भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 2140

अपेक्षाभेदात् ।
[013।11]
यदपेक्ष्यौ दारिकं न जातु तदपेक्ष्य सूक्ष्मं पितापुत्रवत् ।
हीनं क्लिष्टम् ।
[013।12]
प्रणितमक्लिष्टम् ।
दूरमतीतानागतम् ।
अन्तिकं प्रत्युत्पन्नम् ।
[013।12-013।13]
एवं यावत् विज्ञानम् ।
[013।13]
अयं तु विशषः ।
औदारिकं पञ्चेन्द्रियाश्रयम् सूक्ष्मं मानसम् ।
[013।13-013।14]
भूमितो वेति वैभाषिकाः ।
[013।14]
भदन्त आह औदारिकरूपं पञचेन्द्रियग्राह्यम् सूक्ष्ममन्यत् ।
[013।15]
हीनममनापं प्रणीतं मनापम् ।
दूरमदृश्यदेशम् ।
अन्तिकं दृश्यदेशम् ।
[013।15-013।16]
अतीतादीनां स्वशब्देनाभि हितत्वात् ।
[013।16]
एवम् वेदनादयो ऽपि वेदितव्याः ।
[013।17]
दूरान्तिकत्वं तु तेषामाश्रयवशात् ।
औदारिकसूक्ष्मत्वं तु पूअर्ववदिति ॥
[013।18]
चित्तचैत्तायद्वारार्थ आयतनार्थः ।
[013।18-013।19]
निर्वचनं तु चित्तचैत्तानामायं तन्वन्तीति आयतनानि ।
[013।19]
विस्तृण्वन्तीत्यर्थः ।
गोत्रार्थो धात्वर्थः ।
[013।19-013।21]
यथैकस्मिन् पर्वते बहून्ययस्ताम्ररूप्यसुवर्णादिगोत्रानि धातव उच्यन्ते एवम् एकस्मिन्नाश्रये सन्ताने वा अष्टादश गोत्राणि अष्टादश धातव उच्यन्ते ।
[013।21]
आकरास्तत्र गोत्राण्युअच्यन्ते ।
[013।21-013।22]

त इमे चक्षुरादयः कस्याकराः ।
[013।22]
स्वस्या जातेः ।
सभागहेतुत्वात् ।
[013।22-013।23]
असंस्कृतं तर्हि न धातुः स्यात् ।
[013।23]
चित्तचित्तानां तर्हि जातिवाचको "यं धातुशब्द इत्यपरे ।
[013।23-013।24]
अष्टादश्धर्माणां जातयः स्वभावा अष्टादश धातव इति ।
[013।24-013।25]
यदि राश्यर्थः स्कन्धार्थः प्रज्ञप्तिसन्तः स्कन्धाः प्राप्नुवन्ति ।
[013।25]
अनेकद्रव्यसमूहत्वात् राशिपुद्गलवत् ।
न ।
[013।26]
एकस्यापि द्रव्यपरमाणोः स्कन्धत्वात् ।
न तर्हि राश्यर्थः स्कन्धार्थ इति वक्तव्यम् ।
[013।27]
न ह्येकस्यास्ति राशित्वमिति ।
कार्यब् हारोद्वहनार्थः स्कन्धार्थ इत्यपरे ।
[013।27-013।28]
प्रच्छेदार्थो वा ।
[013।28]
तथाहि वक्तारो भवन्ति त्रिभिः स्कन्धकैर्देयं दास्याम इति ।
तदेतदुत्सूत्रम् ।
[013।29]
सूत्रं हि राश्यर्थमेव ब्रवीति "यत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमि"ति विस्तरः
[013।30]
प्रत्येकमतीतादिरूपस्य स्कन्धत्वं तत्र विज्ञाप्यते ।
[013।30-014।01]
सर्वमेतदतीतादि रूपमेकशो रूपस्कन्ध इति ।
[014।01]
न शक्यमेवं विज्ञातुम् ।
[014।01-014।02]
"तत्सर्वमैकध्यमभिसंक्षिप्ये"ति वचनात् । तस्माद्राशिवदेव स्कन्धाः प्रज्ञप्तिसन्तः
[014।02-014।03]
रूपोईन्यपि तर्ह्यायतनानि प्रज्ञप्तिसन्ति प्राप्नुवन्ति ।
[014।03-014।04]
बहुनां चक्षुरादिपरमाणूनामायद्वार भावात् ।

[014।04]
न ।
[014।04-014।05]
एकशः समग्राणां कारणभावात् विषयसहकारित्वाद्वा नेन्द्रियं पृथगायतनं स्यात् ।
01405-01405]
विभाषायां तूच्यते "यद्याभिधर्मिकः स्कन्धप्रज्ञप्तिमपेक्षते ।
[014।06]
स आह परमाणुरेकस्य धातोरेकस्यायतनस्यैकस्य स्कन्धस्य प्रदेशः ।
[014।06-014।07]
अथ नापेक्षते ।
[014।07]
स आह ।
परमाणुरेको धातुरेकमायतनमेकः स्कन्ध" इति ।
[014।07-014।08]
भवति हि प्रदेशे "पि प्रदेशिवदुपचारो यथा पट्टैअकदेशे दग्धे पटो दग्ध इति ।
[014।09]
किर्थं भगवान् स्कन्धादिमुधेन त्रिविधां देशनामारभते ।
आह ।
विनेयानां
[014।10]
मोहेन्द्रियरुचित्रैधात्तिस्रः स्कन्धादिदेशनाः
[014।11]
त्रयः प्रकारास्त्रैधम् ।
त्रिप्रकारः किल सत्त्वानां मोहः ।
[014।11-014।12]
केचिच्चैत्तेषु संमूढाः पिण्डात्मग्रहणतः ।
[014।12]
केचिद्रूप एव ।
केचिद्रूपचित्तयोः ।
इन्द्रियाण्यपि त्रिविधानि ।
[014।13]
तीक्ष्णमध्यमृद्विन्द्रियत्वात् ।
रूचिरपि त्रिविधा ।
[014।13-014।14]
संक्षिप्तमध्यविस्तरग्रन्थरुचित्वात् ।
[014।14]
तेषां यथाक्रमं तिस्रः स्कन्धायतनधातुदेशना इति ॥
[014।15-014।16]
किम् पुनः कारणं चैतसिका एकत्र संस्कारस्कन्धनिक्षिप्ता वेदनासंज्ञे तु पृथक् स्कन्धीकृते इत्याह
[014।17-014।18]

