुकानां त्रयाणां तेषामेव ।
[302।18-302।19]
ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव ।
[302।19]
अनास्रवस्य चेति ।
[302।20]
आरुप्यजास्त्रिधात्वाप्तत्रयानास्रवगोचराः
[302।21]
आरूप्यावचरास्त एव त्रिप्रकारा धर्मा दशानां चित्तानामालम्बनम् ।
[302।21-302।22]
त्रैधातुकानां त्रिप्रकाराणां तेषामेव ।
[302।22]
अनास्रवस्य चेति ।

[302।22-302।23]
उक्तास्त्रैधातुका दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः ।
[302।24]
निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः ।
[303।01]
निरोधमार्गदर्शनहेयानां स्वं चित्तं निरोधमार्गदर्शनहेयमेव ।
[303।01-303।02]
तस्याधिकस्य ते धर्मा आलम्बनं ज्ञेयाः ।
[303।02]
कथं कृत्वा ।
[303।02-303।03]
कामावचरा हि निरोधदर्शनहेया धर्माः षण्णां विज्ञानानामालम्बनम् ।
[303।03-303।04]
पूर्वोक्तानां पञ्चानां तस्यैव च निरोधदर्शनप्रहातव्यस्याधिकस्य ।
[303।04]
मार्गदर्शनहेया अप्येवम् ।
[303।04-303।05]
पञ्चानां पूर्वोक्तानां तस्यैव च मार्गदर्शनप्रहातव्यस्याधिकस्य ।
[303।05]
एवं रूपारूप्यावचराणि ।
[303।05-303।07]
निरोधमार्गदर्शनप्रहातव्यास्तस्यैव निरोधमार्गदर्शनप्रहातव्यस्याधिकस्य चित्तस्यालम्बनमिति नवानामेकादशानां च चित्तानामालम्बनं भवन्ति ।
[303।07-303।08]
उक्तास्त्रैधातुकाः पञ्चप्रकाराः धर्माः ।
[303।09]
अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः
[303।10]
अनास्रवा धर्मा दशानां चित्तानामालम्बनम् ।
[303।10-303।11]
त्रैधातुकानामन्त्यानां त्रिप्रकाराणां निरोधमार्गदर्शनभावनाहेयानामनास्रवस्येति ।
[303।11-303।12]
पुनरस्यैवार्थस्याध्यर्धेन श्लोकेन संग्रहो भवति ।
[303।13-303।15]
"दुःखहेतुदृगभ्यासहेया धातुत्रये ऽमलाः
पञ्चाष्टदशविज्ञानदशविज्ञानगोचराः
निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः" । इति ।
[303।16-303।17]
एवमेषां षोडशानां चित्तानां षोडशधर्मालम्बनव्यवस्थां विदित्वा कथमनुशयकार्यां योजयितव्यम् ।
[303।17]
दिङमात्रं दर्शयिष्यामः ।

[303।18-303।19]
सुखेन्द्रियालम्बने विज्ञाने कत्यनुशयाः अनुशेरत इति प्रश्न आगते विचारयितव्यम् ।
[303।19-303।20]
सुखेन्द्रियं सप्तविधं कामावचरं भावनाप्रहातव्यं रूपावचरं च पञ्चप्रकारमनास्रवं चेति ।
[303।20-303।21]
तदेतत्समासतो द्वादशधर्मस्य विज्ञानस्यालम्बनं भवति ।
[303।21]
कामावचरस्य चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात् ।
[303।22-303।23]
रूपावचरस्य पञ्चप्रकारस्यारूप्यावचरस्य द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य च ।
[303।23]
इदं द्वादशविधं सुखेन्द्रियालम्बनं विज्ञानम् ।
[303।23-303।25]
तत्र यथासंभवं कामावचराश्चत्वारो निकाया रूपावचराश्च संस्कृतालम्बना आरूप्यावचरौ च द्वौ निकायौ सर्वत्रगाश्चानुशया अनुशेरत इति ज्ञातव्यम् ।
[303।25-303।26]
सुखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते ।
[303।26-304।01]
तत् पुनः सुखेन्द्रियालम्बनालम्बनं द्वादशविधं विज्ञानं कतमस्य विज्ञानस्यालम्बनम् ।
[304।01-304।02]
तस्यैव द्वादशविधास्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य ।
[304।02-304।05]
इदं चतुर्दशविधं सुखेन्द्रियालम्बनालम्बनं विज्ञानं तत्रारूप्यावचरौ द्वौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्चत्वारो निकाया रूपावचराः संस्कृतालम्बना अनुशया अनुशेरत इति ज्ञातव्यम् ।
[304।05]
अनया वर्तन्या ऽन्यदप्यनुगन्तव्यम् ।
[304।05-304।06]
यैरनुशयैर्यच्चित्तं सानुशयं ते ऽनुशयास्तस्मिश्चित्ते ऽनुशेरते ।
[304।06]
स्युरनुशेरते ।
[304।06-304।07]
ये ऽनुशयास्तेन चित्तेन संप्रयुक्ता अप्रहीणास्तदालम्बनाश्चाप्रहीणां ।
[304।07]
स्युर्नानुशेरते ।
[304।07-304।08]
ये ऽनुशयास्तेन चित्तेन संप्रयुक्ताः प्रहीणास्तदालम्बनाश्च ।
[304।08]
तदेवं कृत्वा भवति ।
[304।09]
द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः ।
[304।10-304।11]
क्लिष्टं चित्तमनुशयानैश्चानुशयैः सानुशयं तत्संप्रयुक्ततदालम्बनैरप्रहीणैरननुशयानैश्च तत्संप्रयुक्तैः प्रहीणैस्तत्सहितत्वात् ।

[304।11-304।12]
अक्लिष्टं तु चित्तमनुशयानैरेव तदालम्बनैरप्रहीणैरिति ।
[304।13]
अथैषां दशानामनुशयानां कथं प्रवृत्तिरिति ।
[304।13-304।14]
आदित एव तावदविद्याय्योगात्सत्येषु स मुह्यति ।
[304।14]
दुःखमस्मै न रोचते यावत् मार्गस्ततः
[304।15]
मोहाकाङ्क्षा
[304।16]
मूढस्य पक्षद्वयं श्रुत्वा विचिकित्सोत्पद्यते ।
दुःखं न्विदं नत्विदं दुःखमित्येवमादि ।
[304।17]
ततो मिथ्यादृष्टिः
[304।18]
विचिकित्साया मिथ्यादृष्टिः प्रवर्तते ।
[304।18-304।19]
संशयितस्य मिथ्याश्रमणचित्तानां मिथ्यानिश्चयोत्पत्तेः ।
[304।19]
नास्ति दुःखमित्येव्मादि ।
[304।20]
सत्कायदृक्ततः
[304।21]
मिथ्यादृष्टेः किल सत्कायदृष्टिः प्रवर्तते ।
दुःखतः स्कन्धानपोह्यात्मतो ऽभिनिवेशात् ।
[304।22]
ततो ऽन्तग्रहणं
[305।01]
सत्कायदृष्टेरन्तग्राहदृष्टिः प्रवर्तते ।
आत्मनः शाश्वतोच्छेदान्तग्रहणात् ।
[305।02]
तस्माच्छ्हीलामर्शः
[305।03]
अन्तग्रहाच्छीलव्रतपरामर्शः ।
[305।03-305।04]
यमेवान्तं गृह्णाति तेन शुद्धिप्रत्यागमनात् ।
[305।05]
ततो दृशः ।
[305।06]

