अभिधर्मकोशभाष्य · भाग 361380
"मृषावादातिगर्ह्यत्वात् सौकर्यादक्रियाप्तितः ।"
[218।12]
मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे ।
[218।13-218।15]
सर्वत्र हि शिक्षातिक्रमे समनुयुज्यमानस्योपस्थितमिदं भवति नाहमेवमहार्षमिति मृषावादस्य प्रसङ्गो भवत्यतो मृषावादाद्विरतिर्विधीयते कथं कृतातिक्रमो ऽप्यात्मनि माविष्कुर्यादिति ।
[218।15-218।16]
किं पुनः कारणं प्रतिक्षेपणसावद्याच्छिक्षापदस्य न व्यवस्थापितम् ।
[218।17]
प्रतिक्षेपणसावद्यान्मद्यादेव
[218।18]
किं कारणं मद्यादेव नान्यस्मात् ।
[218।19]
अन्यगुप्तये
[218।20]
मद्यं पिवतो ऽन्यान्यप्यङ्गान्यगुप्तानि स्युः ।
[218।20-218।21]
कथं पुनर्मद्यपानं प्रतिक्षेपणसावद्यं गम्यते ।
[218।21]
प्रकृतिसावद्यलक्षणाभावात् ।
[218।21-218।22]
प्रकृतिसावद्यं हि क्लिष्टेनैव चित्तेनाध्याचर्यते ।
[218।22]
शक्यं तु मद्यं प्रतीकारबुद्ध्यैव पातुं यावन्न मदयेत् ।
[218।22-218।23]
क्लिष्टमेव तच्चित्तं यन्मदनीयं ज्ञात्वा पिबति ।
[218।23-218।24]
न तत् क्लिष्टं यदमदनीयमात्रां विदित्वा पिबति ।
[218।24]
प्रकृतिसावद्यं मद्यमिति विनयधराः ।
[218।24-218।25]
"कथं भदन्त ग्लान उपस्थातव्यः ।
[218।25-218।26]
प्रकृतिसावद्यमुपालिन् स्थापयित्वा" इत्युक्तं भगवता ।
[218।26]
शाक्येषु च ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् ।
[218।27-218।28]
इदं चोक्तं मां भिक्षवः शास्तारमुद्दिशद्भिः कुशाग्रेणापि मद्यं न पातव्यमि" त्यतः प्रकृतिसावद्यमिति ज्ञायते ।
[218।28]
आर्यैश्च जन्मान्तरगतैरप्यनध्याचारात् ।
[218।29]
प्राणिवधादिवत् ।
कायदुश्चरितवचनाद्दुर्गतिगमनाच्चेति ।
नेत्याभिधार्मिकाः ।
[219।01-219।02]
उत्सर्गविहितस्यापि ग्लानेषु प्रज्ञप्तिसावद्यस्य पुनर्मद्यस्यापवादः प्रसङ्गपरिहारार्थं मद्नीयमात्रानीयमनात्।
[219।02]
अत एव कुशाग्रपानप्रतिषेधः ।
[219।03]
आर्यैरनध्याचरणं ह्रीमत्त्वात्तेन च स्मृतिनाशात् ।
[219।03-219।04]
अल्पकस्याप्यपानमनियमाद्विषवत् ।
[219।04]
दुश्चरितवचनं प्रमादस्थानत्वात् ।
[219।04-219।05]
अत एवात्र प्रमादस्थानग्रहणं नान्येषु तेषां प्रकृतिसावद्यत्वात् ।
[219।05]
अत्यासेवितेन दुर्गतिगमनाभिधानम् ।
[219।05-219।06]
तत्प्रसङ्गेनाभीक्ष्णमकुशलसंततिप्रवृत्तेरापायिकस्य कर्मण आक्षेपाद्वृत्तिलाभाद्वा ।
[219।06-219।07]
सुरामैरेयमद्यप्रमादस्थानमिति को ऽर्थः ।
[219।07]
सुरा अनासवः ।
मैरेयं द्रवासवः ।
[219।07-219।08]
ते च कदाचिदप्राप्तच्युतमद्यभावे भवतः इत्यतो मद्यग्रहणम् ।
[219।08-219।09]
पूगफलकोद्रवादयो ऽपि मदयन्तीति सुरामैरेयग्रहणम् ।
[219।09-219।10]
प्रज्ञप्तिसावद्यस्याप्यादरेण प्रहेयत्वे कारणज्ञापनार्थं प्रमादस्थानवचनम् ।
[219।10]
सर्वप्रमादास्पदत्वादिति ।
[219।11-219।12]
य इमे त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषौ ।
[219।12]
नेत्याह ।
किं तर्हि ।
[219।13]
सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते ।
[219।14]
वर्तमानेभ्य एव स्कन्धायतन धातुभ्यः कामाप्त इति प्रातिमोक्षसंवरः ।
[219।15]
सर्वेभ्य इति मौलप्रयोगपृष्ठेभ्यः ।
[219।15-219।17]
उभयेभ्य इति सत्त्वासत्त्वाख्येभ्यः प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च वर्तमानेभ्य एव स्कन्धायतनधातुभ्यो लभ्यते ।
[219।17]
सत्त्वाधिष्टानप्रवृत्तत्वात् नातीतानागतेभ्यः ।
तेषामसत्त्वसंख्यातत्वात् ।
[219।18]
मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रवसंवरौ
[219।19-219।21]
मौलेभ्य एव कर्मपथेभ्यो ध्यानानास्रवसंवरौ लभ्येते न प्रयोगपृष्ठेभ्यः कुत एव प्रज्ञप्तिसावद्येभ्यः सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते अतीतानागतेभ्यो ऽपि ।
[219।21]
अत एव चतुष्कोटिकं क्रियते ।
[219।21-219।22]
सन्ति तानि स्कन्ध धात्वायतनाति येभ्यः प्रातिमोक्षसंवरः एव लभ्यते न ध्यानानास्रवसंवराविति विस्तरः ।
[219।22-219।23]
प्रथमा कोटिः प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च ।
[219।23-219।24]
द्वितीया ऽतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः ।
[219।24]
तृतीया प्रत्युत्पन्नेभ्यो मौलेभ्यः कर्मपथेभ्यः ।
[220।01]
चतुर्थ्यतीतानागतेभ्यः सामन्तकपृष्ठेम्यः इति ।
[220।01-220।02]
नतु संवरकाले वर्तमानाः कर्मपथाः सन्तीति वर्तमानाधिष्ठानेभ्यः इति वक्तव्यम् ।
[220।02-220।03]
अनागतानामेव संवरणं युज्यते नातीतवर्तमानानाम् ।
[220।04-220।05]
अथ किं संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते सर्वाङ्गेभ्यः सर्वकारणैश्च आहोस्विदस्ति भेदः ।
[220।05]
नियतं तावत् लभ्यते ।
[220।06]
संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः ।
[220।07]
सर्वसत्त्वेभ्य एव संवरो लभ्यते केभ्यश्चित् अङ्गेभ्यस्तु विभाषा ।
[220।07-220।08]
कश्चित् सर्वेभ्यो लभ्यते ।
[220।08]
भिक्षुसंवरः ।
कश्चिच्चतुर्भ्यः ।
ततो ऽन्यः ।
[220।08-220।09]
कर्मपथा हि संवरस्याङ्गानि ।
[220।09]
कारणैरपि केनचित् पर्यायेण सर्वैः केनचिदेकेन ।
केन तावत्सर्वैः ।
[220।10]
यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते ।
केनै केन ।
[220।10-220।11]
यदि म्कृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते ।
[220।11-220।12]
पश्चिमं पर्यायं नियमय्योच्यते अस्ति संवरस्थायी सर्वसत्त्वेषु संवृतो न सर्वाङ्गैः न सर्वकारणैः ।
[220।12-220।13]
यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोवास श्रामणेरसंवरं समादत्ते ।
[220।13-220।14]
अस्ति सर्वसत्त्वेषु संवृतः सर्वङ्गैश्च न तु सरकारणैः ।
[220।14]
यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते ।
[220।15]
अस्ति सर्वसत्त्वेषु सर्वङ्गैः सर्वकारणैश्च ।
[220।15-220।16]
यस्त्रिविधेन चित्तेन त्रीन् संवरान् समादत्ते ।
[220।16]
अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गैः ।
[220।16-220।17]
य उपासकोपवासश्रामणेरसंवरान्मृदुमध्याधिमात्रैः समादत्ते ।
[220।17-220।18]
यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति ।
[220।18-220।19]
यस्मात्सर्वसत्त्वानुगते कल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा पापाशयस्यानुपरतत्वात् ।
[220।19-220।20]
पञ्च नियमान् कुर्वन् प्रातिमोक्षसम्वरं प्रतिलभते ।
[220।20]
सत्त्वाङ्गदेशकालसमयनियमात् ।
[220।20-220।21]
अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः ।
[220।21]
अमुष्मादङ्गादित्यङनियमः ।
अमुस्मिन देश इति देशनियमः ।
[220।22]
मासाद्यावदिति कालनियमः ।
अन्यत्र युद्धादिति समयनियमः ।
[220।22-220।23]
सुचरितमात्रं तु स्यात्तथा गृह्णतः ।
[220।23]
कथमशक्येभ्यः संवरलाभः ।
[220।23-220।24]
सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् ।
[220।24-220।25]
यदि पुनः शक्येभ्य एव संवरो लभ्यते चयापचययुक्तः स्यात् ।
[220।25]
शक्याशक्यानामितरेतरसंचारात् ।
[220।25-220।26]
एवं च सति विनापि लाभत्यागकारणाभ्यां संवरस्य लाभत्यागौ स्यातामिति वैभाषिकाः ।
[220।26]
नैवं भविस्यति ।
[220।26-221।01]
यथा ह्यपूर्वतृणाद्युत्पत्तौ शोषे वा संवरस्य वृद्धिह्लासौ न भवतस्तथा शक्याशक्यसंचारे ऽपि न स्याताम् ।
[221।01]
न सत्त्वानां पूर्वं पश्चाच्च भावात्तृणादीनां त्वभावात् ।
[221।01-221।02]
को न्वत्र विशेषो न वा भवेदसत्सु तृणादिषु संवरस्तद्वदशक्यो वा भवेत् ।
[221।02-221।04]
यदा च परिनिर्वृता न भवन्त्येव तदा कथं संवरह्लासो न स्यादिति नैष युक्तः परिहारः ।
[221।04]
तस्मात्पूर्वक एव परिहारः साधुः ।
[221।04-221।06]
एवं तर्हि पूर्वबुद्धपरिनिर्वृतेभ्य उत्तरेषां बुद्धानां प्रतिमोक्षसंवरस्या लाभात्कथं शीलन्यूनता न प्रसज्येत ।
[221।06]
सर्वेषां सत्त्वेभ्यो लाभात् ।
[221।06-221।07]
यदि हि ते ऽप्यभविष्यं स्तेभ्यो ऽपि ते ऽलप्स्यन्त ।
[221।07]
उक्तं यतः संवरो लभ्यते ।
[221।08]
असम्वरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः
[221।09]
असंवरस्तु सर्वसत्त्वेभ्यो लभ्यते सर्वकर्मपथेभ्यश्च ।
[221।09-221।10]
नास्ति हि विकलेनासंवरेणासंवरिकः ।
[221।10]
न तु सर्वकारणैर्युगपत् मृद्वादिचित्तासंभवात् ।
[221।10-221।12]
यो मृदुना चित्तेनासंवरं प्रतिलभते सो ऽधिमात्रेणापि चित्तेन प्राणिनं जीविताद्व्यपरोपयन्मृदुनैवा संवरेण समन्वागतो भवत्यधिमात्रया तु प्राणातिपातविज्ञप्त्या ।
[221।12-221।13]
एवं मध्याधिमात्रेण योज्यम् ।
[221।13-221।15]
तत्रेमे आसंवरिकास्तद्यथा औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुनिका मात्सिका मृगलुब्धकाश्चौरा वध्यघातका बन्धनपालका नागबन्धकाः श्वपाका वागुरिकाश्च ।
[221।15-221।16]
राजानो दण्डनेतारो व्यावहारिकाश्चार्थत आसंवरिकाः असंवरे भवत्वात् तत्रस्हतया असंवर एषामस्तीति आसंवरिका वा ।
[221।16-221।17]
उरभ्रान् घ्नन्तीति औरभ्रिकाः ।
[221।17]
एवमन्ये ऽपि योज्याः ।
[221।17-221।18]
युक्तस्तावत् संवरस्य सर्वसत्त्वेभ्यो लाभः ।
[221।18]
सर्वसत्त्वहिताध्याशयेन ग्रहणात् ।
[221।18-221।20]
औरभ्रिकादीनां तु मातापितृपुत्रदारादिष्वविपन्नाशयानां जीवितहेतोरप्यहन्तुकामानां कथमसंवरः सर्वसत्त्वेभ्यो युज्यते ।
[221।20]
मात्रादीनपि हि त उरभ्रीभूतान् हन्युः ।
[221।20-221।21]
न हि तावत्ते त एव इति विद्वांसो हन्युः ।
[221।21-212।22]
आर्यीभूतानां च पुनः पशु भवितुं नास्त्यवकाश इति तेभ्यः कथं स्यात् ।
[221।22-221।23]
यदि चा नागतात्मभावापेक्षया वर्त्तमानादसंवृतः स्यादुरभ्रादीनपि ते पुत्रीभूतात् सर्वथा न हन्युरिति इन स्यात्तेभ्य्यो ऽसंवरः ।
[221।23-222।01]
कथं हि नाम जिघांसतामेव तेभ्यो न स्यादसंवरः ।
[222।01]
एतन्मात्रादिषु समानम् ।
[222।01-222।02]
कथं हि नामाजिघांसतामेव तेभ्यः स्यादसंवर इति ।
[222।02]
यश्चौरभ्रिको जन्मनाप्यादत्ते स्वदारपरितुष्टो मूकश्च ।
[222।03]
कथमस्य पूर्वङ्गेभ्यो ऽसंवरः स्यात् ।
आशयस्याविपन्नत्वात् ।
[222।03-222।04]
मूको ऽपि च वाक्प्रापणीयमर्थं कायेन प्रापयितुं शक्त इति ।
[222।04-222।05]
यस्तर्हि द्वे त्रीणि वा शिक्षापदानि समादत्ते ।
[222।05]
सर्वथा नास्ति विकलः प्रादेशिकश्चासंवरिक इति वैभाषिकाः ।
[222।05-222।07]
यथा भ्युपगमं विकलो ऽपि स्यात् प्रादेशिको ऽप्यसंवरः संवरश्चान्यत्राष्टविधादिति सौत्रान्तिकाः ।
[222।07]
तन्मात्रशील दौःश्लील्यप्रतिबन्धात् ।
[222।08]
उक्तमिदमसंवरस्य येभ्यो लाभः ।
कथं तु लाभ इति नोक्तम् ।
तत इदमुच्यते ।
[222।09]
असंवरस्य क्रियया लाभो ऽभ्युपगमेन वा ।
[222।10]
द्वाभ्यां कारणाभ्यामसंवरो लभ्यते ।
[222।10-222।11]
वधप्रयोगक्रियया तत्कुलीनैः तत्कर्माभ्युपगमाच्चान्यत्र कुलीनैः ।
[222।11]
वयमप्यनया जीविकया जीविष्याम इति ।
[222।12]
शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात्
[222।13]
क्षेत्रं वा तद्रूपं भवति यत्रारामादिप्रदानमात्रेणाविज्ञप्तिरुत्पद्यते ।
[222।13-222।14]
यथौपधिकेषु पुण्यक्रियावस्तुषु ।
[222।14-222।15]
अथवा समादानमादत्ते बुद्धमवन्दित्वा न भोक्ष्ये तिथिमासार्धमासभक्तानि वा नित्यं करिष्यामीत्यादि ।
[222।15-222।16]
आदरेण तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतो ऽस्याविज्ञप्तिरुत्पद्यते ।
[222।16-222।17]
उक्तमेतद्यथा संवरासंवरेतराणां प्रतिलम्भः ।
[222।18]
त्याग इदानीं वक्तव्यः ।
तत्र तावत्
[222।19-222।20]
प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः ।
उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात्
[222।21]
दाम्यन्त्यनेनेति दमः संवरो ऽभिप्रेतस्तेनेन्द्रियदमनात् ।
[222।21-222।22]
चतुर्भिः कारणैः प्रातिमोक्षसंवरस्य त्यागः ।
[222।22]
स्थापयित्वोपवासम् ।
[222।22-222।24]
शिक्षापदानां विज्ञपुरुषस्यान्तिके प्रत्याख्यानदाशयतः निकायसभागत्यागात् युगपदु भयव्यञ्जनप्रादुर्भावात् कुशलमूलसमुच्छेदाच्च ।
[222।24]
उपवाससंवरस्य त्वेभिश्चतुर्भिरारात्रिक्षयाच्च ।
[222।24-222।25]
तान्येतान्यभिसमस्य पञ्च त्यागकारणानि भवन्ति ।
[222।25-222।26]
किं पुनः कारणमेभिः कारणैस्त्यागो भवति ।
[222।26-222।27]
समादानविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयविकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च ।
[223।01]
पतनीयेन चेत्येके
[223।02]
अन्ये पुनराहुश्चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्याग इति ।
[223।03]
सद्धमन्तिर्धितो ऽपरे ।
[223।04]
सद्धर्मस्यान्तर्धानादित्यपरे ।
[223।04-223।05]
यस्मादन्तर्हिते सद्धर्मे सर्वशिक्षासीमाकर्मान्ताः प्रतिप्रस्रभ्यन्त इति ।
[223।06]
धनर्णवत्तु काद्मीरैरापन्नस्येष्यते द्वयम्
[223।07]
काश्मीरास्तु खलु वैभाषिकाः एवमिच्छन्ति ।
[223।07-223।08]
न मौलीमध्यापत्तिमा पन्नस्यास्ति भिक्षुसंवरत्यागः ।
[223।08]
किं कारणम् ।
न ह्येकदेशक्षोभात् कृत्स्न संवरत्यागो युक्त इति ।
[223।09]
नैव चान्यामप्यापत्ति मापन्नस्यास्ति शीलच्छेदः ।
किं तर्हि ।
[223।09-223।10]
द्वयमस्य भवति शीलं दौःशील्यं च ।
[223।10]
यथा कस्यचिद्धनं स्यादृणं च ।
[223।10-223।11]
आविष्कृतायां तु तस्यामापत्तौ शीलवान्भवति न दुःशीलो यथा ऋणं शोधयित्वा धनवान्भवति न त्वृणवानिति ।
[223।12]
यत्तर्हि भगवतोक्तम् "भिक्षुर्भवत्यश्रमणो ऽशाक्यपुत्रीयो ध्वस्यते भिक्षुभावात् ।"
[223।13]
कतमस्य भवति श्रामण्यं ध्वस्तं पतितं पराजितमिति ।
[223।13-223।14]
परमार्थभिक्षुत्वं संधायैतदुक्तम् ।
[223।14]
इदमभिसाहसं वर्तते ।
किमत्राभिसाहसम् ।
[223।14-223।15]
यत् भगवता नीतार्थं पुनरन्यथा नीयते ।
[223।15]
दौःशील्याय च बहुक्लेशेभ्यः प्रत्यया दीयन्ते ।
[223।15-223।16]
कथमेत नीतार्थम् ।
[223।16]
एष हि विनये निर्देषः ।
"चतुर्विधो भिक्षुः ।
[223।17]
संज्ञाभिक्षुः प्रतिज्ञाभिक्षुर्भिक्षत इति भिक्षुर्भिन्नक्लेशत्वात् भिक्षुः ।
[223।17-223।18]
अस्मिंस्त्वर्थे ज्ञप्तिचतुर्थकर्मोपसंपन्नो भिक्षुरि"ति ।
[223।18-223।21]
न चासौ पूर्वं परमार्थभिक्षुरासीद्यतः पश्चादभिक्षुर्भवेत् यच्चोक्तमेकदेशक्षोभादिति अत्र शास्त्रैव दत्तो ऽनुयोग "स्तद्यथा तालो मस्तकाच्छिन्नो ऽभव्यो ऽङ्कुरितत्वाय अभव्यो विरुढिं वृद्धिं विपुलतामाप्तु" मित्युपमां कुर्वता ।
[223।21]
कः पुनरूपमार्थः ।
[223।21-223।22]
एवमेकदेश स्यापि मूलभूतस्य च्छेदादभव्यः संवरशेषो विरोडुमिति ।
[223।22-223।24]
स च गुर्वीं भिक्षुभावमर्यादाभेदिनीं मौलीमापत्तिमापद्यमानस्तीव्रानपत्राप्ययोगात्संवरस्य मूलं च्छिनत्तीति युक्तः कृत्स्नसंवरत्यागः ।
[223।23-224।02]
यस्य चैकग्रासपरिभोगो ऽप्येकपाद पार्ष्णिर्प्रदेशपरिभोगो ऽपि च नाभ्यनुज्ञायते सांघिकयोराहारविहारयोः सर्वभिक्षुसंभोगबहिष्कृतश्च शास्त्रा यं चाधिकृत्योक्तं ।
[224।03-224।04]
"नाशयत कारण्डवकं कशम्बकमपकर्षत ।
अथोत्प्लाविनं वाहयत अभिक्षुं भिक्षुवादिनम्"इति ॥
[224।05]
तस्य कीदृशो भिक्षुभावः ।
यादृशस्तादृशो ऽस्तु ।
अस्ति तु भिक्षुभावः ।
[224।05-224।06]
तथाहि "चत्वारः श्रमणा न पञ्चमो ऽस्ति चुन्दे"ति
[224।07]
भगवानवोचत्
[224।08-224।09]
"मार्गजिनो मार्गदेशिको मार्गे जीवति यश्च मार्गदूषी" अस्त्येतदुक्तम् ।
[224।09-224।10]
स त्वेष आकृतिमात्रावशेषत्वाच्छमण उक्तो दग्धकाष्ठशुष्कह्लदशुकनाशा पूतिवीजालातचक्रमृतसत्त्ववत् ।
[224।10-224।11]
यदि हि दौःशील्यादभिक्षुः स्यात् शिक्षादत्तको न स्यात् ।
[224।11]
न वयं ब्रूमः सहाध्यापत्त्या सर्वः पाराजिकः इति ।
[224।11-224।12]
यस्तु पाराजिकः सो ऽवश्यमभिक्षुः ।
[224।12-224।13]
कश्चित्तु संतानविशेषान्न पाराजिक एकचित्तेनाप्यप्रतिच्छादनादिति व्यवस्थापितं धर्मस्वामिना ।
[224।13-224।14]
यदि तर्हि पाराजिको न भिक्षुः किं पुनर्न प्रव्राज्यते ।
[224।14-224।15]
तीव्रानपत्राप्यविपादितत्वात् संततेः संवराभव्यत्वान्न तु खलु भिक्षुभावापेक्षया ।
[224।15]
तथा ह्यसौ निक्षिप्तशिक्षो ऽपि न प्रव्राज्यते ।
[224।15-224।16]
कश्चायमनर्थे निर्बन्धो यद्यसौ तथाभूतो ऽपि भिक्षुर्नमो ऽस्तु तस्मै तादृशाय भिक्षुत्वाय ।
[224।17]
सद्धर्मान्तर्धाने बु विनयकर्माभावादपूर्वसंवरलाभो नास्ति ।
[224।17-224।18]
लब्धस्य तु नास्ति त्यागः ।
[224।19]
अथ ध्यानानास्रवसंवरयोः कथं त्यागः ।
[224।20]
भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् ।
[224।21]
सर्वमेव ध्यानाप्तं कुशलं द्वाभ्यां कारणाभ्यां परित्यज्यते ।
[224।21-224।22]
उपपत्तितो वा भूमिसंचारादूर्ध्वं चावश्यं परिहाणितो वा समापत्तेर्निकायसभागत्वाच्च किञ्चित् ।
[224।23]
यथा च रूपाप्तं कुशलं भूमिसंचारहानिभ्यां त्यज्यते
[224।24]
तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः
[224।25]
अनास्रवं तु कुशलं त्रिभिः कारणैः परित्यक्ष्यते ।
[224।25-225।01]
फलप्राप्तितः पूर्वको मार्गः परित्यक्ष्यते ।
[225।01]
इन्द्रियोत्तापनेन मृद्धिन्द्रियमार्गः ।
परिहाणित उत्तरो मार्गः ।
[225।01-225।02]
फलं फलविशिष्टो वा ।
[225।02]
एवं तावत् संवरास्त्यज्यन्ते ।
[225।03]
असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः ।
[225।04]
त्रिभिः कारणैरसंवरच्छेदः ।
संवरप्राप्तितः ।
[225।04-225।05]
यदि संवरं समादत्ते ध्यानसंवरं वा लभते ।
[225।05]
हेतुप्रत्ययबलेन समाधिलाभात् ।
तेनासंवश्छिद्यते ।
[225।05-225।06]
प्रतिद्वन्द्वबलीयस्त्वात् ।
[225।06]
मरणेनाश्रयत्यागात् ।
द्विव्यञ्जनोत्पादेनाश्रयविकोपनादिति ।
[225।06-225।07]
शस्त्रजालत्यागे ऽप्यकरणाशयतः ।
[225।07]
संवरमन्तरेणासंवरच्छेदो नास्ति ।
[225।07-225।08]
निदानपरिवर्जने ऽप्यौषधमन्तरेण प्रवृद्धरोगाविनिवृत्तिवत् ।
[225।09-225।10]
य आसंवरिक उपवासं गृह्णाति किमसौ तस्मात्संवरात्पुनरसंवरं गच्छत्याहोस्विन्नैवसंवरं नासंवरम् ।
[225।10]
असंवरमित्येके ।
त्यागाशयस्यानात्यन्तिकत्वात् ।
[225।10-225।11]
प्रदीप्तैवायःपिण्डः पुनः श्यामतां नाप्रयुज्यमानो गच्छतीत्यपरे ।
[225।11-225।12]
तल्लाभस्य विज्ञप्त्यधीनत्वात् ।
[225।13]
अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते ।
[225।14]
वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा
[225।15-225।16]
येन ह्यसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता भवति तस्य च्छेदात्सा ऽपि च्छिद्यते ।
[225।16]
कुम्भकारचक्रेषुगतिवत् ।
आदानत्यागादपि च्छिद्यते ।
[225।17]
यदि समादानं त्यजत्यलं समादानेनेति ।
[225।17-225।18]
क्रियाविच्छेदादपि विच्छिद्यते यथासमात्तमकुर्वतः ।
[225।18]
अर्थविच्छेदादपि विच्छिद्यते ।
कतमस्यार्थस्य ।
[225।18-225।19]
चैत्यारामविहारशयनासन यन्त्रजालादिनो वस्तुनः ।
[225।19-225।20]
आयुषो ऽपि कुशलल्मूलानामपि च्छेदाद्विच्छिद्यते ।
[225।20-225।21]
यदा कुशलमूलानि समुच्छेत्तुमारभत इत्येभिः षद्भिः कारणैरविज्ञप्तिर्मध्यमा त्यज्यते ।
[225।22]
कामाप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः ।
[225।23]
कामावचरं कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां परित्यज्यते ।
[225।23-225।24]
कुशलमूलसमुच्छेदाद्रूपारूप्यधातूपपत्तितो वा ।
[225।25]
प्रतिपक्षोदयात् क्लिष्टमरूपं तु विहीयते
[226।01]
क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते ।
[226।01-226।02]
यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गस्तेनासौ सपरिवारः परित्यज्यते नान्यथा ।
[226।03]
अथ केषां सत्त्वानामसंवरो भवति केषां संवरः ।
[226।04]
नृणामसंवरो हित्वा शण्डपण्डद्विधाकृतीन् ।
[226।05]
कुरुंश्च
[226।06]
मनुष्यगतावेवासंवरो नान्यत्र ।
[226।06-226।07]
तत्रापि शण्ढपण्डकोभयव्यञ्जनानुतरकौरवांश्च हित्वा ।
[226।08]
संवरो ऽप्येवं देवानां च
[226।09]
संवरो हि मनुष्याणामेव यथोक्तं हित्वा देवानां चेति गतिद्वये संवरः ।
[226।09-226।10]
शण्ढादीनां संवरो नास्तीति कथं गम्यते ।
[226।10]
सूत्राद्विनयाच्च ।
[226।10-226।12]
सूत्र उक्तं यतश्च महानाम गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति यावद्वाचं भाषते उपासकं मां धारय इयता चोपासको भवती"ति ।
[226।12-226।13]
विनये ऽपि तद्रूपो नाशयितव्य उक्तः ।
[226।13]
किं पुनः कारणमेषां संवरो नास्ति ।
[226।13-226।14]
उभयाश्रयक्लेशाधिमात्रतया प्रतिसंख्यानाक्षमत्वात्तीव्रह्रीव्यपत्राप्याभावाच्च ।
[226।14]
असंवरस्तर्हि कस्मान्नास्ति ।
[226।14-226।15]
पापे ऽप्यस्थिराशयत्वात् ।
[226।15]
यत्रैअव च संवरस्तत्रासंवरो ऽपि प्रतिद्वन्द्वभावात् ।
[226।15-226।16]
उत्तरकोरवाणां समादानसमाध्यभावात् पापक्रियाशयाभावाच्च संवरासंवराभावः ।
[226।16-226।17]
आपायिकानामपि तीव्रं ह्रीव्यपत्राप्यं नास्ति यद्योगाद् यद्विपादनाच्च संवरासंवरौ स्याताम् ।
[226।18-226।20]
अपि खल्वाश्रय एव स तेषां तादृश ऊषरक्षेत्रभूतः शण्डपण्डकोभयव्यञ्जनोत्तरकौरवापायिकानां यत्राश्रये संवरो पि न विरोहत्यसंवरो ऽप्यूषर इव क्षेत्रे सस्यमप्यतिमात्रं कक्वमपीति ।
[226।20-226।21]
यत्तर्हि सूत्र उक्तम् "अण्डजो भिक्षवो नागो ऽष्टम्यां पक्षस्य भावनादभ्युद्गम्याष्टाङ्गसमन्वागतमुपवासमुपवसती"ति ।
[226।22]
सुचरितमात्रं तत्तेषां न संवरः ।
तस्मादेवमनुष्याणामेव संवरः ।
तत्र पुनः
[226।23]
नृणां त्रयः
[226।24]
मनुष्याणां सर्वे त्रयः प्रातिमोक्षादिसंवराः संविद्यन्ते ।
[226।25]
कामरूपजदेवानां ध्यानजः
[226।26]
ध्यानसंवरः कामरूपधातूपपन्नानां देवानामुर्ध्वं नास्ति ।
[226।27]
अनास्रवः पुनः ।
[227।01]
ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम्
[227।02-227।03]
अनास्रवसंवरस्तु कामरूपधातूपपन्नानामप्यस्ति ध्यानान्तरिकासंज्ञिसत्वोपपन्नान्वर्जयित्वा ।
[227।03]
आरूप्योपपन्नानामपि तेषां तु समन्वागमतो ऽस्ति न संमुखीभावतः ।
[227।04]
अतः परमिदानीं कर्मनिर्देशाधिकारात्सूत्रीद्दिष्टानां कर्मणां निर्देष आरप्स्यते ।
[227।05]
त्रीणि कर्माणि ।
कुशलं कर्माकुशलमव्याकृतं कमेति ।
तत्र
[227।06]
क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत् ।
[227।07]
इदं कुशलादीनां लक्षणम् ।
[227।07-227।08]
क्षेमं कर्म कुशलं यदिष्टविपाकं निर्वाणप्रापकं च दुःखपरित्राणात् ।
[227।08-227।09]
तत्कालमत्यन्तं च अक्षेममकुशलं क्षेमप्रतिद्वन्द्वभावेन यस्यानिष्टो विपाकः ।
[227।09-227।10]
ताभ्यामितरत्कर्म नैव क्षेमं नाक्षेमं यत्तत्कुशलाकुशलाभ्यामितरत् वेदितव्यम् ।
[227।10]
अव्याकृतमित्यर्थः ।
पुनः
[227।11]
पुण्यापुण्यमविञ्जं च सुखवेद्यादि च त्रयम्
[227।12]
त्रीणी कर्माणि पुण्यमपुण्यमानेञ्जं च ।
पुनः त्रीणि ।
[227।12-227।13]
सुखवेदनीयं कर्म दुःखवेदनीयमदुःखासुखवेदनीयं च ।
[227।13]
तत्र तावत्
[227।14]
कामधातौ शुभं कर्म पुण्यमानेञ्जमूर्ध्वजम् ।
[227।15]
शुभमिति वर्तते ।
रूपारूप्यावचरं कुशलं कर्मानेञ्जम् ।
[227।15-227।16]
ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता ।
[227।16-227।17]
"यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुरित्येवमादि ।
[227।17]
समादौ सापक्षालतां तेषामधिकृत्यैवमुक्तम् ।
[227।18]
आनिञ्जान्यपि तु तान्युक्तान्यानिञ्जसूत्रे ।
[227।18-227।19]
आनिञ्जसंप्रेयगामिनीं प्रतिपदमारभ्य ।
[227।19]
किं पुनः कारणं सेञ्जितमेवान्यत्रानिञ्जमुक्तम् ।
[227।20]
तद्भूमिषु यतः कर्मविपाकं प्रति नेञ्जति
[227।21]
कामावचरं हि विपाकं प्रति कम्पते ।
कथं कम्पते ।
अव्यवस्थानात् ।
[227।21-227।22]
अन्यगति कमपि ह्यन्यस्यां गतौ विपच्यते ।
[227।22]
अन्यदेवनैकायिकं चान्य देवनिकाये ।
[227।22-227।24]
यदेव हि प्रमाणबलवर्णकर्मान्यभूमिक सुखभोगादि संवर्तनीयं कर्म देवेषु विपच्यते तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यकप्रेतेषु विपच्यते ।
[227।24-227।25]
रूपारूप्यावचरं तु कर्मान्यभूमिकमन्यस्यां भूमौ विपक्तुं न जातूत्सहते ।
[227।25-228।01]
तस्माद्व्यवस्थितविपाकत्वादानेञ्जमित्युच्यते ।
[228।01]
अपुण्यं तु कर्माकुशलमिति प्रसिद्धं लोके ।
[228।02]
यश्च लोकतो ऽर्थः प्रसिद्धः किं तत्र यत्नेन ।
कृतः पुण्यादीनां कर्मणां निर्देशः ।
[228।03]
सुखवेदनीयादीनां कर्तव्यः ।
स एष क्रियते ।
[228।04]
सुखवेद्यं शुभं ध्यानादातृतीयात्
[228।05]
कुशलं कर्म सुखवेदनीयं यावत् तृतीयाद्ध्यानात् ।
[228।05-228।06]
एषा हि भूमिः सुखाया वेदनाया यदुत कामधातुस्त्रीणि च ध्यानानि ।
[228।07]
अतः परम्
[228।08]
अदुःखासुखवेद्यं तु
[228।09]
शुभमिति वर्तते ।
[228।09-228।10]
तृतीयध्यानात् परेण कुशलं कर्मादुःखासुखवेदनीयं सुखदुःखवेदना ऽभावात् ।
[228।11]
दुःखवेद्यमिहाशुभम्
[228।12]
अकुशलं कर्म दुःखवेदनीयम् ।
इहग्रहणं कामधातावेव तद्भावज्ञापनार्थम् ।
[228।12-228।13]
न चैषां वेदनैव फलम् ।
[228।13]
किं तर्हि ।
ससंभारा ।
[228।14]
अधो ऽपि मध्यमस्त्येके ।
[228।15]
अन्ये पुनराहुः तदेतन्मध्यमदुःखासुखवेदनीयं कर्मोक्तमेतच्चतुर्थध्यानादधो ऽप्यस्ति ।
[228।16]
किं कारणम् ।
[228।17]
ध्यानान्तरविपाकतः ।
[228।18]
इतरथा हि ध्यानान्तरकर्मणो विपाको न स्याद्ध्यानान्तरं वा कस्यचित्कर्मणः ।
[228।18-228।19]
तत्र सुखदुःखयोरभावात् ।
[228।19]
ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रीयं विपाक इत्येके ।
[228।19-228।20]
नैव तस्य वेदना विपाक इत्यपरे ।
[228।20]
तदेतदुच्छास्त्रम् ।
[228।20-228।21]
शास्त्रे हि पठितं "स्यात्कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत ।
[228।21]
स्यात्कुशलस्यावितर्कस्य कर्मण" इति ।
[228।22]
अपुर्वाचरमः पाकस्त्रयाणां चेष्यते यतः
[228।23]
यतश्चोक्तं सूत्रे "स्यात्त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत ।
[228।23-228।24]
स्यात्सुखवेदनीयस्य रूपं दुःखवेदनीयस्य चित्तचैत्ता धर्माः ।
[228।24-228।25]
अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता" इत्यतो ऽप्यस्त्यदुःखासुखवेदनीयं कर्माधस्तात् ।
[228।25-229।01]
नहि कामधातोरन्यत्रास्ति युगपत्कर्मत्रयस्य विपाके संयोगः ।
[229।01]
किमिदानीं तत्कुक्शलमाहोस्विदकुशलं ।
[229।01-229।02]
दुर्बलं तु तत् ।
[229।02-229।03]
एवं तर्हि "सुखवेद्यं शुभं ध्यानादातृतीया" "दिष्ट-विपाकं च कुशल" मित्यस्य विरोधः ।
[229।03]
बाहुलिक एष निर्देशो द्रष्टव्यः ।
[229।03-229।04]
कथं पुनरवेदनास्वभावं कर्म सुखादिवेदिनीयमित्युच्यते ।
[229।04-229।05]
सुखवेदनायै हितं सुखवेदनोयं सुखो ऽस्य वेदनीय इति वा ।
[229।05]
कश्च वेदनीयः ।
यो विपाकः ।
[229।05-229।06]
स ह्यसौ विद्यते सुखस्य वा वेदनीयं येन सुखं वेदयते ।
[229।06]
स्नानीयकपायवत् ।
[229।06-229।07]
एवं दुःखवेदनीयमदुःखासुखवेदनीयं च द्रष्टव्यम् ।
[229।07]
अपि च ।
[229।08-229।09]
स्वभावसंप्रयोगाभ्यामालम्बनविपाकतः ।
संमुखीभावतश्चेति पञ्चधा वेदनीयता
[229।10]
स्वभाववेदनीयता वेदनानाम् ।
स्वभावेनैव वेदनीयत्वात् ।
[229।10-229।11]
संप्रयोगवेदनीयता स्पर्शस्य ।
[229।11]
"सुखवेदनीयः स्पर्शः" इति ।
आलम्बनवेदनीयता विषयाणाम् ।
[229।11-229।13]
यथोक्तं "चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसंवेदी भवति नोतु रूपरागप्रतिसंवेदी"त्येवमादि ।
[229।13]
वेदनया हि तामालम्बमानः प्रतिसंवेदयते ।
[229।13-229।14]
विपाकवेदनीयता कर्मणः ।
[229।14]
"दृष्टधर्मवेदनीयं कर्मे"ति विस्तरः ।
संमुखीभाववेदनीयता ।
[229।15-229।16]
यथोक्तं "यस्मिन् समये सुखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवत" इति ।
[229।16-229।17]
नहि यस्मिन्समये सुखा वेदना वर्तते तस्मिन्पुनरन्या वेदना ऽस्ति स यां तां वेदयते ।
[229।17]
संमुखीकुर्वस्तु तां वेदयत इत्युच्यते ।
[229।17-229।18]
अतो विपाकस्य वेदनीयत्वात् कर्माप्युच्यते सुखवेदनीयमित्येवमादि ।
[229।19]
नियतानियतं तच्च
[229।20]
तच्चैतत्सुखवेदनीयादि त्रिविधं कर्म नियतं चानियतं च वेदितव्यम् ।
[229।20-229।21]
नावश्यवेदनीयमनियतम् ।
[229।22]
नियतं त्रिविधं पुनः ।
[229।23]
दृष्टधर्मादिवेद्यत्वात्
[229।24-229।25]
दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं चेत्येतत्त्रिविधं कर्म नियतमित्येतच्चतुर्विधं कर्म भवति सहानियतवेदनीयेन ।
[229।26]
पञ्चधा कर्म केचन
[229।27]
अपरे पुनः पञ्चविधं कर्मेच्छन्ति ।
अनियतवेदनीयं द्विधा कृत्वा ।
[229।27-230।01]
विपाकेन नियतमनियतं चेति ।
[230।01]
तत्र दृष्टधर्मवेदनीयं यत्र जन्मनि कृतं तत्रैव विपच्यते ।
[230।01-230।02]
उपपद्यवेदनीयं द्वितीये जन्मनि ।
[230।02]
अपरपर्यायवेदनीयं तस्मात्परेण ।
[230।02-230।04]
जन्मान्तरे ऽप्यस्ति दृष्टधर्मवेदनीयस्य कर्मणो विपाक आरम्भवशात्तन्नामव्यवस्थानमित्यपरे ।
[230।04]
मा भूद्यदेवमिष्टकर्म तस्याल्पिष्ठो विपाकः इति ।
[230।04-230।05]
तदेवं नेच्छन्ति वैभाषिकाः ।
[230।05-230।06]
अस्ति हि कर्म संनिकृष्टफलं न विप्रकृष्टफलमस्ति विपर्ययाद्बाह्यबीजवत् ।
[230।06-230।07]
यथा त्रिपक्षा सुवर्चला त्रिभिः पक्षैः फलं दधाति यवगोधूमादयः षड्भिर्मासैरिति ।
[230।08]
चतुष्कोटिकमित्यन्ये
[230।09]
दार्ष्टान्तिकास्तु चतुष्कोटिकं कुर्वन्ति ।
अस्ति कर्मावस्थानियतं न विपाके नियतम् ।
[230।10]
यत्कर्म दृष्टधर्मादिवेदनीयं विपाके ऽनीयतम् ।
अस्ति विपाके नियतं नावस्थायाम् ।
[230।11]
यत्कर्मानियतवेदनीयं विपाके नियतम् ।
[230।11-230।12]
अस्त्युभयनियतं यदृष्टधर्मादिवेदनीयं विपाके नियतम् ।
[230।12]
अस्ति नोभयनियतं यत्कर्मानियतवेदनीयं विपाके अनियतम् ।
[230।13]
तेषां तत्कर्माष्टविधं दृष्टधर्मवेदनीयं नियतमनियतं च ।
एवं यावदनियतवेदनीयम् ।
[230।14]
नियतमेव तु दृष्टधर्मादिवेदनीयमनियतं चतुर्थमिति वर्णयन्ति ।
[230।14-230।15]
स्यादेकस्मिन् क्षणे चतुर्विधं कर्माक्षिपेत् ।
[230।15-230।16]
स्यात्त्रिषु परं प्रयोज्य काममिथ्याचारे स्वयं प्रयुक्तस्तेषां युगपत्समाप्तौ ।
[230।16]
एषां च पुनश्चतुर्णां कर्मणां ।
[230।17]
निकायाक्षेपणं त्रिभिः ।
[230।18]
नहि दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते ।
[230।19]
कतमस्मिन्धातौ कतिविधं कर्माक्षिप्यते कस्यां वा गतौ ।
[230।20]
सर्वत्र चतुराक्षेपः ।
[230।21-230।22]
सर्वेषु त्रिषु धातुषु सर्वासु च गतिषु चतुर्णां कर्मणामाक्षेपः कुशलानामकुशलानां च यथासंभवम् ।
[230।22]
अस्योत्सर्गस्यायमपवादः ।
[230।23]
शुभस्य नरके त्रिधा
[230।24]
नरकेषु कुशलस्य कर्मणस्त्रिविधस्या क्षेपो न दृष्टधर्मवेदनीयस्य ।
[230।24-230।25]
तत्रेष्टविपाकाभावात् ।
[230।26]
यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत् ।
[230।27-230।28]
यतो भूमेः वीतरागपृथग्जनो भवत्यसौ च स्थिरो भवत्यपरिहाणधर्मा स तत्रोपपद्यवेदनीयं कर्म न करोति ।
[230।28]
किमन्यत्करोति ।
[231।01]
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0