अभिधर्मकोशभाष्य · भाग 381400
नान्यवेद्यकृदप्यार्यः
[231।02]
थर इति वर्तते ।
[231।02-231।03]
आर्यपुद्गलस्तु यतो वीतरागो न च परिहाणधर्मा स तत्रोपपद्यदनीयं चापरपर्यायवेदनीयं च कर्म न करोति ।
[231।03-231।04]
न ह्यसौ भव्यः पुनराधस्तनीं भूमिमायातुमनियतं कुर्याद्दृष्टधर्मवेदनीयं चात्रोपपन्नः ।
[231।05]
कामे ऽग्रे वा ऽस्थिरो ऽपि न
[231।06-231।07]
परिहाणधर्मापि त्वार्यपुद्गलः कामधातोर्भवाग्रा द्वीतरागः तयोरूपपद्यापरपर्यायवेदनीयं कर्माभव्यः कर्त्तुम् ।
[231।07]
किं कारणम् ।
फलाद्धि स परिहीणो भवति ।
[231।07-231।08]
न चास्ति लपरिहीणस्य कालक्रियेति पश्चात्प्रवेदयिष्यामः ।
[231।09]
किमन्तराभवे ऽप्यस्ति कर्मण आक्षेपः ।
अस्तीत्याह ।
[231।10]
द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः ।
[231।11]
गामावचरो ह्यन्तराभवो द्वाविंशतिविधं कर्माक्षिपति ।
कथं कृत्वा ।
[231।11-231।12]
पञ्च हि गर्भावस्थाः ।
[231।12]
कललार्वुदपेशीघनप्रशाखावस्थाः ।
पञ्च जातावस्थाः ।
[231।12-231।13]
बालकुमारवमध्यवृद्धावस्थाः ।
[231।13]
तत्रान्तराभवः कललवेदनीयं कर्माक्षिपत्यनियतं नियतं च ।
[231।14]
एवं यावद्वृद्धवेदनीयमन्तराभववेदनीयं च ।
[231।15]
दृष्टधर्म फलं तच्च
[231।16]
तच्चैतदन्तराभविकं कर्म यन्नियतमेकादशविधमुक्तं दृष्टधर्मवेदनीयं तद्वेदितव्यम् ।
[231।17]
किं कारणम् ।
[231।18]
निकायो ह्येक एव सः
[231।19-231।20]
एक एव ह्यसौ निकायसभाग एककर्माक्षिप्तो यश्चान्तराभवो याश्च तदन्वया दशावस्थाः ।
[231।20]
अत एवान्यदन्तराभववेदनीयं कर्म नोक्तम् ।
[231।20-231।21]
उपपद्यवेदनीयेन च तस्याक्षेपात् ।
[231।22]
कीदृशं कर्म नियतं वेदितव्यम् ।
[231।23-231।24]
तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम् ।
गुणक्षेत्रे च नियतं तत्पित्रोर्घातकं च यत्
[231।25-232।01]
यद्धि कर्म तीव्रेण क्लेशेन कृतं यच्च तीव्रेण प्रसादेन यच्च सातत्येन गुनक्षेत्रे च तन्नियतं वेदितव्यम् ।
[232।01]
तत्र गुणक्षेत्रं त्रीणि रत्नानि ।
[232।01-232।02]
पुद्गलविशेषो वा कश्चित्फलसमापत्तिविशेषप्राप्तः ।
[232।02-232।03]
तत्र ह्यन्तरेणापि तीव्रक्लेशप्रसादानां सातत्यं च कुशलमकुशलं च कर्म नियतं संपद्यते ।
[232।03]
पितरौ पुनर्माता च पिता च ।
[232।04]
तयोश्चापि यत्र घातिकं कर्म यथा तथा वा तन्नियतं संपद्यते नान्यत् ।
[232।05]
अथ दृष्टधर्मवेदनीयं कर्म कीदृशं वेदितव्यम् ।
[232।06]
दृष्टधर्मफलं कर्म क्षेत्राशयविशेषतः ।
[232।07]
दृष्टधर्मवेदनीयं कर्म क्षेत्रविशेषाद्वा भवति ।
[232।07-232।08]
यथा संघस्त्रीवादसमुदाचाराद्व्यञ्जनपरिवृत्तिः श्रूयते ।
[232।08]
आशयविशेषाद्वा ।
[232।08-232।09]
यथा शण्ढस्य गवामपुंस्त्वप्रतिमोक्षणात्पुम्भावः ।
[232।09]
अथवा
[232।10]
तद्भूम्यत्यन्तवैराग्यात्
[232।11-232।12]
तस्य वा कर्मणो या भूमिः कुशलस्याकुशलस्य वा ततो ऽत्यन्तवैराग्यात्तत्कर्म दृष्टधर्मवेदनीयं कर्म संपद्यते ।
[232।12]
तस्यां भूमौ जातस्य कीदृशं कर्मेत्याह
[232।13]
विपाके नियतं हि यत्
[232।14]
यद्धि कर्म नियतं विपाके न त्ववस्थायां नाप्यनियतं तत्यैष नियमः ।
[232।14-232।15]
यत्पुनरवस्थान्तरनियतं तस्य तत्रैव नियतो विपाकस्तद्वतो ऽत्यन्तवैराग्यासंभवात् ।
[232।15-232।16]
यच्चानियतं तस्याविपाक एवात्यन्तवैराग्यात् ।
[232।17]
कीदृशं पुनः क्षेत्रं यत्रावश्यं दृष्टधर्मवेदनीयं कर्म संपद्यते ।
आह ।
[232।17-232।18]
बुद्धप्रमुखो भिक्षुसंघः पुद्गलास्तु पञ्च ।
[232।19-232।20]
ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः ।
तेषु कारापकारस्य फलं सद्यो ऽनुभूयते
[232।21]
निरोधसमापत्तिव्युत्थितः परां चित्तशान्तिं लभते ।
निर्वाणसदृशत्वात्समापत्तेः ।
[232।22]
स हि गतप्रत्यागत एव निर्वाणाद्भवति ।
[232।22-232।23]
