अभिधर्मकोशभाष्य · भाग 401420
[244।18-244।19]
यदि स्वसंज्ञी परस्त्रियं यायात् न स्यात् कर्मपथः ।
[244।19-244।20]
यद्यन्यः परस्त्रीसंज्ञया ऽन्यामभिगच्छेत् परदारप्रयोगाद्वस्तुपरिभोगाच्च स्यादित्येके ।
[244।20-244।21]
अन्यत्र प्रयोगान्न स्यात् प्राणाति पातवदित्यपरे ।
[244।21]
भिक्षुणीं गच्छतः कस्यान्तिकात् काममिथ्याचारः ।
[244।21-244।22]
विषयस्वामिनः ।
[244।22]
तस्य हि तन्न मर्षणीयम् ।
तस्यापि सनियमा स्वभार्येव तु सा न गम्या ।
[244।23]
कुमारीं गच्छतो यस्य निसृष्टा नो चेद्यस्य रक्षा ऽन्ततो राज्ञः ।
[244।24]
अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः
[244।25-245।01]
यदि यमर्थं ब्रवीति तस्मिन्नन्यथासम्ज्ञी भवति यं चाधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो भवति तद्वाक्यं मृषावादः ।
[245।01]
अनभिज्ञे किं स्यात् ।
[245।01-245।02]
संभिन्नप्रलापः स्यात् ।
[245।02]
वाक्यमित्युच्यते ।
[245।02-245।03]
कदाचिच्च बहवो वर्णा वाक्यं भवन्तीति कतमः तत्र कर्मपथः ।
[245।03]
पश्चिमः सहाविज्ञप्त्या यत्र चार्थाभिज्ञो भवति ।
पूर्वे तु वर्णाः प्रयोगः ।
[245।04]
अर्थाभिज्ञ इत्युच्यते ।
[245।04-245।05]
कि तावदभिज्ञातार्थे श्रोतरि आहोस्वित् अभिज्ञातुं समर्थे ।
[245।05]
किं चातः ।
[245।05-245।06]
यद्यभिज्ञातार्थे मनोविज्ञानविषयत्वाद्वाक्यार्थस्य श्रोत्रविज्ञानेन सह निरोधाच्च वाग्विज्ञप्तेरविज्ञप्तिरेव स्यात् कर्मपथः ।
[245।06-245।07]
अथाभिज्ञातुं समर्थे ।
[245।07]
एवं दोषो न भवति ।
[245।07-245।08]
कथं चाभिज्ञातुं समर्थो ऽप्युत्पन्नभाव उत्पन्ने श्रोत्रविज्ञाने ।
[245।08]
यथा न दोषस्तथा ऽस्तु ।
[245।09]
षोदश व्यवहाराः सूत्र उक्ताः ।
[245।09-245।11]
"अदृष्टे दृष्टवादिता अश्रुते ऽमते ऽविज्ञाते विज्ञातवादिता दृष्टे अदृष्टवादिता यावद् विज्ञाते ऽविज्ञातवादिता इतीमे ऽनार्या अष्टौ व्यवहाराः ।
[245।11-245।12]
दृष्टे दृष्टवादिता यावद्विज्ञाते विज्ञातवादिता अदृष्ट् ऽदृष्टवादिता यावदविज्ञाते अविज्ञातवादिता इतीमे आर्या अष्टौ व्यवहाराः ।
[245।12-245।13]
तत्रैषां दृष्टश्रुतमतविज्ञातानां किं लक्षणम् ।
[245।14-245।15]
चक्षुः श्रोत्रमनश्चित्तैरनुभूतं त्रिभिश्च यत् ।
तद्दृष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम्
[245।16]
यच्चक्षुर्विज्ञानेनानुभूतं तद्दृष्टमित्युक्तम् ।
यच्छ्रोत्रविज्ञानेन तच्छ्रुतम् ।
[245।16-245।17]
यन्मनो विज्ञानेन तत् विज्ञातम् ।
[245।17]
यत् घ्राणजिह्वाकायविज्ञानैस्तन्मतम् ।
किं कारणम् ।
[245।18]
गन्धरसस्प्रष्टव्यान्यव्याकृतत्वान्मृतकल्पानि ।
अत एतेषु मताख्येति वैभाषिकाः ।
[245।19]
किमत्र ज्ञापकम् ।
सूत्रं युक्तिश्च ।
[245।19-245।21]
सूत्रं तावत् "तत्किं मन्यसे माहकीमातः यानि त्वया चक्षुषा रूपाणि न दृष्टानि न दृष्टपूर्वाणि न पश्यसि नापि ते एवं भवति पश्येयमिति ।
[245।21-245।22]
अपि नु ते तन्निदानमुत्पन्नश्छन्दो वा रागो वा स्नेहो वा येन वा आलयो वा नीयतिरध्यवसानं वा ।
[245।22]
नो भदन्त ।
[245।22-245।24]
ये त्वया श्रोत्रेण शब्दा न श्रुता न श्रुतपूर्वा विस्तरेण यावन्मनसा धर्मा न विज्ञाता विस्तरेण यावन्नो भदन्त ।
[245।24-245।25]
अत्र च ते माहकीमातर्दृष्टे दृष्टमात्रं भविष्यति श्रुते मते विज्ञाते विज्ञातपात्रमित्यु"क्तम् ।
[245।25-245।26]
अतस्त्रिषु विषयेषु दृष्टश्रुतविज्ञातशब्दापदेशाद्गन्धादिषु मताख्या अम्यते ।
[245।26-245।27]
अत एवं चानिष्यमाणे दृष्टादिभावबाह्यत्वात् गन्धादिषु व्यवहारो न स्यादित्येषा युक्तिः ।
[245।27]
सूत्रं तावज्ज्ञापकमन्यार्थत्वात् ।
[245।27-245।28]
न ह्यत्र सूत्रे भगवान् व्यवहारानां लक्षाणं शास्ति स्म ।
[245।28]
किं तर्हि ।
[245।28-246।01]
अत्र च ते षड्विधे विषये चतुर्षु व्यवहारेषु दृष्टादिव्यवहारमात्रं भविष्यति न प्रियाप्रियनिमित्ताध्यारोप इत्ययमत्र सूत्रार्थो दृश्यते ।
[246।01]
किं पुनर्डृष्टं किं च यावद्विज्ञातम् ।
केचित्तावदाहुः ।
[246।01-246।02]
"यत् पञ्चभिरिन्द्रियैः प्रत्यक्षं तद्दृष्टम् ।
[246।02]
यत् परत आगमितं तच्छ्रुतम् ।
[246।02-246।03]
यत् स्वयं युक्त्यनुमानतो रुचितं तन्मतम् ।
[246।03-246।04]
यन्मनःप्रत्यक्षभावेनाधिष्टितं प्रत्यात्मवेद्यं तद्विज्ञातमि"ति ।
[246।04]
एते च पञ्च विषयाः प्रत्येकं दृष्टा इति वा कृत्वा व्यवह्रिल्यन्ते ।
[246।05]
श्रुता मता विज्ञाता इति वा ।
[246।05-246।06]
षष्ठो ऽन्यत्र दृष्टादिति नास्ति गन्धादिषु व्यवहाराभावप्रसङ्गः ।
[246।06]
तस्माद्युक्तिंरप्येषा युक्तिर्न भवति ।
[246।06-246।07]
पूर्वाचार्या एवमाहुः ।
[246।07]
यद् दृष्टं यत् प्रत्यक्षीकृतं चक्षुषा ।
श्रुतं यच् छ्रोत्रेण परतश्चाखरितम् ।
[246।08]
मतं यत् स्वयं चिन्तितम् ।
विज्ञातं यत् प्रत्यात्मप्रतिसंवेदितमधिगतं चोत्पन्नम् ।
[246।09]
प्रसङ्गेन शास्त्रं प्रवर्तयताम् ।
यः कायेनान्यथात्वं प्राप्येत्स्यान्मृषावादः ।
[246।10]
स्यात् ।
अत एवोच्यते ।
"स्यिआन्न कायेन पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत ।
[246।11]
स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत ।
[246।11-246।12]
स्यात् कायेन पराक्रमेत स्यान्न कायेन न वाचा पराक्रक्मेत उभयावद्येन च स्पृश्येत ।
[246।13]
स्यात् ऋशीणां मनःप्रदोषेण पोषधनिदर्शनं चात्रे"ति ।
[246।13-246।14]
यद्युभयथा ऽपि न पराक्रमेत न चाविज्ञप्तिकास्त्यविज्ञप्तिः कामावचरी कथं तयोः कर्मपथः सिद्ध्यति ।
[246।15]
कर्तव्यो ऽत्र यत्नः ।
गतो मृषावादः ।
[246।16]
पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने ।
[246।17]
यत् क्लिष्टचित्तस्य परेषां भेदाय वचनमप्रीतये तत् पैशुन्यम् ।
[246।17-246।18]
अर्थभिज्ञ इति वर्तते अभ्रान्त्येति च ।
[246।19]
पारुष्यमप्रियं
[246।20]
वचनत् ।
क्लिष्टचित्तस्येति वर्तते ।
अर्थाभिज्ञे अभ्रान्त्येति च ।
[246।20-246।22]
यत् क्लिष्टचित्तस्य परेषामप्रियवचनमर्थाभिज्ञे तत्रैव च यत् विवक्षितं तत् पारुष्यम् ।
[246।23]
सर्वं क्लिष्टं भिन्न प्रलापिता
[246।24]
वाक्यमित्यधिकारो वर्तते ।
सर्वं क्लिष्टं वचनं संभिन्नप्रलापः ।
[246।24-246।25]
सैव संभिन्नप्रलापिता ।
[246।25]
तद्योगेन हि संभिन्नप्रलापी भवति ।
[247।01]
अतो ऽन्यत् क्लिष्टमित्यन्ये
[247।02]
अतो मृषावादादिकाद्वाक्कर्मणो यदन्यत् क्लिष्टं वचनं तत्संभिन्नप्रलाप इत्यपरे ।
[247।03]
लपनागीतनाट्यवत् ।
[247।04]
कुशास्त्रवच्च
[247।05-247।06]
तद्यथा भिक्षुर्मिथ्याजीवी लपनां करोति रक्ताश्च केचित् गायन्ति नाटच्ये च नटाः परेषां रञ्जनार्थं प्रलपन्ति ।
[247।06]
कुक्शास्त्राणि च तद्दृष्टयो ऽपि गदन्ति ।
[247।06-247।07]
एवं परिदेवसंगणिकादिकमपि यदन्यन्मृषावादादिभ्यः क्लिष्टं वाक्कर्म तत्संभिन्नप्रलापः ।
[247।07-247।08]
कथं चक्रवर्तिकाले गीतं चास्ति न च संभिन्नप्रलापः ।
[247।08-247।09]
नैष्क्रम्योपसंहितानि हि तदानीं गियन्ते स्म न ग्राम्यरसोपसंहितानि ।
[247।09-247।10]
तदाप्यावाहविवाहद्यभिलापसद्भावादस्ति संभिन्नप्रलापो न कर्मपथ इत्यपरे ।
[247।11]
अभिध्या तु परस्वविषमस्पृहा
[247।12-247।13]
अहो वत यत् परेषां तन्मम स्यादिति परस्वेभ्यो या विषमेणान्यायेन स्पृहा स्वीकरनेच्छा बलाद्वा चोपायाद्वा सा ऽभिध्या कर्मपथः ।
[247।13-247।14]
सर्वैव कामावचरी तृष्णाभिध्येत्यपरे ।
[247।14-247।15]
तथा हि निवरणाधिकारे कामच्छन्दमधिकृत्योक्तं सूत्रे "सो ऽभिध्यां लोके प्रहाये" त्येवमादि ।
[247।15-247।16]
यद्यपि सर्वाभिध्या नतु सर्वा कर्मपथ औदारिकदुष्चरितसंग्रहादित्यपरे ।
[247।16-247।17
मा भूच्चक्रवर्तिनामप्युत्तरकौरवानां पाभिध्या कर्मपथ इति ।
[247।18]
व्यापादः सत्त्वविद्वेषः
[247।19]
सत्त्वेषु विद्वेषो व्यापादः परपीडाकारप्रवृत्तः ।
[247।20]
नास्तिदृष्टिः शुभाशुभे ।
[247।21]
मिथ्यादृष्टिः
[247।22]
शुभे चाशुभे च कर्मणि या नास्तीति दृष्टिः सा मिथ्यादृष्टिः ।
[247।22-247।24]
तद्यथा "नास्ति दत्तं नास्तीष्टं नास्ति हुतं नास्ति सुचरितं नास्ति दुश्चरितमित्येवमादि यावन्न सन्ति लोके ऽहन्त" इति ।
[247।24-247।25]
सैषा साकल्येन कर्मफलार्यापवादिका मिथ्यादृष्टिर्भवति ।
[247।25]
आदिमात्रं तु श्लोके दर्शितम् ।
एवंलक्षणा एते दश कर्मपथाः ।
[248।01]
कर्मपथा इति कोऽर्थः ।
[248।02]
त्रयो ह्यत्र पन्थानः सप्त कर्म च
[248।03]
अभिध्यादयो हि त्रयः कर्मणः पन्थान इति कर्मपथाः ।
[248।03-248।04]
तत्संप्रयोगिणी हि चेतना तेषां वाहेन वहति तेषां गत्या गच्छति ।
[248।04]
तद्वशेन तथाभिसंस्करणात् ।
[248।04-248।06]
सप्त तु प्राणातिपातादयः कर्म च कायवाक्कर्मत्वात् कर्मणश्च पन्थान इति कर्मपथास्तत्समुत्थानचेतनायास्तानधिष्ठाय प्रवृत्तेरिति ।
[248।06]
कर्मपथाश्चकर्म च कर्मपथाश्चेति कर्मपथाः ।
[248।07]
असरूपाणामप्येकशेषसिद्धेः ।
[248।07-248।08]
एवमनभिध्यादयः प्राणातिपातविरत्यादयश्च ज्ञेयाः ।
[248।08-248।09]
प्रयोगपृष्टानि कर्माणि कर्मपथाः यस्मात्तदर्थं तन्मूलिका च तेषां प्रवृत्तिः ।
[248।09-248।09-]
यथौदारिकं च ग्रहणादित्युक्तं प्राक् ।
[248।09-248।10]
येषां चोत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षौ लोके भवतः ।
[248।10-248।11]
ये तर्हि दार्ष्टान्तिका अभिध्यादीनेव मनस्कर्मेच्छन्ति तेषां ते कथं कर्मपथाः ।
[248।11]
त एव हि प्रष्टव्याः ।
[248।12]
अपि तु शक्यं वक्तुं कर्म च ते पन्थानश्च सुगतिदुर्गतीनामिति कर्मपथाः ।
[248।12-248।13]
इतरेतरावाहनाद्वा ।
[248।13-248।14]
य एते दशाकुशलाः कर्मपथाः सर्वे एते कुशलानां कर्मणां समुदाचारविरोधिनः ।
[248।15]
मूलच्छेदस्त्वसद्दृष्ट्या
[248।16]
कुशलमूलच्छेदस्तु मिथ्यादृष्ट्या भवत्यधिमात्रपरिपूर्णया ।
[248।16-248।17]
यत्तर्हि शास्त्र उक्तं "कतमान्यधिमात्राण्यकुशलमूलानि ।
[248।17-248।18]
यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखती"ति ।
[248।18-248।20]
अकुशलमूलाध्याहृतत्वात् मिथ्यादृष्टेस्तेष्वेव तत्कर्मापदेश एष क्रियते तद्यथाग्निरेव ग्रामं दहनि चौरास्तु तस्याध्याहारका इति चौरैर्ग्रामो दग्ध इत्युच्यते ।
[248।21]
कतमेषां कुशलमूलानां समुच्छेदो भवति ।
[248।22]
कामाप्तोत्पत्तिलाभिनाम् ।
[248।23]
कामावचराणि कुशलमूलानि समुछिद्यन्ते ।
[248।23-248।24]
रूपारूप्यावचरैरसमन्वागतत्वात् ।
[248।24]
प्रज्ञप्तिभाष्यं तर्हि कथं नीयते ।
[248।24-248।25]
"इयता ऽनेन पुद्गलेन त्रैधातुकानि कुशलमूलालि समुच्छिन्नानि भवन्ती"ति ।
[248।25-249।01]
तत्प्राप्तिदूरीकरणमभिसंधायैतदुक्तम् ।
[249।01]
संततेस्तदभाजनत्वापादनात् ।
[249।01-249।02]
उपपत्तिप्रतिलाभिकान्येव च समुच्छिद्यन्ते ।
[249।02]
प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् ।
[249।02-249।03]
किमालम्बनया मिथ्यादृष्ट्या समुच्छिद्यन्ते
[249।04]
फलहेत्वपवादिन्या
[249।05-249।06]
या च हेतुमपवदते नास्ति सुचरितं नास्ति दुश्चरितमिति या च फलं नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाक इति ।
[249।06-249।07]
आनन्तर्यविमुक्तिमार्गस्थानीये एते इत्यपरे ।
[249।07-249।08]
सास्रवालम्बनयैव नानास्रवालम्बनया सभागधात्वालम्बनयैव च न विसभागधात्वालम्बनया ।
[249।08]
संप्रयोगमात्रानुशायित्वेन दुर्बलत्वादित्येके ।
[249।08-249।09]
एवं तु वर्णयन्ति ।
[249।10]
सर्वथा
[249।11]
नवप्रकाराण्यपि कुशलमूलानि सकृत्समुच्छिद्यन्ते ।
दर्शनप्रहातव्यवदित्येके ।
[249।11-249।12]
एवं तु वर्णयन्ति ।
[249।13]
क्रमशः
[249।14]
नवप्रकारया मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते ।
[249।14-249।15]
भावना हेयक्लेशवत् यावदधिमात्राधिमात्रया मृदुमृदूनीति ।
[249।15-249।16]
एवमयं ग्रन्थः पालितो भवति ।
[249।16]
"कतमान्यणुसहगतानि कुशलमूलानि ।
आह ।
[249।16-249।18]
यैरकुशलमूलैः कुशलानि समुच्छिन्नानि सर्वपश्चात् विजहाति यैः विकीर्णैः समुच्छिन्न कुशलमूल इति संख्यां गच्छती"ति ।
[249।18]
अस्य तर्हि ग्रन्थस्य को नयः ।
[249।18-249।19]
"कतमान्यधिंमात्राधिमात्राण्यकुशलमूलानि ।
[249।19-249।20]
यैरकुक्शलमूलैः कुशलमूलानि समुच्छिनत्ती"ति ।
[249।20]
समाप्तिमेतत् संधायोक्तम् ।
तैनिरवशेषच्छेदात् ।
[249।20-249।21]
एको ऽपि हि प्रकार स्तेषामसमुच्छिन्नः सर्वेषां पुनरुत्पत्तौ हेतुः स्यादिति ।
[249।21-249।22]
दर्शनमार्गवदभ्युत्थानेन च्छिनत्तीत्येके ।
[249।22]
एवं तु वर्णयन्त्युभयथेति ।
[249।22-249।23]
पूर्वं संवरं विजहाति पश्चात् कुशलमूलानि समुच्छिनत्तीत्येके ।
[249।23]
एवं तु वर्णयन्ति ।
[249।23-249।24]
यस्य चित्तस्य फलसंवरस्तत्त्यागात्तस्य त्याग इति ।
[249।24]
अथ कुशलमूलानि समुच्छिद्यन्ते
[249।25]
नृषु
[249।26]
मनुष्येष्वेव नापायेषु ।
क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वात् ।
[249।26-249।27]
न देवेषु कर्मफल प्रत्यक्षत्वात् ।
[249।27]
त्रिषु द्वीपेषु नोत्तरकुरौ ।
अपापाशयत्वात् जम्बूद्वीप एवेत्यपरे ।
[249।28]
तेषामयं ग्रन्थो विरुध्यते ।
"जाम्बूद्वीपकः सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः ।
[250।01]
एवं पूर्वविदेहको गोदानीयक" इति ।
तानि पुनः
[250।02]
छिनत्ति स्त्री पुमान्
[250।03]
स्त्रि च समुच्छिनत्ति पुरुषश्च मन्दच्छन्दवीर्यप्रज्ञत्वात्
न स्त्रीत्यपरे
[250।03-250।04]
अयं ग्रन्थो विरुध्येत
[250।04-250।05]
"यः स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभिरिन्द्रियैः समन्वागत" इति
[250।05]
तेषामपि तृष्णाचरितो न समुच्छिनत्ति
[250।05-250।06]
चलाशयत्वात्
[250।06]
कस्तर्हि
[250।07]
दृष्टिचरितः
[250।08]
दृढगूढपापाशयत्वात्
अत एव न शण्डादयस्तृष्णाचरिते पक्ष्यत्वात्
[250।08-250।09]
आपायिकवच्च
[250।09]
किंस्वभावः कुशलमूलसमुच्छेदः
[250।10]
सो ऽसमन्वयः
[250।11]
यदा हि कुशलमूलानां प्राप्तिर्न पुनरुत्पद्यते अप्राप्तिरप्युत्पद्यते ।
[250।11-250।12]
तस्मिन्नसमन्वागम उत्पन्ने समुच्छिन्नानि कुशलमूलान्युच्यन्ते ।
[250।12-250।13]
तेषां समुच्छिन्नानां कथं पुनः प्रतिसंधिः
[250।14]
संधिः काङ्क्षास्तिदृष्टिभ्यां ।
[250।15]
यदा ऽस्य हेतुफले विचिकित्सा चोत्पद्यते ।
अष्टिदृष्टिर्वा सम्यक् दृष्टिरित्यर्थः ।
[250।16]
तदा पुनः तत्प्राप्तिसमुत्पादात् प्रतिसंधितानि कुशलमूलान्युच्यन्ते ।
[250।16-250।17]
नवप्रकाराणां युगपत् प्रतिसंधानं क्रमेण तु संमुखीभाव आरोग्यबललाभवत् ।
[250।17-250।18]
स पुनस्तेषां प्रतिसंधिः
[250।19]
नेहानन्तर्यकारिणः
[250।20]
अन्यस्यैवेह स्यादानन्तर्यकारिणस्तु नेह स्यात् ।
[250।20-250।22]
तमेव संधायोक्तम् "अभव्योऽयं पुद्गलो दृष्ट एव धर्मे कुशलमूलानि प्रतिसंधातुं नियतमयं नवकेभ्यश्च्यवमानो वा उपपद्यमानो वा कुशलमूलानि प्रतिसंधास्यति" इति ।
[250।22-250।24]
उपपद्यमानो ऽन्तराभवस्थश्च्यवमानश्च्युत्यभिमुखस्तत्र पुनर्यो हेतुबलेन समुच्छिनत्ति स च्यवमानः प्रतिसंदधाति यः प्रत्ययबलेन स उपपद्यमानः ।
[250।24-250।25]
एवं यः स्वबलेन परबलेन ।
[250।25]
पुनराह ।
[250।25-250।26]
य आशयविपन्नः समुच्छिनत्ति स दृष्टे धर्मे प्रतिसंदधाति ।
[250।26]
य आशयप्रयोगविपन्नः स भेदात्कायस्येति ।
[250।26-251।01]
एवं यो दृष्टिविपन्नो दृष्टि शीलविपन्न इति ।
[251।01]
स्यात्समुच्छिन्न कुशलमूलो न मिथ्यात्वनियत इति ।
[251।02]
चतुष्कोटिकम् ।
प्रथमा कोटिः पूरणादयः ।
द्वितीया ऽजातशत्रुः ।
तृतीया देवदत्तः ।
[251।03]
चतुर्थ्येतानाकारान् स्थापयित्वा ।
[251।03-251।04]
कुशलमूलसमुच्छेदिकाया मिथ्यादृष्टेरवीचौ विपाकः ।
[251।04]
आनन्तर्यकारिणां तु तत्र वा ऽन्यत्र वा नरके ।
[251।05]
कर्मपथप्रसङ्ग एवायं वर्तते ।
[251।05-251।06]
तत्र वक्तव्यं कतिभिः कर्मपथैः सह चेतना युगपदुत्पन्ना वर्तत इति ।
[251।07]
युगपद्यावदष्टाभिरशुभैः सह वर्तते ।
[251।08]
चेतना
[251।09]
एकेन तावत्सह वर्तते ।
[251।09-251।10]
विना ऽन्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने ।
[251।10]
द्वभ्यां सह वर्तते ।
[251।10-251।11]
व्यापन्नचित्तस्य प्राणिवधे अभिध्याविष्टस्य वा ऽदत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा ।
[251।12]
त्रिभिः सह वर्तते ।
व्यापन्नचित्तस्य परकीय प्राणिमारणापहरणे युगपत् ।
[251।12-251।13]
न तर्हीदानीमदत्तादानस्य लोभेनैव निष्टा सिध्यति ।
[251।13-251।14]
अनन्यचित्तस्य तत्समाप्तौ स नियमो ज्ञेयः ।
[251।14-251।15]
अभिध्याद्याविष्टस्य च तत्प्रयोगेण रूपिद्वयनिष्ठागमने त्रिभिरेव ।
[251।15]
चतुर्भिः सह वर्तते ।
[251।15-251।16]
भेदाभिप्रायस्यानृत वचने परुषवचने वा ।
[251।16]
तत्र हिमानस एको भवति वाचिकास्त्रयः ।
[251।16-251।17]
अभिध्यादिगतस्य वा तत्प्रयोगेणा न्यरूपित्रय निष्ठागमने ।
[251।17]
एवं पण्चषट्सप्तभिर्यो जयितव्या ।
[251।17-251।18]
अष्टाभिः सह वर्तते ।
[251।18]
षट्सु प्रयोग्गं कृत्वा स्वयं कामभिथ्याचारं कुर्वतः समं निष्ठागमने ।
[251।19]
एवं तावदकुशलैः ।
[251।20]
दशभिर्यावच्छुभैः
[251।21]
कुशलैः पुनः कर्मपथर्यावत् दशभिः सह चेतना वर्तत इत्युत्सर्गं कृत्वा ऽपवादं करोति
[251।22]
नैकाष्टपञ्चभिः
[251।23]
एकेनाष्टाभि पञ्चभिश्च कर्मपथैः सह न वर्तते ।
तत्र द्वाभ्यां सह वर्तते ।
[251।23-252।01]
कुशलेषु पञ्चसु विज्ञानेषु ।
[252।01]
आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोः ।
[252।01-252।02]
त्रिभिः सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने ।
[252।02-252।03]
चतुर्भिरकुशलाव्याकृतचित्तस्यो पासकश्रामणेरसंवरसमादाने ।
[252।03]
षड्भिः कुशलेषु पञ्चषु विज्ञानकायेषु तत्समादाने ।
[252।03-252।04]
सप्तभिः कुशले मनोविज्ञाने तत्समादान एव अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने ।
[252।05]
नवभिः कुशलेषु पञ्चषु विज्ञानेषु ।
[252।05-252।06]
तत्समादाने क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते ।
[252।06-252।07]
दशभिस्ततो ऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव ।
[252।07-252।09]
सर्वा च ध्यानानास्रव संवरसहवर्तिनी चेतना ऽन्यत्र क्षयानुत्पादज्ञानाभ्याम् संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्य चित्तस्यैकाङ्गविरतिसमादाने ।
[252।09-252।10]
पञ्चाष्टाभिरपि स्यात्कुशले मनोविज्ञाने द्विपञ्चाङ्गसमादाने युगपत् ।
[252।11-252।12]
कस्यां गतौ कति कर्मपथा अकुशला कुशला वा संमुखीभावतः समन्वागमतो वा ।
[252।13]
भिन्नप्रलापपारुष्यव्यापादा नरके द्विधा ।
[252।14]
इत्येते त्रयः कर्मपथा नरके द्वाभ्यां सप्रकाराभ्यां सन्ति ।
[252।14-252।15]
संमुखीभावतः समन्वागमभावतश्च ।
[252।15]
परिदेवनात्संभिन्नप्रलापः ।
परस्परपरितापनात्पारुष्यं रुक्षसंतानतया ।
[252।16]
परस्परद्वेषाद्व्यापादः ।
[252।17]
समन्वागमतो ऽभिध्यामिथ्यादृष्टी ।
[252।18]
न संमुखीभावतः ।
रञ्जनीयवस्त्वभावात्कर्मफलप्रत्यक्षत्वाच्च ।
[252।18-252।19]
कर्मक्षयेण मरणान्न प्राणातिपातः ।
[252।19-252।20]
द्रव्यस्त्रीपरिग्रहाभावान्नदत्तादानकाममिथ्याचारौ प्रयोजनाभावान्न मृषावादः ।
[252।20]
अत एव न पैशुन्यं नित्यभिन्नत्वाच्च ।
[252।21]
कुरौ त्रयः
[252।22]
समन्वागमत इति वर्तते ।
अभिध्याव्यापादमिथ्यादृष्टयो न संमुखीभावतः ।
[252।23-252।24]
अममापरिग्रहत्वात् स्निग्ध संतानत्वादाघातवस्त्वभावादपापाशयत्वाच्च ।
[252।25]
सप्तमः स्वयमप्यत्र
[252।26]
असंभिन्नप्रलापः संमुखीभावतो ऽप्यस्ति ।
ते हि क्लिष्टचित्ताः कदाचित् गायन्ति ।
[253।01]
अपापाशयत्वात् न प्राणतिपातादयः ।
[253।01-253।02]
नियतायुष्कत्वाद्द्रव्यस्त्रीपरिग्रहाभावात् प्रयोजनाभावाच्च ।
[253।02]
कथमेषामब्रह्मचर्यम् ।
[253।02-253।03]
ते खलु यया स्त्रिया सार्धं रन्तुकामा भवन्ति तां बाहौ गृहीत्वा वृक्षमूलमुपसर्पन्ति ।
[253।03-253।04]
गम्या चेत् वृक्षश्छादयति तां ते गच्छन्ति ।
[253।04]
अगम्या चेन्न छादयति तां ते न गच्छन्ति ।
[253।05]
कामे ऽन्यत्र दशाशुभाः ।
[253।06]
स्वयमपीति वर्तते ।
[253।06-253।07]
नरकोत्तरकुरुभ्यामन्यत्र कामधातौ दशाकुशलाः कर्मपथाः संमुखीभावतो ऽपि विद्यन्ते ।
[253।07]
तिर्यक्प्रेतदेवेष्वसंवरनिर्मुक्ताः ।
[253।07-253।08]
मनुष्येष्वसंवरसंगृहीता अपि ।
[253।08]
यद्यपि देवो देवं न मारयति अन्यगतिस्थं तु मारयति ।
[253।08-253।09]
देवा अपि शिरोमध्यच्छेदात् भ्रियन्त इत्यपरे ।
[253।09]
उक्ता अशुभाः ।
[253।10]
शुभास्त्रयस्तु सर्वत्र संमुखीभाव लाभतः
[253।11-253।12]
पञ्चसु गतिषु त्रैधातुके सर्वत्रानभिध्या ऽव्यापादसम्यग्दृष्ट्यः संमुखीभावतः समन्वागमतश्च विद्यन्ते ।
[253।13]
आरुप्यासंज्ञिसत्त्वेषु लाभतः सप्त
[253।14]
कायिकवाचिकाः सप्त कुशला आरूप्येष्वसंज्ञिसत्त्वेषु समन्वागमत एव ।
[253।14-253।16]
आरूप्योओपपन्नानामार्याणामतीतानागतानास्रवसंवरसमन्वागमात् ।
[253।16]
असंज्ञिसत्त्वानां च ध्यानसंवरसमन्वागमात् ।
[253।16-253।17]
यद्भूम्या श्रयमार्येणानास्रवं शीलमुत्पादितं निरोधितं भवति तेनारूप्येष्वतीतेन समन्वागतो भवति ।
[253।18]
पञ्च भूम्याश्रयेण त्वनागतेन ।
[253।19]
शेषिते ।
[253।20]
संमुखीभावतश्चापि हित्वा सनरकान् कुरुन्
[253।21]
शेसः कृतः शेषितः ।
यो ऽन्यो धातुः शेषितो गतिर्वा ।
[253।21-253।22]
तत्रैते सप्त कुशलाः कर्मपथाः संमुखीभावतो ऽपि संविद्यन्ते ऽन्यत्र नरकोत्तरकुरुभ्यः ।
[253।22-253।23]
ते पुनस्तिर्यक्प्रेतेषु संवरनिर्मुक्ता रूपधातौ तु संवरसंगृहीता अन्यत्रोभयथा ।
[253।23-253।24]
त एते दशाकुशलाः कर्मपथाः कुशलाश्च
[253।25]
सर्वे ऽधिपतिनिष्यन्दविपाकफलदा मताः ।
[253।26]
अकुशलैस्तावत्सर्वैरेवासेवितभावितबहुलीकृतैः नरकेष्रपपद्यते ।
तदेषां विपाकफलम् ।
[254।01-254।05]
स चेदित्थं त्वमागच्छति मनुष्याणां सभागतां प्रणातिपातेनाल्पायुर्भवति अदत्तादानेन भोगव्यसनी भवतिकाममिथ्याचारेन स संपन्नदारः मृषावादेनाभ्याख्यानबहुलः पैशुन्येन मित्रभेदो ऽस्य भवति पारुष्येणामनोज्ञशब्दश्रवणं संभिन्नप्रलापेनानादेयवाक्यः अभिध्यया तीव्ररागः व्यापादेन तीव्रद्वेषः मिथ्यादृष्ट्या तीव्रमोहः ।
[254।05]
तस्या मोहभूयस्त्वात् ।
इदमेषां निःष्यन्दफलम् ।
[254।05-254।06]
अल्पमप्यायुर्मनुष्येषु कुशलफलम् ।
[254।06]
तत् कथं प्राणातिपातस्य निःष्यन्दफलं भवति ।
[254।06-254।07]
नोच्यते तदेवायुस्तस्य फलम्
[254।07]
किं तर्हि ।
तेनाल्पायुर्भवतीति ।
[254।07-254।08]
अतो ऽन्तरायहेतुः प्राणाति पातस्तस्यायुषो भवतीति वेदितव्यम् ।
[254।08-254।09]
प्राणातीपातेनात्यासेवितेन बाह्या भावा अल्पौजसो भवन्तीति ।
[254।09-254।12]
अदत्तादानेनाशनिरजोबहुलाः काममिथ्याचारेण रजो ऽवकीर्णाः मृषावादेन दुर्गन्धाः पैशुन्येनोत्कूलनिकूलाः पारुष्येणोपरजाङ्गला प्रतिकुष्टाः पापभूमयः संभिन्नप्रलापेन विषमर्तुपरिणामाः अभिध्यया शुष्कफलाः व्यापादेन कटुकफला मिथ्यादृष्ट्या ऽल्पफला अफला वा ।
[254।12]
इदमेषामधिपतिफलम् ।
[254।13]
किं तेनैव कर्मणा ऽयमिहाल्पायुर्भवत्यथान्येन ।
तेनेवेत्येके ।
[254।13-254।14]
तद्विपाकफलमिदं निष्यन्दफलमिति ।
[254।14]
तत्र प्रयोगेणेह मौलेल्नेत्येके ।
[254।14-254।15]
परे सपरिवारग्रहणात्तु प्राणातिपातेनेत्युक्तमिति ।
[254।15]
यदप्येतन्निःष्यन्दफलमुक्तं नैतद्द्वयमतिवर्तते विपाकफलमधिपतिफलं च ।
[254।16]
सादृश्यविशेषात्तु तथोक्तम् ।
[254।16-254।17]
किं पुनः कारणमेषां कर्मपथानामेतत्त्रिविधफलमभिनिवर्तते ।
[254।17-254।18]
प्राणातिपातं हि तावत्कुर्वता मार्यमाणस्य दुःखमुत्पादितं मारितमोजो नाशिमतो ऽस्य
[254।19]
दुःखनान्मारणादोजोनाशनात्त्रिविधं फलम्
[254।20]
परस्य दुःखनाद्विपाकफलेन नरके दुःखितो भवति ।
[254।20-254।21]
मारणन्निःष्यन्दफलेनाल्पायुर्भवति ।
[254।21]
ओजोनाशनादधिपति फलेनाल्पौजसो बाह्या औषधयो भवन्ति ।
[254।23]
एवमन्येष्वपि योज्यम् ।
[254।23-254।24]
एवं कुशलानामपि कर्मपथानां फलत्रयं वेदितव्यम् प्राणातिपातविरत्या आसेवितया भावितया बहुलीकृतया देवेषुपपद्यते ।
[254।24-254।25]
स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवतीत्यकुशलविपर्ययेण सर्वं योजयितव्यम् ।
[254।25-254।26]
यद्भगवता "मिथ्यावांइमथ्याकर्मान्तो मिथ्याजीव" इत्युक्तं को ऽयमन्यस्ताभ्यां मिथ्याजीवः ।
[254।26]
नायमन्यो ऽस्ति ।
तदेव तु
[255।01]
लोभजं कायवाक्कर्म मिथ्याजीवः
[255।02]
द्वेषमोहजौ तु कायवाक्कर्मान्तौ ।
स चैष ताभ्यां
[255।03]
पृथक् कृतः ।
[255।04]
दुःशोधत्वात्
[255।05]
हारी हि लोभधर्मः ।
तत्समुत्थात् कर्मणश्चित्तं न सुरक्ष्यम् ।
[255।05-255।06]
अत आजीवो दुःखशोध इत्यादरोत्पादनार्थं तत्रासौ पृथग्निर्दिष्टः ।
[255।06]
आह चात्र
[255।07-255।08]
"दुःशोधा गृहिणां दृष्टिर्नित्यं विविधदृष्टिना ।
आजीवो भिक्षुणा चैव परेष्वायत्तदृष्टिने"ति ॥
[255।09]
परिष्कारलोभोत्थं चेत्
[255।10]
यो मन्यते जीवित्परिष्कारलोभोत्थमेव कायवाक्कर्म मिथ्याजीवोनान्यत् ।
[255।10-255।11]
नह्यात्मरतिनिमित्तं नृत्तगीतादि आजीवयोग इति तत्
[255।12]
न सूत्रतः
[255।13]
शीलस्कन्धिकायां हि भगवता हस्तियुद्ध दर्शनादीन्यपि मिथ्याजीवे न्यस्तानि ।
[255।14]
किं कारणम् ।
मिथ्यविषयपरिभोगात् ।
गतमेतत् ।
[254।15]
यानि पूर्वं पञ्च फलान्युक्तानि तेषां कतमत् कर्म कतिभिः फलैः प्रहाणम् ।
[255।16]
प्रहाणमार्गे समले सफलं कर्म पञ्चभिः ।
[255।17]
प्रहाणार्थं मार्गः प्रहीयन्ते वा ऽनेन क्लेशा इति प्रहाणमार्गः आनन्तर्यमार्गः ।
[255।18]
तस्मिन्सास्रवे यत् कर्म तत् पञ्चभिः फलैः सफलम् ।
[255।18-255।19]
तस्य हि विपाकफलं स्वभूमाविष्टो विपाकः ।
[255।19]
निःष्यन्दफलं समाधिजा उत्तरे सदृशा धर्माः ।
[255।19-255।20]
विसंयोगफलं विसंयोग एव ।
[255।20]
यत्तत् प्रहाणम् ।
[255।20-255।21]
पुरुषकारफलं तदाकृष्टा धर्मस्तद्यथा ऽधिमुक्तिमार्गस्तत्सहभुवश्च ।
[255।21]
यच्चानागतं भाव्यते तच्च प्रहाणम् ।
[255।21-255।22]
अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्नवर्ज्याः ।
[255।23]
चतुर्भिरमले
[255।24]
अनास्रवे प्रहाणमार्गे यत्कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं हित्वा ।
[255।25]
अन्यच्च सास्रवं यच्छुभाशुभम्
[256।01-256।02]
यच्चान्यत् प्रहाणमार्गात्सास्रवं कुशलं कर्मं यच्चाकुशलं तदपि चतुर्भिर्विसंयोगफलं हित्वा ।
[256।03]
अनास्रवं पुनः शेषां त्रिभिरव्याकृतं च यत् ।
[256।04]
प्रहाणमार्गादन्यदनास्रवं कर्म अव्याकृतं च कर्म त्रिभिर्विपाकविसंयोगफले हित्वा ।
[256।05]
चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः
[256।06]
अनुक्रममिति पश्चाद्वक्ष्यति ।
[256।06-256।07]
कुशल्स्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा ।
[256।07]
अकुशला द्वे पुरुषकाराधिपतिफले ।
[256।07-256।08]
अव्याकृता स्त्रीणि निःष्यन्दविसंयोगफले हित्वा ।
[256।08]
अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम् ।
[256।10]
यथाक्रममित्यर्थः ।
अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले ।
[256।11]
अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा ।
[256।11-256।12]
अव्याकृताश्चत्वारि विसंयोगफलं हित्वा ।
[256।12-256।13]
अव्याकृते हि सत्कायान्तग्राहदृष्टी अकुशलानां सर्वत्रगाणां दुःखदर्शन हेयानां च निःष्यन्दफलम् ।
[256।14]
अव्याकृतस्य द्वे त्रीणि त्रीणि चैते शुभादयः
[256।15]
अव्याकृतस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफलेल् ।
[256।15-256।16]
अकुशलाः त्रीणि विपाकविसंयोगफले हित्वा ।
[256।16-256।17]
अकुशला हि दुःखदर्शनादिहेया अव्याकृतयोर्दृष्ट्योनिःर्ष्यन्दफलम् ।
[256।17]
अव्याकृता धर्मा एतान्येव त्रीणि ।
[256।18]
सर्वे ऽतीतस्य चत्वारि
[256।19]
सर्व इति त्रैयध्विकाः ।
[256।19-256।20]
अतीतस्य कर्मणस्त्रैयद्विकाः धर्माश्चत्वारि फलानि ।
[256।20]
विसंयोगफलल्ं हित्वा ।
[256।21]
मध्यमस्याप्यनागताः ।
[256।22]
प्रत्युत्पन्नस्यापि कर्मणो ऽनागता धर्माश्चत्वाति फलान्येतान्येव ।
[256।23]
मध्यमा द्वे
[256।24]
प्रत्युत्पन्ना धर्माः प्रत्युपन्नस्य द्वे पुरुषकाराधिपतिफले ।
[256।25]
अजातस्य फलानि त्रिण्यनागताः
[257।01]
अनागतस्यानागतानि त्रीणि फलानि ।
निःष्यन्दविसंयोगफले हित्वा ।
[257।02]
स्वभूमिधर्माश्चत्वारि
[257।03]
स्वभूमिकस्य कर्मणः स्वभूमिका धर्माश्चत्वारि फलानि विसंयोगफलं हित्वा ।
[257।04]
त्रीणि द्वे वा ऽन्यभूमिकाः ।
[257।05]
अन्यभूमिका धर्मा अनास्रवाश्चेत् त्रीणि फलानि ।
विपाकविसंयोगफले हित्वा ।
[257।06]
धात्वपतितत्वात् ।
सास्रवाश्चेत् द्वे पुरुषकाराधिपतिफले ।
[257।07]
शैक्षस्य त्रीणि शैक्षाद्याः
[257।08]
शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि विपाकविसंयोगफले हित्वा ।
[257।08-257।09]
अशैक्षा अप्येवम् ।
[257।09]
नैवशैक्षानाशैक्षा अपि विपाकनिःष्यन्दफले हित्वा ।
[257।10]
अशैक्षस्य तु कर्मणः
[257।11]
धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम् ।
[257।12]
अशैक्षस्य कर्मणः शैक्षा धर्माः एकमधिपतिफलम् ।
[257।12-257।13]
अशैक्षास्त्रीणि विपाकविसंयोगफले हित्वा ।
[257।13]
नैवशैक्षानाशैक्षा द्वे पुरुषकाराधिपतिफले ।
[257।14]
ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फलानि च
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0