अभिधर्मकोशभाष्य · भाग 441460
[270।26]
स्रोत आपत्तिफलप्रतिपन्नकाय दानं दत्त्वा ऽप्रमेयविपाकः ।
[270।27]
ततो ऽप्रमेयतरः स्रोत आपन्नायेति विस्तरेणोक्तं सूत्रे ।
अपितु
[271।01-271।02]
मातृपितृग्लानधार्मकथिकेभ्यो ऽन्त्यजन्मने ।
बोधिसत्त्वाय चामेया अनार्येभ्यो ऽपि दक्षिणा
[271।03]
एभ्यः पञ्चभ्यः पृथग्जनभूतेभ्यो ऽप्यप्रमेया फलतो दक्षिणा भवति ।
[271।03-271।04]
तत्रान्त्यजन्मा बोधिसत्त्वश्चरमभविकः ।
[271।04-271।05]
धर्मकथिकश्चतुर्विधे क्षेत्रविशेषे कतमस्मिन् पक्षे दिक्षेप्तव्यः ।
[271।05]
उपकारिपक्षे ।
[271।05-271।07]
स हि महाकल्याणमित्रम् अविद्यान्धायां प्रजायां प्रज्ञाचक्षुषो दाता समविषमस्य प्रकाशयिता अनास्रवस्य धर्मकायस्यातिनिवर्तयिता समासतो बुद्धकृत्यस्य कर्ता ।
[271।08]
कर्मणां तु गुरुलघुत्वं ज्ञातुकामेन समासतः षट् कारणानि ज्ञेयानि ।
तद्यथा
[271।09-271।10]
पृष्ठं क्षेत्रमधिष्ठानं प्रयिओगश्चेतनाशयः ।
एषां मृद्वधिमात्रत्वात् कर्ममृद्वधिमात्रता
[271।11]
पृष्ठं नाम यत्कृतस्य पुनरनुक्रिया ।
क्षेत्रं नाम यत्र कारापकाराः क्रियन्ते ।
[271।12]
अधिष्ठानं कर्मपथः ।
प्रयोगस्तदर्थं कायवाक्कर्म ।
[271।12-271।13]
चेतना यया कर्मपथं निष्ठापयति ।
[271।13-271।14]
आशयस्तदभिप्राय एवं चैवं च कुर्यामेवं चैवं च न करिष्यामीति ।
[271।14]
कस्यचित् पृष्ठपरिग्रहेणैव तत्कर्म गुरु संपद्यते ।
[271।14-271।15]
विपाकनैयम्येनावस्थानात् ।
[271।15]
कस्यचित् क्षेत्रवशेनैव ।
[271।15-271।16]
तत्रैव क्षेत्रे पुनरधिष्ठानवशात् गुरु संपद्यते नान्यथा ।
[271।16]
यथा माताइत्रोः प्राणातिपातात् न त्वेवमदत्तादानादिकात् ।
[271।16-271।17]
एवमन्यदपि योज्यम् ।
[271।17-271।18]
यस्य तु सर्वाण्यधिमात्राणि भवन्ति तस्यात्यर्थमधिमात्रं गुरु कर्म वेदितव्यम् ।
[271।18]
यस्य मृदूनि तस्यात्यर्थं मृदु वेदितव्यम् ॥
[271।19]
कृतं चोपचितं च कर्मोच्यते ।
कथं कर्मोपचितं भवति ।
पञ्चभिः करणैः ।
[271।20-271।21]
संचेतनसमाप्तिभ्यां निष्कौकृत्य विपक्षतः ।
परिवाराद्विपाकाच्च कर्मोपचितमुच्यते
[271।22]
कथं संचेनतः ।
संचिन्त्य कृतं भवति नाबुद्धिपूर्वं न सहसा कृतम् ।
[271।22-271।23]
कथं समापत्तितः ।
[271।23]
कश्चिदेकेन दुश्चरितेनापायान्यातिकश्चिद्यावत्त्रिभिः ।
[271।23-271।24]
कश्चिदेकेन कर्मपथेन कश्चिद्यावद्दशभिः ।
[271।24-271।25]
तत्र यो यावता गच्छति तस्मिन्नसमाप्ते कृतं तत्कर्म नोपचितम् समाप्ते तूपचितम् ।
[271।25]
कथं निष्कौकृत्यविपक्षतः ।
[271।25-272।01]
निर्विप्रतिसारं च तत् कर्म भवति निष्प्रतिपक्षं च ।
[272।01]
कथं परिवारतः ।
[272।01-272।02]
अकुशलं चाकुशलपरिवारं च भवति ।
[272।02]
कथं विपाकतः ।
विपाकदान नियतं भवति ।
[272।03]
एवं कुशलमपि योज्यम् ।
अतो ऽन्यथा कर्म कृतं भवति नोपचितम् ।
[272।04]
चैत्ये सरागस्यात्मार्थं दानमित्युक्तम् ।
[272।04-272।05]
तत्रासत्युपभोक्तरि कथं पुण्यं भवति ।
[272।05-272।06]
द्विविधं हि पुण्यं त्यागान्वयं त्यागादेव यदुपपद्यते परिभोगान्वयं च देयधर्मपरिभोगाद्यदुत्पद्यते ।
[272।07]
चैत्ये त्यागान्वयं पुण्यं
[272।08]
परिभोगान्व्यं पुण्यं नास्ति ।
कथं तत्राप्रतिगृह्णति कस्मिंश्चित् पुण्यम् ।
[272।08-272।09]
किं पुनः कारणं सति प्रतिग्रहीतरि भवितव्यं नासतीति ।
[272।09]
कस्यचिदप्यनुग्रहाभावात् ।
इदमकारणम् ।
[272।10]
यदि हि पुण्यं परानुग्रहादेव स्यात् मैत्र्याद्यप्रमाणसम्यग्दृष्टिभावनायां न स्यात् ।
[272।11]
तस्मादेष्टव्यं चैत्यै ऽपि पुण्यम् ।
[272।12]
मैत्र्यादिवदगृह्णति ।
[272।13-272।14]
यथा मैत्र्यादिष्वन्तरेणापि प्रतिग्राहकं परानुग्रहं वा पुण्यं भवति स्वचित्तप्रभवं तथाभ्यतीते ऽपि गुणवति तद्भक्तिकृतं स्वचित्तात् पुण्यं भवति ।
[272।14-272।15]
दानमानक्रिया तर्हि व्यर्था प्राप्नोति ।
[272।15]
न ।
तत्कर्मसमुत्थापिकाया भक्तेः प्रकृष्टतरत्वात् ।
[272।15-272।16]
यथा हि शत्रुवधाभिप्रायस्य तत्समुत्थापितं कायवाक्कर्म ।
[272।16-272।17]
शत्रुसंज्ञया तस्मिन्मृते ऽपि कुर्वतो बहुतरमपुण्यं जायते ।
[272।17]
नाभिप्रायमात्रेण ।
[272।17-272।18]
तथाभ्यतीते शास्तरि तद्भक्तिसमुत्थां दानमानक्रियां कुर्वतो बहुतरं पुण्यं जायते ।
[272।19]
न भक्तिमात्रेण ।
[272।19-272।20]
यदि स्वक्षेत्रे दानक्रियावीजमिष्टफलं भवति तत्क्षेत्रे तर्ह्यनिष्टफलं भविष्यति ।
[272।21]
कुक्षेत्रे ऽपीष्टफलता फलबीजाविपर्ययात्
[272।22-272।23]
कुक्षेत्रे ऽपि फलस्य बीजादविपर्ययो दृष्टो मृद्वीकाबीजान्मृद्वीकाफलमेवोत्पद्यते मधुरं निम्बवीजान्निम्बमेव तिक्तम् ।
[272।23-272।24]
एवं कुक्षेत्रे ऽपि परहिताध्याशयप्रवृत्तस्य दानबीजस्येष्टमेव फलं निर्वर्तते नानिष्टम् ।
[272।24-273।01]
क्षेत्रदोषात्तु तद्वीजमल्पफलं वा भवत्यफलं वा ।
[273।01]
गतं दानमयपुण्यक्रियावस्तु सप्रसङ्गम् ॥
[273।02]
शीलमयं वक्तव्यम् ।
तदुच्यते
[273।03]
दौःशीत्लमशुभं रूपं शीलं तद्विरतिः
[273।04]
अकुशलं हि रूपं दौःशील्यमुच्यते ।
तस्माद्विरतिः शीलम् ।
सा पुनर्विरतिः
[273।05]
द्विधा ।
[273।06]
यया च विरम्यते विज्ञप्त्या यच्च तद्विरमणम् अविज्ञप्तिः ।
[273।06-273।07]
न च केवलं दौःशील्याद्विरतिः शीलम् ।
[273।07]
किं तर्हि ।
[273।08]
प्रतिक्षिप्ताच्च बुद्धेन
[273।09-273।10]
यदपि न प्रकृत्या दौःशीलयं भगवता च बुद्धेन प्रतिक्षिप्तमकालभोजनादिकं तस्मादपि द्विधा विरतिः शीलम् ।
[273।10]
समात्तशिक्षस्य तु तदध्याचाराद्दौःशील्यं जायते ॥
[273।10-273।11]
उक्तं तमासेन शीलम् ॥
[273।12]
विशुद्धं तु चतुर्गुणम्
[273।13]
तत्तु शीलं चतुर्गुणं भवति ।
विपर्ययादविशुद्धम् ।
अथ कथं चतुर्गुणमित्याह
[273।14]
दौःशील्यतद्धेत्वहतं तद्विपक्षशमाश्रितम् ।
[273।15]
दौःशीत्येन तावदनुपहतं भवति यथोक्तेन दौःशील्येन ।
हेतुना ऽप्यनुपहतं भवति ।
[273।16]
लोभादिभिः क्लेशोपक्लेशैः दौःशील्यविपक्षाश्रितं च भवति ।
[273।16-273।17]
स्मृत्युपस्थानसंनिश्रितत्वात् समाश्रितं च भवति ।
[273।17]
नोपपत्तिविशेषाश्रितम् ।
[273।17-273।18]
निर्वाणपरिणामितवात् ।
[273।18]
पञ्चभिः कारणैः इत्यपरे ।
[273।18-273।19]
मौलैः कर्मपथैर्विशुद्धं भवति सामन्तकैर्विशुद्धं वितर्कैरनुपहतं स्मृत्या ऽनुपरिगहीतं निर्वाणपरिणामितं चेति ।
[273।19-273।20]
चतुर्विधं शीलमित्यपरे ।
[273।20]
भयशीलं यदा जीविकाश्लोकदण्डदुर्गतिभयात् पाल्यते ।
[273।20-273।21]
आशास्तिशीलं यद्भवभोगसत्कारतृष्णाकृतम् ।
[273।21-273।22]
बोध्यङ्गानुलोमं शीलं यन्मोक्षार्थं सम्यग्दृष्टिकाणाम् ।
[273।22]
परिशुद्धं शीलमनास्रवशीलं निर्मलत्वादिति ॥
गतं शीलम् ॥
[273।23]
समाहितं तु कुशलं भावना
[273।24]
किमिदं समाहितं नाम ।
समाधिस्वभावं सहभू यत् ।
किमर्थमेतत् भावनेत्युच्यते ।
[274।01]
चित्तवासनात्
[274।02]
तद्धि समाहितं कुशलमत्यर्थं चित्तं वासयति ।
गुणैस्तन्मयीकरणात्संततेः ।
[274।02-274।03]
पुष्पैस्तिलभावनावत् ।
[274।03]
दानं तावन्महाभोगतायै संवर्तत इत्युक्तम् ।
[274।03-274।04]
अथ शीलं भावना च
[274।05]
स्वर्गाय शीलं प्राधान्यात् विसंयोगाय भावना ।
[274।06]
दानमपि स्वर्गाय शीलं प्राधान्यात् ।
शीलमपि विसंयोगाय ।
भावना तु प्राधान्यात् ।
[274।07]
सुत्र उक्तं "चत्वारः पुद्गला ब्राह्मण्यं पुण्यं प्रसवन्ती"ति ।
[274।07-274।08]
कतमत् तद् ब्राह्मपुण्यम् ।
[274।08]
यत्तल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तम् इति वैभाषिकाः ।
[274।09]
पूर्वाचार्यास् तु व्याचक्षते ।
[274।10]
चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात्
[274।11]
यावता पुण्येन कल्पं स्वर्गेषु मोदते इदं ब्राह्मं पुण्यम् ।
[274।11-274।12]
ब्रह्मपुरोहितानां कल्पायुष्कत्वात् ।
[274।12]
निकायान्तरे गाथां पठन्ति
[274।13]
"ब्राह्मं पुण्यं प्रसवति कल्पं स्वर्गेषु मोदत" इति ।
[274।14]
आमिषदानमुक्तम् ।
धर्मदानं वक्तव्यम् ।
तदिदमुच्यते ।
[274।15]
धर्मदानं यथाभूत सूत्राद्यक्लिष्टदेशना ।
[274।16]
सूत्रादीनां यथाभूतमक्लिष्टदेशना धर्मदानम् ।
[274।16-274।17]
अतो महतीं त आत्मनः पुण्यज्यानिं कुर्वन्ति ये विपरीतधर्मं देशयन्ति ।
[274।17-274।18]
क्लिष्टचित्ता वा लाभसत्कार यशांसि वाञ्छन्तः ।
[274।18]
उक्तं पुण्यक्रियावस्तुभेदेन त्रिविधं कुशलं पुनः
[274।19]
पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा
[274।20-274।21]
पुण्यभागीयं यदिष्टविपाकं मोक्षभागीयं यस्मिन्नुत्पन्ने नियतं परिनिर्वाणधर्मा भवति ।
[274।21-274।23]
यस्य संसारादीनवनैरात्म्यनिर्वाणगुणद्योतिकां कथां श्रुत्वा रोमहर्षाश्रूपातौ भवतस्तस्यास्ति मोक्षभागीयं कुशलमूलमित्यवसेयं प्रवृषीवाङ्कुरप्ररोहात् खलविलेषु बीजास्तित्वम् ।
[274।23-274।24]
निर्वेधभागीयमुष्मादि चतुर्विधं पश्चाद्व्याख्यास्यामः ।
[275।01]
यदिदं लोक उच्यते लिपिमुद्रागणना काव्यं संख्येति क एषां स्वभावः ।
[275।02-275।03]
योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा ।
लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम्
[275।04]
योगप्रवर्तितमिति उपायविशेषप्रवर्तितम् ।
त्रिधा कर्मेति कायवाङ्मनस्कर्म ।
[275।04-275।05]
तत्र लिपिमुद्रे तावद्योगप्रवर्तितं कायकर्म समुत्थापनम् ।
[275।05]
गणना काव्यं च वाक्कर्म ।
[275।06]
इत्येतानि पञ्चस्कन्धस्वभावानि ।
संख्या मनस्कर्म ।
यन्मनसा संकलनं धर्माणाम् ।
[275।07]
धर्माणामिदानीं केचित् पर्याया उच्यन्ते ।
[275।08]
सावद्या निवृता हीनाः क्लिष्टा धर्माः
[275।09]
क्लिष्टानां धर्माणां सावद्या निवृता हीना इति पर्यायाः ।
[275।10]
शुभामलाः ।
[275।11]
प्रणीताः
[275।12]
कुशलानास्रवाणां प्रणीता इति पर्यायः ।
[275।12-275।13]
हीनप्रणीतेभ्यो ऽन्ये मध्या इति सिद्धं भवति ।
[275।14]
संस्कृतशुभाः सेव्याः
[275।15]
कुसलसंस्कृतानां सेवितव्या इति पर्यायः ।
शेषा असेवितव्या इति सिद्धं भवति ।
[275।16]
कस्मादसंस्कृतं न सेव्यम् ।
अनभ्यसनीयत्वादफलत्वाच्च ।
फलर्थं हि सेवा भवति ।
[275।17]
सोत्तरा अन्ये सर्वधर्माः ।
[275।18]
मोक्षस्त्वनुत्तरः
[275।19]
नहि निर्वाणाद्विशिष्टतरमस्ति ।
तच्च सर्वेभ्यो विशिष्टं कुशलनित्यत्वात् ।
=====================================================================
[275।20-275।21]
अभिधर्मकोशभाष्ये कर्मनिर्द्देशो नाम चतुर्थं कोशस्थानमिति ॥
पञ्चमं कोशस्थानम्
=====================================================================
ओं नमो बुद्धाय
=====================================================================
[277।03]
"कर्मजं लोकवैचित्र्य" मित्युक्तम् ।
[277।03-277।04]
तानि कर्माण्यनुशयवशादुपचयं गच्छन्ति अन्तरेण चानुशयान् भवाभिनिर्वर्त्तने न समर्थानि भवन्ति ।
[277।04]
अतो वेदितव्याः
[277।05]
मूलं भवस्यानुशयाः
[277।06]
क्लेशो हि प्रवर्तमानो दश कृत्यानि करोति ।
[277।06-277।09]
मूलं च दृढीकरोति संततिमवस्थापयति क्षेत्रमापादयति निःष्यन्दं निर्वर्तयति कर्मभवमभिनिर्हरति स्वसंभारं अरिगृह्णाति आलम्बने संमोहयति विज्ञानस्रोतो नमयति कुशलपक्षाद्व्युत्क्रामति पन्धनार्थं च स्फरति धात्वनतिक्रमयोगेनेति ।
[277।10]
कति चेमे ऽनुशयाः ।
समासेन षट् ।
कतमे
[277।11]
षड्रागः प्रतिघस्तथा ।
[277।12]
मानो ऽविद्या च दृष्टिश्च विचिकित्सा च
[277।13]
अथाग्रहणं रागवशेनान्येषामालम्बनानुशायितज्ञापनार्थम् ।
[277।13-277।14]
एतच्च पश्चात् प्रवेदयिष्यामः ।
[277।15]
ते पुनः
[277।16]
षड्रागभेदात्सप्तोक्ताः
[277।17]
त एते षड्नुशयाः सूत्रे रागस्य द्विधा भेदं कृत्वा सप्तोक्ताः ।
[277।17-277।19]
कामरागानुशयः प्रतिघानुशयो भवरागानुशयो मानानुश्यः अविद्यानुशयो दृष्ट्यनुशयो विचिकित्सानुशय इति ।
[277।19-278।01]
कथमिदं ज्ञातव्यं कामराग एवानुशयः कामरागानुशयः आहोस्वित् कामरागस्यानुशयः कामरागनुशयः ।
[278।01]
किं चातः ।
[278।01-278।02]
कामराग एवानुशयश्चेत् सूत्रविरोधः ।
[278।02]
"इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरति ।
[278।02-278।03]
उत्पन्नस्य कामरागपर्यवस्थानस्योत्तरि निःसरणं यथाभूतं प्रजानाति ।
[278।03-278।04]
तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्त्वसमवहतं सानुशयं प्रहीयत"इति ।
[278।04-278।06]
कामरागस्यानुशयश्चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः "कामरागानुशयस्त्रिभिरिन्द्रियैः संप्रयुक्त" इति ।
[278।06]
कामराग एवानुश्य इति वैभाषिकाः ।
[278।06-278।07]
एवं यावद्विचिकित्सैवानुशय इति ।
[278।07]
ननु चोक्तमेवं सूत्रविरोध इति ।
नास्ति विरोधः ।
सानुशयं सानुबन्धमित्यर्थः ।
[278।08]
औपचारिको वा सूत्रे ऽनुशयशब्दः प्राप्तौ ।
यथा दुःखो ऽग्निरिति ।
[278।08-278।09]
लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयशब्दः ।
[278।09]
तस्मात्संयुक्ता एवानुशयाः ।
कथमिदं गम्यते ।
[278।10]
अनुशयानां
[278।11]
"चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात्" ।
[278।12-278।13]
यस्मादनुशयैः क्लिष्टं चित्तं भवत्यपूर्वं कुशलं नोत्पद्यते उत्पन्नाच्च परिहीयते तस्मान्न विप्रयुक्ताः ।
[278।13]
अथ विप्रयुक्तैरप्येवं स्यात् ।
[278।13-278।14]
कुशलं न कदाचिदुपलभ्येत ।
[278।14]
तेषां नित्यं संनिहितत्वात् ।
उपलभ्यते च ।
अतः
[278।15-278।16]
"कुशलस्य चोपलम्भादविप्रयुक्ताः अथ इहानुशयाः" इति ।
[278।17-278।18]
तदिदमज्ञापकं यस्माद्यो विप्रयुक्तमनुशयमिच्छति स एतत्सर्वमनुशयकृतं नेच्छति ।
[278।18]
क्लेशकृतमेवेच्छति ।
एवं तु साधु यथा सौत्रान्तिकानाम् ।
[278।19]
कथं च सौत्रान्तिकानाम् ।
कामरागस्यानुशयः कामरागानुशय इति ।
[278।19-278।20]
न चानुशयः संप्रयुक्तो न विप्रयुक्तस्तस्याद्रव्यान्तरत्वात् ।
[278।20]
प्रसुप्तो हि क्लेशो ऽनुशय उच्यते ।
[278।21]
प्रबुद्धः पर्यवस्थानम् ।
का च तस्य प्रसुप्तिः ।
असंमुखीभूतस्य बीजभावानुबन्धः ।
[278।22]
कः प्रबोधः ।
संमुखीभावः ।
को ऽयं वीजभावो नाम ।
[278।22-278।23]
आत्मभावस्य क्लेशजा क्लेशोत्पादनशक्तिः ।
[278।23-278।24]
यथानुभवज्ञानजा स्मृत्युत्पादनशक्तिर्यथा चाङ्कुरादीनां शालिफलजा शालिफलोत्पादनशक्तिरिति ।
[278।24-279।01]
यस्तु क्लेशानां बीजार्थमर्थान्तरं वीप्रयुक्तमनुशयं कल्पयति तेन स्मृतिबीजमप्यर्थान्तरं कल्पयितव्यं जायते ।
[279।01-279।03]
यत्तर्हि सूत्रे क्लेश एवानुशय उक्तः षट्षट्के "सो ऽस्य भवति सुखायां वेदनायां रागानुशय" इति ।
[279।03]
भवतीति वचनान्नासौ तदैवानुशयः ।
कदा तर्हि भवति ।
[279।03-279।04]
यदा प्रसुप्तो भवति ।
[279।04]
हेतौ वा तदुपचार एष द्रष्टव्यः ।
तिष्ठतु प्रसङ्गः ।
शास्त्रं प्रवर्त्तताम् ।
[279।05]
य एष सूत्रे रागस्य भेदः कृतः कामरागो भवराग इति ।
[279।06]
को ऽयं भवरागः ।
[279।07]
भवरागो द्विधातुजः ।
[279।08]
रूपारूप्यधातुजो रागो भवरागः कृटः ।
किं कारणमेवं कृतः ।
[279।09]
अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः
[279।10]
समापत्तिरागो हि तेषां प्रायेण ।
स चान्तर्मुखप्रवृत्तस्तस्मात् भवरागः ।
[279।11]
उक्तस्तयोः किल धात्वोर्मोक्षसंज्ञाव्याव्यवर्त्तनार्थमेकेषामिति ।
[279।11-279।12]
आत्मभाव एव तु भवः ।
[279।12-279।13]
ते च सत्त्वाः समापत्तिं साश्रया मास्वादयन्त आत्मभावमेवास्वादयन्ति कामवीतरागत्वात् ।
[279।13]
अतः स रागो भवराग इत्युक्तः ।
[279।13-279।14]
पुनरेते षडनुशया अभिधर्मे दश क्रियन्ते ।
[279।14]
कथं कृत्वा ।
[279।15-279।16]
दृष्टयः पञ्च सत्कायमिथ्यान्तग्राहदृष्टयः ।
दृष्टिशीलवृतपरामर्शाविति पुनर्दश
[279।17]
षण्णामनुशयानां दृष्टिं पञ्चधा कृत्वा दश भवन्ति ।
[279।17-279।18]
पञ्च दृष्टिस्वभावाः सत्कायदृष्टिरन्तग्रहदृष्टिर्मिथ्यादृष्टिर्दृष्टिपरामर्शः शीलवृतपरामर्शश्च ।
[278।18-278।19]
यथा दृष्टिस्वभावाः रागह्प्रतिध्हो मानो ऽविद्या विचिकित्सा ।
[279।19-279।20]
एते पुनरेते दशानुशया अभिधर्मे ऽष्टानवतिः क्रियन्ते ।
[279।20-279।21]
कामावचराः षट्त्रिंशद् रूपावचरा एकत्रिंशत् आरूप्यावचरा एकत्रिंशत् ।
[279।21]
कथं कृत्वा ।
[279।21-279।22]
समासतो ह्येते ऽनुशयास्त्रैधातुका दर्शनप्रहातव्या भावनाप्रहातव्याश्च ।
[279।22-279।23]
तत्र तावत् कामावचरा दर्शनप्रहातव्या द्वात्रिंशत् ।
[279।23]
कतमे त इत्याह
[280।01-280।02]
दशैते सप्तसप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः ।
यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः
[280।03]
य एते दशानुशया उक्ता एते कामधातौ दशापि दुःखदर्शनहेयाः सन्ति ।
[280।04]
एभ्य एव सप्त समुदयदर्शनप्रहेयाः ।
[280।04-280।05]
सप्त निरोधदर्शनहेयाः सत्कायदृष्टिमन्तग्राहदृष्टिं शीलव्रतपरामर्शं च वर्जयित्वा ।
[280।05]
अष्टौ मार्गदर्शनहेयाः ।
[280।05-280।06]
सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वा ।
[280।06]
इत्येते कामावचरा द्वात्रिंशदनुशया दर्शनप्रहातव्याः ।
[280।07]
सत्यानां दर्शनमात्रेण प्रहाणात् ।
[280।08]
चत्वारो भावनाहेयाः
[280।09]
तद्यथा रागः प्रतिघो मानो ऽविद्या च ।
[280।09-280।10]
दृष्टसत्यस्य पश्चात् मार्गाभ्यासेन प्रहाणात् ।
[280।10]
तदेवं सत्कायदृष्टिरेकप्रकारा भवति दुःखदर्शनहेया ।
[280।10-280।11]
एवमन्तग्राहदृष्टिः मिथ्यादृष्टिश्चतुष्प्रकारा भवति ।
[280।11]
दुःखसमुदयनिरोधमार्गदर्शनहेया ।
[280।11-280।12]
एवं दृष्टिपरामर्शो विचिकित्सा च ।
[280।12]
शीलव्रतपरामऋशो द्विप्रकारः दुःखमार्गदर्शनहेयः ।
[280।13-280।14]
रागप्रतिघमानाविद्याः पञ्चप्रकाराश्चतुःसत्यदर्शनहेया भावनाहेयाश्च ।
[280।14]
कीदृशा एते दुःखदर्शनहेयाः कीदृशा यावद् भावनाहेयाः ।
[280।14-280।15]
ये यद्दर्शनहेयालम्बनास्ते तद्दर्शनहेया अवशिष्टा भावनाहेयाः ।
[280।15-280।17]
ता एव द्वादश दृष्टयो भवन्ति चतस्रो विचिकित्साः पञ्च रागाः पञ्च प्रतिघाः पञ्च मानां पञ्चाविद्या इत्येते कामावचराः षट्त्रिंशदनुशया भवन्ति ।
[280।18]
त एवाप्रतिघाः पुनः ।
[280।19]
रूपधातौ
[280।20]
पञ्चप्रकारं प्रतिघमपहाय त एव रूपावचरा एकत्रिंशदनुशया भवन्ति ।
[280।21]
यथा रूपधातौ
[280।22]
तथारूप्ये
[280।23]
एकत्रिंशदनुशया भवन्ति ।
[280।24]
इत्यष्टानवतिर्मताः
[280।24-280।25]
त एवमेते षडनुशया आकारप्रकारधातुभेदैरष्टानवतिर्मताः आमिधार्मिकाणाम् ।
[281।01]
य इमे दर्शनप्रहातव्यानुशया उक्ताः किमेते नियतं दर्शनेनैव प्रहीयन्ते ।
[281।02]
नेत्याह ।
किं तर्हि ।
[281।03]
भवाग्रजाः क्षान्तिवध्या दृग्घेया एव
[281।04]
ये भवाग्रभूमिजा अन्वयज्ञानक्षान्तिहेया अनुशयास्ते दर्शनहेया एव न भावनाहेयाः ।
[281।05]
शेषजाः ।
[281।06]
दृग्भावनाभ्याम्
[281।07]
क्षान्तिवध्या इति वर्तते ।
[प्28।107-28108]
शेषासु भूमिषु यथायोगं धर्मान्वयज्ञानक्षान्तिहेया अनुशया आर्याणां दर्शनहेयाः पृथग्जनानां भावनाहेयाः ।
[281।09]
अक्षान्तिवध्या भावनयैव तु
[281।10]
सर्वासु भूमिषु ये ऽनुशया ज्ञानवध्यास्ते उभयेषां नित्यं भावनाहेयाः ।
[281।10-281।11]
नैव हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयन्त इत्यपरे ।
[281।12-281।14]
तथाहि महाकर्मविभागसूत्रे पूर्वान्तकल्पकानां च शाश्वतवादिनामेकत्यशाश्वतिकानाम् अहेतुसमुत्पत्तिकानां च वीतरागाणां च कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः ।
[281।13-281।14]
न च रूपावचराणां क्लेशानां कामधातुरालम्बनं वीतरागत्वात् ।
[281।14-281।15]
तस्मात् कामप्रतिसंयुक्ता एव ता अप्रहीणा इति ।
[281।15-281।16]
दृष्ट्युत्पादसमकालं ते परिहीणा देवदत्त इवेति वैभाषिकाः ।
[281।17]
दृष्टयः पण्च नामतो निर्दिष्टा न तु स्वभावतस्तत् कस्तासां स्वभावः ।
[281।18-281।19]
आत्मात्मीयद्रुवोच्छेदनास्तिहीना ग्रदृष्टयः ।
अहेत्वमार्गे तद्दृष्टिरेतास्ताः पञ्च दृष्टयः
[281।20]
आत्मदृष्टिरात्मीयदृष्टिर्वा सत्कायदृष्टिः ।
सीदतीति सत् ।
[281।20-281।21]
चयः कायः संघातः स्कन्ध इत्यर्थः ।
[281।21]
सच्चायं कायश्चेति सत्कायः पञ्चोपादानस्कन्धाः ।
[281।22]
नित्यसंज्ञां पिण्डसंज्ञां च त्याजयितुमेवं द्योतिता ।
एतत्पूर्वको हि तेष्वात्मग्रहः ।
[281।23]
सत्काये दृष्टिः सत्कायदृष्टिः ।
[281।23-281।24]
सर्वैव सास्रवालम्बना दृष्टिः सत्काये ।
[281।24]
आत्मात्मीयदृष्टिरेव तु सत्कायदृष्टिरुक्ता ।
[281।24-282।01]
यथा गम्येत सत्कायदृष्टिरियं नात्मनि नात्मीये वेति ।
[282।01-282।03]
यथोक्तं "ये केचिद् भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि"ति ।
[282।03]
तस्यैवात्माभिमतस्य वस्तुनो ध्रुवदृष्टिरुच्छेददृष्टिर्वा ऽन्तग्राहदृष्टिः ।
[282।04]
शाश्वतोच्छेदान्तग्रहणात् ।
सति दुःखादिसत्ये नास्तीति दृष्टिर्मिथ्यादृष्टिः ।
[282।04-282।05]
सर्वैव हि विपरीतस्वभावप्रवृट्ता दृष्टिर्मिथ्यादृष्टिः एकैव तूक्ता ।
[282।05-282।06]
अतिशयवत्त्वात् दुर्गन्धक्षतवत् ।
[282।06]
एषा ह्यपवादिका अन्यास्तु समारोपिकाः ।
हीने अग्रदृष्टिर्दृष्टिपरामर्शः ।
[282।07]
किं हीनम् ।
सर्वं सास्रवम् ।
आर्यैः प्रहीणत्वात् ।
तस्याग्रतो ग्रहणं दृष्टिपरामर्शः ।
[282।08]
दृष्ट्यादिपरामर्श इति वक्तव्ये आदिशब्दलोपः कृतः ।
[282।08-282।09]
अहेतौ हेतुदृष्टिरमार्गे मार्गदृष्टिः शीलवृतपरामर्शः ।
[282।09]
तद्यथा महेश्वरो न हेतुर्लोकानाम् ।
[282।09-282।10]
तं च हेतुं पश्यति प्रजापतिमन्यं वा ।
[282।10-282।11]
अग्निजलप्रवेशादयश्च न हेतुः स्वर्गस्य तांश्च हेतुं पश्यति ।
[282।11-282।12]
शीलव्रतमात्रकं सांख्ययोगज्ञानादयश्च न मार्गो मोक्षास्य तांश्च मार्गं पश्यति ।
[282।12-282।13]
अत्रापि किलादिशब्दलोपः कृत इत्येतास्ताः पञ्च दृष्टयो वेदितव्याः ।
[282।13]
सत्यकारणे कारणदृष्टिः शिलव्रतपरामर्शः ।
[282।13-282।14]
कस्मादयं न समुदयदर्शनप्रहातव्यः ।
[282।14-282।15]
यो हि कश्चिदीश्वरः प्रजापतिमन्यं वा कारणं पश्यति स तन्नित्यमेकं चात्मानं कर्तारमभिनिविश्य ।
[282।15]
तद्यस्मात् स
[282।16-282।17]
ईश्वरादिषु नित्यात्मविपर्यासात् प्रवर्तते ।
कारणाभिनिवेशो ऽतो दुःखदृग्घेय एव सः
[282।18]
दुःखदर्शनादेव हि तेषु तौ नित्यात्मग्राहौ प्रहीयेते ।
[282।18-282।19]
तस्मात्तत्कृतो ऽपि कारणाभिनिवेशस्तत एव प्रहीयते ।
[282।19-282।20]
यस्तर्हि जलाग्निप्रवेशादिभिः स्वर्गोपपत्तिं पश्यति शीलवृतेन वा शुद्धिं सो ऽपि दुःखदर्शनप्रहातव्य एव ।
[282।20]
एष हि शास्त्रपाठः ।
[282।20-282।22]
"ये चैवं दृष्टय एवंवादिनो यदयं पुरुषपुद्गलो गोशीलं समादाय वर्तते मृगशीलं कुक्कुरशीलं, स तेन शुध्यति मुच्यते सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति ।
[282।22-282।23]
अकारणं कारणतः प्रत्येति शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः" इति विस्तरः ।
[282।23-282।24]
किं पुनः कारणमसौ दुःखदर्शनप्रहातव्यः ।
[282।24]
दुःखे विप्रतिपन्नत्वात् ।
[282।24-282।25]
सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात् ।
[282।25-282।26]
कीदृशो वा ऽन्यः शीलवृतपरामर्शो मार्गेदर्शनप्रहात्व्यः ।
[282।26]
यो मार्गदर्शनप्रहातव्यालम्बनः ।
[282।26-282।27]
सो ऽपि हि नाम दुःखे विप्रतिपन्नः ।
[282।27-282।28]
यस्य च मार्गालम्बना मिथ्यादृष्टिर्विचिकित्सा वा ऽस्ति स नास्ति मोक्षमार्ग इति पश्यन् विचिकित्सन् वा कथं तया शुद्धिं प्रत्येष्यति ।
[283।01]
अथान्यं मोक्षमार्गं परामृश्य एष मोक्षमार्गो नास्तीत्याह ।
[283।01-283।02]
सो ऽपि तेनैवान्येन शुद्धिं प्रत्येति न तया मिथ्यादृष्ट्येति ।
[283।02-283।03]
तस्याप्यसौ मार्गदर्शनप्रहातव्यालम्बनो न सिध्यति ।
[283।03-283।04]
यश्चापि समुदयनिरोधदर्शनप्रहातव्यालम्बनया मिथ्यादृष्ट्या शुद्धिं प्रत्येति स कस्मान्न तद्दर्शनहेयः ।
[283।04]
तस्मात् परीक्ष्य एषो ऽर्थः ।
[283।05]
यदुक्तं "नित्यात्मविपर्यासादि"ति ।
किमेतावेव द्वौ विपर्यासौ ।
[283।05-283।06]
चत्वारो विपर्यासाः ।
[283।06]
अनित्ये नित्यमिति ।
दुःखे सुखमिति ।
अशुचौ शुचीति ।
[283।06-283।07]
अनात्मन्यात्मेति ।
[283।07]
अथैतद्विपर्यासचतुष्कं किंस्वभावम् ।
[283।08]
दृष्टित्रयाद्विपर्यासचतुष्कं
[283।09]
अन्तग्राहदृष्टेः शाश्वतदृष्टिर्नित्यविपर्यासः ।
[283।09-283।10]
दृष्टिपरामर्शात्सुखशुचिविपर्यासौ ।
[283।10]
सत्कायदृष्टेरात्मदृष्टिरात्मविपर्यासः ।
सकलेत्यपरे ।
[283।10-283।11]
कथमात्मीयदृष्टिर्विपर्यासः ।
[283।11]
कथं च न विपर्यासः ।
विपर्याससूत्राद् ।
[283।11-283।13]
आत्मानमेव तत्र वशिनं पश्येन्नात्मीयं पश्यतीत्यात्मदृष्टिरेवासौ द्विमुखी अथाहमित्येतस्मात् ममेति दृष्ट्यन्तरं स्यात् ।
[283।13]
मया मह्यमित्येतदपि स्यात् ।
[283।14]
कस्मादन्ये क्लेशा न विपर्यासाः ।
[283।14-283।15]
यस्मात् त्रिभिः कारणैर्विपर्यासानां व्यवस्थानम् कतमैस्त्रिभिः ।
[283।16]
वीपरीततः ।
[283।17]
नितीरणात् समारोपात्
[283।18]
एकान्तविपर्यस्तत्वादालम्बने नितीरकत्वात्समारोपणाच्च ।
[283।18-283।19]
उच्छेददृष्टिर्मिथ्यादृष्टिश्च न समारोपिके ।
[283।19]
अभावमुखप्रवृत्तत्वात् ।
[283।19-283।20]
शीलव्रतपरामर्शो नैकान्तविपर्यस्तस्तन्मात्रशुद्ध्यालम्बनत्वात् ।
[283।20-283।21]
अन्ये क्लेशा न सन्तीरका अतो न विपर्यासाः ।
[283।21-283।22]
यत्तर्हि सूत्रे उक्त "मनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिविपर्यास" इति ।
[283।22]
दृष्टिरेवात्र विपर्यासः ।
[284।01]
संज्ञाचित्ते तु तद्वशात्
[284।02]
दृष्टिविपर्यासवशादेव तत्संप्रयुक्ते संज्ञाचित्ते विपर्यासावुक्तौ ।
[284।02-284।03]
वेदनादयो ऽपि कस्मान्नोक्ताः ।
[284।03]
लोकप्रसिद्ध्या ।
[284।03-284।04]
लोके हि विपर्यस्तसंज्ञो विपर्यस्तचित्त इति प्रसिद्धं न पुनर्विपर्यस्तवेदन इति ।
[284।04-284।05]
त एते विपर्यासाः सर्वे ऽपि स्रोत आपन्नस्य प्रहीणा भवन्ति ।
[284।05]
दर्शनप्रहेयत्वात् दृष्टीनां ससंप्रयोगाणाम् ।
द्वादश विपर्यासाः ।
[284।05-284।06]
अनित्ये नित्यमिति संज्ञादृष्टिचित्तविपर्यासास्त्रयः ।
[284।06]
एवं यावदनात्मन्यात्मेति ।
[284।06-284।07]
तत्राष्टौ दर्शनप्रहातव्याश्चत्वारो भावनाप्रहातव्याः ।
[284।07-284।08]
दुःखे च संज्ञा चित्तविपर्यासावशुचौ चेति निकायान्तरीयाः ।
[284।08-284।09]
इतरथा हि कथमन्तरेण सुखशुचिसंज्ञामवीतरागस्यार्यस्य कामरागः संभवेदिति ।
[284।09]
तदेतन्नेच्छन्ति वैभाषिकाः ।
[284।10]
यदि हि सुखशुचिसंज्ञाचित्तसमुदाचारादार्यस्य तद्विपर्यासावीक्ष्येते ।
[284।10-284।11]
सत्त्वसंज्ञाचित्तसमुदाचारात्तद्विपर्यासावपि किं नेष्येते ।
[284।11-284।12]
न हि स्त्रियामात्मनि च विना सत्त्वसंज्ञाया कामरागो युक्त इति ।
[284।12-284।13]
सूत्रे ऽपि चोक्तं "यतश्च श्रुतवानार्यश्रावक इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति ।
[284।13-284।14]
यावत् तस्य तस्मिन् समये यो ऽनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिवीपर्यासः स प्रहीयत" इति विस्तरः ।
[284।14-284।16]
तस्माद् दृष्टिसमुत्ये एव संज्ञाचित्ते विपर्यासौ नान्ये तत्काल भ्रान्तिमात्रत्वादलातचक्रचित्र यक्षभ्रान्तिवत् ।
[284।16]
यत्तर्हि स्थविरानन्देनार्थं वागीशमधिकृत्योक्तं
[284।17-284।18]
"विपर्यासे च संज्ञानां चित्तं ते परिदह्यते" ।
निमित्तं वर्ज्यतां तस्माच्छुभं रागोपसंहितम् ॥
[284।19]
तस्मात् सर्व एवाष्टौ संज्ञाचित्तविपर्यासाः शैक्षस्याप्रहीणा इत्यपरे ।
[284।19-284।20]
ते ऽपि चार्यसत्यानां यथाभूतपरिज्ञानात् प्रहीयन्ते ।
[284।20-284।21]
न विना तेनेत्युपायसमा ख्यानान्नास्ति सूत्रविरोधः ।
[284।22]
अथ किं दृष्ट्यनुशयस्य एव भेदो नान्यस्य ।
मानस्याप्यस्ति ।
कथमित्याह
[284।23]
सप्त मानाः
[284।24]
मानो ऽतिमानो मानातिमानो ऽस्मिमानो ऽभिमान ऊनमानो मिथ्यामानश्च ।
[284।25]
अभेदेन चित्तस्योन्नतिर्मान उक्ताः ।
स प्रवृत्तिभेदात् सप्तधा भवति ।
[284।25-285।01]
हीनाद्विशिष्टः समेन वा समो ऽस्मीति मन्यमानस्योन्नतिर्मानः ।
[285।01]
समाद्विशिष्टो ऽस्मीत्यभिमानः ।
[285।02]
विशिष्टाद्विशिष्टो ऽस्मीति मानातिमानः ।
[285।02-285।03]
पञ्चोपादानस्कन्धानात्मत आत्मीयतो वा मन्यमानस्यास्मिमानः ।
[285।03]
अप्राप्ते विशेषाधिगमे प्राप्तो मयेत्यभिमानः ।
[285।03-285।04]
बह्वन्तरविशिष्टादल्पान्तरहीनो ऽस्मीत्यूनमानः ।
[285।04]
अगुणवतो गुणवानस्मीति मिथ्यामानः ।
[285।05]
यत्तर्हि शास्त्रे नव मानविधा उक्ताः ।
"श्रेयानस्मीति मानविधा ।
[285।05-285।06]
सदृशो ऽस्मीति मानविधा ।
[285।06]
हीनो ऽस्मीति मानविधा ।
[285।06-285।07]
अस्ति मे श्रेयानस्ति मे सदृशो ऽस्ति मे हीनः ।
[285।07]
नास्ति मे श्रेयान्नास्ति मे सदृशो नास्ति मे हीन" इति ।
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0