अभिधर्मकोशभाष्य · भाग 341360
[205।06-205।07]
यथानुवर्तकं चेत् अकुक्शलाव्याकृतचित्तस्य प्रातिमोक्षविज्ञप्तिः कुशला न प्राप्नोति ।
[205।07]
यथा प्रवर्तकं तथा विज्ञप्तिर्नतु यथा दर्शनप्रहातव्यम् ।
[205।07-205।08]
भावना हेयान्तरितत्वात् ।
[205।08]
यदि नानुवर्तकवशाद्विज्ञप्तेः कुशलादित्वं न तर्हीदं वक्तव्यम् ।
[205।09]
हेतुसमुत्थानं संधायोक्तं सूत्रे न तत्क्षणसमुत्थानम् ।
[205।09-205।10]
अतो नास्तीह निवृताव्याकृता विज्ञप्तिरिति ।
[205।10]
एवं वक्तव्यम् ।
अन्यव्यवहितं हेतुसमुत्थानं संधायोक्तमिति ।
[205।11]
अवसितः प्रसङ्गः ।
[205।12]
सा तु पूर्वोक्ता ।
[205।13]
अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा ।
[205।14]
संवरश्चासंवरश्च ।
ताभ्यां चेतरो नैवसंवरो नासंवरः ।
[205।14-205।15]
दौःशील्यप्रसरस्य संवरणं संरोधः संवरः ।
[205।15]
तत्र पुनः
[205।16]
संवरः प्रातिमोक्षाख्यो ध्यानजो ऽनास्रवस्तथा
[205।17]
त्रिविधः संवरः ।
प्रातिमोक्षसंवर इहत्यानां कामावचरं शीलम् ।
[205।17-205।18]
ध्यानसंवरो रूपावचरं शीलम् ।
[205।18]
अनास्रवसंवरो ऽनास्रवं शीलम् ।
तत्र पुनः
[205।19]
अष्टधा प्रातिमोक्षाख्यः
[205।20-205।21]
भिक्षुसंवरो भिक्षुणीसंवरः शिक्षमाणासंवर श्रामणेरसंवरः श्रामणेरीसंवरः उपासकसंवर उपासिकासंवर उपवाससंवरश्च ।
[205।21-205।22]
एषो ऽष्टविधसंवरः प्रातिमोक्षसंवर इत्याख्यायते ।
[205।22]
नामत एषो ऽष्टविधः ।
[205।23]
द्रव्यतस्तु चतुर्विधः ।
[205।24]
भिक्षुसंवरः श्रमणेरसंवर उपासकसंवर उपवाससंवरश्च ।
[205।24-205।25]
इत्येष चतुर्विधः प्रातिमोक्षसंवरस्तु द्रव्यतः ।
[205।25]
प्रतिनियतलक्षणत्वात् ।
[205।25-205।26]
भिक्षुसंवराद्भिक्षुणीसंवरो नान्यः श्रामणेरसंवराच्च शिक्षमाणाश्रामणेरीसंवरौ ।
[205।26-205।27]
उपासकसंवरादुपासिकासंवरो नान्यः ।
[205।27]
कथं ज्ञायते ।
[206।01]
लिङ्गतो नामसंचारात्
[206।02]
लिङ्गमिति व्यञ्जनस्याख्या येन स्त्रीपुरुषौ लिङ्ग्येते ।
[206।02-206।03]
लिङ्गतो हि भिक्षुभिक्षुण्यादीनां नामसंचारो भवति ।
[206।03]
कथं कृत्वा ।
[206।03-206।04]
परिवृत्ते हि व्यञ्जने भिक्षुर्भिक्षुणीत्युच्यते भिक्षुणी च पुनर्भिक्षुः ।
[206।04-206।05]
श्रामणेरीत्युच्यते श्रामणेरी च पुनः शिक्षमाणा च श्रामणेरः ।
[206।05]
उपासक उपासिकेत्युच्यते उपासिका च पुनरूपासक इति ।
[206।05-206।06]
न च व्यञ्जनपरिवृत्तौ पूर्वसंवरत्यागे कारणमस्ति नाप्यपूर्वसंवरप्रतिलम्भे ।
[206।06-206।07]
तस्मादभिन्न एषां चतुर्णा संवराणां त्रिभ्यः स्वभावः ।
[206।08-206।10]
य उपासकसंवराच्छ्रामणेरसंवरं समादत्ते तस्माच्च पुनर्भिक्षुसंवरं किं ते संवरा विरतिवृद्धियोगादन्यो ऽन्य उच्यन्ते पञ्चदश विंशतिवत् दीनारशतेरवच्च आहोस्वित् पृथगेव ते सकला जायन्ते ।
[206।10]
आह ।
[206।11]
पृथक्
[206।12]
अव्यामिश्रा एव ते पृथग्लक्षणा उपजायन्ते ।
[206।12-206।13]
त्रिषु संवरेषु तिस्रः प्राणातिपातविरतयो यावन्मद्यपानविरतयः ।
[206।13]
एवं शेषाः ।
को नु तासां विशेषः ।
[206।13-206।14]
निदानविशेषाद्विशेषः ।
[206।14]
कथं कृत्वा ।
[206।14-206।17]
यथा यथा हि वहुतराणि शिक्षापदानि समादित्सते तथा तथा बहुतरेभ्यो मद्दप्रमादपदेभ्यो निवर्तमानो बहुतरेभ्यः प्राणातिपातादीनां निदानेभ्यो निवर्तते विरतीनां च निदानेषु प्रवर्तत इति निदानविशेषाद्विरतीनां विशेषः ।
[206।17-206।18]
एवं चासति भिक्षुसंवरं प्रत्याचक्षाणस्त्रीनपि संवरान्विजह्याद्दयोरपि तत्रान्तर्भावात् ।
[206।18]
न चैतदिष्टम् ।
तस्मात् पृथगेव ते संवराः ।
[206।19]
ते चाविरोधिनः
[206।20]
ते च त्रयो ऽपि सह वर्तन्ते ।
नोत्तरसंवरसमादानात् पुर्वकस्य त्यागः ।
[206।20-206।21]
मा भूत् भिक्षुसंवरपरित्यागादनुपासक एवेति ।
[206।22]
कथं चायमुपासको भवति कथमुपवासस्थो यावत् भिक्षुः ।
[206।23-206।24]
पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् ।
उपासकोपवासस्थश्रमणोद्देशभिक्षुता
[206।25]
यथासंख्यमनुदेशो वेदितव्यः ।
[206।25-207।01]
पञ्च्चभ्यो वर्जनीयेभ्यो धर्मेभ्यो विरतिसमादानादुपासकसंवरस्थो भवति ।
[207।01-207।02]
प्राणातिपाताददत्तादानात्काममिथ्याचारात् मृषावादात्सुरामैरेयमद्यपानाच्च ।
[207।02-207।03]
अष्टाभ्यो विरतिसमादानादुपवासस्थः ।
[207।03-207।04]
प्राणातिपातादत्तादानाब्रह्मचर्यमृषावादमद्यपानेभ्यो गन्धमाल्यविलेपननृत्यगीतवादित्रादुच्चशयनमहाशयनादकालभोजनाच्च ।
[207।04-207।05]
दशभ्यो विरतिसमादानाच्छ्रामणेरो भवति ।
[207।05]
एभ्य एव जातरूपरजतप्रतिग्रहाच्च ।
[207।05-207।06]
नृत्यगितवादित्रगन्धमाल्यविलेपनं चात्र द्वयीकृत्य दश भवन्ति ।
[207।06-207।07]
सर्वेभ्य एव वर्जनीयेभ्यः कायवाक्कर्मभ्यः विरतिसमादानात् भिक्षुरित्युच्यते ।
[207।07]
स एष प्रातिमोक्षसंवरः ।
[207।08]
शीलं सुचरितं कर्म संवरश्चोच्यते
[207।09]
विषमकर्मणां विरतिसमादानाच्छीलम् ।
शीतलत्वादिति निरुक्तिः ।
[207।10]
"सुखशीलसमादानं कायो न परिदह्यत" इति
[207।11]
गाथावचनात् ।
विद्वत्प्रशस्तत्वात्सुचरितम् ।
क्रियास्वभावत्वात्कर्म ।
[207।11-207।12]
ननु चाविज्ञप्तिरक्रियेत्युच्यते ।
[207।12]
सा कथं क्रिया भाति ।
[207।12-207।13]
न कुर्वन्ति तया समात्तया लज्जिनः पापमित्यक्रियेत्युच्यते ।
[207।13]
सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति क्रिया भवति ।
[207।14]
क्रियाहेतुत्वात् क्रियाफलत्वाच्चेत्यपरे ।
संवर इति कायवाचोः संवरणात् ।
[207।14-207।15]
एवं तावदविशेषेण प्रातिमोक्षसंवरः संशब्द्यते ।
[207।16]
पुनः ।
[207।17]
आद्ये विज्ञप्त्यविज्ञप्ती प्रातिमोक्षकियापथः
[207।18]
संवरसमादानस्य प्रथमे विज्ञप्त्यविज्ञप्ती प्रातिमोक्ष इत्युच्यते ।
[207।18-207।19]
पापस्य तेन प्रातिमोक्षणादुत्सर्जनादित्यर्थः ।
[207।19]
स्वार्थे वृद्धिविधानाद्वैकृतवैशसवत् ।
[207।19-207।20]
प्रातिमोक्षसंवर इत्यपि कायवाक्संवरणात् कर्मपथ इत्युच्यते ।
[207।20]
मौलसंगृहीतत्वात् ।
[207।20-207।21]
द्वितीयादिषु क्षणेषुइ प्रातिमोक्षसंवर एव न प्रातिमोक्षः ।
[207।21]
पृष्ठं च न मौलः कर्मपथः ।
[207।22]
अथैषां संवराणां केन कः समन्वागतः ।
[207।23]
प्रातिमोक्षान्विता अष्टौ
[207।24]
प्रातिमोक्षसंवरेणाष्टौ निकायाः समन्वागता भिक्षुर्भिक्षुणी यावदुपवासस्थो ऽष्टमः ।
[208।01]
किं खलु बाह्यकानां समादानशीलं नास्ति ।
अस्ति नतु प्रातिमोक्षसंवरः ।
[208।01-208।02]
किं कारणम् ।
[208।02]
नहि तदत्यन्तं पापस्य प्रतिमोक्षणाय संवर्तते ।
भवसंनिश्रितत्वात् ।
[208।03]
ध्यानजेन तदन्वितः ।
[208।04]
ध्यानाद्ध्याने वा जातो ध्यानजः ।
यो ध्यानेन समन्वागतः सो ऽवश्यं ध्यानसंवरेण ।
[208।05]
सामन्तकमप्यत्र ध्यानं कृत्वोच्यते ।
यथा ग्रामसामन्तकमपि ग्राम इत्युच्यते ।
[208।06]
अस्त्यस्मिन् ग्रामे शालेयं क्षेत्रमस्ति व्रैहेयमिति ।
[208।07]
अनास्रवेणार्यसत्त्वाः
[208।08]
आर्यपुद्गला अनास्रवेण संवरेण समन्वागताः ।
ते पुनः शैक्षाशैक्षाः ।
[208।08-208।09]
यदुक्तं "सहभूहेतावुच्यमाने द्वौ संवरौ चित्तानुवर्तिनावि"ति ।
[208।10]
कतमो तौ ।
एषामेव त्रयाणाम्
[208।11]
अन्त्यौ चित्तानुवर्तिनौ
[208।12]
ध्यानसंवरो ऽनास्रवसंवरश्च ।
न प्रातिमोक्षसंवरः ।
किं कारणम् ।
[208।12-208।13]
अन्यचित्ताचित्तकस्याप्यनुवृत्तेः ।
[208।13]
पुनस्तावेव ध्यानानास्रवसंवरौ प्रहाणसंवराख्यां लभेते ।
[208।14]
कस्यामवस्थायामित्याह
[208।15]
अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ ।
[208।16]
अनागम्ये तौ ध्यानानास्रवसंवरौ नवस्वानन्तर्यमार्गेषु प्रहाणसंवरावित्युच्येते ।
[208।17]
ताभ्यां दौःशील्यस्य तत्समुत्थापकानां च क्लेशानां प्रहाणात् ।
[208।17-208।18]
अत एव स्याद्ध्यानसंवरो न प्रहाणसंवर इति चतुष्कोटिकं क्रियते ॥
[208।18-208।19]
प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यः सास्रवो ध्यानसंवरः ।
[208।19]
द्वितीया अनागम्यानन्तर्यमार्गेष्वनास्रवः ।
[208।20]
तृतीया अनागम्यानन्तर्यमार्गेषु सास्रवः ।
[208।20-208।21]
चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्यो ऽनास्रवसंवरः ।
[208।21-208।22]
एवं स्यादनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकं यथायोगं वेदितव्यम् ।
[208।22]
यत्तर्हि भगवतोक्तं
[208।23-208।24]
"कायेन संवरः साधु साधु वाचा ऽथ संवरः ।
मनसा संवरः साधु साधु सर्वत्र संवरः । इति ।
[208।25]
यच्चोक्तं "चक्षुरिन्द्रियेण संवरसंवृतो विहरती"ति ।
[208।25-208।26]
एतौ मनैन्द्रियसंवरौ किंस्वभावौ ।
[208।26]
नैतावविज्ञप्तिशीलस्वभावौ ।
किं तर्हि ।
[209।01]
संप्रज्ञानस्मृती द्वे तु मनैन्द्रियसंवरौ
[209।02-209।03]
प्रत्येकं द्विस्वभावज्ञपनार्थं पुनर्द्विग्रहणं मा यथासंख्यं विज्ञायीति मनःसंवरो ऽपि स्मृतिसंप्रज्ञानस्वभाव इति ।
[209।03]
इन्द्रियसंवरो ऽपि ।
[209।04]
इदं विचार्यते ।
[209।04-209।05]
कः कतमया विज्ञप्त्या ऽविज्ञप्त्या वा कियन्तं कालं समन्वागत इति ।
[209।05]
तत्र
[209।06]
प्रातिम्मोक्षस्थितो नित्यमत्यागाद्वर्तमानया ।
[209।07]
अविज्ञप्त्या ऽन्वितः
[209।08-209।09]
यः प्रातिमोक्षासंवरस्थः पुद्गल उक्तः स यावत्तामविज्ञप्तिर् न त्यजति तावत्तया वर्तमानया नित्यं समन्वागतः ।
[209।10]
पूर्वात् क्षणादूर्ध्वमतीतया
[209।11][
प्रथमात् क्षणादूर्ध्वमतीतया ऽपि समन्वागतः ।
[209।11-209।12]
अत्यागादिति सर्वत्राधिकृतं वेदितव्यम् ।
[209।12]
यथा प्रातिमोक्षसंवरस्थ उक्तः
[209।13]
तथैवासंवरस्थो ऽपि
[209।14-209।15]
असंवरस्थो ऽपि यावदसंवरं न त्यजति तावन्नित्यमविज्ञप्त्या वर्तमानया समन्वागतः ।
[209।15]
क्षणादूर्ध्वमतीतया ऽपि ।
[209।16]
ध्यानसंवरवान् सदा ।
[209।17]
अतीताजातया
[209।18-209।19]
ध्यानसंवरस्य लाभी नित्यमतीतानागताभ्यामविज्ञप्तिभ्यां समन्वागतः आत्यागात् ।
[209।19]
प्रथमे हि क्षणे स जन्मान्तरत्यक्तं ध्यानसंवरमतीतं लभते ।
[209।20]
आर्यस्तु प्रथमे नाभ्यतीतया
[209।21]
आर्यस्तु पुद्गलो ऽप्येवमनास्रव्या ।
अयं तु विशेषः ।
[209।21-209।22]
स प्रथमे क्षणे नातीतया समन्वागतो मार्गस्य पूर्वमनुत्पादितत्वात् ।
[210।01]
समाहितार्यमार्गस्थौ तौ युक्तौ वर्तमानया ।
[210।02-210।03]
तौ ध्यानानास्रवसंवरान्वितौ समाहितर्यमार्गसमापन्नौ वर्तमानया अविज्ञप्त्या समन्वागतौ यथाक्रमं न तु व्युत्थितौ ।
[210।03-210।04]
संवरासंवरस्थानां तावदेष वृत्तान्तः ।
[210।05]
अथेदानीं मध्यस्थस्य ।
[210।06]
मध्यस्थस्यास्ति चेदादौ मध्यया
[210।07]
यो नैव संवरे नासंवरे स्थितः स मध्यस्थः ।
[210।07-210।08]
तस्य नावश्यमविज्ञप्तिरस्ति ।
[210।08]
यस्य त्वस्ति दौःशील्यशीलाङ्गादिसंगृहीता स आदौ मध्यया समन्वागतः ।
[210।09]
वर्तमाना ह्यविज्ञप्तिरतीतानागतयोर्मध्याद्
[210।10]
ऊर्ध्वं द्विकालया
[210।11]
प्रथमात् क्षणादूर्ध्वमतीतया वर्तमानया च ।
आत्यागादिति वर्तते ।
[210।11-210।12]
किमसंवरस्थः कदाचित्कुशलया विज्ञप्त्या समन्वागतो भवति संवरस्थो वा पुनरकुशलया भवति ।
[210।13]
भवन् कदा कियन्तं वा कालमित्याह
[210।14-210।15]
असंवरस्थः शुभया ऽशुभया संवरे स्थितः ।
अविज्ञप्त्यान्वितो यावत् प्रसादक्लेशवेगवान्
[210।16-210।18]
येन प्रसादवेगेनासंवरस्थस्य कुशला ऽविज्ञप्तिरुत्पद्यते स्तववन्दनादिक्रियां कुर्वतः येन च क्लेशवेगेन संवरस्थस्याकुशला ऽविज्ञप्तिरुत्पद्यते वधबन्धनताडनादिक्रियां कुर्वतः तौ यावदनुवर्तेते तावत्ते अप्यविज्ञप्ती ।
[210।18-210।19]
स आद्ये क्षणे वर्तमानयैवाविज्ञप्त्या समन्वागतो भवत्यन्येष्वतीतया ऽपि ।
[210।19]
अविज्ञप्त्यधिकारः समाप्तः ।
[210।20]
विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः ।
[210।21]
सर्वे संवरासंवरमध्यस्था यावदिज्ञप्तिं कुर्वन्ति तावत्तया वर्तमानया समन्वागताः ।
[210।22]
अतीतया क्षणादूर्ध्वमात्यागात्
[210।23]
प्रथमात् क्षणादूर्ध्वमात्यागादतीतया विज्ञप्त्या समन्वागतो भवति ।
[210।24]
नास्त्यजातया
[211।01]
अनागतया तु विज्ञप्त्या न कश्चित् समन्वागतः ।
[211।02]
निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः ।
[211।03]
अतीताभ्यामपि निवृतानिवृताव्याकृताभ्यां विज्ञप्तिभ्यां न कश्चित्समन्वागतः ।
[211।04]
दुर्बलस्य हि धर्मस्य प्राप्तिरपि दुर्बला नानुबन्धीभवति ।
किङ्कृतं तस्या दौर्बल्यम् ।
[211।05]
चित्तकृतम् ।
चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् ।
नैतदेवम् ।
[211।05-211।06]
जडा हि विज्ञप्तिः परतन्त्रा च ।
[211।06]
न चैवं चित्तम् ।
[211।06-211।07]
सा हि विज्ञप्तिर्दुर्बलेनोत्थापिता दुर्बलतरा भवति ।
[211।08]
असंवरस्थ इत्युक्तम् ।
को ऽयमसंवरो नाम ।
[211।09]
असंवरो दुश्चरितं दौःशील्यं कर्मं तत्पथः
[211।10]
असंवरस्येमे पर्यायशब्दाः ।
तत्र कायवाचोरसंवरणादसंवरः ।
[211।10-211।11]
सद्भिः कुत्सितत्वादनिष्टफलत्वाद् दुश्चरितम् ।
[211।11]
शीलविपक्षाद्दौःशील्यम् ।
कायवाक्कर्मत्वात्कर्म ।
[211।12]
मौलसंगृहीतत्वात्कर्मपथः ।
स्याद्विज्ञप्त्या समन्वागतो नाविज्ञप्त्येति चतुष्कोटिकम् ।
[211।13]
तत्र तावत् ।
[211।14]
विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः ।
[211।15-211।17]
मृद्व्या चेतनया कुशलमकुक्शलं वा कुर्वन्नैवसंवरनासंवरस्थितो विज्ञप्त्यैव समन्वागतो भवति नाविज्ञप्त्या प्रागेवाव्याकृते अन्यत्रौपधिकपुण्यक्रियावस्तुकर्मपथेभ्यः ।
[211।18]
त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः
[211।19-211।20]
अविज्ञप्त्यैव समन्वागतो न विज्ञप्त्या येनार्यपुद्गलेन जन्मान्तरपरिवृत्तौ न तावद्विज्ञप्तं वा पुनर्विहीनम् ।
[211।20-211।21]
उक्तं संवरासंवरमध्यस्थानां विज्ञप्त्यविज्ञप्तिसमन्वागमनव्यवस्थानम् ।
[211।22]
अथैते संवराः कथं लभ्यन्ते ।
[211।23]
ध्यानजो ध्यनभूम्यैव लभ्यते
[211।24-211।25]
यदा ध्यानभूमिकं चित्तं प्रतिलभ्यते मौलीयं सामन्तकीयं वा सास्रवं तदा ध्यानसंवरो ऽपि सहभूतत्वात् ।
[211।26]
अनास्रवस्तया ।
[211।27]
आर्यया
[211।28]
तयैव ध्यानभूम्या ऽनास्रवया लभ्यमानया ऽनास्रवः संवरो लभ्यते ।
[211।28-211।30]
तत्र षट् ध्यानभूमयो ऽनास्रवा भवन्ति चत्वारि ध्यानानि अनागम्यस्यानन्तरं चेति पश्चात्प्रवेदयिष्यामः ।
[212।01]
प्रातिमोक्षाख्यः परविज्ञपनादिभिः
[212।02]
प्रातिमोक्षसंवरस्तु परविज्ञप्तितो लभ्यते ।
यद्येनं परो विज्ञपयति असौ च परम् ।
[212।03]
स पुनः संघाद्वा पुद्गलाद्वा ।
संधाद्भीक्षुभिक्षुणीशिक्षमाणासंवराः पुद्गलाद्दन्ये ।
[212।04]
दशविधा उपसंपदिति विनयविभाषिकाः ।
तस्य ऊपसंग्रहणार्थमादिशब्दः ।
[212।04-212।09]
स्वयंभूत्वेन बुद्धानां प्रत्येकबुद्धानां च नियामावक्रान्त्या पञ्चकानाम् एहिभिक्षुकया यशःप्रभृतीनाम् शास्तुरभ्युपगमान्महाकाश्यपस्य प्रश्नाराधनेन सोदायिनः गुरुधर्माभ्युपगमेन महाप्रजापत्याः दूतेन धर्मदिन्नायाः विनयद्धरपञ्चमेन प्रत्यन्तिमेषु जनपदेषु दशवर्गेण मध्येषु जनपदेषु शरणगमनं त्रैवाचिकेन षष्टिभद्रवर्गपूगोपसंपादितानामिति तेषां नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवरः ।
[212।09-212।10]
स पुनरेष प्रातिमोक्षासंवरः समादीयमानः कियन्तं कालं समादातव्यः ।
[212।11]
यावज्जीवं समादानमहोरात्रं च संवृतेः ।
[212।12-212।13]
सप्तनैकायिकस्य प्रातिमोक्षसंवरस्य यावज्जीवं समादानम् उपवाससंवरस्याहोरात्रमित्येष नियमः ।
[212।13]
किं कारणम् ।
द्वौ हि कालपर्यन्तौ ।
[212।13-212।14]
अहोरात्रपर्यन्तो जीवितपर्यन्तश्च ।
[212।14]
अहारोत्राणां पौनरुक्त्येन पक्षादयः ।
कालो नाम क एष धर्मः ।
[212।15]
संस्कारपरिदीपनाधिवचनमेतत् ।
आलोकावस्था हि द्वीपेषु दिवस इत्युच्यते ।
[212।16]
तमो ऽवस्था रात्रिः ।
युक्तं तावज्जीवितादूर्ध्वं सत्यपि समादाने संवरस्यानुत्पत्तिः ।
[212।17]
विसभागत्वादाश्रयस्य तेन च तत्राप्रयोगादस्मरणाच्च ।
[212।17-212।19]
अथाहोरात्रादूर्ध्वं पञ्चरात्रं दशरात्रं वा उपवाससमादानस्य कः प्रतिबन्धो बहूनामुपवाससंवराणामुत्पत्तौ ।
[212।19-212।20]
इत्थमस्ति प्रतिबन्धो यद्भगवानहोरात्रिकमेवोपवासं सूत्रे शास्तिस्म ।
[212।20]
इदमिदानीं संप्रधार्यम् ।
[212।20-212।22]
किं तावदहोरात्रादूर्ध्वं संवरस्यानुत्पर्त्ति पश्यता तथागतेनाहोरात्रिक उपवासो देशित उताहो दुर्बलेन्द्रियाणामहोरात्रके ऽपि संवरसमादानेन संनियोजनार्थमिति ।
[212।22]
कुतस्त्वेतदेवं तर्क्यते ।
[212।22-212।23]
अहोरात्रात् परेणापि संवरोत्पत्तौ युक्त्यविरोधात् ।
[212।23-212।24]
तदेतत्कस्यचिदप्यहोरात्रादूर्ध्वमदेशनां नेच्छन्ति वैभाषिकाः ।
[212।24]
असंवरस्येदानीं कः कालनियमः ।
[212।25]
नासंवरो ऽस्त्यहोरात्रं
[212।26]
यावज्जीवं पापकर्माभ्युपगमादसंवर उपजायते नाहोरात्रं यथोपवासः ।
किं कारणम् ।
[213।01]
न किलैवं प्रगृह्यते
[213।02-213।03]
न किल कश्चिदेवमसंवरं समादत्ते यथोपवासं कच्चिदहमहोरात्रमसंवृतः स्यामिति ।
[213।03]
कुत्सितत्वात्कर्मणः ।
[213।03-213।04]
एवं चैव न कश्चिदादत्ते कच्चिदहं यावजीवमसंवृतः स्यामिति ।
[213।04]
यावज्जीवमप्यस्य लाभो न स्यात् ।
[213।04-213।06]
यद्यपि नैवमादत्ते तथाप्यत्यन्तविपन्नेनाशयेन तां क्रियां प्रकुर्वन्नसंवरं प्रतिलभते न कालान्तरविपन्नेन ।
[213।06]
उपवाससंवरस्तु समादानबलाधानादनात्यन्तिके ऽप्याशये लभ्यत एव ।
[213।07]
संवरार्थित्वात् ।
[213।07-213।08]
यदि पुनः कश्चिदसंवरेणाप्यर्थी कालान्तरमसंवरं समाददीत सो ऽवश्यं लभेत ।
[213।08]
न त्वेददृष्टमिति नैवं व्यवस्थाप्यते ।
[213।09]
अविज्ञप्तिवदसंवरो ऽपि नास्ति द्रव्यत इति सौत्रान्तिकाः ।
[213।09-213।10]
स एव तु पापक्रियाभिसंधिरसंवरः ।
[213।10]
सानुबन्धो यतः कुशलचित्तो ऽपि तद्वानुच्यते ।
[213।10-213।11]
तस्यानिराकृतत्वात् ।
[213।12]
अथाहोरात्रं गृह्यमाण उपवासः कथं ग्रहीतव्यः ।
[213।13-213।14]
काल्यं ग्राह्यो ऽन्यतो नीचैः स्थितेनोक्तानुवादिता ।
उपवासः समग्राङ्गो निर्भुषेणानिशाक्षयात्
[213।15]
काल्यं तावत्सूर्योदयकाले अहोरात्रिकत्वात्संवरस्य ।
[213।15-213।16]
यस्तु पूर्वकृतसमादानो नित्यमष्टभ्यामुपचेष्यामीति स भुक्त्वापि गृह्णीयात् ।
[213।16-213।17]
अन्यतश्च ग्रहीतव्यो न स्वयमेवापरापेक्षया सत्स्वपि प्रत्ययेष्वनतिक्रमार्थम् ।
[213।17-213।18]
नीचैः स्थितेनोत्कुट्टकेन वा जानुपातेन वा कपोतकमञ्जलिं कृत्वा ऽन्यत्र स्थास्यात् ।
[213।18-213।19]
अगौरवस्य हि संवरो नोत्पद्यते ।
[213।19]
दातुश्च वचनमनुब्रुवीत ।
न पूर्वं न युगपत् ।
[213।19-213।20]
एवं ह्यसौ परस्मात् गृहीतो भवति ।
[213।20]
अन्यथा हि दानग्रहणं न सिध्येत् ।
[213।20-213।21]
समग्राङ्गश्चाष्टाङ्ग एव ग्रहीतव्यो न विकलाङ्गः ।
[213।21]
निर्भूषेण च ।
आजस्रिकमभ्यलङ्कारं मुक्त्वा ।
[213।22]
आजस्रिको ह्यलङ्कारो नात्यर्थं मदमादधाति ।
[213।22-213।23]
आरात्रिपरिक्षयाच्च ग्रहीतव्यो यावत् पुनः सूर्योदयात् ।
[213।23-213।24]
अतो ऽन्यथा गृह्णतः सुचरितमात्रं स्यान्नतूपवाससंवरः ।
[213।24-213।25]
एवं च कृत्वा औरभ्रिकपारदारिकयो रात्रिदिवसोपवासकयोः साफल्यं प्रयुज्यते ।
[213।25]
अर्हतां समीपे वसन्त्यनेनेत्युपवासस्तेषामनुशिक्षणात् ।
[213।25-213।26]
यावज्जीविकसंवरसमीपे वसन्त्यनेने त्यपरे ।
[213।26-213।27]
अल्पकुशलमूलानां कुशलमूलपोषणात् पोषध इति वा ।
[214।01-214।02]
"पोषं दधाति मनसः कुशलस्य यस्मादुक्तस्ततो भगवता किल पोषधो ऽयमि"ति ।
[214।03]
किमर्थं पुनरष्टाङ्गन्युपादीयन्ते ।
यस्मात्
[214।04]
शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् ।
[214।05]
चत्वार्येकं तथा त्रीणि
[214।06]
चत्वारि तावच्छीलाङ्गानि यावन्मृषावादविरतिः ।
प्रकृतिसावद्यविरतित्वात् ।
[214।07]
एकमप्रमादाङ्ग मद्यपानाद्विरतिः ।
समात्तशीलो ऽपि मद्यपः प्रमाद्येत ।
[214।07-214।08]
त्रीणि वृताङ्गानि यावदकालभोजनाद्विरतिः ।
[214।08]
संवेगानुगुणत्वात् ।
[214।08-214।09]
किं पुनरेभिरप्रमादाङ्गवृताङ्गैरनुपात्तैः स्यात् ।
[214।10]
स्मृतिनाशो मदश्च तैः
[214।11]
मद्यं हि पिवतः कार्या कार्यस्मृतिरेव नश्येत् ।
[214।11-214।12]
उच्चशयनमहाशयननृत्तगीतादिकं प्रतिसेवमानस्य मदः संभवेत् ।
[214।12]
मत्तस्य च दौःशील्यमदूरं भवेत् ।
[214।12-214।14]
काले पुनर्भुञ्जानस्योचितभक्तकालपरिहारादुपवासस्मृतिः संवेगश्चोपतिष्ठेत् ।
[214।14]
तदभावादुभयं न स्यादिति ।
[214।14-214।15]
केचित्तु खल्वकालभोजनात् प्रतिविरतिमेवोपवासं मन्यन्ते ।
[214।15]
तस्य शेषाण्यष्टाङ्गानीति ।
[214।15-214।16]
नृत्यगोतवादित्रं गन्धमाल्यविलेपनं च द्वयं कृत्वा ।
[214।16]
एवं तु सति सूत्रपाठो न युज्येत ।
[214।16-214।18]
अकालभोजनाद्विरति मुक्त्वा "अनेनाहमष्टमाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे अनुविधीय" इति ।
[214।18]
कस्तर्हि सो ऽन्य उपवासो यस्येमान्यङ्गानि ।
समुदायस्यावयवा अङ्गानि ।
[214।19-214।20]
यथा स्थस्याङ्गानि चतुरङ्गो बलकायः पञ्चाङ्गं तूर्यं तथा ऽष्टाङ्ग उपवासो द्रष्टव्यः ।
[214।20-214।21]
अकालभोजनात् प्रतिविरतिरूपवास उपवासाङ्गं च यथा सम्यग्दृष्टिर्मार्गो मार्गाङ्गं च ।
[214।21-214।22]
धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं समाधिर्ध्यानं ध्यानाङ्गं चेति वैभाषिकाः ।
[214।22-214।23]
नतु तेषामेव सम्यग्दृष्ट्यादीनां त एवाङ्गत्वाय कल्पन्त इति ।
[214।23-214।24]
पूर्वकाः सम्यग्दृष्ट्यादय उत्तरेषामङ्गं यदि स्युः प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टाङ्गः स्यात् ।
[214।25]
किं खल्वयमुपवासकस्यैवोपवास आहोस्विदन्यस्यापि ।
[214।26]
अन्यस्याप्युपवासो ऽस्ति शरणं त्वगतस्य न ।
[214।27-215।01]
अनुपवासको ऽपि यस्तमहोरात्रं बुद्धधर्मसंघान् शरणं गत्वोपवासं गृह्णाति तस्योत्पद्यते उपवाससंवरो नान्यथा ।
[215।01]
अन्यत्राज्ञानात् ।
[215।01-215।04]
सूत्र उक्तं "यतश्च महानामन् गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति वाचं च भाषते उपवासकं च मां धरय ।
[215।04]
इयता उपावासको भवती"ति ।
तत् किं शरणगमनादेवोपवासको भवति ।
[215।05]
भवतीति बहिर्देशकाः ।
न विना संवरेणेति काश्मीराः ।
यत्तर्हि सूत्र उक्तम् ।
[215।06]
नास्त्यत्र विरोधः ।
यस्मादस्योत्पद्यते तत एव
[215।07]
उपासकत्वोपगमात्संवृत्
[215।08]
उपासकत्वाभ्युपगमादेवास्योपासकसंवरो जायते ।
[215।08-215।09]
"यदेवाभ्युपगच्छत्युपासकं मां धारयेत्याद्यग्रेण यावज्जीवं प्राणापेतमि"ति ।
[215।09-215।10]
प्राणातिपाताद्यपेतमित्यर्थो मध्यपदलोपात् ।
[215।10]
लघुसंवरस्यापि व्युत्पादनार्थं शिक्षापदानाम्
[215।11]
उक्तिस्तु भिक्षुवत्
[215।12-215।13]
यथैवं भिक्षुर्लब्धसंवरो ऽपि पुनः शिक्षापदानि ग्राह्यते श्रामणेरश्च व्युत्पादनार्थमित श्चामुतश्च ते संवर इति तथोपवासको ऽपि न तु विना संवरेणोपासको ऽस्ति ।
[215।14]
सर्वे चेत् संवृता एकदेशकार्यादयः कथम् ।
[215।15-215।16]
यदि सर्व एवोपासका उपासकसंवरस्थाः कथं भगवता एकदेशकारी प्रदेशकारी यद्भूयःकारी पूरिपूर्णकारी चोपासक उक्तः ।
[215।17]
तत्पालनात् किल प्रोक्ताः
[215।18]
यो हि यच्छिक्षापदं पालयति स तत्कारीत्युक्तः ।
सर्वे तु समं संवरस्थाः ।
[215।19]
इदमुत्सूत्रं वर्तते ।
किमत्रोत्सूत्रम् ।
[215।19-215।20]
उपासकत्वाभ्युपगमादेव संवरलाभो यस्मात् प्राणतिपातमित्याहेति ।
[215।20]
न ह्येवं सूत्रपाठः उक्तो यथा महानामसूत्रे पाठः ।
[215।21]
तत्रैव चोपासकलक्षणोपदेशो नान्यत्र ।
[215।21-215।22]
यत्र त्वेष पाठो "यावज्जीवं प्राणापेतं शरणगतमभिप्रसन्नमि"ति ।
[215।22-215।23]
तत्र ते दृष्टसत्या "अवेत्यप्रसादान्वयं प्राणैरपि सद्धर्मोपगमनं दर्शयन्ति स्म ।
[215।23]
जीवितहेतो रप्यभव्या वयमेनं धर्मं परित्यक्तु"मिति ।
[215।23-215।24]
न त्वेष लक्षणोपदेशः संवरस्य ।
[215।24]
प्राणापेतं तु न क्वचित् पठ्यते ।
[215।24-216।01]
कश्चैतदपरिस्फुटार्थं पठेत् ।
[216।01]
एकदेशकार्यादींस्तु खण्डितशिक्षानधिकृत्य प्रश्न एव न युज्यते ।
[216।02]
कुतो विसर्जनमावेणिकधर्माणाम् ।
[216।02-216।03]
को ह्यपासकसंवरं जानन् एतन्न ज्ञास्यते यो हि यच्छिक्षापदं न खण्डयति स तत्कारी भवतीति ।
[216।03-216।04]
उपासकसंवरस्य तु परिमाणानभिज्ञांस्तन्मात्रशिक्षाक्षमान् प्रत्येष प्रश्नो युज्यते ।
[216।04-216।05]
"कियता भदन्तोपासक एकदेशकारी भवति यावत् परिपूर्णकारी भवति ।"
[216।05-216।06]
यदि तर्हि विना संवरेणोपासकः स्याद्विकलेन वा भिक्षुश्रामणेरावपि स्याताम् ।
[216।06-216।07]
कथं तावदेषामुपासकसंवरादीनामङ्गप्रतिनियमो भवति ।
[216।07]
शास्तृप्रज्ञप्तिवशात् ।
[216।08]
उपासकत्वादिप्रतिनियमो ऽपि शास्तृप्रज्ञप्तिवशादिष्यताम् ।
[216।08-216।09]
विनापि हि संवरेणोपासकः प्रज्ञप्तितो न तु भिक्षुश्रामणेराविति ते त्वेतन्नेच्छन्ति काश्मीराः ।
[216।09-216।10]
सर्वेषां तु संवराणाम् ।
[216।11]
मृद्वादित्वं यथा मनः
[216।12]
मृदुमध्याधिमात्रत्वं ससंतानचित्तवशात् ।
[216।12-216।13]
एवं च कृत्वा ऽर्हतो ऽपि मृदुः प्रातिमोक्षसंवरः स्यात् पृथग्जनस्याधिमात्रः ।
[216।13-216।14]
किं पुनः संवरग्रहणादेवोपासकः स्याद्विना शरणगमनैः ।
[216।14]
न स्यादन्यत्राज्ञानात् ।
[216।15]
यो बुद्धधर्मसंघाञ्छरणं गच्छति किमसौ शरणं गच्छति ।
[216।16-216।17]
बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः ।
निर्वाणं चेति शरणं यो याति शारणत्रयम्
[216।18-216।20]
यो बुद्धं शरणं गच्छति अशैक्षानसौ बुधकरकान्धर्माञ्छरणं गच्छति येषां प्राधान्येन स आत्मभावो बुधा इत्युच्यते येषां वा लाभेन सर्वावबोधसामर्थ्याद्बुद्धो भवति ।
[216।20]
के पुनस्ते ।
क्षयज्ञानादयः सपरिवाराः ।
[216।20-216।21]
रूपकायस्य पूर्वं पश्चाच्चाविशेषात् ।
[216।21]
किं सर्वबुद्धानथैकम् ।
लक्षणतः सर्वबुधान् ।
[216।21-216।22]
मार्गस्याविलक्षाणत्वात् ।
[216।22-216।23]
यः संघं शरणं गच्छति शैक्षाशैक्षानसौसंघकरकान्हर्मान् गच्छति येषां लाभेनाष्टौ पुद्गलाः संघीभवन्ति ।
[216।23]
अभेदत्वात् ।
[216।24]
किं सर्वसंघानथैकम् ।
लक्षणतः सर्वसंघान्मार्गस्याविलक्षणत्वात् ।
[216।24-216।26]
यत्तु सूत्र उक्तं "यो ऽप्यसौ भविष्यत्यनागते ऽध्वनि संघो नाम तमपि शरणं गच्छतमि "ति ।
[216।26]
तत्प्रत्यक्षभाविनः संवरत्वस्योद्भावनार्थम् ।
[216।26-216।27]
यो धर्मं शरणं गच्छति असौ निर्वाणं शरणं गच्छति प्रतिसंख्यानिरोधम् ।
[216।27-216।28]
स्वपरसंतानक्लेल्शानां दुःखस्य च शान्त्येकलक्षणात्वात् ।
[216।28-216।29]
यद्यशैक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुक्ष्टचित्तरुधिरोत्पादनादानन्तर्यं भवति ।
[216।29-217।01]
आश्रयविपादनात्ते ऽपि विपादिता भवन्तीति वैभाषिकाः ।
[217।01]
शास्त्रं तु नैवं वाचकमशैक्षा धर्मा एव बुद्ध इति ।
[217।01-217।02]
किं तर्हि ।
[217।02]
बुद्धकरका इति ।
अत आश्रयस्य बुद्धत्वाप्रतिषेधादचोद्यमेवैतत् ।
[217।02-217।03]
अन्यथा हि लौकिकचित्तस्थो न बुद्धः स्यान्न संघः शीलमेव च भिक्षुकरकं भिक्षुः स्यात् ।
[217।04]
यथा तु यो भिक्षून् पूजयति भिक्षुकरकमसौ शीलं पूजयति ।
[217।04-217।05]
एवं यो बुद्धं शरणं गच्छत्यशैक्षानसौ बुद्धकरकान्धर्मान् शरणं गच्छति ।
[217।05-217।06]
यो बुद्धं शरणं गच्छति सो ऽष्टादशावेणिकान्बुद्धर्मानित्यपरे ।
[217।06-217।07]
किंस्वभावानि शरणगमनानि ।
[217।07]
वाग्विज्ञप्तिस्वभावानि ।
कः पुनः शरणार्थः ।
[217।07-217।08]
त्राणार्थः शरणार्थः ।
[217।08]
तदाश्रयेण सर्वदुःखात्यन्तनिर्मोक्षात् ।
उक्तं हि भगवता
[217।09-217।10]
"बहवः शरणं यान्ति पर्वतांश्च वनानि च
आरामान्वृक्षांश्चैत्यांश्च मनुष्या भयवर्जिताः ॥
[217।11-217।12]
न त्वेतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् ।
नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥
[217।13-217।14]
यस्तु बुद्धं च धर्मं च संघं च शरणं गतः ।
चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा ॥
[217।15-217।16]
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् ।
आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् ॥
[217।17-217।18]
एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् ।
एतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते ॥"इति ।
[217।19]
एत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि ।
[217।20-217।21]
किं पुनः कारणमन्येषु संवरेष्वब्रह्मचर्याद्विरतिः शिक्षापदं व्यवस्थापितम् उपासकस्य तु काममिथ्याचारात् ।
[217।22]
मिथ्याचारातिगर्ह्यत्वात्सौकर्यादक्रियाप्तितः ।
[217।23]
काममिथ्याचारो हि लोके ऽत्यन्तं गर्हितः ।
परेषां दारोपघातादापायिकत्वाच्च ।
[217।24]
न तथा ऽब्रह्मचर्यम् ।
[217।24-217।25]
सुकरा च काममिथ्याचाराद्विरतिर्गृहानध्यावसतां दुष्करात्वब्रह्मचर्यादिति दुष्करं कर्त्तुं नोत्सहेरन् ।
[217।25-217।26]
आर्याश्चाकरणसंवरं काममिथ्याचारात् प्रतिलभन्ते ।
[217।26-218।01]
जन्मान्तरेष्वप्यनध्याचरणान्नत्वब्रह्मच्र्यादित्युपासकस्यापि तस्मादेव विरतिः शिक्षापदं व्यवस्थापितं मा भूत् परिवृत्तजन्मान्तरः शैक्ष उपासकसंवराङ्गेष्वसंवृत इति ।
[218।01-218।02]
अक्रियानियमो ह्यकरणसंवरः ।
[218।02-218।03]
य उपासकाः सन्तो भार्याः परिणयन्ति किं तैस्ताभ्यो ऽपि संवरः प्रतिलब्धो ऽथ न ।
[218।03]
प्रतिलब्धो मा भूत् प्रादेशिकसंवरलाभ इति ।
[218।03-218।04]
कथं संवरक्षोभो न भवति ।
[218।04]
यस्मात्
[218।05]
यथाभ्युपगमं लाभः संवरस्य न संततेः
[218।06]
यथा ह्येषामभ्युपगमस्तथा संवरलाभः ।
कथं चैषामभ्युपगमः ।
[218।06-218।07]
काममिथ्याचाराद्विरमामीति ।
[218।07-218।08]
न त्वत्र संताने मया ब्रह्मचर्यं न कर्तव्यमित्यत एवैषां तदधिष्ठात्काममिथ्याचाराङ्गादेव संवरलाभो नाब्रह्मचर्यादिति नास्ति भार्यीभूतायां संवरक्षोभः ।
[218।09-218।10]
अथ कस्मात् मृषावादाद् विरतिरेवोपासकसंवरशिक्षापदं न पैशुन्यादिविरतिः ।
[218।10]
एभिरेव च त्रिभिः कारणैः ।
[218।11]
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0