विवादमूलसंसारहेतुत्वात् क्रमकारणात् ।
चैत्तेभ्यो वेदनासंज्ञे पृथकस्क्न्धौ निवेशितौ
[014।19]
द्वे विवादमूले ।
कामाध्यवसानं दृष्ट्यध्यवसानं च ।
[014।19-014।20]
तयोर्वेदनासंज्ञे यथाक्रमं प्रधानहेतू ।
[014।20-014।21]
वेदनास्वादवशाद्धि कामानभिष्वजन्ते विपरीतसंज्ञावशाच्च दृष्टीरिति ।
[014।21]
संसारस्यापि ते प्रधानहेतू ।
वेदनास्वादगृद्धो हि विषर्यस्तसंज्ञः संसरति ।
[014।22-014।23]
यच्च स्कन्धक्रमे कारणमुपदेक्ष्यमाणं ततो ऽपि क्रमकारणादनयोः पृथक्स्कन्धीकरणं वेदितव्यम् ।
[014।23]
एतच्च त्रेधो पपादयिष्यामः ।
[014।24]
स्कन्धेष्व संस्कृतं नोक्तमर्थायोगात्
[014।25]
तद्धि स्कन्धेषूच्यमानं न तावदेतेष्वेवान्तर्णेतुं शक्यते
अर्थायोगात् ।
[014।25-015।01]
नहि तद्रूपं नापि यावद्विज्ञानमिति ।
[015।01]
नचापि षष्ठः स्कन्धो वक्तुं शक्यते ।
कुतः ।
अर्थायोगात् ।
[015।02]
"राश्यर्थो हि स्कन्धार्थ" इत्युक्तम् ।
[015।02-015।03]
नचासंस्कृतमतीतादिभेदभिन्नं रूपादिवद्यतस्तत्सर्वमैकध्यमभिसंक्षिप्यासंस्कृतस्कन्ध इति संख्यां गच्छेत् ।
[015।03-015।04]
संक्लेशवस्तुज्ञापनार्थं खलूपादानस्कन्धवचनं संक्लेशव्यवदानवस्तुज्ञापनार्थं स्कन्धवचनं ।
[015।04-015।05]
नचोभयथा "प्यसंस्कृतमित्यर्थायोगान्न तेशु व्यवस्थापितम् ।
[015।05-015।06]
यथा घटोपरमो न घट एवं स्कन्धोपरमो न स्कन्धो भवितुमर्हतीत्यपरे ।
[015।06-015।07]
तेषां धात्वायतनेष्वप्येष प्रसङ्गः ।
[015।07]

उक्तः स्कन्धानामन्यः प्रकारः ॥
[015।08]
क्रमः पुनः ।
[015।09]
यथौदारिकसंक्लेशभाजनाद्यर्थधातुतः
[015।10]
रूपं हि सप्रतिघत्वात्सर्वौदारिकम् ।
अरुपिणां वेदना प्रचारौदारिकतया ।
[015।10-015।11]
तथा हि व्यपदिशन्ति हस्ते मे वेदना पादे मे वेदनेति ।
[015।11]
द्वाभ्यां चौ दारिकतरा संज्ञा ।
[015।11-015।12]
विज्ञानात्संस्कारा इत्यतो यदौदारिकतरं तत्पूर्वमुक्तम् ।
[015।12-015।13]
अथवा अनादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामास्ते च वेदनास्वादगर्द्धात् ।
[015।13]
तद्गर्द्धः संज्ञाविपर्यासात् ।
[015।14]
तद्विपर्यासः क्लेशैश्चित्तं अच तत्संक्लिष्टमिति यथासंक्लेशं च क्रमः ।
[015।14-015।15]
भाजनाद्यर्थेन वा ।
[015।15]
भजनभोजनव्यञ्जनकर्त्तृ भोक्तृभूता हि रूपादयः स्कन्धाः ।
धातुतो वा ।
[015।16]
कामगुणरूपप्रभावितो हि कामधातुः ।
वेदनाप्रभावितानि ध्यानानि ।
[015।16-015।17]
संज्ञाप्रभाविताः त्रयः आरूप्याः ।
[015।17]
संस्कारमात्रप्रभावितं भवाग्रम् ।
[015।17-015।18]
एता एव विज्ञानस्थितयः तासु च प्रतिष्ठितं विज्ञानमिति क्षेत्रबिजसंदर्शनार्थः स्कन्धानुक्रमः ।
[015।18-015।19]
अत एव पञ्चस्कन्धा नाल्पीयांसो न भूयांसः ।
[015।19-015।20]
अत एव च क्रमकारणाद्वेदनासंज्ञे संस्कारेभ्यः पृथक स्कन्धीकृते ।
[015।20-015।21]
यत एते औदारिकतरे संक्लेशानुक्रमहेतू भाजनव्यञ्जनभूते तत्प्रभावितं च धातुद्वयमिति ॥

[015।22]
आयतनधातूनां षण्णां चक्षुरादीनामनुक्रमो वक्तव्यः ।
[015।23]
तद्वशेनैव हि तद्विषयविज्ञानानां क्रमः ।
तेषां च पुनः षण्णां ।
[015।24]
प्राक् पञ्च वार्त्तमार्थ्यात्
[015।25]
चक्षुरादीनि पञ्च वर्त्तमानविषयत्वात् पूर्वमुक्तानि ।
मनस्त्वनियतविषयम्
[015।25-016।01]
किञ्चिद्वर्त्तमानविषयं किञ्चित् व्यध्वानध्रविषयम् ।
[016।02]
भौतिकार्थ्याच्चतुष्टयम् ।
[016।03]
प्रागिति वर्त्तते ।
पञ्चानां पुनश्च्त्वारि पूर्वमुक्तानि ।
भौतिकविषयत्वात् ।
[016।03-016।04]
कायस्य त्वनियतो विषयः
[016।04]
कदाचिद् भूतानि कदाचिद् भौतिकम् कदाचिदुभयम् ।
[016।05]
दूराशुतरवृत्त्या ऽन्यत्
[016।06]
शेषं पुनरितस्माद् यथायोगं दूराशुतरवृत्त्या पूर्वमुक्तम् ।
चक्षुःश्रोत्रं हि दूरविषयम् ।
[016।07]
तत् पूर्वमुक्तं द्वयात् ।
तयोरपि चक्षुषो दूरतरे वृत्तिः ।
[016।07-016।08]
पश्यतो ऽपि दूरान्नदीं तच्छब्दाश्रवणादतस्तत् पूर्वमुक्तम् ।
[016।08]
घ्राणस्य तु नास्ति दूरे वृत्तिः ।
जिह्वायाश्च ।
[016।09]
तयोराशुतरवृत्तित्वात् घ्राणं पूर्वमुक्तमप्राप्तस्यैव जिह्वा भोज्यस्य गन्धग्रहणात् ।
[016।10]
यथास्थानं क्रमो ऽथवा
[016।11]

अथवा अस्मिन् शरीरे चक्षुषो ऽधिष्ठानमुपारिष्टात् निविष्टम् ।
तस्मादधः श्रोत्रस्य ।
[016।12]
तस्मादधो घ्राणस्य । तस्मात् जिह्वायाः
तक्याः स्यास्य बहुल्येन ।
[016।12-016।13]
मनः पुनस्तान्येव निश्रितमदेशस्थं चेति यथास्थानमेषां क्रमः स्यात् ।
[016।14]
किं पुनः कारणं दशस्वायतनेषु रूपस्कन्धसंगृहीतेष्वेकं रूपायतनमुच्यते ।
[016।14-016।15]
सर्वेषु च धर्मस्वभवेष्वेकं धर्मायतनमित्याह
[016।16-016।17]
विशेषणार्थं प्राधान्याद्बहुधर्माग्रसंग्रहात् ।
एकमायतनं रूपमेकं धर्माख्यमुच्यते
[016।18]
कथं विशेषणार्थम् ।
[016।18-016।19]
यथा गम्येत प्रत्येकमेषां दशानामायतनत्वं विषयविषयित्वेन व्यवस्थानं न समस्तानामिति ।
[016।19-016।20]
चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुरादिसंज्ञकं रूपं च तद्रूपकयातनं ज्ञास्यत इत्यस्य पुनर्नामान्तरं नोच्यते ।
[016।20-016।21]
अथवा रूपायतनस्य प्राधान्यात् ।
[016।21]
तद्धि सप्रतिघत्वाच्च ।
पाण्यादिसंस्पर्शैः स्पृष्टं रूप्यते ।
[016।22]
सनिदर्शनत्वाच्च ।
[016।22-016।23]
इदमिहामुत्रेति निरूपणात् लोके ऽपि च तद्रूपमिति प्रतीतं नान्यानि ।
[016।23]
विशेषणार्थमेव चैकं धर्मायतनमुक्तं न सर्वाणि ।
[016।23-017।01]
अपि चात्रबहूनां धर्माणां संग्रहो वेदनादीनाम् ।
[017।01]
अतः सामान्येनाभिधानं क्रियते धर्मशब्देन ।
[017।02]
अग्रस्य च निर्वाणधर्मस्यात्र संग्रहो नान्येष्विति ।
[017।02-017।03]
विंशतिप्रकारत्वेनौदारिकत्वान्मांस दिव्यार्यप्रज्ञाचक्षुस्त्रयगोचरत्वाच्चैकं रूपायतनमित्यपरे ॥
[017।04-017।05]

अन्यान्यपि स्कन्धायतनधातुसंशब्दितान्युपलभ्यन्ते सूत्रेषु तेषां किंएभिरेव संग्रहो वेदितव्य आहोस्विद्व्यतिरेकः
[017।05]
एभिरेव संग्रहो न व्यतिरेकः ।
तत्र तावत्
[017।06-017।07]
धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः ।
तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः
[017।08]
येषां वाक्स्वभावं बुद्धवचनं तेषां तानि रूपस्कन्धसंगृहीतानि ।
[017।09]
येषां नामस्वभावं तेषां संस्कारस्कन्धेन ॥
[017।10]
किं पुनर्धर्मस्कन्धस्य प्रमाणम् ।
[017।11]
शास्त्रप्रमाण इत्येके
[017।12]
एके तावत् आहुर्धर्मस्कन्धसंज्ञकस्यैवाभिधर्मशास्त्रस्यास्य ओप्रमणमिति ।
[017।12-017।13]
तच्च षट्सहस्राणि ।
[017।13]
अपरे पुनराहुः
[017।14]
स्कन्धादीनं कथैकशः ।
[017।15-017।17]
स्कन्धायतनधातुप्रतीत्यसमुत्पादसत्याहारध्यानाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनबोधिपाक्षिकाभिज्ञाप्रतिसंवित्प्रणिधिज्ञानारणादीनां कथा प्रात्येकं धर्मस्कन्ध इति ।
[017।18]
चरितप्रतिपक्षस्तु धर्मस्कन्धो ऽनुवर्णितः
[017।19]
एवं तु वर्णयन्त्यशीतिश्चरितसहस्रणि सत्त्वानाम् ।
रागद्वेषमोहमानादिचरितभेदेन ।
[017।20]
तेषां प्रतिपक्षेण भगवता ऽशीतिर्धर्मस्कन्धसहस्राण्युक्तानि ।
[017।20-017।21]
यथैतान्यशीतिर्धर्मस्कन्धसहस्राण्येष्वेव पञ्चस्कन्धेषु ओप्रतिपादितानि ।
[017।22-017।23]
तथा ऽन्ये ऽपि यथायोगं स्कन्धायतनधातवः ।
प्रतिपाद्या यथोक्तेषु संप्रधार्य स्वलक्षणम्
[017।24-017।26]
ये ऽप्यन्ये स्कन्धायतनधातवः सूत्रान्तरेषूक्तास्ते ऽप्येष्वेव यथोक्तेषु स्कन्धादिषु प्रतिओपाद्याः स्वं स्वं लक्षणमेषां यथाविहितमस्मिंअच्छास्त्रे संप्रधर्य ।
[017।26-018।02]

तत्र तावत् पञ्चानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनस्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः ।
[018।02-017।02]
शेषाः संस्कारस्कन्धेन ।
[018।02-018।03]
दशानां कृत्स्नायतनानामष्टावलोभस्वभावत्वाद्धर्मायतनेन ।
[018।03]
सपरिवाराणि तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्याम् ।
[018।04]
तथा ऽभिभ्वायतनानि ।
[018।04-018।05]
आकाशविज्ञानानन्त्यायतनकृत्स्ने चत्वारि चाकाशानन्त्यायतनादीनि चतुःस्कन्धस्वभावत्वात् मनोधर्मायतनाभ्याम् ।
[018।05-018।06]
पञ्च विमुक्त्यायतनानि प्रज्ञास्वभावत्वाद्धर्मायतनेन ।
[018।06]
सपरिवाराणि तु शब्दो मनोधर्मायतनैः ।
[018।07]
द्वयोरायतनयोरसंज्ञिसत्त्वा दशभिरायतनैर्गन्धर्सायतनाभावात् ।
[018।07-018।08]
नैवसंज्ञानासंज्ञायतनोपगा मनोधर्मायतनाभ्याम् ।
[018।08]
एवं बहुधातुके ऽपि द्वाषष्टिर्धातवो देशिताः ।
[018।08-018।09]
तेषां यथायोगं संग्रहो वेदितव्यः ॥
[018।10-018।11]
य इमे तत्र षड् धातवः उक्ताः पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुरित्येषां द्वयोर्लक्षणमनुक्तम् ।
[018।11-018।12]
तत् किमाकाशमेवाकाशधातुर्वेदितव्यः सर्वं अच विज्ञानं विज्ञानधातुः।
[018।12]
नेत्याह ।
किं तर्हि ।
द्वारवातायनमुखनासिकादिषु
[018।13]
छिद्रमाकाशधात्वाख्यम्
[018।14]
छिद्रमित्युच्यमानं किं वेदितव्यम् ।
[018।15]
आलोकतमसी किल ।
[018।16]
नहि छिद्रमालोकतमोभ्यामन्यद् गृह्यते ।
[018।16-018।17]

तस्मात् किलाकाशधातुरालोकतमःस्वभावो रात्रिन्दिवस्वभावो वेदितव्यः ।
[018।17-018।18]
स एव चाघसामन्तकं रूपमित्युच्यते ।
[018।18]
अघं किल चित्तस्थं रूपम् ।
अत्यर्थं घातात् ।
[018।18-018।19]
तस्य तत्सामन्तकमिति ।
[018।19]
अघं च तदन्यस्य रूपस्य तत्राप्रतिघातात्सामन्तकं चान्यस्य रूपस्येत्यपरे ।
[018।20]
विज्ञानधातुर्विज्ञानं सास्रवं
[018।21]
कस्मादनास्रवं नोच्यते ।
यस्मादिमे षड् धातव इष्टाः ।
[018।22]
जन्मनिश्रयाः
[018।23]
एते हि जन्मनः प्रतिसन्धिचित्ताद्यावत् च्युतिचित्तसाधारणभूताः
[018।23-018।24]
अनास्रवास्तु धर्मा नैवमिति ।
[018।24-018।25]
तदेवं सत्येषां चत्वारो धातवः स्प्रष्टव्यधातावन्तर्भूताः पञ्चमो रूपधातौ षष्ठः सप्तसु विज्ञानधातुष्विति ।
[018।26]
ये पुनरिमे अष्टादश धातव उक्तास्तेषां कति सनिदर्शनाः कत्यनिदर्शनाः ।
[019।01]
सनिदर्शन एको ऽत्र रूपं
[019।02]
स हि शक्यते निदर्शयितुमिदमिहामुत्रेति ।
उक्तं भवति अनिदर्शनाः शेषा इति ॥
[019।03]
कति सप्रतिघाः कत्यप्रतिघाः ।
[019।04]
सपरतिघा दश ।
[019।05]
रूपिणः ।
[019।06]
य एते रूपस्कन्धसंगृहीता दश धातव उक्तास्ते सप्रतिघाः ।
[019।06-019।07]
प्रतिघो नाम प्रतिघातः स च त्रिविधः ।

[019।07]
आवरणविषयालम्बनप्रतिघातः ।
[019।07-019।08]
तत्रावरणप्रतिघातः स्वदेशे परस्योत्पत्तिपोरतिवन्धः ।
[019।08]
यथा हस्तो हस्ते प्रतिहन्यते उपले वा ।
उपलो ऽपि तयोः ।
[019।09]
विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु विषयेषु ।
[019।09-019।10]
यथोक्तं प्रज्ञप्ता"वस्ति चक्षुर्जले प्रतिहन्यते न स्थले ।
[019।10]
यथा मत्स्यानाम् ।
[019।10-019।11]
अस्ति स्थले न जले ।
[019।11]
प्रायेण मनुष्याणाम् ।
अस्त्युभयत्र ।
[019।11-019।12]
शिशुमारमण्डूकपिशाचकैवर्त्तादीनाम् ।
[019।12]
अस्ति नोभयत्र ।
एतानाकारान् स्थापयित्वा ।
[019।12-019।13]
अस्ति चक्षुर्यद्रात्रौ प्रतिहन्यते न दिवा ।
[019।13]
तद्यथा तितीलोलूकादीनाम् ।
दिवा न रात्रौ ।
[019।13-019।14]
प्रायेण मनुष्याणाम् ।
[019।14]
रात्रौ दिवा च ।
श्वशृगालतुरगद्वीपिमार्जारादीनाम् ।
नोभयत्र ।
[019।14-019।15]
एतानाकारान् स्थापयित्वे"त्ययं विशयप्रतिघातः ।
[019।15-019।16]
आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्बालम्वनेषु ।
[019।16]
कः पुनर्विषयालम्बनयोर्विशेषः ।

[019।16-019।17]
यस्मिन् यस्य कारित्रं स तस्य विषयः ।
[019।17]
यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् ।
[019।17-019।18]
कः पुनः स्वस्मिन्विषये प्रवर्त्तमानमालम्वने वा प्रतिहन्यत इत्युच्यते ।
[019।18]
तस्मात् परेणाप्रवृत्तेः ।
[019।18-019।19]
निपातो वा ऽत्र प्रतिघातो या स्वविषये प्रवृत्तिः
[019।19-019।20]
तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यमन्योन्यावरणात् ।
[019।20-019।21]
ये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि त इति चतुष्कोटिकः
[019।21]
प्रथमा कोटिः सप्त चित्तधातवो धर्मधातुप्रदेशश्च यः संप्रयुक्तः ।
[019।22]
द्वितीया पञ्च विषयाः ।
तृतीया पञ्चेन्द्रियाणि ।
[019।22-019।23]
चतुर्थी धर्मधातुप्रदेशः संप्रयुक्तकवर्ज्यः ।
[019।23-019।24]
ये धर्मा विशयप्रतिघातेन सप्रतिघा आलम्बन प्रतिघातेनापि त इति ।
[019।24]
पश्चात्पादकः ।
ये तावदालम्बनप्रतिघातेनापि विषयप्रतिघातेनापि ते ।
[019।25-010।25]
स्युर्विषयप्रतिघतेनैव नालम्बनप्रतिघातेन ।
[019।25]
पञ्चेन्द्रियाणि ।
[020।01-020।02]
"यत्रोत्पित्सोर्मनसः प्रतिघतः शक्यते परैः कर्त्तुम् ।
तत्सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टमि"ति
[020।03]
भदन्तकुमारलातः ।
उक्ताः सप्रतिघा अप्रतिघाश्च ॥
[020।04]
एषामष्टादशधातूनां कति कुशलाः कत्यकुशलाः कत्यव्याकृता ।
[020।05]
अव्याकृता अष्टौ

[020।06]
कतमे अष्टौ ।
य एते सप्रतिघा दशोक्ताः ।
[020।07]
त एवारूपशब्दकाः
[020।08]
पञ्चेन्द्रियाणि गन्धरसस्प्रष्टव्या धातवश्च ।
[020।08-020।09]
एते ऽष्टौ कुशलाकुशलभावेनाव्याकरणादव्याकृताः ।
[020।09]
विपाकं प्रत्यव्याकरणादित्यपरे ।
एवमनास्रवे ऽपि प्रसङ्गः ॥
[020।10]
त्रिधा ऽन्ये
[020।11]
अन्ये दश धातवः कुशलाकुशलाव्याकृताः ।
[020।11-020।12]
तत्र सप्त धातवो ऽलोभादिसंप्रयुक्ता कुशलाः ।
[020।12]
लोभादिसंप्रयुक्ता अकुशलाः ।
अन्ये अव्याकृताः ।
[020।12-020।13]
धर्मधातुरलोभादिस्वभावसंप्रयुक्तसमुत्थः प्रतिसंख्यानिरोधश्च कुशलः ।
[020।13-020।14]
लोभादिस्वभावसंप्रयुक्तसमुत्थो ऽकुशलः
[020।14]
अन्यो ऽव्याकृतः ।
[020।14-020।15]
रूपशब्दधातू कुशलाकुशलचित्तसमुट्थौ कुशलाकुशलौ कायवाग्विज्ञप्तिसंगृहीतौ ।
[020।15]
तदन्याव्याकृतौ ।
उक्तः कुशलादिभावः ।
[020।16]
एषामष्टादशधातूनां कति कामधात्वाप्ताः कति रूपधात्वाप्ताः ।
[020।17]
कामधात्वाप्ताः सर्वे
[020।18]
आप्ता अवियुक्ताः कामधातुप्रतिसंयुक्ता इत्यर्थः ।
[020।19]
रुपे चतुर्दश ।

[020।20]
रूपधातौ चतुर्दश धातवः ।
[020।21]
विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः
[020।22]
तत्र हि गन्धरसौ न स्तः ।
[020।22-020।23]
तयोः कवडीकाराहारत्वात्तद्द्वीतरागाणां च तत्रोपपत्तेः ।
[020।23]
ततो घ्राणजिह्वाविज्ञाने अपि न स्तः ।
[020।23-020।24]
आलम्बनाभावात् ।
[020।24]
एवं तर्हि स्प्रष्टव्यधातोरपि तत्रभावप्रसङ्गः ।
कवडीकाराहारत्वात् ।
[020।25]
यो नाहारस्वभावः स तत्रास्ति ।
गन्धरसयोरप्येष प्रसङ्गः ।
[020।25-020।26]
नास्ति विना ऽभ्यवहारेण गन्धरसयोः परिभोगः ।
[020।26-021।01]
अस्ति तु स्प्रष्टव्यस्येन्द्रियाश्रयाधारप्रावरणभावेन ।
[021।01-021।02]
तस्मादभ्यवहारवीतरागाणां गन्धरसौ तत्र निष्प्रयोजनौ न तु स्प्रष्टव्यम् ।
[021।02]
अन्ये पुनराहुः ।
[021।02-021।03]
ध्यानसमापत्तिसनिश्रयेणेह रूपाणि संदृश्यन्ते शब्दाश्च श्रूयन्ते ।
[021।03]
प्रस्रब्धिसहगतेन स्प्रष्टव्य विशेषेण च कायो ऽनुगृह्यते ।
[021।03-021।04]
अत एषामेव त्रयाणां ध्यानोपपत्तौ संभवो न गन्धरसयोरिति ।
[021।04]
एवं तर्हि घ्राणजिह्वेन्द्रिययोरभावप्रसङ्गो निष्प्रयोजनत्वात् ।
[021।05]
अस्ति प्रयोजनम् ।
[021।05-021।06]
ताभ्यां हि विनाऽ; श्रयशोभैव न स्यादिति व्यवहार्श्च ।
[021।06-021।07]
यद्येतत् प्रयोजनमधिष्ठानमेवास्तु शोभार्थं वचनार्थं च मा भूदिन्द्रियम् ।

[021।07]
नानिन्द्रियमधिष्ठानं संभवति ।
पुरुषेन्द्रियाधिष्ठानवत् ।
[021।07-021।08]
युक्तस्तदसंभवो निष्प्रयोजनत्वात् ।
[021।08-021।09]
घ्राणजिह्वाधिष्ठानं तु सप्रयोजनम्
[021।09]
अतो ऽस्य विना ऽपीन्द्रियेण युक्तः संभवः ।
[021।09-021।10]
निःप्रयोजना ऽपीन्द्रियाभिनिर्वृत्तिर्भवति ।
[021।10]
यथा गर्भे नियतमृत्यूनाम् ।
स्यान्नाम निःप्रयोजना न तु निर्हेतुका ।
[021।11]
कश्च हेतुरिन्द्रियोत्पत्तेः ।
इन्दरियसतृष्णस्य कर्मविशेषः ।
[021।11-021।12]
यश्च विषयाद्वितृष्णः स नियतमिन्द्रियादपीति ।
[021।12]
न तद्विषयवीतरागाणां घ्राणजिह्वेन्द्रिये संभवितुमर्हतः ।
[021।13]
पुरुषेन्द्रैयमपि वा किं न निवर्त्तते ।
अशोभाकरत्वात् ।
[021।13-021।14]
कोशगतवस्तिगुह्यानां किं न शोभेत ।
[021।14]
न च प्रयोजनवशादुत्पत्तिः ।
किं तर्हि ।
[021।14-021।15]
कारणवशादित्यशोभाकरस्यापि स्यादेव सति हेतावुत्पत्तिः ।
[021।15]
सूत्रं तर्हि विरुध्यते ।
[021।15-021।16]
"अविकला अहीनेन्दरिया" इति ।
[021।16]
यानि तत्रेन्द्रियाणि तैरविकला अहीनेन्द्रिया इति को ऽत्र विरोधः ।
[021।16-021।17]
इतरथा हि पुरुशेन्द्रियस्यापि स्यात् प्रसङ्गः ।
[021।17]

एवं तुवर्णयन्ति ।
[021।17-021।18]
स्त एव तत्र घ्राणजिव्हेन्द्रिये न तु गन्धरसौ ।
[021।18]
आत्मभावमुखेन हि षडायतने तृष्णासमुदाचारो न विषयमुखेन ।
[021।19]
पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेनेति ।
तस्मात्सिद्धमेतद्रूपधात्वाप्ताश्चतुर्दश धातव इति ।
[021।20]
आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः ।
[021।21-021।22]
रूपवीतरागाणां तत्रोपपत्तिरतो ऽत्र दश रूपस्वभावा धातवस्तदाश्र्रयालम्बनाश्च पञ्च विज्ञानधातावो न संअभवन्ति ॥
[021।23]
कति सास्रवाः कत्यनास्रवाः ।
य एते मनोधर्ममनोविज्ञानधातव उक्ताः
[021।24]
सास्रवानास्रवा एते त्रयः
[021।25]
ये मार्गसत्यासंस्कृतसंघृहीतास्ते ऽनास्रवा अन्ये सास्रवाः ।
[021।26]
शेषास्तु सास्रवाः
[022।01]
पञ्चदश धातवः शेषास्त्वेकान्तसास्रवाः ॥
[022।02]
कति सवितर्काः सविचाराः कत्यवितर्का विचारमात्राः कत्यवितर्का अविचाराः ।
[022।03]
सवितर्कविचारा हि पञ्च विज्ञानधातवः ।
[022।04]
नित्यमेते वितर्कविचाराभ्यां संप्रयुक्ताः ।
अवधारणार्थो हिशब्दः ।
[022।05]
अन्त्यास्त्रयस्त्रिप्रकाराः
[022।06]
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्चान्त्याः
एते त्रयस्त्रिप्रकाराः ।
[022।06-022।08]
तत्र मनोधातुर्मनोविज्ञानधातुः संप्रयुक्तश्च धरमधातुरन्यत्र वितर्कविचाराभ्यां कामधातौ प्रथमे च ध्याने सवितर्काः सविचाराः ।
[022।08]
ध्यानान्तरे ऽवितर्का विचारमात्राः ।
[022।08-022।09]

द्वितीयाद्ध्यानात् प्रभृत्याभवाग्रादवितर्का अविचाराः ।
[022।09-022।10]
सर्वश्चासंप्रयुक्तो धर्मधातुर्ध्यानातरे अच विचारः ।
[022।10-022।11]
वितर्कस्तू नित्यमविअतर्को विचारमात्रो द्वितीयवितर्काभावात् विचारसंप्रयोगाच्च ।
[022।11]
कामधातौ प्रथमे ध्याने विचार एषु त्रिप्रकारेषु नान्तर्भवति ।
[022।11-022।12]
स कथं वक्तव्यः ।
[022।12]
अविचारो वितर्कमातरः ।
द्वितीयविचाराभावात् वितर्कसंप्रयोगाच्च ।
[022।13]
अत एवोच्यते "स्युः सवितर्कसविचारायां भूमौ धर्माश्चतुःप्रकाराः ।
[022।14]
सवितर्काः सविचारा विचारवितर्कवर्ज्याः संप्रयुक्ताः ।
[022।14-022।15]
अवितर्को विचारमात्रो वितर्कः ।
[022।15]
अवितर्का अविचारा असंप्रयुक्ताः ।
अविचारो वितर्कमात्रो विचार" इति ।
[022।16]
शेषा उभयवर्जिताः
[022।17]
दश रुपिणो धातवः शेषा नित्यमवितर्का अविचारा असंप्रयोगित्वात् ॥
[022।18]
यदि पञ्च विज्ञानकायाः सवितर्काः सविचाराः कथमविकल्पका इत्युच्यन्ते ।
[022।19]
निरूपणानुस्मरणविकल्पेनाविकल्पकाः ।
[022।20]
त्रिविधः किल विकल्पः ।
स्वभावाभिनिरूपणानुस्मरणविकल्पः ।
[022।20-022।21]
तदेषां स्वभावविकल्पो ऽस्ति ।
[022।21]
नेतरौ ।
तस्मादविकल्पका इत्युच्यन्ते ।
[022।21-022।22]
यथा एकपादको ऽश्वो ऽपादक इति ।
[022।22]

तत्र स्वभावविकल्पो वितर्कः ।
स चैत्तेषु पश्चान्निर्देक्ष्यते ।
[022।22-022।23]
इतरौ पुनः किंस्वभावौ ।
[022।23]
यथाक्रमं
[022।24]
तौ प्रज्ञा मानसी व्यग्रा स्मृतिः सर्वैव मानसी
[022।25]
मनोविज्ञानसंप्रयुक्ता प्रज्ञा मानसीत्युच्यते ।
असमाहिता व्यग्रेत्युच्यते ।
[022।25-022।26]
सा ह्यभिनिरूपणाविकल्पः ।
[022।26]
मानस्येव सर्वा स्मृतिः समाहिता चासमाहिता चानुस्मरणविकल्पः ।
[022।27]
कति सालम्बनाः कत्यनालम्बनाः ।
[023।01]
सप्त सालम्बनाश्चित्तधातवः
[023।02-023।03]
चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातवो मनोधातुश्च एते सप्त चित्तधातवः सालम्बना विषयग्रहणात् ।
[023।04-021।04]
अर्धं च धर्मतः ।
[023।05]
सालम्बनं यच्चैतसिकस्वभावम् ।
[023।05-023।06]
शेषा दश रूपिणो धातवो धर्मधातुप्रदेशश्चासंप्रयुक्तको ऽनालम्बना इत् इसिद्धम् ।
[023।07]
कत्युपात्ताः कत्यनुपात्ताः ।
[023।08]
नवानुपात्ताः ।
[023।09]
कतमे नव ।
ये सप्त सालम्बना उक्ताः अष्टमष्यार्धेन सार्धम् ।
[023।10]
ते चाष्टौ शब्दश्च
[023।11]
इमे ते नवानुपात्ताः ।
सप्त चित्तधातवो धर्मधातुः शब्दधातुश्च ।
[023।12]

अन्ये नव द्विधा
[023।13-013।13]
उपात्ता अनुपात्ताश्च ।
[023।13]
तत्र चक्षुःश्रोत्रघ्राणजिह्वाकायाः प्रत्युत्पन्ना उपात्ताः ।
[023।14]
अतीतानागता अनुपात्ताः ।
[023।14-023।15]
रूपगन्धरसस्प्रष्टव्यधातवः प्रत्युत्पन्ना इन्द्रियाविनिर्भागिण उपात्ताः ।
[023।15-023।16]
अन्ये ऽनुपात्तास्तद्यथा मूलवर्जेषु केशरोमनखदन्तेषु विण्मूत्रखेटसिंघाणकशेणितादिषु भूम्युदकादिषु च ।
[023।16]
उपात्तमिति को ऽर्थः ।
[023।16-023।17]
यच्चित्तचैत्तैरधिष्ठानभावेनोपिअगृहीतमनुग्रहोपघाताभ्यामन्योन्यानुविधानात् ।
[023।17]
यल्लोके सचेतनमित्युच्यते ।
[023।18]
कति धातवो भूतस्वभावाः कति भौतिकाः ।
[023।19]
स्प्रष्टव्यं द्विविधं
[023।20]
भूतानि भौतिकं च ।
तत्र भूतानि चत्वारि ।
भौतिकं श्लक्ष्णत्वादि सप्तविधम् ।
[023।21]
भूतेषु भवत्वात् ।
[023।22]
शेषा रूपिणो नव भौतिकाः ।
[023।23]
पञ्चेन्द्रियधातवश्च चत्वारो विषयाः ।
एते नव धातवो भौतिका एव ।
[023।24]
धर्मधात्वेकदेशश्च
[023।25]
अविज्ञप्तिसंज्ञको भौतिकः ।
[023।25-024।01]
शेषाः चित्तधातवो धर्मधातुश्चाविज्ञप्तिवर्ज्यो नोभयथा ।
[024।01-023।01]
"भूतमात्रं दशायतनानी"ति भदन्त्ब्दुद्धदेवः ।

[024।01-024।02]
तच्च नैवं भूतानां चतुष्ट्व खक्खटादिलक्षणावधारणात् सूत्रे ।
[024।02]
तेषां स्प्रष्टव्यत्वात् ।
[024।02-024।03]
न हि काठिन्यादीनि चक्षुरादिभिर्गृह्यन्ते नापि वर्णादयः कायेन्द्रियेण ।
[024।03-024।05]
उक्तं च सूत्रे "चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय रूपप्रसादो अरुप्यनिदर्शनं सप्रतैघं एवं यावत् कायः
[024।05-024।06]
रूपाणि भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादायरुपि सनिदर्शनं सप्रतिघम् ।
[024।06-024।07]
शब्दो भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादाय रुप्यनिदर्शनं सप्रतिघम् ।
[024।07]
एवं गन्धरसाः ।
[024।07-024।08]
स्प्रष्टव्यानि भिक्षो बाह्यमायतनं चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय रूप्यनिदर्शनं सप्रतिघमि"ति ।
[024।09]
स्प्रष्ट्र्व्यायतनिकदेशेनैव भूतानां संग्रहाच्छेषं न भूतानीति स्पष्टमादर्शितम् ।
[024।09-024।10]
यत्तर्हि सूत्रे उक्तं "यच्चक्षुषि मंसपिण्डे खक्खटं खरगतमि"ति
[024।10-024।11]
तेनाविनिर्भदिवर्त्तिनो मंसपिण्ड्स्यैष उपदेशः ।
[024।11-024।12]
षड्धातुरयं भिक्षो पुरुष"इति गर्भवक्रान्तौ मौलसत्त्वद्रव्यसंदर्शनार्थम् ।
[024।12]
पुनः षट्स्पर्श्यतनवचनाच्चैत्ताभावप्रसङ्गाच्च ।
[024।12-024।13]
न च युक्तं चित्तमेव चैत्ता इत्यभ्युपेतुम् ।
[024।13-024।14]
"संज्ञा च वेदना च चैतसिक एष धर्मश्चित्तान्वयाच्चित्तनिश्रितऽ; इति सूत्रे वचनात्सरागचित्तादि वचनाच्च ।
[024।15]
तस्माच्यथोक्तं धातूनं भूतभौतिकत्वम् ।
[024।16]
कति संचिताः कत्यसंचिताः ।
[024।17]
संचिता दश रूपिणः
[024।18]
पञ्चेन्द्रियधातवः पञ्च विषयाः संचिताः ।
[024।18-024।19]
परमाणुसंघातत्वात् शेषा न संचिता इति सिद्धं भवति ॥

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc