भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 461480

[285।07-285।08]
एभ्य एव मानेभ्य एताः ।
[285।09]
नवविधास्त्रिभ्यः
[285।10]
कतमेभ्यस्त्रिभ्यः मानातिमानोनमानेभ्यः ।
[285।10-285।11]
तत्र प्रथमं त्रयं दृष्टिसंनिश्रितास्त्रयो मानाः ।
[285।11]
अतिमानमानोनमानाः ।
द्वितीयं त्रयमूनमानमानातिमानाः ।
[285।11-285।12]
तृतीयं त्रयं मानातिमानोनमानाः ।
[285।12-285।13]
युक्तस्तावद् बह्वन्तरविशिष्टादल्पान्तरहीनो ऽस्मीत्यूनमान उन्नतिस्थानत्वात् ।
[285।13-285।14]
नास्ति मे हीन इत्यत्र किमुन्नति स्थानम् ।
[285।14]
अस्ति सदृशो यो ऽभिप्रेते वरे सत्त्वराशौ निहीनमप्यात्मानं बहु मन्यते ।
[285।15]
अपि चास्त्येव ज्ञानप्रस्थानविहितो विधिः ।
[285।15-285।17]
प्राकरणं तु निर्देशं परिगृह्य श्रेयानस्मीत्येकेषु मानो ऽपि स्यादति मानो ऽपि मानातिमानो ऽपि हीनसमविशिष्टापेक्षया ।
[285।18]
अथैते सप्त मानाः किंप्रहातव्या इत्याह
[285।19]
दृग्भावनाक्ष्याः ।
[285।20]
दृग्भावनाभ्यामेषां क्षयः ।
[285।20-285।21]
एतदुक्तं भवति सर्वे दर्शनभावनाप्रहातव्या इति यद्भावनाहेयमप्रहीणं किमवश्यं तदार्याणां समुदाचरति ।
[285।21]
नावश्यं तद्यथा
[285।22]
वधादिपर्यवस्थानं हेयं भावनया
[285।23-285।24]
येन क्लेशपर्यवस्थानेन संचिन्त्य प्राणिवधं कुर्याद्यावन्मृषावादं तद् भावनाहेयं भावनाहेयधर्मालम्बनत्वात् ।
[285।25]
तथा
[286।01]

विभवेच्छा
[286।02]
विभवतृष्णा ऽपि भावनाहेया ।
विभवो नाम क एष धर्मः ।
त्रैधातुकी अनित्यता ।
[286।03]
तत्र प्रर्थना विभवतृष्णा ।
तथाशब्देन भवतृष्णायाः प्रदेशो गृह्यते ।
[286।03-286।04]
"अहो वताहमैरावणः स्यां नागराज" इत्येवमादि ।
[286।04-286।05]
मानविधा अपि भावनाप्रहातव्याः सन्तीत्युक्तमस्मिममानश्च ।
[286।06]
न चार्यस्य संभवन्ति विधादयः ।
[286।07]
नास्मिता
[286।08]
आदिग्रहणेन यावद्विभवतृष्णाया ग्रहणम् ।
[286।08-286।09]
किं कारणमप्रहीणा अप्येते न समुदाचरन्ति ।
[286।10]
दृष्टिपुष्टत्वात्
[286।11]
सत्कायदृष्टिपुष्टा हि मानविधा अस्मिमानश्च ।
[286।11-286।12]
अतो भग्नपृष्ठत्वात् नोत्थातुम् पुनरुत्सहन्ते ।
[286।12]
वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टत्वात् ।
[286।12-286।13]
विभवतृष्णा उच्छेद्दृष्टिपुष्टत्वात् ।
[286।13]
भवतृष्णायाः प्रदेशः शाश्वतदृष्टिपुष्टत्वात् ।
[286।14]
कौकृत्यं नापि चाशुभम्
[286।15]
अकुक्शलं चापि कौकृत्यं भावनाप्रहातव्यम् ।
[286।15-286।16]
न चार्यस्य तत्संभवति विचिकित्सा समुत्थितत्वात् ।
[286।17]
अथैषामष्टानवतेरनुशयानां कति सर्वत्रगाः कत्यसर्वत्रगाः ।

[286।18-286।19]
सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा ।
विमतिः सह ताभिश्च या ऽविद्या ऽवेणिकी च या
[286।20-286।21]
दुःखसमुदयदर्शनप्रहातव्या दृष्टयो विचिकित्सा च ताभिश्च संप्रयुक्ता अविद्या आवेणिकी च दुःखसमुदयप्रहातव्ये चाविद्या ।
[286।20-287।01]
इतीमे एकादशानुशयाः सभागधातुसर्वत्रगाः ।
[287।01]
सप्त दृष्टयो द्वे विचिकित्से द्वे अविद्ये सकलस्वधात्वालम्बनत्वात् ।
[287।02]
किमेभिर्युगपदालम्बते आहोस्वित् क्रमेण ।
यदि क्रमेण अन्येषामपि प्रसङ्ग ।
[287।02-287।04]
अथ युगपत् कः सकलेन कामधातुना शुद्धिं प्रत्येत्यकारणं वा कारणतः ।
[287।04]
सकलं नोच्यते सकलं युगपदालम्बन्त इति ।
[287।04-287।05]
अपि तु पञ्चप्रकारमपि सर्वं युगपत् ।
[287।05-287।06]
एवमपि यत्रात्मदृष्टिस्तत्रात्मतृष्णा यत्राग्रशुद्धिदृष्टी तत्र तत्प्रार्थना तेन च मान इति तृष्णामानयोरपि सर्वत्रगत्वं प्राप्नोति ।
[287।06-287।07]
एवं सति दर्शनभावनाहेयालम्बनत्वादेतदुभयं किंप्रहातव्यं स्यात् ।
[287।07-287।08]
भावनाप्रहातव्यं व्यामिश्रालम्बनत्वात् ।
[287।08]
अथवा पुनरस्तु दर्शनप्रहातव्यं दृष्टिबलाधानवर्तित्वात् ।
[287।08-287।09]
स्वलक्षणक्लेशावेतौ न सामान्यक्लेशौ ।
[287।09]
तस्मान्न सर्वत्रगाविति वैभाषिकाः ।
[287।10]
व एते सभागधातुसर्वत्रगा एकादशानुशया उक्ताः
[287।11]
नवोध्र्वालम्बना एषां दृष्टिद्वयविवर्जिताः ।
[287।12]
सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वा ऽन्ये नवानुशया विसभागधातुसर्वत्रगाः ।
[287।13]
कदाचित्तु विसभागमेकं धातुमालम्बन्ते कदाचित् द्वौ ।
[287।13-287।14]
"ये ऽनुशयाः कामप्रतिसंयुक्ता रूपप्रतिसंयुक्तालम्बनाः ।

[287।14-287।15]
कामप्रतिसंयुक्ता आरूप्यप्रतिसंयुक्तालम्बनाः कामप्रतिसंयुक्ता रूपारूप्यप्रतिसंयुक्तालम्बना" इति वचनात् ।
[287।15-287।17]
यदा कामधातौ स्थितो ब्रह्मणि सत्त्वदृष्टिं नित्यदृष्टिं चोज्त्पादयति तदा कथं सत्कायान्त ग्राहदृष्टी विसभागधात्वालम्बने न भवतः ।
[287।17-287।18]
आत्मात्मीयत्वेनाग्रहणादन्तग्राहदृष्टिश्च तत्समुत्थितत्वात् ।
[287।18]
का तर्हीयं दृष्टिः ।
[287।18-287।19]
नेयं दृष्टिर्मिथ्याज्ञानं पुनः एतदित्याभिधार्मिकाः ।
[287।19-287।20]
कुतो नु खल्वेतदन्या तदालम्बना दृष्टिरेषा न दृष्टिरिति सिद्धान्तस्तु प्रमाणयितयः ।
[287।21]
किं खल्वनुशयाः एव सर्वत्रगाः ।
नेत्याह ।
[287।22]
प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्ते ऽपि सर्वगाः
[287।23]
सर्वत्रगैरनुशयैः सहभुवो ये ऽप्यन्ये धर्मास्ते ऽपि सर्वत्रगाः प्राप्तयस्तु नैवम् ।
[287।23-288।01]
अनेक फलत्वात् ।
[288।01-288।02]
अत एव स्युः सर्वत्रगानुशया न सर्वत्रहेतुना हेतुरिति चतुष्कोटिकं क्रियते ।
[288।02]
प्रथमा कोटिरनागताः सर्वत्रगा अनुशयाः ।
[288।02-288।03]
द्वितीया ऽतीतप्रत्युपन्नास्तत्सहभुवः ।
[288।03]
तृतीयाचतुथौ योज्ये ।
[288।04]
एषामष्टानवतेरनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः ।
[288।05-288।06]
मिथ्यादृग्विमती ताभ्यां युक्ता ऽविद्या ऽथ केवला ।
निरोधमार्गदृग्घेयाः षडनास्रवगोचराः
[288।07-288।08]
निरोधदर्शनप्रहातव्यास्त्रयो ऽनुशया मिथ्यादृष्टिर्विचिकित्सा ऽविद्या च ताभ्यां संप्रयुक्ता ऽ; ऽवेणिकी च ।
[288।08]
मार्गदर्शनप्रहातव्या अप्येत एव त्रयः ।
[288।08-288।09]
इत्येते षडनास्रवालम्बनाः ।

[288।09]
शेषां सास्रवालम्बना इति सिद्धम् ।
तत्र पुनः
[288।10-288।11]
स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः ।
तद्गोचराणां विषयो मार्गो ह्यन्यो ऽन्यहेतुकः
[288।12-288।13]
निरोधालम्बनानां मिथ्यादृष्ट्यादीनां स्वभूमिनिरोध एवालम्बनं कामावचराणां कामधातोरेव यावत् भवाग्रभूमिकानां भवाग्रस्यैव ।
[288।13-288।14]
मार्गालम्बनानां कामावचराणां षड्भूमिको धर्मज्ञानपक्षो मार्गः सर्व एवालम्बनम् ।
[288।14-288।15]
यो ऽपि रूपारूप्यप्रतिपक्षः रूपारुप्यावचराणामप्यदृष्टभूमिकानां नवभूमिकः ।
[288।15-288।16]
स एवान्वयज्ञानपक्ष्यो मार्ग आलम्बनं मार्गस्यान्यो ऽन्यहेतुकत्वात् ।
[288।16-288।17]
यद्यपि धर्मज्ञानान्वयज्ञाने अप्यन्योन्यहेतुके नत्वन्वयज्ञानं कामधातुप्रतिपक्ष इति ।
[288।17-288।18]
न कामावचरा मार्गालम्बना अन्वयज्ञानपक्षानालम्बन्ते ।
[288।18-288।19]
धर्मज्ञानं तर्हि रूपारूप्यप्रतिपक्षत्वात्तद्भूमिकानां मार्गलम्बनानामालम्बनं भविष्यति ।
[288।19-288।20]
न तत् सकलं प्रतिपक्षो दुःखसमुदयधर्मज्ञानयोरतत्प्रतिपक्षत्वात् ।
[288।20-288।21]
नापि सकलयो रूपारूप्यय्योर्दर्शनप्रहातव्यानामप्रतिपक्षत्वादित्याद्याभावान्न भवत्यालम्बनम् ।
[288।22]
अथ कस्माद्रागप्रतिघमाना दृष्टिशीलवृअतपरामर्शौ चानास्रवालम्बना नेष्यन्ते ।
[288।23]
न रागस्तस्य वर्ज्यत्वात्
[289।01-289।02]
वर्जनीयो हि रागः यदि चानास्रवालम्बनः स्यान्न वर्जनीयः स्यात्कुशलधर्मच्छन्दवत् ।
[289।03]
न द्वेषो ऽनपकारतः ।
[289।04]
अपकारवस्तुनि हि प्रतिघ उत्पद्यते ।
न चैवं निरोधमागौं ।
[289।05]
न मानो न परामर्शौ शान्तशुद्धयग्रभावतः
[289।06]
निरोधमार्गयोः शान्तत्वान्न ताभ्यामुन्नतिर्भवितुमर्हति ।
[289।06-289।07]

भूतार्थशुद्धित्वान्न तयोः शुद्धिग्राहः शीलव्रतपरामर्शः ।
[289।07]
अग्रौ च तौ ।
हीने चाग्रग्राहो दृष्टिपरामर्शः ।
[289।08]
तस्मादयुक्तमेषामनास्रवालम्बनत्वम् ।
[289।09]
एषामष्टानवतेरनुशयानां कत्यालम्बनतो ऽनुशेरते कति संप्रयोगत एव ।
[289।10-289।11]
सर्वत्रगा अनुशयाः सकलामनुशेरते ।
स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः
[289।12-289।13]
ये सर्वत्रगा अनुशयास्ते सकलां पञ्चप्रकारामपि स्वां भूमिमालम्बनतो ऽनुशेरते ।
[289।13]
असर्वत्रगास्तु स्वस्यां भूमौ स्वमेव निकायमालम्बनतो ऽनुशेरते नान्यम् ।
[289।14]
तद्यथा दुःखदर्शनप्रहातव्या दुःखदर्शनप्रहातव्यमेव निकायम् ।
[289।14-289।15]
एवं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेव नान्यम् ।
[289।15]
उत्सर्गं कृत्वा ऽपवादं करोति
[289।16]
नानास्रवोर्ध्वविषयाः
[289।17]
अनास्रवालम्बना अनुशया नैवालम्बनतो ऽनुशेरते ।
नाप्यूर्ध्वभूम्यालम्बनाः ।
[289।17-289।18]
किं कारणम् ।
[289।18]
तदालम्बनस्य वस्तुनः
[289।19]
अस्वीकाराद्विपक्षतः ।
[289।20-289।21]
यद्धि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति तत्रान्ये ऽप्यनुशया अनुगमयितुमुत्सहन्ते ।
[289।21]
आर्द्र इव पटे रजांसि संस्थातुम् ।
[289।21-289।22]
न चैवमनास्रवा नाप्येवमूर्ध्वा भूमिः ।
[289।22]
अतो न तदालम्बनास्तेष्वनुशेरते ।

यस्त्विहस्थस्तां भूमिं प्रार्थयते ।
[289।23-290।01]
कुशलो ऽसौ धर्म्मच्छन्दः विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानामूर्ध्वा च भूमिरधराणाम् ।
[290।01]
अतो न तेषु प्रतिष्ठां लभन्ते ।
[290।01-290।02]
तप्त इवोपले तलानि पादानाम् ।
[290।02]
आनुगुण्यार्थो ऽत्रानुशयार्थः ।
न च ते तदनुगुणा इत्यपरे ।
[290।02-290।03]
वातिकस्य रुक्षाननुशयनवत् ।
[290।03]
अत उक्ता आलम्बनतो ऽनुशेरते ।
[290।04]
येन यः संप्रयुक्तस्तु स तस्मिन् संप्रयोगतः
[290।05]
अनुशरेत इति वर्तते ।
[290।05-290।06]
यो ऽनुशयो येन धर्मेण संप्रयुक्तस्तस्मिन् संप्रयोगतो ऽनुशेते ।
[290।06]
यावदप्रहीण इति विशेषणार्थस्तुशब्दः ।
[290।06-290।07]
स्युरनुशया नानास्रवालम्बना न विसभागधातुसर्वत्रगाः ।
[290।07-290।08]
ते चानुशयाः संप्रयोगतो ऽनुशयीरन्नालम्बनतः न स्युर्विसभागभूमिसर्वत्रगा अनुशयाः ।
[290।09]
एषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः ।
[290।10]
ऊर्ध्वमव्याकृताः सर्वे
[290।11]
रूपारुप्यावचरास्तावत्सर्व एवाव्याकृताः ।
किं कारणम् ।
[290।12]
क्लिष्टानां धर्माणां दुःखविपाकः स्यात् ।
तच्च तयोइर्नास्ति परव्याबाधहेत्वभावात् ।
[290।13]
कामे सत्कायदर्शनम् ।
[290।14]
अन्तग्राहः सहाभ्यां च मोहः

[290।15]
कामधातौ सत्कायान्तग्राहदृष्टी तत्संप्रयुक्ता चाविद्या अव्याकृताः ।
[290।15-290।16]
किं कारणम् ।
[290।16]
दानादिभिरविरुद्धत्वात् ।
[290।16-290।17]
अहं प्रेत्य सुखी भविष्यामीति दानं ददाति शीलं रक्षति ।
[290।17]
उच्छेददृष्टिरपि मोक्षानुकूला ।
[290।17-290।19]
अत एवोक्तं भगवता "एतदग्रं बाह्यकानां दृष्टिगतानां यदुत नो च स्यां नो च मे स्यात् न भविष्यामि न मे भविष्यती"ति ।
[290।19]
अपि चानयोर्दृष्ट्योः स्वद्रव्यसंमूढत्वादपरपीडाप्रवृत्तत्वाच्च ।
[290।19-290।20]
स्वर्गतृष्णा ऽस्मिमानयोरप्येवं प्रसङ्गः ।
[290।20]
सहजा सत्कायदृष्टिरव्याकृता ।
[290।20-290।21]
या मृगपक्षिणामपि वर्त्तते ।
[290।21]
विकल्पिता त्वकुशलेति पूर्वाचार्याः ।
[291।01]
शेषस्त्विहाशुभाः
[291।02]
शेषास् त्वशुभा अनुशयाः कामधातावकुशलाः ।
[291।03]
कत्यकुशलमूलानि कति न ।
[291।04]
कामे ऽकुशलमूलानि रागप्रतिघमूढयः ।
[291।05-291।06]
कामधातौ सर्वरागः सर्वप्रतिघः सर्वो मोहो ऽन्यत्र सत्कायान्तग्राहदृष्टिसंप्रयुक्ताद्यथाक्रमम् ।
[291।07]
त्रीण्यकुशलमूलानि
[291।08]
लोभो ऽकुशलमूलं द्वेषो मोहो ऽकुशलमूलम् ।
[291।08-291।09]
यद्ध्यकुशलं चाकुशलस्य च मूलं तदेवाकुशलमूलमिष्टम् ।
[291।09-291।10]
शेषा अनुशया नाकुशलमूलानीति सिद्धम् ।

[291।11]
कत्यव्याकृतमूलानि कति न ।
त्रीण्यव्याकृत मूलानि ।
कतमानि त्रीणि ।
[291।12]
तृष्णा ऽविद्या मतिश्च सा
[291।13-291।14]
सेत्यव्याकृततां दर्शयति या काचिदव्याकृता तृष्णा अविद्या प्रज्ञा चान्ततो विपाकजा अपि सर्वा ऽसावव्याकृतमूलमिति काश्मीराः ।
[291।15]
द्वैधोर्ध्ववृत्तेर्नातो ऽन्यौ
[291।16]
विचिकित्सा किल द्वैधवृत्तेर्न मूलं भवितुमर्हति ।
चलत्वात् ।
[291।16-291।17]
उन्नतिलक्षणेनोर्ध्ववृत्तेर्न मानो मूलम् ।
[291।17-291।18]
विविधस्मृतिमूलानि हि स्थिराण्यधोवृत्तीनि च लोके दृष्टान्नीति ।
[292।01]
चत्वार्येवेति बाह्यकाः ।
[292।02]
बाह्यका श्चत्वार्यव्याकृतमूलानीच्छन्ति ।
[292।03]
तृष्णादृङ् मानमोहास्ते
[292।04]
स इत्यव्याकृता इति दर्शयति ।
अव्याकृता तृष्णा दृष्टिर्मानो ऽविद्या च ।
[292।04-292।05]
किं कारणमेतान्यव्याकृतमूलानीच्छन्ति ।
[292।06]
ध्यायित्रित्वादविद्यया
[292।07]
यस्मात्त्रयो ध्यायिनः ।
तृष्णादृष्टिमानोत्तरध्यायिनः ।
ते चाविद्यावशाद्भवन्तीति ।
[292।08]
यानि सूत्रे चतुर्दशाव्याकृतवस्तूनि किं तानि अव्याकृतत्वात् ।
नेत्याह ।
[292।09]
किं तर्हि ।
स्थापनीयः प्रश्नो ऽव्याकृत इत्युक्तम् ।

चतुर्विधो हि प्रश्नः ।
[292।09-292।10]
एकांशव्याकरणीयो विभज्यव्याकरणीयः परिपृच्छय्य व्याकरणीयः स्थापनीयश्च ।
[292।10-292।11]
तत्र यथाक्रमं वेदितव्यम् ।
[292।12-292।14]
एकांशतो व्याकरणं विभज्य परिपृच्छय च ।
स्थाप्यं च मरणोत्पत्ति विशिष्टात्मा ऽन्यतादिवत्
[292।15]
किं सर्वसत्त्वा मरिष्यन्तीत्येकांशेन व्याकर्त्तव्यं मरिष्यन्तीति ।
[292।15-292।16]
किं सर्वे जनिष्यन्त इति विभज्य व्याकर्त्तव्यं संक्लेशा जनिष्यन्ते न निःक्लेशा इति ।
[292।16-292।17]
किं मनुष्यो विशिष्टो हीन इति परिपृच्छय्य व्याकत्तेव्यम् ।
[292।17]
कानधिकृत्य प्रश्नयसीति ।
[292।17-292।18]
यदि ब्रूयाद् देवानिति ।
[292।18]
हीन इति व्याकर्त्तव्यम् ।
अथ ब्रूयादपायानिति ।
[292।18-292।19]
विशिष्ट इति व्याकर्त्तव्यम् ।
[292।19]
किमन्यः स्कन्धेभ्यः सत्त्वो ऽनन्य इति स्थापनीयः ।
[292।19-292।20]
सत्त्वद्रव्यस्याभावात् वन्ध्यापुत्रश्यामगौरतादिवत् ।
[292।21]
कथमेतद्व्याकरणं भवति अव्याकृतमेतदिति ।
एवं व्याकरणात् ।
[292।22]
अपर आह ।
इदमप्येकांशव्याकरणं यन्न सर्वे जनिष्यन्त इति ।
[292।23-292।24]
यस्तु पृच्छेद्ये मरिष्यन्ति किं ते जनिष्यन्त इत्येतद्विभज्यव्याकरणीयं स्यात् ।
[292।24-293।01]
मनुष्येषु चोभयमस्ति हीनत्वं विशिष्टत्वं चापेक्षिकमित्युभयमेकांशेन व्याकर्त्तव्यम् ।
[293।01-293।02]
तद्यथा विज्ञानं कार्यं कारणं चेति एकान्तेन तु पृच्छतो नैकान्तव्याकरणात् विभज्यव्याकरणं युज्यते ।
[293।02-293।03]

स्कन्धेभ्यो ऽन्यः सत्त्व इत्येतदव्याकृतमेव ।
[293।03]
न चाव्याकरणमेव व्याकरणं युज्यत इति ।
[293।03-293।04]
यस्तु स्थापनीयः प्रश्नः स्थापनीयत्वेन व्याक्रियते ।
[293।04]
कथं न व्याकृतो भवति ।
[293।05]
आभिधर्मिका आहुः ।
[293।05-293।07]
"तथागतो भगवानर्हन् सम्यक्संबुद्धः स्वाख्यातो ऽस्य धर्मः सुप्रतिपन्नः श्रावकसंघः रूपमनित्यं यावद्विज्ञान दुःखप्रज्ञप्तिर्यावन्मार्गप्रज्ञप्तिरेकांशेन व्याकर्त्तव्यमर्थोपसंहितत्वात् ।
[293।07-293।08]
विभज्जव्याकरणं नाम यदि कश्चिद् ब्रूयाद्धर्मान् वदेति स वक्तव्यो बहवो धर्मा अतीता अनागताः प्रत्युत्पन्नाः कतमान् वदामीति ।
[293।09]
यदि ब्रू यादतीतानिति ।
स व्यक्तव्यो ऽतीता अपि बहवो रूपं यावद्विज्ञानमिति ।
[293।10]
अथं ब्रूयाद्रूपमिति ।
स वक्तव्यो रूपमपि त्रिविधं कुशलमकुशलमव्याकृतं च ।
[293।11]
यद्याह कुशलमिति ।
[293।11-293।12]
तदपि सप्तप्रकारं प्राणातिपाताद्विरतिर्यावत्संभिन्नप्रलापादिति ।
[293।12]
यद्याह प्राणातिपाताद्विरतिमिति ।
[293।12-293।13]
सा ऽपि त्रिप्रकारा अलोभजा ऽद्वेषजा ऽमोहजा ।
[293।13]
यद्याहालोभजामिति ।
[293।13-293।14]
अलोभजा ऽपि द्विविधा विज्ञाप्त्यविज्ञप्तिभेदादित्येवं विभज्य वक्तव्यमिति ।
[293।14]
एतदेव च शठस्य परिपृच्छ्य व्याकरणम् ।
[293।14-293।15]
तस्य वक्तव्यं धर्मा बहव इति ।
[293।15]
न तु विभक्तव्या यावत्तूष्णिम् वा तिष्ठति स्वयं वा व्याकरोतीति ।
[293।16-293।17]
यदा तौ न किञ्चित् पृच्छतः केवलमध्येषयतः तयोश्च न किञ्चित् व्याक्रियते केवलं परिप्रश्न्येते तत् कथमनयोः प्रश्नो भवति कथं वा व्याकरणम् ।
[293।18]

यो ह्हि पन्थानं ब्रूहीत्याह किम् तेन पन्था न पृष्टो भवति ।
[293।18-293।19]
परिपृच्छयैव व्याकरणात् कथं न परिपृच्छाव्याकरणं भवति ।
[293।19-293।20]
स्थापनीयस्तु यथा अन्तवान् लोको ऽनन्तवानित्येवमादि सूत्रान्तादेव तु प्रश्नव्याकरणानां लक्षणं द्रष्टव्यम् ।
[293।20-293।21]
भदन्तमहासाङ्घिकाः सूत्रं पठन्ति ।
[293।21]
"चत्वारीमानि भिक्षवः प्रश्नव्याकरणानीति ।
[293।21-293।22]
कतमानि चत्वारि ।
[293।22]
अस्ति भिक्षव एकांशव्याकरणीयः प्रश्नः ।
अस्ति यावत् स्थापनीयः ।
[293।23]
कतमश्च भिक्षवः एकांशव्याकरणीयः प्रश्नः ।
[293।23-293।24]
सर्वे संस्कारा अनित्या इत्ययं भिक्षव एकांशव्याकरणीयः प्रश्नः ।
[293।24]
कतमश्च भिक्षवो विभज्यव्याकरणीयः प्रश्नः ।
[293।24-293।25]
संचेतनीयं कर्म कृत्वा किं प्रतिवेदयत इत्ययम् विभज्यव्याकरणीयः प्रश्नः ।
[293।25-293।26]
कतमश्च भिक्षवः परिपृच्छ्यव्याकरणीयः प्रश्नः ।
[293।26-293।27]
संज्ञासु पुरुषस्यात्मा उताहो ऽन्यासंज्ञा अन्य आत्मेति पृष्टेन सता परिप्रष्टव्यः कतमं पुनरायुष्मानात्मानं प्रत्येति ।
[293।27-293।28]
स चेदेवं वदेदौ दारिकं खल्वहयायुष्मन्नात्मानं प्रत्येमि ।
[293।28-293।29]
एवं सत्यन्या संज्ञा अन्य आत्मेत्येवं वचनीयः ।
[293।29]
अयं हि परिपृच्छ्य व्याकरणीयः प्रश्नः ।
[293।29-294।01]
कतमश्च भिक्षवः स्थापनीयः प्रश्नः ।
[294।01]
तद्यथा शाश्वतो लोको ऽशाश्वतः ।
[294।01-294।02]
शाश्वतश्चाशाश्वतश्च ।
[294।02]
नैव शाश्वतो नाशाश्वतः ।

अन्तवानन्ततः ।
अन्तवांश्चानन्तश्च ।
[294।02-294।03]
नैवान्तवान्नानन्तवान् ।
[294।03-294।04]
भवति तथागतः परं मरणान्न भवति तथागतः परं मरणात् यावदन्यो जीवो ऽन्यच्छरीरमित्ययं भिक्षवः स्थापनीयः प्रश्न" इति ।
[294।04-294।05]
यस्य पुद्गलस्य यो ऽनुशयो यस्मिन्नालम्बने ऽनुशेते स तेन तस्मिन् संप्रयुक्तः ।
[294।05-294।06]
इदं तु वक्तव्यमतीते न कस्मिन् यावत् प्रत्युपन्ने न कस्मिन्निति ।
[294।07]
समासत इमे द्विविधाः क्लेशाः ।
स्वलक्षणक्लेशाश्च रागप्रतिवमानाः ।
[294।08]
सामान्यक्लेशाश्च दृष्टिविचिकित्साद ऽविद्याः ।
तत्र तावत् ।
[294।09-294।10]
रागप्रतिघमानैः स्यादतीतप्रत्युपस्थितैः ।
यत्रोत्पन्ना ऽप्रहीणास्ते तस्मिन् वस्तुनि संयुतः
[294।11-294।12]
अतीताः प्रत्युत्पन्नाश्च रागप्रतिघमाना यस्मिन् वस्तुन्युत्पन्ना न च प्रहीणास्तस्मिन् वस्तुनि तैः संयुक्तः ।
[294।12]
एते हि स्वलक्षणक्लेशत्वान्न सर्वस्यावश्यं सर्वत्रोत्पद्यन्ते ।
[294।13]
सर्वत्रानागतैरेभिर्मानसैः
[294।14]
यत्राप्रहीणास्ते इति वर्त्तते ।
[294।14-294।15]
अनागतैरेभिरेव रागप्रतिघमानैर्मनोभूमिकैः सर्वत्र वस्तुनि संयुतस्त्रैयध्विके ।
[294।15]
मानसानां त्र्यध्वविषयत्वात्
[294।16]
स्वाध्विके परैः ।
[294।17]
अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्तः ।
के पुनरन्ये ।
[294।17-294।18]
ये पञ्च विज्ञानकायिका रागाश्च प्रतिघाश्च ।
[294।18]
उत्पत्तिधर्मभिरेव ।

तैरेव तु
[294।19]
अजैः सर्वत्र
[294।20]
अनुत्पत्तिधर्मभिः पञ्चविज्ञानकायिकैरपि सर्वत्र वस्तुनि संयुक्तः ।
त्रैयध्विके ऽपि
[294।21]
शेषैस्तु सर्वैः सर्वत्र संयुतः
[295।01]
के पुनः शेषाः ।
दृष्टिविचिकित्सा ऽविद्यास्त्रैयध्विकाः ।
[295।01-295।02]
तैः सर्वैरपि सर्वस्मिन्वस्तुनि संयुक्तः ।
[295।02]
सामान्यक्लेशत्वात् ।
यावदप्रहीणा इत्यधिकारो ऽनुवर्त्तत एव ।
[295।02-295।03]
किं पुनरिदमतीतानागतमुच्यते ऽस्त्यथ न ।
[295।03-295।04]
यद्यस्ति सर्वकालास्तित्वात्संस्काराणां शाश्वतत्वं प्राप्नोति ।
[295।04]
अथ नास्ति ।
कथं तत्र तेन वा संयुक्तो भवति विसंयुक्तो वा ।
[295।04-295।05]
न संस्काराणां शाश्वतत्वं प्रतिज्ञायते वैभाषिकैः संस्कृतलक्षणयोगात् ।
[295।05-295।06]
प्रतिज्ञायते तु विशदं
[295।07]
सर्वकालास्तिता
[295।08]
किं कारणम् ।
[295।09]
उक्तत्वात्
[295।10-295।11]
उक्तं हि भगवता ऽ"तीतं चेद् भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो ऽभविष्यत् ।
[295।11-295।12]
यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो भवति ।
[295।12-295।13]
अनागतं चेद्रूपं नाभविष्यत् न श्रुतवानार्यश्रावको ऽनागतं रूपं नाभ्यनन्दिष्यत् ।
[295।13-295।14]

यस्मात्तर्ह्यस्त्यनागतं रूपमिति" विस्तरः ।
[295।15]
द्वयात्
[295।16]
"द्वयं प्रतीत्य विज्ञानस्योत्पाद" इत्युक्तम् ।
द्वयं कतमत् ।
[295।16-295।17]
चक्षू रूपाणि यावत् मनो धर्मा इति ।
[295।17]
असति वा ऽतीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यात् ।
[295।18]
एवं तावदागमतो ऽस्त्यतीतानागतं युक्तितो ऽपि ।
[295।19]
सद्विषयात्
[295।20]
सति विषये विज्ञानं प्रवर्तते नासति ।
[295।20-295।21]
यदि चातीतानागतं न स्यादसदालम्बनं विज्ञानं स्यात् ।
[295।21]
ततो विज्ञानमेव न स्यादालम्बनाभावात् ।
[295।22]
फलात् ।
[295।23]
यदि चातीतं न स्यात् शुभाशुभस्य कर्मणः फलमायत्यां कथं स्यात् ।
[295।23-296।01]
न हि फलोत्पत्तिकाले वर्त्तमानो विपाकहेतुरस्तीति ।
[296।01-296।02]
तस्मादस्त्येवातीतानागतमिति वैभाषिकाः ।
[296।02]
अवश्यं च किलैतत्सर्वास्तिवादेन सता ऽभ्युपगन्तव्यम् ।
यस्मात्
[296।03]
तदस्तिवादात् सर्वास्तिवादा इष्टाः
[296।04]
ये हे सर्वमस्तीति वदन्ति अतीतमनामतं प्रत्युत्पन्नं च ते सर्वास्तिवादाः ।
[296।04-296।06]
ये तु केचिदस्ति यत् प्रत्युत्पन्नमदत्तफलं चातीतं कर्म किञ्चिन्नास्ति यद्दत्तफलमतीतमनागतं चेति विभज्य वदन्ति ते विभज्यवादिनः ।
[296।06-296।07]
कति चैते सर्वास्तिवादा इत्याह
[296।08]

चतुर्विधाः
[296।09]
ते भावलक्षणावस्था ऽन्यथा ऽन्यथिकसंज्ञिताः ।
[296।10]
भावान्यथिको भदन्तधर्मत्रातः ।
स किलाह ।
[296।10-296।11]
धर्मस्याध्वसु, प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यान्यथात्वम् ।
[296।11-296।12]
यथा सुवर्णभाजनस्य भित्त्वा ऽन्यथा क्रियमाणस्य संस्थानान्यथात्वं भवति न वर्णान्यथात्वम् ।
[296।12-296।13]
यथा च क्षीरं दधित्वेन परिणमद्रसवीर्यविपाकान् परित्यजति न वर्णम् ।
[296।13-296।14]
एवं धर्मो ऽप्यनागतादध्वनः प्रत्युत्पन्नमध्वानमागच्छन्ननागतभावं जहाति न द्रव्यभावम् ।
[296।14-296।15]
एवं प्रत्युत्पन्नादतीतमध्वानं गच्छन् प्रत्युत्पन्नभावं जहाति न द्रव्यभावमिति ।
[296।16]
लक्षाणान्यथिको भदन्तघोषकः ।
स किलाह ।
[296।16-296।17]
धर्मो ऽध्वसु प्रवर्त्तमानो ऽतीतो ऽतीतलक्षणयुक्तो ऽनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्तः ।
[296।17-296।18]
अनागतो ऽनागतलक्षणयुक्तो ऽतीतप्रत्युत्पन्नाभ्यामवियुक्तः ।
[296।18-296।19]
एवं प्रत्युत्पन्नो ऽप्यतीतानागताभ्यामवियुक्तः ।
[296।19]
तद्यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त इति ।
[296।20]
अवस्था ऽन्यथिको भदन्तवसुमित्रः ।
स किलाह ।
[296।20-296।21]
धर्मो ऽध्वसु प्रवर्तमानो ऽवस्थामवस्थां प्राप्यान्यो ऽन्यो निदिश्यते अवस्थान्तरतो न द्रव्यान्तरतः ।
[296।21-296।23]
यथैका वर्तिका एकाङ्के निक्षिप्ता एकमित्युच्यते शताङ्के शतं सहस्राङ्के सहस्रमिति ।
[297।01]
अन्यथान्यथिको भदन्तबुद्धदेवः ।
स किलाह ।
[297।01-297।02]
धर्मो ऽध्वसु प्रवर्तमानः पूर्वापरमपेक्ष्यान्यो ऽन्य उच्यते अवस्थान्तरतो न द्रव्यान्तरतः ।
[297।02-297।03]

यथैका स्त्री माता वोच्यते दुहिता वेति ।
[297।03]
इत्येते चत्वारः सर्वास्तिवादाः ।
[297।04]
एषां तु प्रथमः परिणामवादित्वात् सांख्यपक्षे निक्षेप्तव्यः ।
[297।04-297।05]
द्वितीयस्याध्वसंकरः प्राप्नोति ।
[297।05]
सर्वस्य सर्वक्षणयोगात् ।
[297।05-297।06]
पुरुषस्य तु कस्याञ्चित् स्त्रियां रागः समुदाचरति कस्याञ्चित् केवलं समन्वागम इति किमत्र साम्यम् ।
[297।06-297।07]
चतुर्थस्याप्येकस्मिन्नेवाध्वनि त्रयो ऽध्वानः प्राप्नुवन्ति ।
[297।07-297।08]
अतीते ऽध्वनि पूर्वपश्चिमौ क्षणावतीतानागतौ मध्यमः क्षणः प्रत्युत्पन्न इति ।
[297।08]
एवमनागते ऽपि ।
अत एषां सर्वेषां
[297।09]
तृतीयः शोभनः
[297।10]
यो ऽयमवस्था ऽन्यथिकः ।
तस्य किल
[297।11]
अध्वानः कारित्रेण व्यवस्थिताः
[297।12]
यदा स धर्मः कारित्रं न करोति तदा ऽनागतः ।
यदा करोति तदा प्रत्युत्पन्नः ।
[297।13]
यदा कृत्वा निरुद्धस्तदा ऽतीत इति ।
परिगतमेतत्सर्वम् ।
इदं तु वक्तव्यम् ।
[297।13-297।14]
यद्यतीतमपि द्रव्यतो ऽस्त्यनागतमिति ।
[297।14]
कस्मात्तदतीतमित्युच्यते ऽनागतमिति वा ।
[297।14-297।15]
ननु चोक्तमध्वानः कारित्रेण व्यवस्थिता इति ।
[297।15-297।16]
यद्येवं प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषः किं कारित्रम् ।

[297।16]
फलदानप्रतिग्रहणम् ।
[297।16-297।17]
अतीतानामपि तर्हि सभागहेत्वादीनां फलदानात् कारित्रप्रसङ्गो ऽर्धकारित्रस्य वेति लक्षणसंकरः ।
[297।18]
इदं च वक्तव्यम् ।
तेनैवात्मना सतो धर्मस्य नित्यं कारित्रकरणे
[297।19]
किं विघ्नं
[297।20]
येन कदाचित् कारित्रं करोति कदाचिन्नेति ।
प्रत्ययानामसामग्रयमिति चेत् ।
न ।
[297।21]
नित्यमास्तित्वाभ्युपगमात् ।
यच्च तत् कारित्रमतीतानागतं प्रत्युत्पन्नं चोच्यते
[297।22]
तत्कथं
[298।01]
किं कारित्रस्याप्यन्यदस्ति कारित्रम् ।
[298।01-298।02]
अथ तन्नैवातीतं नाप्यनागतं न प्रत्युत्पन्नमस्ति च ।
[298।02]
तेनासंस्कृतत्वान्नित्यमस्तीति प्राप्तम् ।
[298।02-298।03]
अतो न वक्तव्यं यदा करित्रं न करोति धर्मस्तदा ऽनागत इति ।
[298।04]
स्यादेष दोषो यदि धर्मात् कारित्रमन्यत्स्यात् ।
तत्तु खलु
[298।05]
नान्यत्
[298।06]
अतो न भवत्येष दोषः ।
एवं तहि स एव
[298।07]
अध्वायोगः
[298।08-298।09]
यदि धर्म एव कारित्रं कस्मात्स एव धर्मस्तेनैवात्मना विद्यमानः कदाचिदतीत इत्युच्यते कदाचिदनागत इत्यध्वनां व्यवस्था न सिध्यति ।
[298।09]
किमत्र न सिध्यति ।

[298।10]
यो ह्यजातो धर्मः सो ऽनागतः ।
यो जातो भवति न च विनष्टः स वर्त्तमानः ।
[298।11]
यो विनष्टः सो ऽतीतः इति ।
एतदेवात्र वक्तव्यम् ।
[298।11-298।12]
यदि यथा वर्त्तमानं द्रव्यतो ऽस्ति तथा ऽतीतमनागतं चास्ति ।
[298।12]
तस्य
[298।13]
तथा सतः ।
[298।14]
अजातनष्टता केन
[298।15]
तेनैव स्वभावेन सतो धर्मस्य कथमिदं सिध्यत्यजात इति यो विनष्टः इति वेति ।
[298।16]
किमस्य पूर्वं नासीद्यस्याभावादजात इत्युच्यते ।
[298।16-298।17]
किं च पश्चान्नास्ति यस्याभावा द्विनष्ट इत्युच्यते ।
[298।17]
तस्मान्न सिध्यति सर्वथा ऽप्यत्राध्वत्रयम् ।
[298।17-298।18]
यद्यभुत्वा भवतीति नेष्यते भूत्वा च पुनर्न भवतीति ।
[298।18-298।19]
यदप्युक्तं "संस्कृतलक्षणयोगान्न शाश्वतत्वप्रसङ्ग" इति ।
[298।19]
तदिदं केवलं वाङ्मात्रमुत्पादविनाशयोरयोगात् ।
[298।19-298।20]
नित्यं च नामास्ति स धर्मो न च नित्य इत्यपूर्वैषा वाचो युक्तिः ।
[298।20]
आह खल्वपि
[298।21-298।22]
"स्वभावः सर्वदा चास्ति भावो नित्यश्च नेष्यते ।
न च स्वभावाद् भावो ऽन्यो व्यक्तमीश्वरचेष्टितम् ।"
[299।01]
यत्तूक्तमुक्तत्वादिति ।
वयमपि ब्रूमो ऽस्त्यतीतानागतमिति ।
[299।01-299।02]
अतीतं तु यद् भूतपूर्वम् ।

[299।02]
अनागतं यत्सति हेतौ भविष्यति ।
[299।02-299।03]
एवं च कृत्वा ऽस्तीत्युच्यते न तु पुनर्द्रव्यतः ।
[299।03]
कश्चैवमाह ।
वर्तमानवत्तदस्तीति ।
कथमन्यथा ऽस्ति ।
[299।03-299।04]
अतीता नागतात्मना ।
[299।04]
इदं पुनस्तवोपस्थितम् ।
[299।04-299।05]
कथं तदतीतमनागतं चोच्यते यदि नित्यमस्तीति ।
[299।05-299।07]
तस्मात् भूतपूर्वस्य च हेतोर्भाविनश्च फलस्य भूतपूरतां भावितां च ज्ञापयितुं हेतुफलापवाददृष्टिप्रतिषेधार्थमुक्तं भगवता "अस्त्यतीतमस्त्यनागतमि"ति ।
[299।07]
अस्तिशब्दस्य निपातत्वात् ।
[299।07-299।09]
यथा ऽस्ति दीपस्य प्रागभावो ऽस्ति पश्चादभाव इति वक्तारो भवन्ति यथा चास्ति निरुद्धः स दीपो न तु मया निरोधित इति ।
[299।09]
एवमतीतानागतमप्यस्तीत्युक्तम् ।
[299।09-299।10]
अन्यथा ह्यतीतानागतभाव एव न सिध्येत् ।
[299।10-299।11]
यत्तर्हि लगुडशिखीयकान्परिव्राजकानधिकृट्योक्तं भगवता "यत्कर्माभ्यतीतं क्षीणं निरुद्धं विगतं विपरिणतं तदस्ती"ति ।
[299।11-299।12]
किं ते तस्य तस्य कर्मणो भूतपूर्वत्वं नेच्छन्ति स्म ।
[299।12-299।13]
तत्र पुनस्तदाहितं तस्यां संततौ फलदानसामर्थ्यं संधायोक्तम् ।
[299।13]
अन्यथा हि स्वेन भावेन विद्यमानमतीतं न सिध्येत् ।
[299।13-299।15]
इत्थं चैतदेवं यत् परमार्थशून्यतयामुक्तं भगवता "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति ।
[299।15-299।16]
इति हि भिक्षवश्चक्षुरभूत्वा भवति भूत्वा च प्रतिगच्छती"ति
[299।16-299।17]
यदि चानागतं चक्षुः स्यान्नोक्तं स्याद् भूत्वा न भवतीति ।
[299।17]
वर्त्तमाने ऽध्वन्यभूत्वा भवतीति चेत् न ।

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc