अभिधर्मकोशभाष्य · भाग 421440
[257।15-257।16]
शैक्षाशैक्षाभ्यामन्यस्य कर्मणो नैवशैक्षानाशैक्षस्य शैक्षा धर्मा द्वे पुरुषकाराधिपतिफले ।
[257।16]
अशैक्षा अप्येवम् ।
नैवशैक्षानाशैक्षाः पञ्च फलानि ।
[257।17]
त्रीणि चत्वारि चैकं च दृग्धेयस्य तदादयः ।
[257।18]
दर्शनहेयस्य कर्मणोदर्शनहेया धर्मास्त्रीणि फलानि विपाकविसंयोगफलेहित्वा ।
[257।19]
भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा ।
अप्रहेया एकमधिपतिफलम् ।
[257।20]
ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः
[257।21]
भावनाहेयस्य कर्मणो दर्शनहेया धर्मा द्वे पुरुषकाराधिपतिफले ।
[257।21-257।22]
भावनाहेयाश्चत्वारि विसंयोगफलं मुक्त्वा ।
[257।22]
अप्रहेयास्त्रीणि विपाकनिःष्यन्दफले मुक्त्वा ।
[257।23]
अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् ।
[257।24]
अप्रहेयस्य कर्मणो दर्शनहेया धर्मा एकमधिपतिफलम् ।
[257।24-258।01]
भावनाहेया द्वे पुरुषकाराधिपतिफले ।
[258।01]
अप्रहेयाश्चत्वारि विपाकफलं मुक्त्वा ।
[258।01-258।02]
पुनर्यथाक्रमग्रहणमाद्यन्तवन्मध्ये ऽपि ज्ञापनार्थम् ।
[258।02]
एष हि पेयालधर्मः ।
[258।03]
कर्मनिर्देशप्रसङ्गेनेदमपि परिप्रश्न्यते ।
[258।03-258।04]
शास्त्रेषु अयोगविहितं योगविहितम्, नैवयोगविहितं नायोगविहितं च कर्मोक्तम् ।
[258।04]
तस्य किं लक्षणम् ।
[258।05]
अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन
[258।06]
क्लिष्टं कर्मायोगविहितमयोनिशोमनस्कारसंभूतत्वादित्येके ।
[258।07]
विधिभ्रष्टमपीत्यपरे ।
[258।07-258।08]
येन यथा गन्तव्यं स्थातव्यं भोक्तव्यं प्रविचरितव्यमित्येवमादि ।
[258।08]
तच्चान्यथा विदधाति ।
तदयुक्तविधानादयोगविहितमिति ।
[258।08-258।09]
कुशलं कर्मं योगविहितमविधिभ्रष्टं चेत्यपरे ।
[258।09]
उभाभ्यामन्यन्नोभयथा ।
[258।09-258।10]
नैवयोगविहितं नायोगविहितम् ।
[258।11]
किमेकं कर्म एकमेव जन्माक्षिपति अथ नैकमपि ।
[258।11-258।12]
तथा किमेकमपि कर्मैकं जन्माक्षिपत्यथानेकम् ।
[258।12]
एष हि सिद्धान्तः ।
[258।13]
एकं जन्माक्षीपत्येकम्
[258।14]
एकमेव जन्माक्षिपत्येकमेव च कर्म नानेकं जन्मेति निकायसभागस्याख्या ।
[258।14-258।15]
तत्र हि लब्धे जात इत्युच्यते ।
[258।15-258।16]
यत्तर्हि स्थविरानिरुद्धेनोक्तं "सो ऽहं तस्यैकपिण्डपातस्य विपाकेन सप्तकृत्वस्त्रयस्त्रिंशेषु देवेषूपपन्नो यावदेतह्य्राद्ये शाक्यकुले जात" इति ।
[258।17]
तेन ह्यसौ समृद्विं लब्द्वा जातिस्मरः पुनरन्यत् पुण्यं कृतवान् ।
[258।17-258।18]
तत उत्थानं दर्शयति स्म ।
[258।18-258।19]
यथा मनुष्यो दीनारोत्थो ऽनेन सहस्रं निर्विश्याह एकेन दीनारेणाहमैत दीश्वर्यं प्राप्त इति ।
[258।19]
अपरे त्वाहुः ।
[258।19-258।20]
तस्य तं पिण्डपातमधिष्ठानं कृत्वा दानचेतनानां प्रवाहो महानुत्पन्नः कयाचित् किञ्चित्फलं परिगृहीतमिति ।
[258।20-258।21]
अनेकेनाप्येकमाक्षिप्यते मा भूत् खण्डशो निकायसभागस्याक्षेप इति ।
[258।22]
एकेन तु कर्मणा क्लिष्टस्य निकायसभागस्येष्यते कर्म ।
[258।23]
अनेकं परिपूरकम् ।
[258।24]
यथा चित्रकर एकया वर्त्या रूपमालिख्य वह्वीभिः परिपूरयति ।
[258।24-258।26]
तथा हि तुल्ये मानुष्ये कश्चित् सकलेन्द्रियाङ्गप्रत्यङ्गो भवतिवर्णकृतिप्रमाणबलसंपदा विभ्राजमानः कश्चिदेषां केनचिद्विकलः ।
[258।26]
न च केवलं कर्मैवाक्षेपकं जन्मनः ।
किं तर्हि ।
[258।27]
अन्यदपि सविपाकम् ।
सर्वथा तु
[259।01]
नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च
[259।02]
अविपाकाभ्यामप्यचित्तसमापत्तिभ्यां निकायसभागो नाक्षिप्यते ।
[259।02-259।03]
कर्मासहभूतत्वात् ।
[259।03]
प्राप्तिभिश्च कर्मणो ऽनेकफलत्वात् ।
[259।04]
त्रिण्यावरणान्युक्तानि भगवता ।
कर्मावरणं क्लेशावरणं विपाकावरणं च ।
[259।04-259।05]
तेषां कः स्वभावः ।
[259।06-259।07]
आनन्तर्याणि कर्माणि तीव्रक्लेशो ऽथ दुर्गतिः ।
कौरवासंज्ञिसत्त्वाश्च मतमावरणत्रयम्
[259।08]
पञ्चानन्तर्याणि कर्मावरणम् ।
[259।08-259।09]
तद्यथा मातृवधः पितृवधो ऽर्हद्वधः संघभेदः तथागतश्रीरे दुष्टचित्तरुधिरोत्पादनम् ।
[259।09]
तीव्रक्लेशता क्लेशावरणम् ।
द्विविधो हि क्लेशः ।
[259।10]
तिव्रश्च य अभिक्ष्णिकः तीक्ष्णश्च यो ऽधिमात्रः ।
तत्र यस्तीव्रः स आवरणम् ।
[259।11]
यथा शण्ठादीनाम् ।
[259।11-259।12]
शक्तो ह्यधिमत्रवेगो ऽपि क्लेशः कादाचित्को निहन्तुं नतु समूहो ऽप्याजस्रिकः ।
[259।12-259।13]
आजस्रिके हे क्लेशे तन्निर्घाताय पराक्रमकालं न लभते ।
[259।13]
तस्य मृदुं प्रतीत्य मध्य उपजायते ।
मध्यं प्रतीत्याधिमात्रः ।
[259।14-259।15]
तस्मात् एवावरणं त्रिविधा दुर्गतिः विपाकावरणं सुगतेश्च प्रदेशः औत्तरकौरवा असंज्ञिसत्त्वाश्च ।
[259।15]
कस्यैतान्यावरणानि ।
[259।15-259।17]
आर्यमार्गस्यार्यमार्गप्रायोगिकाणां च कुशलमूलानाम् अन्यान्यपि ह्यपायादिनियतानि अण्डजसंस्वेदजस्त्रीत्वाष्टमभवयतानि कर्माणि वक्तव्यानि स्युः ।
[259।17-259।19]
यान्येव तु पञ्चभिःकारणैः सुदर्शकानि पज्ञकानि अधिष्ठानतः फलतो गतितः उपपत्तितः पुद्गलतश्च तान्येवोक्तानि नान्यानि ।
[259।19]
क्लेशावरणं चैषां सर्वजघन्यम् ।
ततः कर्मावरणम् ।
[259।19-259।20]
ताम्यां हि द्वितीये ऽपि जन्मन्यचिकित्सो भवत्युत्तरोत्तरावाहनादिति वैभाषिकाः ।
[259।21]
आनन्तर्याणीति को ऽर्थः ।
[259।21-259।22]
नान्तरायितुं शक्यानि विपाकं प्रति जन्मान्तरफलेन कर्मान्तरेणेत्यानन्तर्याणि ।
[259।22]
न तिरस्कर्तुमित्यर्थः ।
[259।22-259।23]
न वा तत्कारिणः पुद्गलस्येतश्च्युतस्यान्तरमस्ति नरकोपपत्तिगमनं प्रतीत्यनन्तरः ।
[259।23]
तद्भाव आनन्तर्यम् ।
[259।24]
यस्य धर्मस्य योगात्सो ऽनन्तरो भवति ।
श्रामण्यवत् ।
[259।25]
अथैषामावरणानां कतमत् कस्यां गतौ वेदितव्यम् ।
एकान्तेन तावत्
[260।01]
त्रिषु द्वीपेष्वानन्तर्य
[260।02]
नोत्तरकुरौ नान्यासु गतिषु ।
कुत एवान्यत्र धातौ ।
तेत्ष्वपि स्त्रिपुरुषाणामेव ।
[260।03]
शण्डा दीनां तु नेष्यते ।
[260।04]
किं कारणं ।
तदेवासंवराभावे कारणमुद्दिष्टम् ।
अपि च
[260।05]
अल्पोपकारालज्जित्वात्
[260।06]
यथाक्रमं मातापित्रोस्तेषां च ।
अल्पोपकारौ किलैषां मातापितरौ ।
[260।06-260।07]
विकलात्मभावाधिपतित्वादल्पस्नेहत्वाच्च ।
[260।07-260।08]
तेषामपि न तीव्रं ह्यपत्राप्यं मातापित्रोरन्तिके प्रत्युपस्थितं यद्विपादनादानन्तर्येण स्पृश्येरन् ।
[260।08]
अत एव तिर्यवप्रेतानामपि नेष्यते ।
[260।09]
पटुबुद्धीनां स्यादश्वाजानेयवदिति भदन्तः ।
[260।09-260।10]
मनुष्यस्याप्यमानुषौ मातापितरौ मारयतो न स्यादानन्तर्यम् ॥
[260।10]
उक्तं कर्मावरणम् ॥
[260।11]
शेषे गतिषु पञ्चसु
[260।12]
के पुनः शेषे ।
क्लेशविपाकावरणे ।
मनुष्येषु विपाकावरणम् ।
[260।12-260।13]
कौरवा देवेष्वसंज्ञिसत्त्वाः ।
[260।13]
किंस्वभावान्यानन्तर्याणि ।
[260।13-260।14]
चत्वारि कायकर्म एकं वाक्कर्म त्रीणि प्राणातिपात एकं मृषावादः एकं प्राणातिपातप्रयोगः ।
[260।14-260।15]
अनुपक्रमधर्माणो हि तथागताः ।
[260।15]
हेतौ फलोपचारात्संघभेद आनन्तर्यमुक्तम् ।
[260।15-260।16]
भिद्यते वा ऽनेनेति कृत्वा ।
[260।17]
संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः ।
[260।18]
अक्लिष्टाव्याकृतो धर्मः
[260।19]
असामग्री नान चित्तविप्रयुक्तः संस्कारो ऽनिवृताव्याकृतः संघभेदः ।
[260।19-260।20]
स किमानन्तर्यं भविष्यति नैव च तेन भेत्ता समन्वागतः ।
[260।20]
किं तर्हि ।
[260।21]
संघस्तेन समन्वितः
[260।22]
यो हि भिन्नस्तस्य भेदो न भेत्तुः ।
अथ भेत्ता केन समन्वागतः ।
[260।23]
सदवद्यमृषावादस्तेन भेत्ता समन्वितः ।
[260।24]
संघभेदावद्येन भेत्ता समन्वागतः ।
तत् पुनर्मृषावादः ।
[260।24-260।25]
स पुनः संघभेदसहजे वाग्विज्ञप्त्यविज्ञप्ती ।
[260।25]
स च तेनावद्येन समन्वागतो भेत्ता ।
[261।01]
अवीचौ पच्यते कल्पन्
[261।02]
अन्तरकल्पमवीचौ महानरके विपच्यते ।
अन्यैस्तु नावश्यमवीचौ ।
[261।02-261।03]
अथ येन बहुन्यानन्तर्याणि कृतानि भवन्ति अनन्तरमेव तानि विपच्यन्ते ।
[261।03-261।04]
किं तु तैस्तस्य भवति ।
[261।05]
अध्हिकैरधिका रुजः
[261।06-261।07]
सहि भूयोभिरानन्तर्यैस्तस्मिन्नवीचौ घनतरं सुकुमारतरं चाश्रयं लभते कारणाश्च बहुतरास्तीव्रतराश्च येन द्वित्रिचतुष्पञ्चगुणां वेदनां वेदयते ।
[261।07-261।08]
कः पुनरेष संघं भनत्ति ।
[261।09]
भिक्षुर्दु क्वचरितो वृत्ती भिनत्ति ।
[261।10]
भिक्षुर्भिनत्ति न गृही न भिक्षुण्यादयः ।
स च दृष्टिचरित एव न तृष्णाचरितः ।
[261।11]
ऋतस्थो न भिन्नवृत्तस्तस्यानादेयवाक्यत्वात् ।
क्व भिनत्ति ।
[261।12]
अत्र भगवान् संनिहितस्ततः ।
[261।13]
अन्यत्र
[261।14]
नहि शास्तुरेव संनिधौ शक्यो भेत्तुम् ।
तथागतानां दुष्प्रसहत्वादादेयवाक्यत्वाच्च ।
[261।15]
कान् भिनत्ति ।
[261।16]
बालिशान् ।
[261।17]
पृथग्जनानेव नार्यान् प्रत्यक्षधर्मत्वात् ।
तानपि न क्षान्तिलाभिन इत्यपरे ।
[261।17-261।18]
कियता भिन्नः संघो भवति ।
[261।19]
शास्तृमार्गान्तरक्षान्तौ भिन्नः
[261।20-261।21]
यदा तेभ्यस्तथागतादन्यः शास्ता क्षमते तदुपदिष्टाच्च मार्गादन्यो मार्ग इयता भिन्नः संघो वक्तव्यः ।
[261।21]
कियन्तं कालं भिन्न आस्ते ।
तामेव रात्रिं
[261।22]
न विवसत्यसौ
[261।23]
अपर्युषित एव हि संघभेदे संघो ऽवश्यं प्रतिसंधीयते ।
यो ऽयं संघभेद उक्तः
[261।24]
चक्रभेदः स च मतः
[261।25]
धर्मचक्रं हि तदा भगवतो भिन्नं भवति ।
मार्गप्रवृत्तिविष्ठापनात् ।
[261।25-261।26]
अत एव चक्रादश्चोच्यते संघभेदश्च ।
[261।26]
क्व पुनश्चक्रभेदो भवति ।
[262।01]
जम्बूद्वीपे
[262।02]
नान्येषु द्वीपेषु ।
कतिभिर्भिक्षुभिः ।
[262।03]
नवादिभिः ।
[262।04]
नवादिं कृत्वा ।
परेणानियमः ।
अष्टौ भिक्षयः संघो भवति ।
नवमो भेत्ता ।
[262।04-262।05]
अवश्यं हि संघेन द्वयोःपक्षयोः स्थातव्यम् ।
[262।05]
एवं भिन्नो भवति ।
[262।05-262।06]
अन्यस्तु संघभेदः कर्मभेदाद् भवति ।
[262।06]
यद्येकसीमायां व्यग्राः कर्म कुर्वन्ति ।
स चैष
[262।07]
कर्मभेदस्त्रिषु द्वीपेषु
[262।08]
येष्वेव शासनम् ।
कतिभिर्भिक्षुभिः
[262।09]
अष्टाभिरधिकैश्च सः
[262।10]
चक्रभेदस्तु षट्सु कालेषु न भवति ।
कतमेषु ।
[262।11-262।12]
आदावन्ते ऽर्बुदात् पूर्वं युगाच्चोपरते मुनौ ।
सीमायां चाप्यबद्धायां चक्रभेदो न जायते
[262।13]
आदावचिरप्रवर्तिते धर्मचक्रे ।
अन्ते परिनिर्वाणकाले भगवतः ।
[262।13-262।14]
एतयोर्हि द्वयोरवस्थयोः संघ एकरसो भवति ।
[262।14-262।15]
मध्ये ऽप्यर्बुदात् पूर्वं न भिद्यते यावच्छासने शीलार्बुदं दृष्ट्यर्बुदं च नोत्पन्नं भवति ।
[262।15-262।16]
युगाच्च पूर्वं न भिद्यते यावच्छ्रावकाग्रयुगं नोत्पन्नं भवति ।
[262।16]
भिन्नन्यायपरिवासात्तेन च प्रतिसंधानीयत्वात् ।
[262।16-262।17]
उपरते मुनौ शास्तरि परिनिर्वृते प्रतिद्वन्द्वाभावात् ।
[262।17-262।18]
सीमायामबद्धायां यावत् सीमा न बद्धा भवति ।
[262।18-262।19]
एकसीमायां हि पक्षद्वयावस्थानात्संघभेद इत्येषु कालेसु चक्रभेदोन भवति ।
[262।19]
न च पुनः सर्वेषां बद्धानां चक्रभेदः ।
कर्माधीनत्वात् ।
[262।20]
कस्मात् मातृवधादिष्वानन्तर्यं नान्यत्र ।
[262।21]
उपकारियुणक्षेत्रनिराकृतिविपादनात् ।
[262।22]
मातापितृवधे तावदुपकारिणो निराकरणात् ।
कथं तावुपकारिणौ ।
[262।22-262।23]
आत्मभावस्य तत्प्रभवत्वात् ।
[262।23]
किं तयोर्निराकरणम् ।
परित्यागः ।
गुणक्षेत्रत्वादर्हद्वधाद् आनन्तर्यम् ।
[262।24-262।25]
यदि पुनर्मातुर्व्यञ्जनं परिवृत्तं स्यात् पितुर्वा तत्रैकस्मिन्नाम्नायो
[263।01]
व्यञ्जनान्तरितो ऽपि स्यात्
[263।02]
अत एवोच्यते "स्यात् पुरुषं जीविताद्वच्यपरोपयेन्न पितरं नार्हन्तम् ।
[263।02-263।03]
आनन्तर्यावद्येन च स्पृश्येत ।
[263।03]
स्यान्मातुर्व्यञ्जनं परिवृत्तं स्यादिति ।
[263।03-263।04]
स्यात् स्त्रीं जीविताद्व्यपरोपयेन्न मातरं नार्हन्तीम् आनन्तर्यावद्येन च स्पृश्येत ।
[263।04-263।05]
स्यात् पितुर्व्यञ्जनं परिवृत्तं स्यादि"ति ।
[263।05]
अन्यस्याः स्त्रियाः कललं प्रस्रुतमन्यया योन्या पीतम् ।
[263।05-263।06]
कतरा तस्य माता यां घ्नतः स्यादानन्तर्यम् ।
[263।07]
माता यच्छोणितोद्भवः
[263।08]
यस्याः शोणितादसावुद्भूतः सत्त्वः सा ऽस्य माता द्वितीया तु सर्वकृत्येष्ववलोक्या ।
[263।09]
सा ह्यापायिका पोषिका संवर्धिका च ।
[263।09-263।10]
यदि मातरि प्रयोगं कृत्वा ऽन्यां मारयेन्न स्यादानन्तर्यम् ।
[263।10]
अमातृप्रयोगेण मारयेत्तथापि न स्यात् ।
[263।10-263।11]
मञ्चतलावलीनमातृमारणं चात्रोदाहार्य धावकस्य च पुत्रेण मसक प्रयोगेण पितुर्मारणं च ।
[263।11-263।12]
एकेन प्रहारेण मातरमन्यां च मारयतो द्वे अविज्ञप्ती भवतः ।
[263।12]
विज्ञप्तिस्त्वानन्तर्यमेव ।
[263।13]
तस्य कर्मणो बलीयस्त्वात् ।
परमाणुसंचितत्वाद्विज्ञप्तिरपि द्विधेति भदन्तघोषकः ।
[263।14-263।15]
अनर्हत्संज्ञया ऽपि अर्हद्घाते भवत्यानन्तर्यम् अहम् हन्मीत्याश्रयावधारणात् ।
[263।15]
यः पितरमर्हन्तं हिंस्यात्तस्याप्येकमेव स्यादानन्तर्यमाश्रयैकत्वात् ।
[263।16]
इदमवदानं कथं नीयते "गच्छ शिखण्डिनं ब्रूहि द्वे आनन्तर्ये भवता कृते ।
[263।16-263।17]
यच्च पिता जीविताद्व्यपरोपितो यच्चार्हन्नि"ति ।
[263।17]
द्वाभ्यां कारणाभ्यामिति वक्तव्यम् ।
[263।18]
द्वाभ्यां वा मुखाभ्यां परिभाषितः ।
[263।18-263।19]
किमवश्यं तथागतस्यास्ति कुटुष्टचित्तरुधिरोत्पादनादानन्तर्यम् ।
[263।19]
वधाभिप्रायस्य स्यात् ।
[263।20]
बुद्धे न ताडनेच्छस्य
[263।21]
यदि ताडनाभित्राय उत्पादयेन्न स्यात् ।
यद्यनर्हति प्रहरेत्स च प्रहारादूर्ध्वमर्हन् स्यात्
[263।22]
प्रहारान्नोर्ध्वमर्हति ।
[263।23]
स्यादानन्तर्यमिति वर्तते ।
नहि तेन तत्र प्रयोगः कृतः ।
[263।23-263।24]
किमानन्तर्ये प्रयोगं कृत्वा तस्मिन्नव्यावर्तिते वैराग्यं फलं वा न प्राप्नुयात् ।
[263।25]
नानन्तर्यप्रयुक्तस्य वैराग्यफलसंभवः
[264।01-264।02]
अन्यकर्मफलपथप्रयोगं तु कृत्वार्यमार्गोत्पत्तौ न पुनः कर्मपथोत्पत्तिराश्रयस्यात्यन्तं तद्विरुद्धत्वात् ।
[264।03]
एषामानन्तर्याणां कतमत् महासावद्यम् ।
[264।04]
संघमेदे मृषावादो महावद्यतमो मतः ।
[264।05-264।06]
यः संघभेदनिमित्तं मृषावादो धर्माधर्मज्ञस्य विपर्ययद्योतनात् स सर्वेषां दुश्चरितानां महावद्यतमः ।
[264।06]
किं कारणम् ।
[264।06-264।07]
तथागतधर्मशरीरप्रहारितत्वात् लोकानां च स्वर्गापवर्गमार्गान्तरायकत्वात् ।
[264।07-264।10]
संघे हि भिन्ने लोकस्य नियामावक्रन्तिफलप्राप्तिवैराग्यास्रवक्षयाः प्रतिबध्यन्ते ध्यानाध्ययनस्वाध्यायचिन्ताकर्माण्यपि न प्रवर्तन्ते सदेवनागमनुष्यं जगच्चाकुलं विमनस्कं वर्तते यावत् पुनर्न प्रतिसंधितो भवतियस्माच्चाविचौ कल्पं विपाकः ।
[264।10-264।11]
शेषाणामानन्तर्याणां यथाक्रमं पञ्चमतृतीयप्रथमानि गुरुतराणि सर्वलघुः पितृवधः ।
[264।11-264।13]
यत्तर्हि भगवता त्रयाणां दण्डानां मनोदण्डो महासावद्य उक्तः पुनर्मिथ्यादृष्टिः परमवद्यानामित्युक्तम् आनन्तर्याणि नियमस्य संघभेदो महासावद्य उक्तः ।
[264।13-264।14]
त्रीणि कर्माणि नियमय्य मनोदण्दः दृष्टीर्नियमय्य मिथ्यादृष्टिः ।
[264।14-264।15]
अथवा विपाकविस्तरं महाजनव्यापादनं कुशलमूलसमुच्छेदं चाधिकृत्य यथाक्रमम् ।
[264।16]
सुचरितानां पुनः कतमत् महाफलतमम् ।
[264।17]
भवाग्रचेतना लोके महाफलतमा शुभे
[264।18]
कुशले पुनः कर्मणि भवाग्रचेतना सर्वेषां महाफलतमा ।
[264।18-264।19]
तस्या अशीतिकल्पसहस्राण्यतिप्रशान्तो विपाकः ।
[264।19]
विपाकफलं चाधिकृत्यैतदुक्तम् ।
[264।19-264।21]
विसंयोगफलं त्वधिकृत्य वज्रोपमसमाधिचेतना सर्वेषां महाफला सर्वसम्योजनपर्यादानफलत्वात् ।
[264।21]
अत एव लोक इत्युक्तम् ।
[264।22]
किमानन्तर्यैरेवावश्यं नरकेषूपपद्यते ।
आनन्तर्यसभागैरप्यवश्यमुपपद्यते ।
[264।23]
नत्वनन्तरमेवेत्यपरे ।
कतमानि तानीत्याह
[264।24-264।25]
दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम् ।
बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका
[265।01]
आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् ।
[265।02]
एतानि पञ्च पञ्चानामानत्नर्याणां यथाक्रमम् सभागानि ।
[265।02-265।04]
यदि मातरमर्हन्तीं दूषयत्यब्रह्मचर्यकरणात् नियतिपतीतं बोधिसत्त्वं मारयति शैक्षं मारयति संघस्य सुखायद्वारिकं हरति स्तूपभेदं करोति ।
[265।04-265।05]
अन्यदपि तु कर्म सविपाकं त्रिषु कालेष्वत्यर्थं विघ्नयति ।
[265।05]
कतमेषु त्रिसु ।
[265।06]
क्षान्त्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृत्
[265।07]
मूर्धभ्यः क्षान्तिमाकिरत आपायिकानि कर्माणि विघ्नायोपतिष्ठन्ते ।
[265।07-265।08]
तद्विपाकभूम्यतिक्रमात् ।
[265।08]
यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उपतिष्ठन्ते ।
[265।08-265।10]
अनागामिफलं प्राप्नुवतः कामावचराणि विघ्नायोपतिष्ठन्ते तथैव स्थापयित्वा दृष्टधर्मवेदनीयं कर्म ।
[265।10]
अर्हत्त्वं प्राप्नुवतो रूपारूप्यावचराणि तथैव ।
[265।10-265।11]
यदुक्तं "बोधिसत्त्वस्य मारण"मिति
[265।12]
बोधिसत्त्वः कुतो यावत्
[265।13]
कुत उपादाय बोधिसत्त्वोवक्तव्यः ।
[265।14]
यतो लक्षण कर्मकृत् ।
[265।15-265।16]
यतः प्रभृति लक्षणविपाकानि कर्माण्यारभते कर्तुं स हि तदानीं नियतिपतितो भवति ।
[265।16]
कथं कृत्वा ।
स हि तस्मात् कालात् प्रभृति नित्यं भवति ।
[265।17]
सुगतिः कुलजो ऽव्यक्षः पुमान् जातिस्मरो ऽनिवृत्
[265।18]
प्रशस्ता गतिरस्येति सुगतिर्देवमनुष्योपपत्तेः ।
[265।18-265।19]
तस्यां च सुगतौ क्षत्रियब्राह्मणगृहपतिमहाशालकुलजो भवति नान्यः कुलीनः ।
[265।19]
विकलान्यक्षाण्यस्येति व्यक्षः ।
[265।20]
न व्यक्षो ऽव्यक्षः अविकलेन्द्रियः इत्यर्थः ।
पुरुष एव न स्त्री कुत एव शण्ढादिः ।
[265।21]
जातिस्मरश्च भवति ।
सर्वस्यां जातौ निवर्तत इति निवृत् ।
न निवृदनिवृत् ।
[265।22]
अनिवर्तक इत्यर्थः ।
[265।22-265।23]
सत्त्वहितार्थं सर्वदुःखप्रकारैः सर्वसत्त्वविप्रतिपत्तिभिश्चाखेदितत्वात् ।
[265।23]
यत्तल्लोक उच्यते "अपणक्रीतो दास" इति ।
[265।23-265।26]
बोधिसत्त्वास्ते ते हि महात्मानः सर्वसंपत्प्रकर्षविशेषप्राप्ता अपि सन्तो निष्कारणकरुणापारतन्त्र्यात्सर्वसत्त्वेषु चण्डालकुमारकसदृशमात्मानं निर्मानतया व्यवस्थाप्य सत्त्वेभ्यः सर्वकदर्थानां सोढारो भवन्ति सर्वश्रमयन्त्रणानां चोद्वोढारः ।
[265।26-265।27]
यच्चैतल्लक्षणविपाकं कर्मेत्युक्तम् ।
[266।01-266।02]
जम्बूद्वीपे पुमानेव संमुखं बुद्धचेतनः ।
चिन्तामयं कल्पशते शेष आक्षिपते हि तत्
[266।03]
जम्बूद्वीप एव बोधिसत्त्वो लक्षणविपाकं कर्माक्षिपति ।
नान्यत्र ।
[266।03-266।04]
जाम्बूद्वीपकानां तीक्ष्णबुद्धित्वात् ।
[266।04]
पुरुष एव न स्त्री ।
[266।04-266।05]
संमुखीभूत एव शास्तरि बुद्धालम्बनयैव चेतनया चिन्तामयं तत्कर्म न श्रुतमयं न भावनामयम् ।
[266।05-266।06]
कल्पशते च शेष आक्षिपति न बहुभवेसु ।
[266।06-266।07]
भगवता तु शाक्यमुनिनोत्तप्तवीर्यतया नव कल्पा अपावर्तिता एकनवत्या कल्पैराक्षिप्तम् ।
[266।07-266।09]
अत एव चोक्त "मितो ऽहं ग्रामणीरेकनवतं कल्पमुपादाय न समनुस्मरामि नाभिजानामि यदेककुलमपि पक्षभिक्षाप्रदानहेतोः क्षतं वा स्यादुपहतं वे"ति ।
[266।09-266।11]
ततः प्रभृति प्रकृतिजातिस्मरत्वात् प्रथमकल्पासंख्येयनिर्यात एव बोधिसत्त्व एतांश्चतुरो दोषान् व्यावर्तयति द्वौ च गुणो प्रतिलभत इति पूर्वाचार्याः ।
[266।11]
तेषां च लक्षणानाम्
[266।12]
एकैकं पुण्यशतजम्
[266।13]
किं पुण्यस्य परिमाणम् ।
[266।13-266।14]
संनिकृष्टबोधिसत्त्वं स्थापयित्वा यावत् सर्वसत्त्वानां भोगफलमित्येके ।
[266।14-266।15]
यावत् सर्वसत्त्वानां कर्माधिपत्येन त्रिसाहस्रमहासाहस्रको लोको ऽभिनिवर्तत इत्यपरे ।
[266।15]
बुद्धा एव च तत्परिमाणज्ञा इत्यपरे ।
[266।15-266।16]
अथ बोधिसत्त्वभूतो भगवान् कियतो बुद्धान् पर्युपासयामास ।
[266।16-266।17]
प्रथेमे कल्पासंख्येये पञ्चसप्ततिसहस्राणि द्वितीये षट्सप्ततिं तृतीये सप्तसप्ततिम् ।
[266।18]
अथ कस्य कल्पासंख्येयस्यान्ते कतमो बुद्ध आसीत् ।
[266।18-266।19]
प्रतिलोमानुक्रमेण यथाक्रमम् ।
[266।20]
असंख्येयत्रयान्त्यजाः ।
[266।21]
विपश्यी दीपकृद्रत्नशिखी
[266।22]
रत्नशिखिनि सम्यक्संबुद्धे प्रथमो ऽसंख्येयः समाप्तः ।
दीपङ्करे भगवति द्वितीयः ।
[266।23]
विपश्यिनि तथागते तृतीयः ।
सर्वेषां तु तेषां
[266।24]
शास्यमुनिः पुरा
[266।25]
शाक्यमुनिर्नाम सम्यक्संबुद्धः पूर्वं वभूव ।
[266।25-267।02]
यत्र भगवता बोधिसत्त्वभूतेनाद्यं प्रणिधानं कृतम् एवंप्रकार एवाहं बुद्धो भवेयमिति नो ऽप्येवं कलियुग एवोत्पन्नवानार्यवत्तस्याप्येवं वर्ष सहस्रान्तं शासनं बभूव ।
[267।03]
अथ कस्यामवस्थावां बोधिसत्त्वः कां पारमितां परिपूरयते ।
[267।04]
सर्वत्र सर्वं ददतः कारुण्याद्दानपूरणम् ।
[267।05-267।06]
यदा सर्वस्मै सर्वं ददाति आ अक्ष्णः आ मज्जायाः कारुण्यान्नाभ्युदयविशेषं लिप्समानः इयता दानपारमिता परिपूर्णा भवति ।
[267।07]
अङ्गच्छेदे ऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः
[267।08-267।09]
यदा ऽयमवीतरागो ऽपि च्छिद्यमानेष्वङ्गेषु नाल्पमपि कुप्यति तदा ऽस्य क्षान्तिशीलपारमिते परिपूर्णे भवतः ।
[267।10]
तिष्यस्तोत्रेण वीर्यस्य
[267।11-267।12]
तिष्यं तथागतरत्नगुहायां तेजोधातुसमापन्नदृष्ट्या भगवान् बोधिसत्त्वभूत एकेन पादेन स्थित्वा सप्त दिवसान् स्तुतवानेकगाथया
[267।13-267।16]
"न दिवि भुवि वा नास्मिन् लोके न वैश्रवणालये ।
न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा ॥
चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम् ।
पुरुषवृषभस्त्वत्तुल्यो ऽन्यो महाश्रमणः कुत" इति ॥
[267।17]
तदा किल वीर्यपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः ।
[267।18]
धीसमाध्योरनन्तरम् ।
[267।19-267।20]
बोधेः पूर्वसमनन्तरं ध्यानप्रज्ञापारमितयोः परिपूरिर्वज्रोपमसमाधौ स्वस्याः संपदः पारगमनात् पारमिताः ।
[267।21]
सूत्र उक्तं "त्रीणि पुण्यक्रियावस्तूनि ।
[267।21-267।22]
दानमयं पुण्यक्रियावस्तु शीलमयं भावनामयमि"ति ।
[267।22]
कथमेतत्त्रयं पुण्यक्रियावस्तु ।
[267।23]
पुण्यं क्रिया ऽथ तद्वस्तु त्रयं कर्मपथा यथा
[267।24]
पुण्यमप्येतत्त्रयं क्रिया ऽपि वस्त्वपि यथायोगमिति पुण्यक्रियावस्तु ।
[267।24-268।01]
तद्यथा कर्म च ते पन्थानश्च पन्थान एव च कर्मण इति कर्मंपथा उक्ताः ।
[268।01-268।02]
तत्र दानमये तावत् पुण्यक्रियावस्तुनि कायवाक्कर्म त्रिधा भवति ।
[268।02-268।03]
तत्समुत्थापिका चेतना पुण्यं च क्रिया च ।
[268।03]
तत्सहभुवो धर्माः पुण्यमेव ।
शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति ।
[268।04]
भावनामयो मैत्री पुण्यं च पुण्यक्रियायाश्च वस्तु ।
[268।04-268।06]
तत्संप्रयुक्तायाश्चेतनाया मैत्रीमुखेनाभिसंस्करणात् तत्सहभुवश्चेतना शीलं च पुण्यं च क्रिया च ।
[268।06-268।07]
अन्ये तत्सहभुवः पुण्यमेव पुण्यस्य वा कारणं पुण्यक्रिया पुण्यप्रयोगस्तस्या एतानि त्रीणि वस्तूनि ।
[268।07]
एषां संपादनार्थं पुण्यप्रयोगारम्भादिति ।
[268।07-268।08]
कुशलचेतनापरमार्थेन पुण्यक्रिया ।
[268।08]
तस्या एतानि वस्तूनीत्यपरे ।
[268।09]
किमिदं दानं नाम ।
यदपि दीयते दद्दानम् ।
इह तु
[268।10]
दीयते येन दद्दानं
[268।11]
भवति स्म ।
रागादिभिरपि दीयते ।
न चात्र तदिष्टम् ।
अतो विशेषणार्थमाह
[268।12]
पूजानुग्रहकाम्यया ।
[268।13]
परेषां पूजानुग्रहकामताभ्यां येन दीयते ।
किं पुनस्तत्स्याद्येन दीयते ।
[268।14]
कायवाक्कर्म सोत्थानं
[268।15]
किं पुनस्तदुत्थानम् ।
येन कलापेन तदुत्थाप्यते ।
आह चात्र
[268।16-268।17]
शुभेन मनसा द्रव्यं स्वं ददाति यदा पुमान् ।
तत् क्षणं कुशलाः स्कन्धाः दानमित्यभिधीयते ॥" इति ।
[268।18]
महाभोग्यफलं च तत्
[268।19]
तच्चैतद्दानमयं पुण्यक्रियावस्तु महाभोग्यफलम् ।
स्वभावे चैष मयड्वेदितव्यः ।
[268।20]
तद्यथा तृणमयं गृहं पर्णमयं भाजनमिति ।
तत् खल्वेतद्दानं
[268।21]
स्वपरार्थोभयार्थाय नोभयार्थाय दीयते ।
[268।22-268।23]
तत्र यदवीतरागः आर्यः पृथग्जनो वा वीतरागश्चैत्ये दानं ददाति तदस्यात्मन एवार्थाय ।
[268।23]
परेषां तेनानुग्रहाभावात् ।
[268।23-269।01]
यदार्यो वीतरागः परसत्त्वेभ्यो दानं ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तत्र दानं परेषामर्थाय ।
[269।01-269।02]
तेन तेषामनुग्रहात् ।
[269।02]
नात्मनो ऽर्थाय ।
तद्विपाकभूमेरत्यन्तसमतिक्रान्तत्वात् ।
[269।02-269।03]
यदवीतरागः पृथग्जनो वा वीतरागः परसत्त्वेभ्यो ददाति तद्दानमुभयेषामर्थाय ।
[269।03-269।04]
यदार्यो वीतरागश्चैत्ये ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तद्दानमुभयेषां नार्थाय ।
[269।04-269।05]
तद्धि केवलं गौरवं कृत्ज्ञाभ्यां दीयते ।
[269।05]
सामान्येन दानं महाभोग्यफलमुक्तम् ।
[269।06]
तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः
[269।07]
तत्र तावत्
[269।08]
दाता विशिष्टः श्रद्धाद्यैः
[269।09]
श्रद्धाशीलश्रुतादिगुणयुक्तो दाता विशिष्टो भवति ।
[269।09-269।10]
तस्य तद्दानदातृविशेषेण फलदानं प्रतिविशिष्यते ।
[269।10]
स च तादृशो दाता
[269।11]
सत्कृत्यादि ददाति
[269।12]
सत्कृत्य स्वहस्तं काले परानुपहत्य ददाति ।
[269।13]
अतः ।
[269।14]
सत्कारोदाररुचिता कालानाच्छेद्यलाभिता
[269।15]
अतो ऽस्य दातुस्तत्तादृशं दानं दत्त्वा यथाक्रमं चत्वारो विशेषा भवन्ति ।
[269।15-269।16]
सत्कारलाभी भवति ।
[269।16]
उदारेषु च भोगेषु रुचिं लभते ।
[269।16-269।17]
कालेल्न च भोगान् लभते नातिक्रान्तिकालेन ।
[269।17]
अनाच्छेद्यांश्च भोगान् लभते ।
[269।17-269।18]
नास्य भोगाः परैराच्छाद्यन्ते नाप्यग्न्यादिभिर्विनाश्यन्ते ।
[269।18-269।19]
उक्तं यथा दाता विशिष्यते तद्विशेषाच्च दानविशेषः ।
[269।20]
अथ वस्तु कथं विशिष्यते ।
[269।21]
वर्णादिसम्पदा वस्तु
[269।22]
विशिष्टमिति वर्तते ।
[269।22-269।23]
यदि यद्दीयते दद्वर्णगन्धरसस्पर्शानामन्यतमेनापि संपन्नं भवति ।
[269।23]
एवं वस्तु विशिष्यते ।
तादृशं वस्तु दत्त्वा किं भवति ।
यथाक्रमम्
[269।24-269।25]
सुरूप्त्वं यशस्वि वा ।
प्रियता सुकुमारर्तुसुखस्पर्शाङ्ता ततः
[269।26]
वर्णसम्पन्नं दत्त्वा सुरूपो भवति ।
गन्धसंपन्नं दत्त्वा यशस्वी भवति ।
[269।26-270।01]
गन्धवद्यशसो दिक्षु विधारणात् ।
[270।01]
रससंपन्नं दत्त्वा प्रियो भवति ।
रस इव स्वादुः ।
[270।01-270।03]
स्पर्शसंपन्नं दत्त्वा सुकुमाराङ्गाश्च भवति ऋतुसुखस्पर्शानि चास्याङ्गानि भवन्ति यथा स्त्रीरत्नस्य ।
[270।04]
अथ क्षेत्रं कथं विशिप्यते ।
[270।05]
गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते ।
[270।06]
गतिविशेषातावद्विशिष्यते ।
[270।06-270।07]
तथा ह्युक्तं भगवता "तिर्यग्योनिगताय दानं दत्त्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः ।
[270।07-270।08]
दुःशीलाय मनुष्यभूताय दानं दत्त्वा सहस्रगुण" इति ।
[270।08]
दुःखविशेषा द्विशिष्यते ।
तथा ह्यौपधिकेषु पुण्यक्रियावस्तुषु ।
[270।09]
ग्लाने दानं ग्लानोपस्थापके दानम् ।
[270।09-270।11]
शीतलिकादिषु च दानमुक्त्वोक्तमे" भिः सप्तभिः औषधिकैः पुण्यक्रियावस्तुभिःसमन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा न लभ्यं पुण्यानां प्रमाणमुद्ग्रहीतुमि"ति ।
[270।12-270।13]
उपकारित्वविशेषाद्यथा मातापित्रोरन्येषां चोपकारिणाम् ऋष्यमृगजातकाद्युदाहरणात् ।
[270।13]
गुणविशेषाद्यथा" शीलवते दत्त्वा शतसहस्रगुणो विपाक" इत्येवमादि ।
[270।14]
सर्वेषां तु दानानाम्
[270।15]
अग्रं मुक्तस्य मुक्ताय
[270।16]
"यद्वीतरागो वीतरागाय दत्त्वा ऽतिदानमिदं श्रेष्ठमामिषदानेषु दानमित्युक्तं भगवता ।
[270।17]
बोधिसत्त्वस्य च
[270।18]
यद्वा दानं बोधिसत्त्वे ददाति सर्वसत्त्वहितहेतोस्तदमुक्तस्याप्यमुक्ते ऽभ्यादानमग्रम् ।
[270।19]
तत् स्थापयित्वा यानि भगवतो ऽन्यान्यष्टौ दानान्युक्तानि तेषाम्
[270।20]
अष्टमम्
[270।21]
अग्रमिति वर्तते ।
कतमान्यष्टौ ।
[270।21-270।24]
आसाद्य दानं भयदानम् अदान्मे दानं दास्यति मे दानं दत्त्पूर्वं मे दानं पितृभिश्च पितामहैश्चेति दानं ददाति स्वर्गार्थं दानं कीर्त्यर्थं दानं चित्तालङ्कारार्थं दानं चित्तपरिष्कारार्थं यिओगसंभारार्थमुत्तमार्थस्य प्राप्तये दानं ददाति ।
[270।24]
तत्रासाद्य दानं यत् आसन्नेभ्य उपगतेभ्यो दानं ददातीति पौराणाः ।
[270।25]
भयदानं यद्विनाशाभिमुखं दृष्ट्वा वरं ददामीति ददाति ।
[270।25-270।26]
शेषं सुगमत्वान्न विभक्तम् ।
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0