अरणाव्युत्थितस्याप्रमाणसत्त्वारणाहिताध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिर्वर्तते ।
[232।23-232।25]
मैत्रीव्युत्थितस्याप्रमाणसत्त्वसुखाध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिवर्तते ।
[232।25-232।26]
दर्शनमार्गव्युत्थितस्याशेषदर्शनप्रहातव्यप्रहाणात् प्रत्यग्राश्रयपरिवृत्तिनिर्मला संततिर्वर्तते ।
[232।26-232।27]
अर्हत्फलव्युत्थितस्याशेषभावनाप्रहातव्यप्रहाणात्प्रत्यग्राश्रयपरिवृत्तिशुद्धा संततिर्वर्तते ।
[232।27-233।01]
अत एतेषु कृतानां कारापकाराणां फलं दृष्ट एव धर्मे नियतं प्राप्यते ।
[233।01-233।03]
शेषस्य तु भावनामार्गस्यापरिपूर्णस्वभावफलत्वाच्च तद्व्युत्थितानां न तथा प्रत्यग्राश्रयपरिवृत्तिशुद्धाशयसंततिर्वर्तत इति न ते तथा पुण्यक्षेत्रं भवति ।
[233।04]
विपाकः पुनर्वेदनाप्रधानः ।
तदिदानीं विचार्यते ।
[233।04-233।05]
स्यात् कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत न कायिकी ।
[233।05-233।06]
स्यात् कायिक्येव न चैतसिकी स्यादित्याह
[233।07-233।08]
कुक्शलस्यावितर्कस्य कर्मणो वेदना मता ।
विपाकश्चैतसिक्येव
[233।09]
अवितर्कं कर्म ध्यानान्तरात् प्रभृति यावत् भवाग्रे ।
[233।09-233।10]
तस्यावितर्कस्य कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः ।
[233।10]
कस्मान्न कायिकी ।
[233।10-233।11]
तस्या अवश्यं सवितर्कविचारत्वात् ।
[233।12]
कायिक्येवाशुभस्य तु
[233।13]
अकुशलस्य कर्मणः कायिक्येव वेदना विपाकः ।
कस्मान्न चैतसिकी ।
[233।13-233।15]
तस्य हि दुःखा वेदना विपाकश्चैतसिकी च दुःखा वेदना दौर्मनस्यं न च दौर्मनस्यं विपाक इति व्याख्यातमेतत् ।
[233।16]
यत्तर्हि सत्त्वानां चित्तक्षेपो भवति ।
कतमस्मिन्नसौ चित्ते भवति केन वा कारणेन ।
[233।17]
चित्तक्षेपो मनश्चित्ते ।
[233।18]
मनोविज्ञान इत्यर्थः ।
नहि पञ्चसु विज्ञानकायेषु चित्तं क्षिप्यते ।
अविकल्पकत्वात् ।
[233।19]
स च कर्मविपाकजः ।
[233।20]
स चैष चित्तक्षेपः सत्त्वानां कर्मजः ।
[233।20-233।23]
ये हि द्रव्यमन्त्रप्रयोगेण वा परेषां चित्तं क्षेपयन्ति अकामकं वा विषं मद्यं वा पाययन्ति त्रासयन्ति वा मृगयादिष्वग्निम् वा दावेषुत्सृजन्ति प्रपाताद्वा पातयन्त्यन्येन वा केनचित्परेषां स्मृतिं भ्रंशयन्ति तेषां तस्य कर्मणो विपाकेनायत्यां चित्तं क्षिप्यते ।
[233।24]
भयोपघातवैषम्यशोकैश्च
[233।25]
कथं तावद्भयेन ।
[233।25-233।26]
अमनुष्यादयो मनुष्यान्विरूपेण रूपेणोपसंक्रामन्ति ।
[233।26]
तेभ्यो भीतानां चित्तं क्षीप्यते ।
कथमुपघातेन ।
[233।26-234।01]
अमनुष्या एव कुपिता मनुष्याणां मर्मसु प्रहरन्ति ।
[234।01]
कथं महाभूतवैषम्येण ।
[234।01-234।02]
वातपित्तश्लेष्माणः प्रकोपमापद्यन्ते ।
[234।02]
कथं शोकेन ।
यथा वासिष्ठीप्रभृतीनाम् ।
[234।02-234।03]
यदि मनो विक्षिप्यते कर्मविपाकजश्च चित्तक्षेपः ।
[234।03]
कथं न चैतसिकी वेदना विपाकः प्राप्नोति ।
[234।03-234।04]
नहि ब्रूमस्तदेव चित्तविपाक इत्यपि तु यो महाभूतानां प्रकोपः स विपाकः ।
[234।04-234।05]
तस्माज्जातमतो विपाकजम् ।
[234।05-234।06]
कर्मजेन हि धातुना वैषम्येण व्याकुलमवशं भ्रष्टस्मृतिकं चित्तं वर्तत इति क्षिप्तमित्युच्यते ।
[234।06]
एवं चेदं चतुष्कोटिकं युज्यते ।
[234।06-234।07]
अस्ति चित्तं क्षिप्तं न विक्षिप्तमिति विस्तरः ।
[234।07]
क्षिप्तं तावन्न क्षिप्तं विक्षिप्तचित्तस्य ।
[234।07-234।08]
क्लिष्टं चित्तं विक्षिप्तं न क्षिप्तं स्वस्थचित्तस्य क्लिष्टम् ।
[234।08]
उभयं क्षिप्तचित्तस्य क्लिष्टम् ।
[234।09]
नोभयं स्वस्थचित्तस्याक्लिष्टम् ।
[234।10]
कतमेषां पुनः सत्त्वानां चित्तं क्षिप्यते ।
[234।11]
अकुरुकामिनाम्
[234।12]
अकुरुणां कामिनाम् ।
देवेष्वपि हि देव ।
उन्मत्ताः सन्ति प्रागेव मनुष्यतिर्यक्प्रेतेषु ।
[234।13]
नारकास्तु नित्यं क्षिप्तचित्ता एव ।
[234।13-234।15]
ते हि विविधयातनासहस्रव्यतिभिन्नमर्माणस्तीर्वाभिर्वेदनाभिरभितुन्ना आत्मानमपि तावन्नाभिचेतयन्ति किं पुनः कार्यमकार्यं वा ।
[234।15]
हाचित्तपरिदेवकश्चात्र नारक उदाहार्यः ।
[234।15-234।16]
आर्याणामपि चित्तं क्षिप्यते भूतवैषम्येणान्यत्र बुद्धात् ।
[234।16-234।17]
न कर्मणा नियतस्य पूर्वं विपाकादनियतस्याविपाकात् ।
[234।17]
न भयेन ।
पञ्चभयसमतिक्रमात् ।
नोपघातेन ।
[234।17-234।18]
मनुष्यप्रकोपकारणस्याप्रासादिकस्याकरणात् ।
[234।18]
न शोकेन ।
धर्मताभिज्ञत्वात् ।
[234।19]
पुनस्त्रयो वङ्का उक्ताः सूत्रे ।
कायवङ्कोक् वाग्वङ्को मनोवङ्कः ।
त्रयो दोषाः ।
[234।20]
कायदोषो वाग्दोषो मनोदोषः ।
त्रयः कषायाः ।
[234।20-234।21]
कायकषायो वाक्कषायो मनः कषायः इति ।
[234।21]
तत्र यथाक्रमं वेदितव्याः ।
[234।22]
वङ्कदोषकषायोक्तिः शाठ्यद्वेषजरागजे ।
[234।23]
शठ्यजं कायकर्म कायवङ्क इत्युक्तम् ।
कुटिलान्वयत्वात् ।
एवं वाङ्मनोवङ्कौ ।
[234।24]
द्वेषजं कायकर्म कायदोष इत्युक्तम् ।
चित्तप्रदोषान्वयत्वात् ।
एवं वाङ्मनोदोषौ ।
[234।25]
रागजं कायकर्म कायकषाय इत्युक्तम् ।
राञ्जनान्वयत्वात् ।
एवं वाङ्मनःकषायौ ।
[234।26]
कृष्णशुक्लादिभेदेन पुनःः कर्म चतुर्विधम्
[235।01]
"अस्ति कर्म कृष्णं कृष्णविपाकम् ।
अस्ति कर्म शुक्लं शुक्लविपाकम् ।
[235।01-235।02]
अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् ।
[235।02-235।03]
अस्ति कर्माकृष्णमशुक्लमविपाकम् ।
[235।03]
यत्तत्कर्म कर्मक्षयाय संवर्तत" इति ।
तत्र
[235।04-235।05]
अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम् ।
कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम्
[235।06]
अशुभं कर्म एकान्तेन कृष्णं क्लिष्टत्वात् कृष्णविपाकं चामनोज्ञविपाकत्वात् ।
[235।07]
रूपाप्तं शुभमेकान्तेन शुक्लमकुशलेनाव्यतिभेदात् ।
[235।07-235।08]
शुक्लविपाकं च मनोज्ञविपाकत्वात् ।
[235।08]
आरुप्याप्तं कस्मान्नोच्यते ।
[235।08-235।09]
यत्र किल द्विविधो ऽस्ति विपाक आन्तराभविक औपपत्तिभविकश्च ।
[235।09-235।10]
त्रिविधस्य कायवाङ्मनस्कर्मणो यत्रैव संभवस्तत्रैवोक्तमिति ।
[235।10]
तदपि तूक्तं सूत्रान्तरे ।
[235।10-235।11]
"कामाप्तं शुभं कर्म कृष्णशुक्लमकुशलव्यवकीर्णत्वत् कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात्" ।
[235।11-235।12]
संतानत एतद्व्यवस्थापितं न स्वभावतः ।
[235।12-235।13]
न ह्येवञ्जातीयकमेकं कर्मास्ति विपाको वा यत् कृष्णं च स्यात् शुक्लं चान्योन्यविरोधात् ।
[235।13-235।14]
ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात् कृष्णशुक्लत्वं प्राप्नोति ।
[235।14]
नावश्यमकुशलं कुशलेन व्यवकीर्यते ।
[235।15]
कामधातौ तस्य बलवत्त्वात् ।
कुक्शलं तु व्यवकीर्यते ।
दुर्बलत्वादिति ।
[235।16]
अनस्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते ।
[235।16-235।17]
तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लता ऽभावात् ।
[235।17-235।18]
आभिप्रायिको ह्येषो ऽशुक्ल शब्दः ।
[235।18-235।19]
उक्तं तु भगवता महत्यां शुन्यताया मशैक्षान् धर्मानारभ्य "इमे ते आनन्द धर्मा एकान्तकुशला एकान्तानवद्या" इति ।
[235।19]
शास्त्रे च ।
[235।19-235।20]
"शुक्ला धर्माः कतमे ।
[235।20]
कुशला धर्मा अनिवृताव्याकृताश्चे"ति ।
[235।20-235।21]
अविपाकं धात्वपतितत्वात् प्रवृत्तिविरोधाच्च ।
[235।22]
किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते ।
[235।23]
नेत्युच्यते ।
किं तर्हि ।
[236।01-236।02]
धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके ।
या चेतना द्वादशधा कर्म कृष्णक्षयाय तत्
[236।03-236।04]
दर्शनमार्गे चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु या चेतना सेयं द्वादशविधा चेतना कृष्णस्य कर्मणः प्रहाणाय कर्म ।
[236।05]
नवमे चेतना या सा कृष्णशुक्लक्षयाय च ।
[236।06-236।07]
नवमे कामवैराग्यानन्तर्यमार्गे या चेतना सा कृष्णशुक्लस्य कुशलस्य कर्मणः कृष्णस्य चाकुशलस्य नवमस्य प्रकारस्य प्रहाणाय ।
[236।08]
शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा
[236।09-236।10]
ध्यानाद्व्यानाद्वैराग्यं कुर्वतो यो ऽन्त्यो नवम आनन्तर्यमार्गस्तत्र या चेतना इयं चतुर्विधा चेतना शुक्लस्य कर्मणः प्रहाणाय ।
[236।10-236।11]
किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन ।
[236।11-236।12]
नह्हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात् ।
[236।12]
किं तर्हि ।
तदालम्बनक्लेशप्रहाणात् ।
[236।12-236।13]
अतो यावदेको ऽपि तदालम्बनक्लेशप्रकार आस्ते तावदस्य प्रहाणं नोपपद्यते ।
[236।14]
अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः ।
[236।15-236।16]
अन्ये पुनराचार्याः पश्यन्ति नरकवेदनीयं नरकाच्चान्यकामधातुवेदनीयं कर्म यथाक्रम कृष्णं कृष्णशुक्लं चेति ।
[236।16-236।18]
नरके ह्यकुशलस्यैव कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णमित्युच्यते अतो ऽन्य कामधातौ कुशलाकुशलस्य कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णशुक्लमित्युक्तम् ।
[236।19]
दृग्धेयं कृष्णमन्ये
[236।20]
अन्ये पुनराहुर्दर्शनप्रहातव्यं कर्म कृष्ण कुशलेनामिश्रत्वात् ।
[236।21]
अन्यत्कृष्णशुक्लं तु कामजम्
[236।22]
अन्यत्तु कामावचरं कर्म कृष्णशुक्लम् ।
किं तदन्यत् ।
भावनाप्रहातव्यम् ।
[236।22-236।23]
तद्धि कुशलं चाकुशलं चेति ।
[236।23-236।24]
सूत्र उक्तं त्रीणि मौनेयानि कायमौनेयं वाङ्मौनेयं मनोमौनेयं च ।
[236।24]
तत्र
[237।01-237।02]
अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम् ।
मौनत्रयम्
[237।03]
अशैक्षे कायवाक्कर्मणी कायवाङ्मौनेये ।
[237।03-237।04]
अशैक्षं तु मन एव मनोमौनेयं न मनस्कर्मेति ।
[237।04]
किं कारणम् ।
चित्तं हि परमार्थमुनिः ।
[237।04-237।05]
तत् किल कायवाक्कर्मभ्यामनुमीयत इति ।
[237।05]
अपि खलु कायवाक्कर्मणी विरतिस्वभावेन न मनस्कर्म ।
[237।05-237।06]
चित्ता विज्ञप्त्यभावात् ।
[237।06]
विरमार्थेन च मौनम् ।
अतो मन एव विरतं मौनमित्युच्यते ।
[237।07]
कस्मादशैक्षमेव नान्यत् ।
अर्हतः पर्मार्थमुनित्वात् ।
[237।07-237।08]
सर्वक्लेशजल्पोपरतेः ।
[237।08]
त्रीणि शौचेयानि उक्तानि सूत्रे ।
कायशौचेयं वाक्शौचेयं मनःसौचेयं च ।
[237।09]
तदेतत् ।
[237।10]
त्रिधा शौचं सर्वं सुचरितत्रयम्
[237।11]
सर्वं कायसुचरितं कायशौचम् ।
सर्वं वाङ्मनः सुचरितं वाङ्मनः शौचम् ।
[237।11-237।12]
दुश्चरितमलापकर्षणात्तावत्कालमत्यन्तं वा ।
[237।12-237।13]
एषा च देशना मिथ्यामौन शौचाधिमुक्तिकानां विवेचानार्थम् ।
[237।13]
त्रीणि दुश्चरितान्युक्तानि ।
तत्र
[237।14]
अशुभं कायकर्मादि मतं दुश्चरित त्रयम् ।
[237।15]
अकुशलं कायवाङ्मनस्कर्म यथाक्रमं कायवाङ्मनोदुश्चरितम् ।
[237।16]
अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा
[237।17-237।18]
अकर्मस्वभावमप्यस्ति त्रिविधं मनोदुश्चरितं चेतनार्थान्तरभूतमभिध्या व्यापादो मिथ्यादृष्टिश्च ।
[237।18]
अभिध्यादय एव मनस्कर्मेति दार्ष्टान्तिकाः ।
[237।18-237।19]
संचेतनीयसूत्रे वचनात् ।
[237।19]
एवं तु सति कर्मक्लेशयोरैक्यं स्यात् ।
[237।19-237।20]
किम् स्याद्यदि कश्चित् क्लेशो ऽपि कर्म स्यात् ।
[237।20]
नैतदस्ति ।
सूत्रं विरुद्धं स्यात् ।
[237।20-237।21]
सूत्रे तु चेतनायास्तन्मुखेन प्रवृत्तेस्तैस्तां दर्शयतीति वैभाषिकाः ।
[237।21-237।22]
अनिष्टफलत्वात्कुट्सितः कायवाङ्मनश्चारो दुश्चरितम् ।
[237।23]
विपर्ययात्सुचरितम्
[237।24]
इष्टं कुशलं कायवाङ्मनस्कर्मानभिध्या ऽव्यापादसम्यग्दृष्टयश्च ।
[237।24-238।02]
परानुग्रहोपघाताभिसंध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्टव्योः कुशलाकुशलत्वम् ।
[238।02]
तन्मूलत्वात् ।
यानि चैतानि दुश्चरितसुचरितान्युक्तानि
[238।03-238।04]
तदौदारिकसंग्रहात् ।
दश कर्मपथा उक्ता यथायोगं शुभाशुभाः
[238।05-238।06]
तेषामेव सुचरितदुश्चरितानां चौदारिकसंग्रहेण दश कर्मपथाः सूत्र उक्ताः यथायोगं कुशलाः सुचरितेभ्यो ऽकुशला दुश्चरितेभ्यः ।
[238।06-238।07]
किमत्र दुश्चरितमसंगृहीतं किं वा सुचरितम् ।
[238।07-238।08]
अकुक्शलेषु तत्कर्मपथेसु कायदुश्चरितस्य प्रदेशो न संगृहीतः प्रयोगपृष्ठभूतः क्लिष्टश्चान्यो ऽपि बन्धानादिः ।
[238।08]
तस्य नात्यौदारिकत्वात् ।
[238।08-238।09]
यद्धि कायदुश्चरितं परेषां जीवितभोगदारेभ्यश्च्यावकं तत्कर्मपथ उक्तं ततो विवेचनार्थम् ।
[238।10]
वाग्दुश्चरितमपि यदेव प्रशादं तत्कर्मपथ उक्तं तदर्थमेव ।
[238।10-238।11]
मनोदुश्चरितस्य च प्रदेशचेतना ।
[238।11-238।12]
कुशलेष्वपि कायसुचरितस्य प्रदेशः प्रयोगपृष्ठमद्यादिविरतिदानेज्यादिको वाक्सुचरितस्य प्रियवचनादिको मनः सुचरितस्य चेतना ।
[238।13]
एषां च कर्मपथानाम्
[238।14]
अशुभाः षडविज्ञप्तिः
[238।15-238।16]
अकुशलाः षट् कर्मपथा अवश्यमविज्ञप्तिस्वभावाः प्राणातिपातादत्तादानमृषावादपैशुन्यपारुप्यसंभिन्नप्रलापाः ।
[238।16]
परेण कारयतो मौलविज्ञप्त्यभावात् ।
[238।17]
द्विधैकः
[238।18-238।19]
काममिथ्याचारो नित्यं विज्ञप्त्यविज्ञप्तिस्वभावस्तस्य स्वयेव निष्ठापनात् ।
[238।19]
नहि तं परेण कारयतस्तादृशी प्रीतिर्भवतीति ।
[238।20]
ते ऽपि कुर्वतः ।
[238।21-238।22]
ते ऽपि षट् कर्मपथाः स्वयं कुर्वतो द्विविधा भवन्ति विज्ञप्तिरविज्ञप्तिश्च तत्कालमरणे पश्चात् मरणे त्वविज्ञप्तिरेव ।
[238।23]
कुशलानां पुनः कर्मपथानां
[238।24]
द्विविधाः सप्त कुशलाः
[238।25]
कुशलाः सप्त रूपिणः कर्मपथा अवश्यं द्विप्रकारा विज्ञप्तिरविज्ञप्तिश्च ।
[238।25-238।26]
विज्ञप्त्यधीनत्वात्समादानशीलस्य ।
[239।01]
अविज्ञप्तिः समाधिजाः
[239।02]
ध्यानानास्रवसंवरसंगृहीताः समाधिजाः उच्यन्ते ।
[239।02-239।03]
ते ह्यविज्ञप्तिरेव चित्तमात्राधीनत्वात् ।
[239।04]
सामन्तकास्तु विज्ञप्तिः
[239।05]
कर्मपथसामन्तकास्तु विज्ञप्तिस्वभावा अवश्यम् ।
[239।06]
अविज्ञप्तिर्भवेन्न वा ।
[239।07-239।08]
यदि तीव्रेण पर्यवस्थानेन प्रमादेन वा घनरसेन प्रयोगमारभेत स्यादविज्ञप्तिरन्यथा न स्यात् ।
[239।09]
विपर्ययेण पृष्ठानि
[239।10]
सामन्तकेभ्यो विपर्ययेण कर्मपथानां पृष्ठानि वेदितव्याति ।
[239।10-239।11]
तानि अवश्यमविज्ञप्तिस्वभावानि ।
[239।11]
विज्ञप्तिस्तु भवेन्न वा ।
[239।11-239।12]
यदि कर्मपथं कृट्वा पुनस्तस्यानुधर्मं चेष्टेत तस्य स्यात् विज्ञप्तिरन्यथा न स्यात् ।
[239।12-239।13]
अथ कुतो यावदेषां प्रयोगमौलपृष्ठानां व्यवस्थानम् ।
[239।13-239।16]
यदा तावदिह कश्चित् पशुं हन्तुकामो मञ्चकादुत्तिष्ठति मूल्यं गृह्लाति गच्छत्यामृशति पशुं क्रीणात्यानयति पुष्णाति प्रवेशयति निहन्तुं शास्त्रमादत्ते प्रहारमेकं ददाति द्वौ वा यावन्न जीविता द्वच्यपरोपयति तावत् प्रयोगः ।
[239।16-239।17]
येन तु प्रहारेण जीविताद्व्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वा ऽविज्ञप्तिरयं मौलः कर्मपथः ।
[239।17-239।18]
द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते प्रयोगतः मृते सति फलपरिपूरितश्च ।
[239।18-239।19]
तत ऊर्ध्वमविज्ञप्तिक्षणाः पृष्ठं भवन्ति ।
[239।19-239।21]
यावच्च तं पशुं कुष्णाति शोधयति विक्रीणीते पचति खादयत्यनुकीर्तयति वा तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति ।
[239।21]
एवमन्येष्वपि यथासंभवं योज्यम् ।
[239।21-239।22]
अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रात्कर्मपथः ।
[239।23]
इदमत्र वक्तव्यम् ।
[239।23-239।24]
किं तावत् मरणभवस्थे तस्मिन् प्राणिनि ये विज्ञप्त्यविज्ञप्ती ते कर्मपथ आहोस्विन्मृते ।
[239।24]
किं चातः ।
[239।24-239।25]
यदि तावन्मरणभवस्थे सहमृटस्यापिओ अन्तुर्घातयितुर्वा प्राणातिपातावद्येन योगः प्राप्नोति ।
[239।25-240।01]
न चेष सिद्धान्तः ।
[240।01]
अथ मृते ।
[240।01-240।02]
यदुक्तं "येन तु प्रहारेण जीविताद्वच्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वा ऽविज्ञप्तिरयं मौलः कर्मपथ" इति तना वक्तव्यम् ।
[240।03]
यच्चापीदं शास्त्र उक्तं "स्यात् प्राणी हतः प्राणातिपातश्चानिरुद्धः ।
[240।03-240।06]
स्याद्यथा हि तत्प्राणी जीविताद्व्यपरोपितो भवति प्रयोगश्चाप्रतिप्रस्रग्ध" इत्यत्र पृष्ठं प्रयोगशब्देनोक्तमिति वैभाषिकीयो ऽर्थविरोधो मौलस्यैव तदानीमनिरुद्धत्वात् ।
[240।06]
यथा न दोषस्तथा ऽस्तु ।
कथं च न दोषः ।
[240।06-240।07]
मौल एवात्र प्रयोगशब्देनोक्त इति ।
[240।07]
विज्ञप्तिस्तर्हि तदा कथं मौलः कर्मपथो भवति ।
[240।07-240।08]
कथं च न भवितव्यम् ।
[240।08]
असामर्थ्यत् ।
अविज्ञप्तिरिदानीं कथं भवति ।
[240।08-240।10]
तस्मात् प्रयोगफलपरिपूरिकाले तदुभयं कर्मपथः स्यात् कर्मत्पथो ऽप्यन्यस्य प्रयोगः पृष्ठं च भवति ।
[240।10]
प्राणातिपातस्य दशापि कर्मपथाः प्रयोगः ।
[240।10-240।14]
यथा च शत्रोर्वधार्थं कृत्यं समुपस्थापयन् पशुना वलिं कुर्यात् परकीयं कृत्वा दारेषु चास्य विप्रतिपद्येत तैरेव तद्घातनार्थम् अनृतपिशुनपरुषसान्तवैश्चास्य मित्रभेदं कुर्याद्यान्यस्य परित्राणाय कल्पेरन् अभिध्यां च तत्स्व कुर्यात्तत्रैव च व्यापादं तद्वधार्थं च मिथ्यादृष्टिं वृंहयेदिति ।
[240।14]
एवमन्येष्वपि यथायोगं योज्यम् ।
[240।14-240।15]
न त्वभिध्यादयः प्रयोगा युज्यन्ते ।
[240।15]
नहि चित्तोत्पादमात्रेण प्रयुक्तो भवति ।
क्रियानारम्भात् ।
[240।16-240।17]
सूत्र उक्तं "प्राणातिपातो भिक्षवस्त्रिविधो लोभजो द्वेषजो मोहजो यावन्मिथ्यादृष्टि"रिति ।
[240।17-240।18]
तत्र कीदृशः प्राणातिपातो लोभज इत्येवमादि वक्तव्यम् ।
[240।18]
नात्र सर्वेषां कर्मपथानां लोभादिभिर्निष्ठा ।
[240।19]
प्रयोगस्तु त्रिमूलजः
[240।20]
प्रयोगस्तेषामकुशलमूलत्रयाज्जात इत्यादिसमुत्थानवचनादेवमुक्तः ।
[240।20-240।22]
तत्र लोभजप्रणातिपातो यथा तच्छरीरावयवार्थमर्थार्थं क्रीतार्थं च प्राणिनं जीविताद्व्यपरोपयति आत्मसुहृत्परित्राणाय ।
[240।22]
द्वेषजो यथा वैरनिपीडनार्थम् ।
[240।22-240।23]
मोहजो यथा याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामाण्याद्धिंसताम् ।
[240।23-240।24]
दुष्टानां किल निग्रहं कुर्वन्तो राजानः पुण्यभाजो भवन्तीति ।
[240।24]
पारसीकानां च ।
ते ह्येवमाहुः ।
[240।25]
"मातापितरौ जीर्णौ वा ग्लानौ वा हन्तव्या"विति ।
[240।25-241।01]
ये चान्ये ऽप्येवमाहुरहिवृश्चिकत्र्यम्वुकादयो मनुष्याणामुपघातापका हन्तव्याः मृगपशुपक्षिमहिषादयश्चोपभोगार्थत्वादिति ।
[241।01-241।02]
यश्च मिथ्यादृष्टिप्रवर्तितः प्राणातिपातः ।
[241।02-241।03]
लोभजमदत्तादानं यो येनार्थि स तद्वरति अन्यलाभसत्कारयशो ऽर्थं वा आत्मसुकृतपरित्राणाय वा ।
[241।03]
द्वेषजं यद्वैरनिपीडनार्थम् ।
[241।03-241।04]
मोहजं यथा राज्ञां धर्मपाठकप्रामाण्यात् ।
[241।04-241।05]
दुष्टनिग्रहार्थं यथा ब्राह्मणा आहुः "सर्वमिदं ब्रह्मणा ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्वृष्लाः परिभुञ्जते ।
[241।05-241।06]
तस्मादपहरन् ब्राह्मणः सुमादत्ते स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति चे" ति ।
[241।07]
न चैशामपरस्वसंज्ञा भवति ।
यच्च मिथ्यादृष्टिप्रवर्त्तितम् ।
[241।07-241।08]
लोभजः काममिथ्याचारः दारादिषु तत्संरागादब्रह्मचर्यं लाभसत्कारार्थमात्मसुहृत्परित्राणाय ।
[241।08-241।09]
द्वेषजो वैरनिपीडनार्थम् ।
[241।09]
मोहजो यथा पारसीकानां मात्रादिगमनं गोसवे च यज्ञे ।
[241।10]
योथोक्तं "ब्राह्मणो गोसवेनेष्ट्या संवत्सरगोव्रती भवति ।
[241।10-241।11]
उपहा उदकं चूषति तृणानि च्छिनत्ति उपैति मातरमुपस्वसारमुप सगोत्रा"मिति ।
[241।11-241।12]
ये चाहु "रुदूखलपुण्यफलपक्वान्नतीर्थमार्गप्रख्यो मातृग्राम" इति ।
[241।12-241।13]
मृषावादादयो लोभजा द्वेषजाश्चपूर्ववत् ।
[241।13]
मोहजो मृषावादो यथाह ।
[241।14-241।17]
"न नर्मयुक्तमनृतं हि नास्ति
न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे
पञ्चानृतान्याहुरपातकानी"ति ।
[241।18]
यष्च मिथ्यादृष्टिप्रवर्तितो मृषावादः ।
पैशुन्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजाः ।
[241।19]
यष्चच वेदाद्यसच्छास्त्रप्रलापः ।
[241।20]
अभिध्यादयः कथं लोभजाः ।
[241।21]
तदनन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः ।
[241।22]
लोभादनन्तरमुत्पन्ना लोभजाः द्वेषादनन्तरं द्वेषजा मोहादनन्तरं मोहजाः ।
[241।22-241।23]
उक्ता कुशलाः कर्मपथाः ।
[241।24]
कुशलाः कथमित्याह
[241।25]
कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः
[241।26]
सप्रयोगपृष्ठाः कुशलाः कर्मपथा अलोभद्वेषमोहजाः ।
[241।26-241।27]
कुषलचित्तसमुत्थितत्वात् ।
[241।27-242।01]
तस्य च अवश्य मलोभादिभिः संप्रयोगात् तत्राकुशल कर्मपथप्रयोगाद्विरतिः कुशलकर्मपथप्रयोगः ।
[242।01]
मौलाद्विरतिः मौलः ।
[242।01-242।02]
पृष्ठाद् विरतिः पृष्ठः ।
[242।02-242।03]
तद्यथा श्रामणेर उपसंपाद्यमानो नानावासं प्रविशति भिक्षून्वन्दते उपाध्यायं याचते यावदेकं कर्मवाचनं क्रियते द्वितीयं च ।
[242।03]
अयं प्रयोगः ।
[242।03-242।04]
तृतीय कर्मवाचने या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथः ।
[242।04-242।05]
तत ऊर्ध्वं यावन्निश्रया आरोच्यन्ते तदधिष्ठानं च विज्ञपयति अविज्ञप्तिच यावदतुवर्तते इदं पृष्ठम् ।
[242।06]
यदुक्तं "न सर्वेषां कर्मपथानां लोभादिभिर्निष्ठे"त्यथ कस्य केन निष्ठा ।
[242।07]
वधव्यापादपारुष्यनिष्ठा द्वेषेण
[242।08]
एषां प्राणातिपातव्यापादपारुष्पाणां द्वेषेण समाप्तिः ।
[242।08-242।09]
परित्यागपरुषचित्तसंमुखी भावात् ।
[242।10]
लोभतः ।
[242।11]
परस्त्रीगमनाभिध्या ऽदत्तादानसमापनम्
[242।12]
लोभेन काममिथ्याचाराभिध्या ऽदत्तादानानां समाप्तिः ।
[242।13]
मिथ्यादृष्टेस्तु मोहेन
[242।14]
अधिमात्रभूतो हि तां निष्ठापयति ।
[242।15]
शेषाणां त्रिभिरिष्यते ।
[242।16]
के पुनः शेषाः ।
मृषावादपैशुन्यसंभिन्नप्रलापाः ।
[242।16-242।17]
एषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेन वा
[242।18-242।19]
य एते कर्मपथाश्चतुर्भिः काण्डैरुक्तास्त्रयस्त्रय एकस्त्रयश्च एषां यथाक्रमं
[242।20]
सत्त्वभोगावधिष्ठानं नामरूपं च नाम च
[242।21]
सत्त्वाधिष्ठाना वधादयः ।
भोगाधिष्ठानां परस्त्रीगमनादयः ।
[242।21-242।22]
नामरूपाधिष्ठामिथ्यादृष्टिः ।
[242।22]
नामकायाधिष्ठाना मृषावादादयः ।
[242।23-242।24]
यः परं मरणान्नियमय्य समं तेन पूर्वं वा म्रियते किमस्य मौलः कर्मपथो भवत्युताहो न ।
[242।25]
समं प्राक् च मृतस्यास्ति न मौलः
[242।26-242।27]
अत एवोच्यते "स्यात् प्रयोगं कुर्यात् फलं च परिपूरयेन्न च प्राणातिपातावद्येन स्पृश्यते ।
[242।27]
आह ।
[242।27-243।02]
स्यात् यथापि तद्व्यपरोपवः पूर्वं सह वा कालं कुर्या"दिति किं पुनस्तत्कारणम् नहि वध्ये जीवति हन्तुः प्राणातिपातावद्येनास्ति योगो नापि सहमृतस्य हन्तुः ।
[243।03]
अन्याश्रयोदयात् ।
[243।04]
थेनाश्रयेण तत्प्रयोगः कृतः स उच्छिन्नो ऽन्य एवाश्रयो निकायसभागभिन्न उत्पन्नः ।
[243।05]
तस्य प्रयोक्तृत्वात् कर्मपथेन योगो न युक्तः ।
[243।05-243।06]
यत्सेनापातमृगयावस्कन्धेषु परेषां वधार्थं बहवः समग्राः पतन्त्येकश्च प्राणातिपातं करोति कस्तेन समन्वागतो भवति ।
[243।07]
सेनादिष्वेककार्यत्वात् सर्वे कत्तृवदन्विताः
[243।08]
यथैव हि कर्त्ता तथा सर्वे समन्वागता भवन्त्येककार्यत्वात् ।
[243।08-243।09]
अर्थतो हि ते ऽयोन्यं पयोक्तारो भवन्ति ।
[243।09-243।11]
यस्तर्हि बलान्नीयते सोऽपि समन्वागतो भवत्यन्यत्र य एवं नश्चित्य यायात् यावज्जीवितहेतोरपि प्राणिनं न हनिष्यामीति ।
[243।12-243।13]
कियता पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कियता यावन्मिथ्यादृष्टिः कर्मपथः इति लक्षणं वक्तव्यं तदुच्यते ।
[243।14]
प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम् ।
[243।15]
यदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव च मारयति नान्यं भ्रमित्वा ।
[243।16]
इयता प्राणातिपातो भवति ।
[243।16-243।17]
यस्तर्हि संदिग्धो मारयति किमयं प्राणी न प्राणीति स एवान्यो वेति सो ऽप्यवश्यमेतं निश्चयं लब्ध्वा तत्र प्रहरति ।
[243।17-243।18]
यो ऽस्तु सो ऽस्त्विति कृतमेवानेन त्यागचित्तं भवति ।
[243।18]
कथं क्षणिकेषु स्कन्धेषु प्राणातिपातो भवति ।
[243।19]
प्राणो नाम वायुः कायचित्तसंनिश्रितो वर्तते ।
तमभिपातयति ।
[243।19-243।20]
यथा प्रदीपं निरोधयति घण्टास्वनं वा ।
[243।20]
जीवितेन्द्रियं वा प्राणास्तन्निरोधयति ।
[243।20-243।21]
यद्येकस्यापि जीवितक्षणस्योत्पद्यमानस्यान्तरायं करोति प्राणातिपातावद्येन स्पृश्यते नान्यथा ।
[243।22]
कस्य तज्जीवितं यस्तदभावान्मृतो भवति ।
[243।22-243।23]
कस्येति षष्ठीं पुद्गलवादे विचारयिष्यामः ।
[243।23]
उक्तं तु भगवता
[243।24-243।25]
"आयुरुष्मा ऽथ विज्ञानं यदा कायं जहत्यमी ।
अपविद्धस्तदा शेते यथा काष्ठमचेतन" ॥ इति ।
[243।26]
तस्मात्सेन्द्रियः कायो जीवतीत्युच्यते अनिन्द्रियो मृत इति ।
[243।26-243।27]
अबुद्धिपूर्वादपि प्राणिवधात् कर्तुरधर्मो यथा ऽग्निसंयोगाद्दाह इति निर्ग्रन्थाः ।
[243।27-244।01]
तेषां परदारदर्शने ऽप्येष प्रसङ्गः ।
[244।01-244।03]
निर्ग्रन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुः तद्विसूचिकामरणे च दातुर्वैद्यानां चातुरपीडने मरणे च मातृगभस्थयोश्चान्योन्यं दुःखनिमित्तत्वात् ।
[244।03]
वध्यस्यापि च तत्क्रियासंबन्धादग्निस्वाश्रयदाहवत् ।
[244।03-244।04]
कार्यतश्चाप्रसङ्गस्तदसम्बन्धात् ।
[244।04]
परेणाग्निम् स्पर्शयतस्तेनादाहवत् ।
[244।04-244।05]
अचेतनानां च काष्ठादीनां गृहपाते प्राणिवधात् पापप्रसङ्गो न वा दृष्टान्तमात्रात्सिद्धिरिति ।
[244।06]
उक्तः प्राणातिपातः ।
[244।07]
अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः
[244।08]
अभ्रान्त्येति वर्तते ।
[244।08-244।09]
यदि बलाद्वा चौर्येण वा परस्वं स्वीकरोति यत्रैव च बलचौर्याभिप्रायेणान्यत्र संज्ञाविभ्रमात् इयता ऽदत्तादानं भवति ।
[244।09-244।10]
स्तूपादपहरतो बुद्धाद दत्तादानम् ।
[244।10]
सर्वं हि तद्भगवता परिनिर्वाणकाले परिगृथीतमिति ।
[244।10-244।11]
येषां सम्रक्ष्यमित्यपरे ।
[244।11-244।12]
अस्वामिकं च निधिमुद्धरतो विषयस्वामिकात् परिवर्तकं हरतः कृते कर्मणि सीमाप्राप्तेभ्यः अकृते सर्वबुद्धशैक्ष्येभ्यः ।
[244।13]
अगम्यगमनं काममिथ्याचारश्चतुर्विधः ।
[244।14]
चतुष्प्रकारमगम्यगमनं काममिथ्याचारः ।
[244।14-244।15]
अगम्यां गच्छति परपरिगृहीतां वा मातरं दुहितरं वा मातृपितृसंबन्धिनीं वा ।
[244।15-244।16]
अनङ्गे वा गच्छति स्वामपि भार्याम् अपाने मुखे वा ।
[244।16]
अदेशे वा गच्छति प्रकाशे चैत्ये विहारे वा ।
[244।17]
अकाले वा गच्छति ।
कः पुनः अकालः ।
[244।17-244।18]
गर्भिणीं वा गच्छति पाययन्तीं वा सनियमां वा ।
[244।18]
यदि भर्तुरनुज्ञया सनियमा भवतीत्येके ।
अभ्रान्त्येति वर्तते ।
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0