आमर्श इति वर्तते ।
शीलव्रतपरामर्शाद्दृष्टिपरामर्शः प्रवर्तते ।
[305।06-305।07]
येन शुद्धिं प्रत्येति तस्याग्रतो ग्रहणात् ।
[305।07]
ततो ।
[305।08]
रागः स्वदृष्टौ मानश्च
[305।09]
तस्यामभिष्वङ्गात् तया चोन्नतिगमनात् ।
[305।10]
द्वेषो ऽन्यत्र
[305।11]
स्वदृष्ट्यध्यवसितस्य तत्प्रत्यनीकभूतायां परदृष्टौ द्वेषः प्रवर्तते ।
[305।11-305।13]
अपरे स्वदृष्टावेवान्यत्र गृहीते त्यक्तायां द्वेषमिच्छन्ति दर्शनहेयानां रागादीनां स्वासान्तानिकदृष्ट्यालम्बनत्वात् ।
[305।14]
इत्यनुक्रमः
[305।15]
एष एषां दशानां क्लेशानां प्रवृत्तिक्रमः ।
[305।16]
उत्पद्यमानस्तु त्रिभिः कारणैरुत्पद्यते ।
[305।17-305।18]
अप्रहीणादनुशयाद्विषयात् प्रत्युपस्थितात्
अयोनिशो मनस्कारात् क्लेशः
[305।19-305।20]
तद्यथा रागानुशयो ऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार एवं कामराग उत्पद्यते ।
[305।20-305।21]
तान्येतानि यथाक्रमं हेतुविषयप्रयोगबलानि ।
[305।21]
एवमन्यो ऽपि क्लेश उत्पद्यत इति वेदितव्यो यः
[305।22]
संपूर्णकारणः
[306।01]
कदाचित्किअल् विषयबलेनैवोत्पद्यन्ते ।
न हेतुबलेन ।
[306।01-306।02]
यथा परिहाणधर्मकस्यार्हत इति ।
[306।02-306।03]
एत एवानुशयाः सूत्रे भगवता त्रय आस्रवा उक्ताः कामस्रवो भवास्रवो ऽविद्यास्रव इति ।

[306।03-306।04]
चत्वार ओघाः कामौघो भवौघो दृष्ट्योभो ऽविद्यौघश्च ।
[306।04]
चत्वारो योगा एत एव ।
[306।04-306।05]
चत्वार्युपादानानि कामोपादानं दृष्ट्युपादानं शीलवृतोपादानमात्मवादोपादानमिति ।
[306।05]
तत्र तावत्
[306।06]
कामे सपर्यवस्थानाः क्लेशाः कामास्रवो विना ।
[306।07]
मोहेन
[306।08-306।09]
अविद्यां वर्जयित्वा ऽन्ये कामावचराः क्लेशाः सह पर्यवस्थानैः कामास्रवो वेदितव्य एकचत्वारिंशद्द्रव्याणि ।
[306।09-306।10]
एकत्रिंशदनुशयाः पञ्चप्रकारामविद्यां हित्वा दश पर्यवस्थानानि ।
[306।11]
अनुशया एव रूपारूप्ये भवास्रवः
[306।12]
विना मोहेनेति वर्तते ।
[306।12-306।13]
रूपारूप्यावचरा अविद्यावर्ज्या अनुशया भवास्रवो द्वापञ्चाशद्द्रव्याणि ।
[306।13]
रूपावचराः षड्विंशतिरनुशयाः पञ्चप्रकारामविद्यां हित्वा ।
[306।14]
आरूप्यावचराः षड्विंशतिः ।
ननु च तत्राप्यस्ति पर्यवस्थानद्वयं स्त्यानमौद्धत्यं च ।
[306।15]
प्रकरणेषु चोक्तं "भवास्रवः कतमः ।
[306।15-306।16]
अविद्यां स्थापयित्वा यानि तदन्यानि रूपारूप्यप्रतिसंयुक्तानि ।
[306।16]
संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानी"ति ।
[306।16-306।17]
कस्मा दिह तस्याग्रहणम् ।
[306।17]
अस्वातन्त्र्यादिति काश्मीराः ।
[306।18]
किं पुनः कारणं रूपारूप्यावचरा अनुशयाः समस्यैको भवाग्र उक्तः ।
[306।19]

अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः ।
[306।20]
अत एकीकृताः ।
[306।21-306।22]
ते ह्यूभये ऽप्यव्याकृता अन्तर्मुखप्रवृत्ताः समाहितभूमिकाश्चेति त्रिविधेन साधम्येर्णैकताः ।
[306।22-306।23]
येनैव च कारणेन भवराग उक्तस्तेनैव भवास्रवः इत्यविद्येदानीं त्रैधातुक्यविद्यास्रव इति सिद्धम् ।
[306।23]
तानि पञ्चदश द्रव्याणि ।
[306।23-306।24]
किं कारणमसौ पृथग्व्यवस्थाप्यते ।
[306।24]
सर्वेषां हि तेषां
[307।01]
मूलमविद्येत्यास्रवः पृथक्
[307।02]
यथा चैते आस्रवा उक्ता वेदितव्याः
[307।03]
तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात् ।
[307।04]
कामास्रव एव कामौघः कामयोगश्च ।
[307।04-307।05]
एवं भवास्रव एव भवौघो भवयोगश्चान्यत्र दृष्टिभ्यः ।
[307।05]
ताः किल पटुत्वादोघयोगेषु पृथक् स्थापिताः ।
[307।06]
नास्रवेष्वसहायानां न किलास्यानुकूलता
[307।07]
आसयन्तीत्यास्रवाणां निर्वचनं पश्चाद्वक्ष्यते ।
[307।07-307।08]
न च किल केवला दृष्ट्य आस्यानुकूलाः पटुत्वात् ।
[307।08]
अत आस्रवेषु न पृठक् स्थापिताः ।
[307।08-307।09]
मिश्रीकृत्य स्थापिता इति तदेवं कामौघ एकान्नत्रिंशद्द्रव्याणि ।
[307।09-307।10]
रागप्रतिघमानाः पञ्चदश विचिकित्साश्चतस्रो दश पर्यवस्थानानीति ।
[307।10]
भवौघो ऽष्टाविंसतिद्रव्याणि ।
[307।10-307।11]

रागमाना विंशतिर्विचिकित्सा ऽष्टौ ।
[307।11]
दृष्ट्योघः षट्त्रिंशद्द्रव्याणि ।
[307।11-307।12]
अविद्यौघः पञ्चदश द्रव्याणि ।
[307।12]
ओघवद् योगा वेदितव्याः ।
[307।13]
यथोक्ता एव सा ऽविद्या द्विधा दृष्टिविवेचनात् ।
[307।14]
उपादानानि
[307।15]
कामयोग एवसहाविद्यया कामोपादानं चतुस्त्रिंशद्द्रव्याणि ।
[307।15-307।16]
रागप्रतिघमाना ऽविद्याविंशतिर्विचिकित्साश्चतस्रो दश पर्यवस्थानानि ।
[307।16-307।17]
भवयोग एव सहाविद्यया आत्मवादोपादानमष्टत्रिंशद्द्रव्याणि ।
[307।17]
रागमानाविद्यास्त्रिंशद्विचिकित्सा अष्टौ ।
[307।18]
दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्यु पादानं त्रिंशद्द्रव्याणि ।
[307।18-307।19]
शीलव्रतोपादानं षड्द्रव्याणि कर्मदृष्टिभ्यो निष्कृष्टम् ।
[307।19]
मार्गप्रतिद्वन्द्वित्वा दुभयपक्षविप्रलम्भनाच्च ।
[307।20-307।21]
गृहिणो ऽप्यनेन विप्रलब्धा अनशनादिभिः स्वर्गमार्गसंज्ञया प्रव्रजिता अपीष्टविषयपरिवर्जनेन शुद्धिप्रत्यागमनादिति ।
[307।21-307।22]
किं कारणमविद्यां मिश्रयित्वोपादानमुक्तं न पृथक् ।
[307।22]
भवग्रहणादुपादानानि ।
[307।23]
अविद्या तु ग्राहिका नेति मिश्रिता
[308।01]
असंप्रख्यानलक्षणतया ऽपटुत्वादविद्या न ग्राहिका भवत्यतः किल मिश्रिता ।
[308।01-308।02]
सूत्रे तु भगवतोक्तं "कामयोगः कतमः ।
[308।02-308।04]
विस्तरेण यावद्यो ऽस्य भवति कामेषु कामरागः कामच्छन्दः कामस्नेहः कामप्रेम कामेच्छा काममूर्च्छा कामगृद्धः कामपरिगर्द्धः कामनन्दी कामनियन्तिः कामाध्यवसानं तदन्यचित्तम् पर्यादाय तिष्ठति ।
[308।04-308।05]

अयमुच्यते कामयोगः ।
[308।05]
एवं यावद्भवयोगः" ।
[308।05-308।06]
च्छन्दरागश्चोपादानमुक्तं सुत्रान्तरेष्वतो विज्ञायते काम ह्युपादानमपि कामादिषु च्छन्दराग इति ।
[308।07]
उक्तमिदमनुशया एवास्रवौघयोगोपादानसंशब्दिताः सूत्रेष्विति ।
[308।08]
अथ को ऽयमनुशयार्थः कश्च यावदुपादानार्थः ।
[308।09-308।10]
अणवो ऽनुगताश्चैते द्विधा चाप्यनुशेरते ।
अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः
[308।11]
तत्राणवः सूक्ष्मप्रचारत्वात् दुर्विज्ञानतया ।
अनुगताः प्राप्त्यनुषङ्गतः ।
[308।11-308।12]
अनुशेरते द्वाभ्यां प्रकाराभ्यामालम्बनतः संप्रयोगतश्च ।
[308।12-308।13]
अनुबध्नन्त्यप्रयोगेण प्रतिवारयतो ऽपि पुनः पुनः संमुखीभावात् ।
[308।13]
एभिः कारणैरनुशया उच्यन्ते ।
[308।14-308।15]
आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ ।
उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः
[308।16]
आसयन्ति संसारे आस्रवन्ति भवाग्राद्यावदवीचिं षङ्भिरायतनव्रणैर् इत्यास्रवाः ।
[308।17]
हरन्तीत्योघाः ।
श्लेषयन्तीति योगाः ।
उपगृह्णन्तीति उपदानानि ।
[308।17-308।18]
एवं तु साधीयः स्याद् ।
[308।18]
आस्रवत्येभिः संततिर्विषयेष्वित्यास्रवाः ।
[308।18-308।19]
"तद्यथा आयुष्मन्तो नौर्महद्भिरभिसंस्कारैः प्रतिस्रोतो नीयते ।
[308।19-308।20]
सा तेषामेव संस्काराणां ग्रतिप्रस्रव्ध्या ऽल्पकृच्छ्रेणानुस्रोत उह्यतऽऽ; इति सूत्रवादानुसारात् ।
[308।21]
अधिमात्रवेगत्वादोघाः ।

तर्हि तद्वानुह्यते तदनुविधानात् ।
[308।21-308।22]
नातिमात्रसमुदाचारिणो ऽपि योगा विविधदुःखसंयोजनात् ।
[308।22-308।23]
आभीक्ष्ण्यानुषङ्गतो वा कामाद्युपादानादुपादानानीति ।
[308।24]
संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः ।
[309।01-309।02]
त एवानुशयाः पुनः संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः ।
[309।02-309।03]
तत्र नव संयोजनान्यनुन्वयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्या मात्सर्यसंयोजनानि ।
[309।03]
तत्रानुनयसंयोजनं त्रैधातुको रागः ।
[309।03-309।04]
एवमन्यानि यथासंभवम् योज्यानि ।
[309।04]
दृष्टिसंयोजनं तिस्रो दृष्टयः ।
परामर्शसंयोजनं द्वे दृष्टी ।
[309।05-309।06]
अत एवोच्यते स्यात् द्ष्टिसंप्रयुक्तेषु धर्मेष्वनुनयसंयोजनेन संयुक्तो न दृष्टिसंयोजनेन न च तत्र दृष्ट्यनुशयो नानुशयीत ।
[309।06-309।07]
आह स्यात् समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शानप्रहातव्येषु दृष्टिशीलव्रतपरामर्शसंप्रयुक्तेषु धर्मेषु ।
[309।08]
तेष्वनुनयसंयोजनेन संयुक्तस्तदालम्बनेन दृष्टिसंयोजनेनासंयुक्तः ।
[309।09-309।10]
सर्वत्रगस्य प्रहीणत्वादसर्वत्रगस्य च तदालम्बनसंप्रयोगिणो दृष्टिसंयोजनस्याभावात् ।
[309।10]
दृष्ट्यनुशयश्च तेष्वनुशेते ।
[309।10-309।11]
ते एव परामर्शडृष्टी संप्रयोगतः ।
[309।12-309।13]
किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंप्रयोजनं पृथगुक्तं द्वे पुनर्दृष्टी परामर्शासंयोजनं पृथक् ।
[309।14]
द्रव्यामर्शन सामान्याद्दृष्टी संयोजनान्तरम्
[309।15]
अष्टादश द्रव्याणि तिस्रो दृष्टयः ।
अष्टादशैव द्वे परामर्शदृष्टी ।
[309।15-309।16]
अतः किल द्रव्य सामान्यादेते संयोजनान्तरम् कृते ।
[309।16-309।17]

एते च द्वे परामर्शस्वभावेन शेषाइति परामर्शनसामान्यादप्येते पृथग्विहिते ग्राह्यग्राहकभेदात् ।
[309।18-309।19]
अथ कस्मादीष्र्यामात्सर्ये संयोजने पृथक्संयोजनद्वयमुक्तं नान्यत् पर्यवस्थानम् ।
[309।20-309।21]
एकान्ताकुशलं यस्मात् स्वतन्त्रं चोभयं यतः ।
ईष्र्यामात्सर्यमेषूक्तं पृथक् संयोजनद्वयम्
[309।22-309।23]
नह्यन्यत्पर्यवस्थानमेवञ्जातीयकमस्ति यत्रैतदुभयं स्यादेकान्ताकुशलत्वं स्वतन्त्रत्वं चेति ।
[309।23]
यस्याष्टौ पर्यवस्थानानि तस्येवं स्यात् ।
[309।23-309।24]
यस्य पुनर्दश तस्य क्रोधम्रक्षावप्युभयप्रकारौ ।
[309।24]
तस्मान्न भवत्ययं परिहार इत्यपरे ।
[309।24-309।25]
पुनरन्यत्र भगवता संयोजनमुक्तम्
[310।01]
पञ्चधा ऽवरभागीयं
[310।02]
तद्यथा सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति ।
[310।03]
कस्मादेतान्ववरभागीयान्युच्यन्ते ।
अवरभागहितत्वात् ।
[310।03-310।04]
अवरो हि भागः कामधातुरेतानि च तस्यानुगुणानि ।
[310।04]
यस्मात् ।
[310।05]
द्वाभ्यां कामानतिक्रमः ।
[310।06]
त्रिभिस्तु पुनरावृत्तिः
[310।07]
कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति ।
[310।07-310।08]
सत्कायदृष्ट्यादिभिरतिक्रान्तो ऽपि पुनरावर्त्यते दौवारिकानुचरसाधर्म्यात् ।
[310।08-310।09]
त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वं द्वाभ्यां धात्ववरतां कामधातुम् ।
[310।09-310।10]
अत एव तान्यवरभागीयानीत्यपरे ।
[310।10-310।12]

यदा स्रोत आपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणात् षट्क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयमेवाह सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च ।
[310।12]
सर्वमेतद्वक्तव्यं स्यात् ।
किं तूक्तं
[310।13]
मुखमूलग्रहात्त्रयम्
[310।14]
त्रिप्रकाराः किल क्लेशा एकप्रकारा द्विप्रकाराक्श्चतुप्रकाराक्श्च ।
[310।14-310।15]
तेषामेभिस्त्रिभिर्मुखं गृहीतमिति ।
[310।15]
अपिचान्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तिता ।
[310।15-310।16]
दृष्टिपरामर्शः शीलव्रतपरामर्शप्रवर्तितः मिथ्यादृष्टिर्विचिकित्साप्रवतिता ।
[310।16]
मूलं गृहीतमिति ।
[310।17]
अपरे पुनराहुः ।
[310।18-310।19]
अगन्तुकामतामार्गविभ्रमो मार्गसंशयः ।
इत्यन्तराया मोक्षस्य गमने ऽतस्त्रिदेशना
[311।01]
त्रयो ऽन्तराया देशान्तरगमने भवन्ति ।
[311।01-311।02]
अगन्तुकामता मार्गविभ्रमो ऽन्यमार्गसंश्रयणात् मार्गसंशयश्च ।
[311।02]
एवं मोक्षगमने ऽप्येत एव त्रयोन्तरायाः ।
[311।02-311।03]
तत्र सत्कायदृष्ट्या मोक्षादुत्रासमापन्नस्यागन्तुकामता भवति ।
[311।03-311।04]
शीलव्रतपरामर्शेनान्यमार्गसंश्रयणान्मोक्षविभ्रमः ।
[311।04]
विचिकित्सया मार्गसंशयः ।
[311।04-311।06]
एषां मोक्षगमनान्तरायाणां प्रहाणं द्योतयन् भगवान् क्लेशत्रयस्यैव प्रहाणं देशितवान् ।
[311।06]
यथा भगवता पञ्चविधमवरभागीयं संयोजनमुक्तम् ।
एवं पुनः
[311।07]
पञ्चधैवोर्ध्वभागीयं

[311।08]
कथमित्याह
[311।09]
द्वौ रागौ रूप्यरूपिजौ
[311।10]
तौ
[311।11]
औद्धत्यमानमोहाश्च
[311।12]
इत्येतानि पञ्चोर्ध्वभागीयानि संयोजनानि ।
[311।12-311।13]
तद्यथा रूपराग आरूप्यराग औद्धत्यं मानो ऽविद्या च ।
[311।13]
एषामप्रहाणेनोर्ध्वधात्वनतिक्रमात् ।
समाप्तः संयोजनप्रसङ्गः ।
[311।14]
बन्धनानि कतमानि ।
त्रीणि बन्धनानि ।
[311।14-311।15]
रागो बन्धनं सर्वः द्वेषो बन्धनं सर्वः मोहो बन्धनं सर्वः ।
[311।15]
कस्मादेतदेव त्रयं बन्धनमुक्तं भगवता ।
[311।16]
विद्वशाद् बन्धनत्रयम्
[312।01]
त्रिवेदनावशार्त्तीणि बन्धनानि ।
[312।01-312।02]
सुखायां हि वेदनायां रागो ऽनुशेते आलम्बनसंप्रयोगाभ्याम् ।
[312।02]
दुःखायां द्वेषः ।
अदुःखासुखायां मोहो न तथा रागद्वेषौ ।
[312।02-312।03]
स्वासांतनिकालम्बनतो वा नियमः ।
[312।03]
अनुशयाः पूर्वमेवोक्ताः ।
[312।04]
उपक्लेशाः वक्तव्याः ।
तत्र ये यावत् क्लेशा उपक्लेशा अपि ते ।
[312।04-312।05]
चित्तोपक्लेशनात् ।

[312।06-312।07]
ये ऽप्यन्ये चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः ।
क्लेशेभ्यस्ते ऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः
[312।08-312।09]
ये ऽप्यन्ये क्लेशेभ्यः क्लिष्टा धर्माः संस्कारस्कन्धसंगृहीताश्चैतसिकास्त उपक्लेशास्ते पुनर्ये क्षुद्रवस्तुके पठिताः ।
[312।09-312।10]
इह तु पर्यस्थानक्लेशमलसंगृहीतानेव निर्देक्ष्यामः ।
[312।10]
कानि पुनः पर्यवस्थानानीत्याह ।
[312।10-312।11]
क्लेशा अपीहिपर्यवस्थानं कामरागपर्यवस्थानप्रत्ययदुःखमिति सूत्रे वचनात् ।
[312।11]
प्रकरणशास्त्रे तु
[312।12-312।13]
आह्लीक्यमनपत्राप्यमीर्ष्यामात्सर्यमुद्धवः ।
कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा
[312।14]
वैभाषिकन्यायेन पुनर्दश पर्यवस्थानान्येतानि चाष्टौ
[312।15]
क्रोधभ्रक्षौ च
[312।16]
तत्राह्लीक्यानपत्राप्ये व्याख्याते ।
परसंपत्तौ चेतसो व्यारोष ईर्ष्या ।
[312।16-312।17]
धर्मामिषकौशलप्रदानविरोधी चित्ताग्रहो मात्सर्यम् ।
[312।17]
औद्धत्यं चेतसो ऽव्युपशमः ।
[312।17-312।18]
कौकृत्यं स्त्यानं च व्याख्याते ।
[312।18]
कायसंधारणासमर्थश्चित्ताभिसंक्षेपो मिद्धम् ।
[312।18-312।19]
तत्तु क्लिष्टमेव पर्यवस्थानम् ।
[312।19]
कौकृत्यं च व्यापाद विहिंसावर्जितः सत्त्वासत्त्वयोराघातः क्रोधः ।
[312।20]
अवद्यप्रच्छादनं भ्रक्षः ।
एषां च दशानां पर्यवस्थानानां
[312।21]
रागोत्था आह्लीक्यौद्धत्यमत्सराः ।

[312।22]
एते त्रय उपक्लेशा रागनिःष्यन्दाः ।
[313।01]
भ्रक्षे विवादः
[313।02]
तृष्णानिःष्यनद इत्येके ।
अविद्यानिःष्यन्द इत्यपरे ।
उभयोरित्यन्ये ।
[313।02-313।03]
यथा क्रमं ज्ञाताज्ञातानामिति ।
[313।04]
अविद्यातः स्त्यानमिद्धानपत्रपाः
[313।05]
एते त्रयो ऽविद्यानिःष्यन्दाः ।
[313।06-313।07]
कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये ।
[313।08]
प्रतिघसमुत्थे इत्येते च दश क्लेशनिःष्यन्दा उपक्लेशाः ।
[313।09]
अन्ये च षट्क्लेशमलाः
[313।10]
तद्यथा
[313।11]
माया शाठ्यं मदस्तथा
[313।12]
प्रदाश उपनाहश्च विहिंसा चेति
[313।13]
तत्र परवञ्चना माया ।
[313।13-313।14]
चित्तकौटिल्यं शाठ्यं येन यथाभूतं नाविष्करोति विक्षिपत्य परिस्फुटं वा प्रतिपद्यते ।
[313।14]
मदः पूर्वोक्तः ।
[313।14-313।15]
सावद्यवस्तुदृढग्राहिता प्रदाशो येन न्यायसंज्ञप्तिं न गृह्णाति ।
[313।15]
आघातवस्तुवहुलीकार उपनाहः ।
[313।16]
विहेठ्नं विहिंसा येन प्रहारपारुष्यादिभिः परान् विहेठ्यते ।
[313।16-313।17]
एषां पुनः षण्णां क्लेशमलानां

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc