अभिधर्मकोशभाष्य · भाग 321340
अकस्मिको हि भावानां विनाशः ।
किं कारणम् ।
कार्यस्य हि कारणं भवति ।
[193।08]
वनाशश्चाभावः ।
यश्चाभावस्तस्य किं कर्तव्यम् ।
[193।08-193।09]
सो ऽसावाकस्मिकोक् विनाशो यदि भावस्योत्पन्नमात्रस्य न स्यात् पश्चादपि न स्याद्भावस्य तुल्यत्वात् ।
[193।09-193।10]
तथान्यथीभूतः ।
[193।10]
न युक्तं तस्यैव ।
न्यथात्वम् ।
न हि स एव तस्माद्विलक्षणो युज्यते ।
[193।10-193।11]
दृष्टो वै काष्ठादीनामग्न्यादिसंयोगाद्विनाशः ।
[193।11-193।12]
न च दृष्टाद्गरिष्ठं प्रमाणमस्तीति ।
[193।12-193।13]
न च सर्वस्याकस्मिको विनाशः कथं तावत् भवान् काष्ठादीनामग्न्यादिसंयोगाद्विनाशं पश्यामीति मन्यते ।
[193।13]
तेषां पुनरदर्शनात् ।
[193।13-193।14]
संप्रधार्यं तावदेतत् ।
[193।14-193।15]
किमग्निसंयोगात्काष्ठादयो विनष्टा अतो न दृश्यन्ते उताहो स्वयं विनष्टा अन्ये च पुनर्नोत्पन्ना अतो न दृश्यन्ते ।
[193।15-193।16]
यथा वायुसंयोगात्प्रदीपः पाणिसंयोगाद्घण्टाशब्द इति ।
[193।16]
तस्मादनुमानसाध्यो ऽयमर्थः ।
किं पुनरत्रानुमानम् ।
[193।16-193।17]
उक्तं तावत् अकार्यत्वादभावस्येति ।
[193।17]
पुनः
[193।18]
न कस्यचिदहेतोः स्यात्
[193।19]
यदि विनाशो हेतुसामान्यान्न कस्यचिदहेतुकः स्यादुत्पादवत् ।
[193।19-193।20]
क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाश इति नायं हेतुमपेक्षते ।
[193।20-193।21]
यस्तु मन्यते बुद्ध्यन्तराद्बुद्धेर्विनाशः शब्दान्तराच्छब्दस्येति ।
[193।21]
तदयुक्तम् ।
बुद्ध्योरसमवधानात् ।
[193।21-193।22]
न हि शंसयनिश्चयज्ञानयोर्युक्तं समवधानं सुखदुःखयो रागद्वेषयोर्वा ।
[193।22-193।24]
यदा च पटुबुद्धिशब्दानन्तरमपटुबुद्धिशब्दावुत्पद्येते तदा कथमपटुः समानजातीयो धर्मः पटीयांसं हिंस्यात् ।
[193।24-193।25]
अन्त्ययोश्च कथं यो ऽप्यर्चिषामवस्थानहेत्वभावाद्धर्माधर्मवशाद्वा विनाशं मन्यते तदप्ययुक्तम् ।
[193।25]
न ह्यभावः कारणं भवितुमर्हति ।
[193।25-193।26]
न चाप्युत्पादविनाशहेत्वोर्धर्मार्धर्मयोः क्षणे क्षणे वृत्तिलाभप्रतिबन्धौ भवितुमर्हतः ।
[193।27]
सक्यष्चैष कारण परिकल्पः सर्वत्र सम्स्कृते कर्तुमित्यलं विवादेन ।
[194।01-194।02]
यदि च काष्ठादीनामग्न्यादिसंयोगहेतुको विनाशः स्यादेवं सति पाकजानां गुणानां पक्वतरतमोत्पत्तौ
[194।03]
हेतुः स्याच्च विनाशकः ।
[194।04]
हेतुरेव च विनाशकः स्यात् ।
कथं कृत्वा ।
[194।04-194।06]
घासाद्यग्निसंबन्धा गुणाः पाकजा उत्पन्नास्तत एव तादृशाद्वा पुनः पक्वतरतमोत्पत्तौ तेषां विनाश इति हेतुरेव तेषां विनाशकः स्याद्धेत्वविशिष्टो वा ।
[194।06-194।07]
न च युक्तं यत एव तादृशाद्द्वा तेषां भावस्तत एव तादृशाच्च तेषां पुनरभाव इति ।
[194।07-194।08]
ज्वालान्तरेषु तावद्धेतुभेदकल्पनां परिकल्पेयुः ।
[194।08-194।09]
क्षरहिमशुक्तसूर्योदकभूमिसंबन्धात्तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः ।
[194।09-194।10]
यत्तर्ह्यापः क्वाथ्यमानाः क्षीयन्ते किं तत्राग्निसंयोगाः कुर्वन्ति ।
[194।10-194।11]
तेजोधातुं प्रभावतो वर्धयन्ति यस्य प्राभावादपां संघातः क्षामक्षामो जायते यावदतिक्षामतां गतो ऽन्ते न पुनः संतानं संतनोति ।
[194।11-194।12]
इदमत्राग्निसंयोगाः कुर्वन्ति ।
[194।12-194।14]
तस्मान्नास्ति भावानां विनाशहेतुः स्वयमेव तु भङ्गुरत्वाद्विनश्यन्त उत्पन्नमात्रा विनश्यन्तीति सिद्ध एषां क्षणभङ्गः क्षणभङ्गाच्च गत्यभावः ।
[194।14]
गत्यभिमानस्तु देशान्तरेषु निरन्तरोत्पत्तौ तृणज्वालावत् ।
[194।15]
गत्यभावे च "संस्थानं कायविज्ञप्ति"रिति सिद्धम् ।
[194।15-194।16]
नास्ति संस्थानं द्रव्यत इति सौत्रान्तिकाः ।
[194।16]
एकदिङ्मुखे हि भूयसि वर्ण उत्पन्ने दीर्घं रूपमिति प्रज्ञप्यते ।
[194।16-194।17]
तमेवापेक्ष्याल्पीयसि ह्रस्वमिति ।
[194।17]
चतुर्दिशं भूयसि चतुरस्रमिति ।
[194।17-194।27]
सर्वत्र समे वृत्तमिति ।
[194।18]
एवं सर्वम् ।
[194।18-194।19]
तद्यथा ऽलातमेकस्यां दिशि देशान्तरेष्वनन्तरेषु निरन्तरमाशु दृश्यमानं दीर्घमिति प्रतीयते सर्वतो दृश्यमानं मण्डलमिति ।
[194।19-194।20]
न तु खलु जात्यन्तरमस्ति संस्थानम् ।
[194।20]
यदि हि स्यात्
[194।21]
द्विग्राह्यं स्यात्
[194।22-194।23]
चक्षुषा हि दृष्ट्वा दीर्घमित्यवसीयते कायेन्द्रियेणापि स्पृष्ट्वेति द्वाभ्यामस्य ग्रहणं प्राप्नुयात् ।
[194।23]
न च रूपायतनस्य द्वाभ्यां ग्रहणमस्ति ।
[194।23-194।24]
यथा वा स्प्रष्टव्ये दीर्घादिग्रहणं तथा वर्णे संभाव्यताम् ।
[194।24]
स्मृतिमात्रं तत्र स्प्रष्टव्यसाहचर्यात् भवति ।
[194।24-194।25]
स तु साहचर्यात् भवति न तु साक्षात् ग्रहणम् ।
[194।25-194।26]
यथा ऽग्निरूपं दृष्ट्वा तस्योष्णतायां स्मृतिर्भवति पुष्पगन्धं च घ्रात्वा तद्वर्ण इति ।
[194।26-195।01]
युक्तमत्राव्यभिचारत्वादन्येनान्यस्य स्मरणं नतु किञ्चित् स्प्रष्टव्यं क्वचित् संस्थाने नियतं यतस्तत्र स्मरणं नियमेन स्यात् ।
[195।01-195।02]
अथासत्यपि साहचर्यनियमे संस्थानस्मरणं नियमेन स्यात् ।
[195।02]
वर्णे ऽपि स्यात् वर्णवद्धा संस्थाने ऽप्यनियमेन स्यात् ।
[195।02-195।03]
नचैवं भवति ।
[195।03]
अयुक्तमस्य स्प्रष्टव्यात्स्मरणं ।
[195।03-195।04]
चित्रास्तरणेवा ऽनेकवर्णसंस्थाने दर्शनाद्बहूनामैकदेश्यं प्राप्नुयात् ।
[195।04]
तच्चायीउक्तं वर्णवत् ।
[195।04-195।05]
तस्मान्नास्ति द्रव्यतः संस्थानम् ।
[194।06]
यच्चापि किञ्चित् सप्रतिघं रूपमस्ति तदवश्यं परमाणौ विद्यते ।
[195।07]
न चाणौ तत्
[195।08]
न च संस्थानं परमाणौ विद्यते दीर्घादि ।
[195।08-195।09]
तस्माद्बहुष्वेव तथा संनिविष्टेषु दीर्घादिप्रज्ञप्तिः ।
[195।09-195।10]
अथ मत्तं संस्थानपरमाणव एव तथा संनिविष्टा दीर्घादिसंज्ञां लभन्त इति ।
[195।10]
सो ऽयं केवलः पक्षपातस्तेषामसिद्धत्वात् ।
[195।10-195।11]
सिद्धस्वलक्षाणानां हि तेषां संचयो युज्यते ।
[195।11]
न च संस्थानावयवानां वर्णादिवत् स्वभावः सिद्ध इति कुत एषां संचयः ।
[195।12]
यत्तर्हि वर्णश्चाभिन्नो भवति संस्थानं च भिन्नं दृश्यते मृद्भाजनानाम् ।
[195।12-195।14]
ननु चोक्तं यथा कृत्वा वर्णे दीर्घादिसंज्ञा प्रज्ञप्यते तथा च पिपीलिकादीनामभेदे पङ्क्तिचक्रादीनां भेदः प्रज्ञायते तथा संस्थानस्यापि ।
[195।14-195।16]
यत्तर्हि तमपि दूराद्वा वर्णमपश्यन्तः स्थाण्वादीनां दैर्घ्यादीनि पश्यन्ति वर्णमेव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति ।
[195।16]
पङ्क्तिसेनापरिकल्पवत् ।
इत्थं चैतदेवम् ।
[195।17]
यत्कदाचिदनिर्धार्यमाणपरिच्छेदं संघातमात्रमव्यक्तं दृश्यते किमप्येतदिति ।
[195।18-195।19]
अथेदानीं कायस्य गतिं निराकृट्य सम्स्थानं च तत्र भवन्तः सौत्रान्तिकाः कां कायविज्ञर्प्तिं प्रज्ञपयन्ति ।
[195।19]
संस्थानमेव हि ते कायविज्ञर्प्ति प्रज्ञपयन्ति ।
नतु पुनर्द्रव्यतः ।
[195।20]
तां च प्रज्ञपयन्तः कथं कायकर्म प्रज्ञपयन्ति ।
[195।20-195।21]
कायाधिष्ठानं कर्म कायकर्म या चेतना कायस्य तत्र तत्र प्रणेत्री ।
[195।21]
एवं वाङ्मनस्कर्मणी अपि यथायोगं वेदितव्ये ।
[195।22-195।23]
यत्तर्हि "चेतना कर्म चेतयित्वा चे"त्युक्तं संकल्पचेतना पूर्वं भवत्येवं संकल्पचेतना पूर्वं भवत्येवं चैवं च करिष्यामीति ।
[195।23]
तथा चेतयित्वा पश्चात् क्रिया चेतनोत्पद्यते ।
[195।23-195।24]
यया कायः प्रेर्यते सा ऽसौ चेतयित्वा कर्मेत्युच्यते ।
[195।24-195।25]
एवं तर्हि विज्ञप्त्यभावादविज्ञप्तिरपि कामावचरी नास्तीति महान्तो दोषा अनुषज्यन्ते ।
[195।25-195।26]
अनुषङ्गानां पुनः प्रत्यनुषङ्गा भविष्यन्ति ।
[195।26-195।27]
यदि तस्मादेव कायकर्मसंशब्दिताच्चेतनाविशेषादविज्ञप्तिः स्यात् ।
[195।27-195।28]
चित्तानुपरिवर्तिनी स्यात्समाहितविज्ञप्तिवत् नै वं भविष्यति ।
[195।28]
चेतनाविशेषेण तदाक्ष्पविशेषात् ।
[195।28-196।01]
सा ऽपि च विज्ञप्तिः सती तदाक्षेपे चेतनाया बलं निभालयते ।
[196।01]
जडत्वात् ।
[196।01-196।02]
द्रव्यमेव तु संस्थानं वैभाषिका वर्णयन्ति संस्थानात्मिकां तु कायविज्ञप्तिम् ।
[196।03]
वाग्विज्ञप्तिस्तु वाग्ध्वनिः
[196।04]
वाक्स्वभावो यः शब्दः सैव वाग्विज्ञप्तिः ।
अविज्ञप्तिः पूर्वमेवोक्ता ।
[196।04-196।05]
सा ऽपि द्रव्यतो नास्तीति सौत्रान्तिकाः ।
[196।05]
अभ्युपेत्याकरणमात्रत्वात् ।
[196।05-196।06]
अतीतान्यपि महाभूतान्युपादाय प्रज्ञप्तेस्तेषां चाविद्यमानस्वभावत्वाद्रूपलक्षणाभावाच्च ।
[196।06-196।07]
अस्तीति वैभांषिकाः ।
[196।07]
कथं ज्ञायते ।
[196।08]
त्रिविधामलरूपोक्तिवृद्ध्यकुर्वत्पथादिभिः ।
[196।09]
त्रिविधं रूपमुक्तं सूत्रे ।
"त्रिभिः स्थानै रूपस्य रूपसंग्रहो भवति ।
[196।09-196।10]
अस्ति रूपं सनिदर्शनं सप्रतिघम् ।
[196।10]
अस्ति रूपमनिदर्शनं सप्रतिघम् ।
[196।10-196।11]
अस्ति रूपमनिदर्शनमप्रतिघमि"ति ।
[196।11]
अनास्रवं च भगवता रूपमुक्तम् ।
"अनास्रवाः धर्माः कतमे ।
[196।12-196।13]
यस्मिन् रूपे ऽतीतानागतप्रत्युत्पन्नो नोत्पद्यते ऽनुनयो वा प्रतिघो वा यावद्यस्मिन्विज्ञाने ।
[196।13]
इम उच्यन्ते ऽनास्रवा धर्मा" इति ।
[196।13-196।14]
न चा विज्ञप्तिं विरहय्यास्ति रूपमनिदर्शनमप्रतिघं नाप्यना स्रवम् ।
[196।14]
वृद्धिरपि चोक्ता ।
[196।14-196।17]
"एभिः सप्तभिरौपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य कुलदुहितुर्वा चरतो वा स्वपतो वा तिष्ठतो वा जाग्रतो वा सततसमितमभिवर्धत एव पुण्यमुपजायत एव पुण्यम् ।
[196।17]
एवं निरौपधिकैरि"ति ॥
[196।17-196।18]
न चाविज्ञप्तिमन्तरेणान्यमनसो ऽप्ति पुण्यस्याभिवृद्धिर्युज्यते ।
[196।18-196।19]
अकुर्वतश्च स्वयं परैः कारयतः कर्मपथा न सिध्येयुरसत्यामविज्ञप्तौ ।
[196।19]
नह्याज्ञापनविज्ञप्तिः मौलः कर्मपथो युज्यते ।
[196।20]
तस्य कर्यणो ऽकृतत्वात् ।
कृते ऽपि च तस्याः स्वभावविशेषादिति ।
[196।20-196।22]
उक्तं च भगवता "धर्मा भिक्षवो बाह्यमायतनमेकादशभिरायतनैरसंगृहीतमनिदर्शनमप्रतिघमि"ति ।
[196।22]
न त्वरूपीत्युक्तम् ।
[196।22-196।23]
तत्र किं प्रयोजनं स्याद्यदि धर्मायतनान्तर्गतमविज्ञप्तिरूपं नश्येत ।
[196।23]
अष्टाङ्गश्च मार्गो न स्यादविज्ञप्तिमन्तरेण ।
[196।23-196।24]
समापन्नस्य सम्यग्वाक्कर्मान्ताजीवानामयोगात् ।
[196।24-196।26]
यत्तर्हीदमुक्तं "तस्यैवं जानत एवं पश्यतः सम्यग्दृष्टिर्भावनापरिपूरिं गच्छति सम्यक् संकल्पः सम्यक् व्यायामः सम्यक् स्मृतिः सम्यक् समाधिः ।
[196।26-196।27]
पूर्वमेव चास्य सम्यक् वावक्र्मान्ताजीवाः परिशुद्धा भवन्ति पर्यवदाता" इति ।
[196।27-196।28]
लौकिकमार्गवैराग्यं पूर्वकृतमभिसंधायैतदुक्तम् ।
[196।28-197।01]
प्रातिमोक्षसंवरश्चपि न स्यादसत्यामविज्ञप्तौ ।
[197।01-197।02]
न हि समादानादुर्ध्वं तदस्ति येनान्यमनस्को ऽप्ययं भिक्षुः स्यात् भिक्षुणी वेति ।
[197।02]
सेतुश्च सूत्रे विरक्तिरुक्ता ।
दौःशील्यविवन्धत्वात् ।
[197।02-197।03]
न वा भवन्ती सेतुर्भवितुमर्हतीत्यस्त्येवाविज्ञप्तिः ।
[197।03-197।04]
अत्र सौत्रान्तिका आहुः बह्वप्येतच्चित्रमप्येतत् ।
[197।04]
नैवं त्वेतत् ।
किं कारणम् ।
यत् तावदुक्तं "त्रिविधरूपोक्तेरि" ति ।
[197।04-197।05]
तत्र योगाचारा उपदिशन्ति ।
[197।05]
ध्यायिनां समाधिविषयो रूपं समाधिप्रभावादुत्पद्यते ।
[197।06]
चक्षुरिन्द्रियाविषयत्वात् अनिदर्शनम् ।
देशानावरणत्वादप्रतिघमिति ।
अथ मतम् ।
[197।07]
कथमिदानीं तत् रूपम् इति ।
एतदविज्ञप्तौ समानम् ।
[197।07-197।08]
यदप्युक्तमनास्रवरूपोक्तेरिति तद् एव समाधिप्रभावसंभूतं रूपमनास्रवे समाधावनास्रवं वर्णयन्ति योगाचाराः ।
[197।09]
अर्हतो यद्रूपं बाह्यं चेत्यपरे ।
आस्रवाणामनिश्रयत्वात् ।
[197।09-197।10]
यत्तर्हि सूत्र उक्तं "सास्रवा धर्माः कतमे ।
[197।10]
यावदेव चक्षुर्यवदेव रूपाणी"ति विस्तरः ।
[197।10-197।11]
तत्र पुनरास्रवाणामप्रतिपक्षत्वात्सास्रवमुक्तम् ।
[197।11]
पर्यायेण तर्हि तदेव सास्रवं चानास्रवं च स्यात् ।
किं स्यात् ।
[197।12]
लक्षणसंकरः स्यात् ।
[197।12-197।13]
यथा तत् सास्रवं तथा न कदाचिदनास्रवमिति को ऽत्र संकरः ।
[197।13-197।15]
यदि च रूपायतनादीनि एकान्तेन सास्रवाणि स्युरिह सूत्रे किमर्थ विशेषितानि स्यु"र्यानि रूपाणि सास्रवाणि सोपादानीयानि चेतःखिलम्रक्षवस्त्वि"ति विस्तरः ।
[197।15-197।19]
यदप्युक्तं "पुण्याभिवृद्धिवचनादिति तत्रापि पूर्वाचार्या निर्दिशन्ति "धर्मता ह्येषा यथा दातॄणां दायाः परिभुज्यन्ते तथा तथा भोक्तॄणां गुणविशेषादनुग्रहविशेषाच्चान्यमनसामपि दातॄणां तदालम्बनदानचेतना भाविताः संततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति येनायत्यां बहुतरफलाभिनिष्पत्तये समर्था भवन्ति ।"
[197।19-197।20]
"इदमभिसंधायोक्तं" भवेदभिवर्धत एव पुण्यमुपजायत एव पुण्यम् इति ।
[197।20-197।21]
अथ मतं कथमिदानीं संतानान्तरविशेषादन्यमनसो ऽपि संतानान्तरस्य परिणामः सेत्स्यतीति ।
[197।21]
एतदविज्ञप्तौ स्मानम् ।
[197।21-197।23]
कथमिदानीं संतानान्तरविशेषात्संतानान्तरे धर्मान्तरमविज्ञप्तिः सेत्स्यतीति निरूपधिकेष्विदानीं पुण्यक्रियावस्तुषु कथं भविष्यतीति ।
[197।23-197।24]
अभिक्ष्णं तदालम्बनचेतनाभ्यासात्स्वप्नेष्वपि ता अनुषङ्गिन्यो भवन्ति ।
[197।24-197।25]
अविज्ञप्तिवादिनस्तु निरौपधिके यत्र विज्ञप्तिर्नास्ति तत्र कथामविज्ञप्तिः स्यात् ।
[197।25-197।26]
औपधिके ऽप्यभीक्षणं तदालम्बनेचेतनाभ्यासादित्यपरे ।
[197।26-198।01]
यत्तर्हि सूत्र उक्तं "यस्योग्रभिक्षुः शीलवान् कल्याणधर्मा पिण्डकं परिभुज्याप्रमाणं चेतःसमार्धिं कायेन साक्षात्कृत्वोपसंपद्य विहरत्यप्रमाणस्तन्निदानदायकस्य दानपतेः पुण्याभिष्यन्दः कुशलाभिष्यन्दः सुखास्वादधारः प्रतिकाङ्क्षितव्य" इत्यत्र तदानीं दातुः कश्चेतनाविशेषः ।
[198।01-198।02]
तस्मात्संततिपरिणामविशेष एव न्याय्यः ।
[198।02-198।03]
यदप्युक्तं "कारयतः कथं कर्मपथाः सेत्स्यन्ती"ति तत्राप्येवं वर्णयन्ति ।
[198।03-198।05]
तत्प्रयोगेण परेषामुपघातविशेषात्प्रयोक्तुः सूक्ष्मः संततिपरिणाम विशेषो जायते यत आयत्यां समन्ते ऽपि बहुतरफलाभिनिर्वर्त्तनसमर्था भवतीति स्वयमपि च कुर्वतः क्रियाफलपरिसमाप्तावेष एव न्यायो वेदितव्यः ।
[198।05-198।06]
सो ऽसौ संततिपरिणामविशेषः कर्मपथ इत्याख्यायते ।
[198।06]
कार्ये कारणोपचारात् ।
[198।06-198।07]
कायिकवाचिकत्वं तु तत्क्रियाफलत्वाद्यथा विज्ञप्तिवादिनामविज्ञप्तेरिति ।
[198।07-198।08]
उपात्तेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपातावध्वेन स्पृश्यत इति भदन्तः ।
[198।08-198।09]
हनिष्यामि हन्मि हतमिति चास्य यदा भवतीति ।
[198।09]
न त्वियता कर्मपथः परिसमाप्यते ।
[198।10]
मा भूदहते ऽपि मात्रादौ हताभिमानिनामानन्तर्यं कर्मेति ।
[198।11]
स्वयं तु घ्नत एतावांश्चेतनासमुदाचार इत्ययमत्राभिप्रायो युक्तरूपः स्यात् ।
[198।11-198।13]
क इदानीमेष प्रद्वेषो यदविज्ञप्तिः प्रक्षिप्यते संततिपरिणामविशेषश्चाभ्युपगम्यते तथैवाप्रज्ञायमानः ।
[198।13]
न खलु कश्चित् प्रद्वेषः ।
[198।13-198।14]
किन्तु चित्तान्वयकायप्रयोगेण क्रियापरिसमाप्तौ ताभ्यां पृथग्भूतं धर्मान्तरं प्रयोजयितुरुत्पद्यत इति नोत्पद्यते परितोषः ।
[198।15-198।16]
यत्कृतप्रयोगसंभूता तु क्रियापरिसमाप्तिस्तस्यैव तन्निमित्तः संततिपरिणामो भवतीति भवति परितोषः ।
[198।16]
चित्तचैतसंतानाच्चायत्यां फलोत्पत्तेः ।
उक्तं चात्र ।
[198।17]
किमुक्तम् ।
"विज्ञप्त्यभावादि"त्येवमादि ।
तदभावादविज्ञप्तेरभावः ।
[198।17-198।18]
यदप्युक्तं "धर्मायतनस्यारूपित्वं यस्मान्नोक्तमि"ति ।
[198।18-198।19]
तद्यदेवात्र रूपमनिदर्शनमप्रतिघं चोक्तं तदेवास्तु धर्मायतनपर्यापन्नम् ।
[198।19]
यदप्युक्तमष्टाङ्ग आर्यमार्गो न स्यादिति ।
[198।19-198।20]
अङ्गं तावदाचक्ष्व ।
[198।20]
कथं मार्गसमापन्नस्य सम्यग्वाक्कर्मान्ताजीवा भवन्तीति ।
[198।20-198।21]
किमसौ वाचं भाष्यते क्रियां वा करोति चीवरादीन् वा पर्येषते ।
[198।21]
नेत्याह ।
किं तर्हि ।
[198।22]
तद्रूपामनास्रवामविज्ञप्तिं प्रतिलभते ।
[198।22-198।23]
यस्याः प्रतिलम्भाद्व्युत्थितो ऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते ।
[198।23-198।24]
अतो निमित्ते नैमित्तिकोपचारादविज्ञप्तौ तदाख्या क्रियते ।
[198।24-198।27]
यद्येवमिहाप्येवं किं न गृह्यते मार्गसमापन्नो विनाप्यविज्ञप्त्या तद्रूपमाशयं च आश्रयं च प्रतिलभते यस्य प्रतिलम्भात् व्युत्थितो ऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते ।
[198।27-199।01]
अतो निमित्ते नैमित्तिकोपचारं कृत्वा अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति ।
[199।01]
अपरस्त्वाह ।
तदक्रियामात्रमत्राङ्गमुक्तं स्यात् ।
[199।01-199।02]
यदसावार्यमार्गसामर्थ्यादक्रियानियमं प्रतिलभते तच्चानास्रवमार्गसंनिश्रयलाभादनास्रवं स्यात् ।
[199।02-199।03]
नहि सर्वत्र द्रव्यमन्तो धर्माः परिसंख्यायन्ते ।
[199।03-199।04]
तद्याथा ऽष्टौ लोकधर्माः लाभो ऽलाभः यशो ऽयशः निन्दा प्रशंसा सुखं दुःखमिति ।
[199।04]
नचात्र चीवरादीनामलाभो नामास्ति द्रव्यान्तरम् ।
[199।05-199।06]
प्रातिमोक्षसंवरो ऽपि स्यात् यया चेतनया विधिपूर्वं कृत्वा ऽभ्युपगमः प्रतिषिद्धात्कर्मणः कायवाचौ संवृणोति ।
[199।06]
अन्यचित्तोन संवृतः स्यादिति चेत् ।
न ।
[199।07-199।09]
तद्भावनया क्रियाकाले स्मरतः तत्प्रत्युपस्थानात् सेतुभावो ऽपि स्यादक्रियां प्रतिज्ञां संस्मृत्य संस्मृत्य लज्जितो दौःशील्याकरणात् इत्यर्थमेव च तस्याः समादानम् ।
[199।09-199।10]
यदि पुनरविज्ञप्तेरेव दौःसील्यं प्रतिबध्नीयात् न कश्चित्मुषितस्मृतिः शिक्षां भिन्द्यात् ।
[199।10-199।11]
अलं विस्तरेणास्त्येव द्रव्यान्तरमविज्ञप्तिरूपति वैभाषिकाः ।
[199।12-199।13]
यद्यस्ति तच्च महाभूतान्युपादायेत्युक्तम् तत् किम् विज्ञप्तिमहाभूतान्येवोपादायाविज्ञप्तिरुत्पद्यते अथान्यानि ।
[199।13]
अन्यान्येव सा महाभूतान्युपादायोत्पद्यते ।
[199।14]
न हि सैव सामग्री सुक्ष्मफला चौदारिकफाला च युज्यते ।
[199।14-199।15]
किं खलु यदातनी विज्ञप्तिस्तदातनान्येव सा महाभूतान्युपादाय वर्तते ।
[199।15-199।16]
सर्वमुपादायरूपं प्रायेणैवं किञ्चित्तु वर्तमानमनागतं चातीतानि महाभूतान्युपादाय ।
[199।16]
किं पुनस्तदिति ।
[199।17]
क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा
[199।18]
प्रथमात् क्षणादूर्ध्वमविज्ञप्तिः कामावचरी अतीतानि महाभूतान्युपादायोत्पद्यते ।
[199।19]
तान्यस्या आश्रयार्थेन भवन्ति ।
प्रत्युत्पन्नानि शरीरमहाभूतानि संनिश्रयार्थेन ।
[199।20]
प्रवृत्यनुवृत्तिकारणत्वाद्यथाक्रमम् ।
[199।20-199।21]
चक्रस्येव भूमौ सपरिवर्तमानस्य पाण्यावेधभूमिप्रदेशौ ।
[199।22]
अथ कुतस्त्यानि महाभूतान्युपादाय कुतस्त्यं कायवाक्कर्म ।
[199।23]
स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम् ।
[199।24-199।25]
कामावचरं कायवाक्कर्मं कामावचराण्येव महाभूतान्युपादाय एवं यावच्चतुर्थध्यानभूमिकं तद्भूमिकान्येवोपादाय ।
[199।26]
अनास्रवं यत्र जातः
[199।27-200।01]
अस्रवं तु कायवाक्कर्म यस्यां भूमौ जातस्तदुत्पादयति तद्भूमिकान्युपादाय तद्वेदितव्यम् ।
[200।01]
धात्वपतितत्वादनास्रवाणां च भूतानामभावात्तद्वलेन चोत्पत्तेः ।
[200।02]
तत्र विज्ञप्त्यविज्ञप्त्याख्यकर्मणी वेदितव्ये ।
[200।03]
अविज्ञप्तिरनुपात्तिका
[200।04]
नैःष्यन्दिकी च सत्त्वाख्या
[200।05]
किञ्च
[200।06]
निष्यन्दोपात्तभूतजा ।
[200।07]
नैःष्यन्दिकान्येव भूतान्युपादाय चित्तचैत्तानि चोपादायाविज्ञप्तिर्भवति ।
[200।07-200।08]
असमाहितभूमिकाया एष प्रकारः ।
[200।09]
समाधिजौपचयिकानुपाताभिन्नभूतजा
[200।10]
ध्यानानास्रवसंवराविज्ञप्तिः समाधिजा ।
[200।10-200।12]
सा समाधिसंभूतान्यौपचयिकान्यनुपातानि च महाभूतान्युपादायोत्पद्यते अभिन्नानि च यान्येव च भूतान्युपादाय प्राणातिपाताद्विरतिरुत्पद्यते तान्येव यावत् संभिन्नप्रलापात् ।
[200।12]
किं कारणम् ।
[200।13]
चित्तवत् भूताभेदात् ।
[200।13-200।14]
प्रातिमोक्षसंवरे त्वन्यान्यानि महाभूतान्युपादाय सप्ताविज्ञप्तयो भवन्ति ।
[200।14]
विज्ञप्तिस्तु नैःष्यन्दिकी ।
उपात्ता तु कायिकी ।
[200।14-200।16]
किं पुनरियं विज्ञप्तिरुत्पद्यमाना पूर्वकस्य संस्थानस्य संतानं बाधित्वोत्पद्यते उताहो न ।
[200।16]
किञ्चातः यदि बाधित्वोत्पद्यते ।
न ।
[200।16-200।17]
विपाकरूपस्योच्छिन्नस्य पुनः प्रवन्धादवैभाषिकीयं प्राप्नोति ।
[200।17]
अथाबाधित्वा ।
[200।17-200।18]
कथमेकस्मिन्भूतसंघाते संस्थानद्वयं सिध्यति ।
[200।18-200।19]
अन्यान्येव तानि नैःष्यन्दिकानि तदानीमुपजायन्ते यान्युपादाय विज्ञप्तिर्भवति ।
[200।19-200।20]
एवं तर्हि यद्यदेवाङ्गं निश्रित्योत्पद्यते विज्ञप्तिस्तेन तेनाङ्गेन महीयसा भवितव्यम् ।
[200।20]
तन्महाभूतैरभिव्यापनात् ।
[200।20-200।21]
अनभिव्यापने च पुनः कथं कृत्स्नाङ्गेन विज्ञपयेत् ।
[200।21]
शुषिरत्वात् कायस्यास्ति तेषामवकाशः ।
[200।22]
तत् खल्वेतत् कर्म पर्यायेण द्विविधं त्रिविधं पञ्चविधं चोत्तम् ।
[200।22-200।23]
चेतना चेतयित्वा चेति ।
[200।23]
चेतयित्वा पुनर्द्विधा ।
कायवाक्कर्म चेतना च ।
[200।23-200।24]
कायकर्म पुनः द्विविधं विज्ञप्त्याख्यमविज्ञप्त्याख्यं च ।
[200।24-200।25]
एवं वाक्कर्म चेतना चेति पञ्चविधं भवति ।
[200।25]
तत्र पुनरविज्ञप्तिर्द्विधा ।
कुशला ऽकुशला च ।
[200।26]
नाव्याकृतास्त्यविज्ञप्तिः
[200।27]
किं कारणम् ।
[200।27-200।28]
अव्याकृतं हि चित्तं दुर्बलमतो न शक्तं बलवत्कर्माक्षेप्तुं यन्निरुद्धे ऽपि तस्मिन्ननुवध्नीयात् ।
[201।01]
त्रिधा ऽन्यत्
[201।02]
अन्यत्कर्म त्रिविधम् ।
कुशलाकुशलाव्याकृतम् ।
किं तदन्यत् ।
विज्ञप्तिश्चेतना च ।
[201।03]
अशुभं पुनः ।
[201।04]
कामे
[201।05]
अकुशलं वस्तु कर्म कामहातौ वेदितव्यम् ।
नान्यत्र ।
[201।05-201।06]
अकुशलमूलानां प्रहीणत्वादाह्रीक्यानपत्राप्ययोश्च ।
[201।06-201।07]
कुशलाव्याकृतं तु सर्वत्रा प्रतिवेधात् ।
[201।07]
तत्र
[201।08]
रूपे ऽप्यविज्ञप्तिः
[201।09]
कामे ऽपीत्यपिशब्दात् ।
आरूप्येषु नास्ति भूताभावात् ।
[201।09-201।10]
यत्र हि कायवाचोः प्रवृत्तिस्तत्र कायवाक्संवरौ ।
[201।10]
इह तर्हि समापन्नस्य स्यादनास्रवा विज्ञप्तिवत् ।
[201।11]
न ।
तस्या धात्वपतितत्वात् ।
[201।11-201।12]
आरूप्यावचरी त्वविज्ञप्तिनांर्हति विसभागानि भूतान्युपादाय भवितुम् ।
[201।12]
सर्वरूपवैमुख्याच्चारूप्यसमापत्तुनार्लं रूपोत्पत्तये ।
[201।13]
विभूतरूपसंज्ञत्वात् ।
दौःशील्यप्रतिपक्षेण शीलम् ।
तच्च दौःशील्यं कामावचरम् ।
[201।14]
आरूप्याश्च कामधातोराश्रया कारालम्बनप्रतिपक्षदूरताभिर्दूरे ।
[201।14-201।15]
अत एष्वविज्ञप्तिर्नास्तीति वैभाषिकाः
[201।16]
विज्ञप्तिः सविचारयोः
[201।17]
विज्ञप्तिस्तु सविचारयोरेव भूम्योः ।
कामधातौ प्रथमे च ध्याने न तत ऊर्ध्वम् ।
[201।18]
कामे ऽपि निवृता नास्ति
[201।19]
निवृता तु विज्ञप्तिः कामधातावपि नास्ति ।
ब्रह्मलोक एवास्ति ।
[201।19-201।20]
महाब्राह्मणो हि शाठ्यसमुत्थितं कायकर्म श्रूयते ।
[201।20-201।21]
स हि स्वपर्षन्मध्ये आयुष्मतो ऽश्वजितः क्षेपार्थमात्मानं क्षिप्तवात् ।
[201।21-201।22]
तत ऊर्ध्वमसत्यां वाग्विज्ञप्तौ कथं तत्र शब्दायतनं बाह्यमहाभूतहेतुकम् ।
[201।22]
अन्ये पुनराहुः ।
[201।22-201।23]
द्वितीयादिष्वपि ध्यानेषु विज्ञप्तिरस्त्यनिवृताव्याकृता ।
[201।23]
न कुशला न क्लिष्टा ।
किं कारणम् ।
[201।24-201।25]
न हि तेषूपपन्नस्तज्जातीयमधोभूमिकं चित्तं संमुखीकरोति येन तां विज्ञप्तिं समुत्थापयेत् ।
[201।25]
न्यूनत्वात्प्रहीणत्वच्च ।
पूर्वमेव तु वर्णयन्ति ।
[201।25-201।26]
किं पुनः कारणमूर्ध्वं ब्रह्मलोकान्नास्ति विज्ञप्तिः कामधातौ च निवृक्ताव्याकृता नास्ति ।
[202।01]
समुत्थानमसद्यतः ।
[202।02]
सवितर्कविचारेण हि चित्तेन विज्ञप्तिः समुत्थाप्यते ।
[202।02-202।03]
तच्च द्वितीयादिषु ध्यानेषु नास्ति भावनाप्रहातव्येन चोत्थाप्यते ।
[202।03]
दर्शनप्रहातव्यस्यान्तर्मुखप्रवृत्तत्वात् ।
[202।04]
तच्च कामधातौ निवृतव्याकृतं नास्ति ।
[202।05]
किं खलु समुत्थानवशादेवं धर्माणां कुशलाकुशलत्वं वेदितव्यम् ।
नेत्याह ।
[202।06]
किं तर्हि ।
चतुर्भिः प्रकारैः परमार्थतः स्वभावतः संप्रयोगतः समुत्थानतश्च ।
[202।07]
तत्र तावत् ।
[202।08]
परमार्थशुभो मोक्षः
[202।09]
निर्वाणं हि सर्वदुःखव्युपशमः ।
ततः परमक्षेमत्वात् परमार्थेन कुशलमारोग्यवत् ।
[202।10]
स्वतो मूलह्यर् पत्रपाः
[202।11]
त्रीणि कुशलमूलानि ।
[202।11-202।12]
ह्रिश्चापत्रप्यं च स्वभाएव्न कुशलानि अन्यसंप्रयोगसमुत्थनानपेक्षत्वात् ।
[202।12]
पथ्यौषधवत् ।
[202।13]
संप्रयोगेण तद्युक्ताः
[202।14-202।15]
तैरेव कुशलमूलह्यर् पत्राप्यैः संप्रयुक्ता धर्माः संप्रयोगेण कुशलास्तैरसंप्रयुक्तानां कुशलत्वाभावादौषधमिश्रपानीयवत् ।
[202।16]
समुत्था नात् क्रियादयः ।
[202।17-202।18]
कायवावक्कर्मणि चित्तविप्रयुक्ताश्च संस्कारजात्यादयः प्राप्तिनिरोधासंज्ञिसमापत्तयस्तैरेव कुशलमूलादिसंप्रयुक्तै धर्मः समुपस्थापिताः समुत्थानेन कुशलाः ।
[202।19]
औषधपानीयसंभूतधात्रीक्षीरवत् ।
[202।19-202।20]
प्राप्तीनां तु विसभागचित्तसमुत्थापितानां कथं कुशलत्वमिति वक्तव्यम् ।
[202।20-202।21]
तद्यथा विचिकित्सया कुशलमूलप्रतिसंधानं धातुप्रत्यागमपरिहाणिभ्यां च ।
[202।21]
यथा च कुशलमुक्तं ततो
[202।22]
विपर्ययेणाकुशलं
[202।23]
कथं कृत्वा ।
संसारः परमार्थेनाकुशलः ।
सर्वदुःखप्रवृत्त्यात्मकत्वेन परमाक्षेमत्वात् ।
[202।24]
अकुशलमूलाह्रीक्यानपत्राप्याणि स्वभावतः ।
तत्संप्रयुक्ता धर्माः संप्रयोगतः ।
[202।24-202।25]
तत्समुत्थापिताः कायवाक्कर्मजात्यादिप्राप्तयः समुत्थानतः व्याध्यपथ्यौषधादिभिरूपमेयाः ।
[203।01]
एवं तर्हि न किञ्चित्सास्रवमव्याकृतं भविष्यति कुशलं वा ।
संसाराभ्यन्तरत्वात् ।
[203।02]
परमार्थत एवमुक्तं विपाकं तु प्रति यत्सास्रवं न व्याक्रियते तदव्याकृतमित्युच्यते ।
[203।03]
इष्टविपाकं च कुक्शलमित्युच्यते ।
यदि तु परमार्थेनाव्याकृतं मृग्यते तत् ।
[203।04]
परमाव्याकृते ध्रुवे
[203।05]
द्वे असंस्कृते निष्पर्यायेणानिवृताव्याकृते ।
आकाशमप्रतिसंख्यानिरोधश्च ।
[203।05-203।06]
इदं विचार्यते ।
[203।06-203।07]
यदि समुत्थानवशात्कुशलाकुशलत्वं कायवाक्कर्मणः किं न महाभूतानाम् ।
[203।07]
कर्मणि हि कर्त्तुरभिप्रायो न महाभूतेषु ।
[203।07-203।09]
समाहितस्याविज्ञप्तौ नास्त्यभिप्रायो न चासमाहितं चित्तं तस्याः समुत्थापकं विसभागभूमिकत्वादिति कथं तस्याः कुशलत्वम् ।
[203।09-203।10]
दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुक्शलत्वप्रसङ्गः ।
[203।10]
कर्त्तव्यो ऽत्र यत्नः ।
यदुक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेरसमुत्थापकमिति ।
[203।11-203।12]
किं तर्हि भगवतोक्तं "ततो ऽपि मिथ्यादृष्टेर्मिथ्यासंकल्पः प्रभवति मिथ्या वाग्मिथ्याकर्मान्त" मित्येवमादि ।
[203।12]
अविरुद्धमेतत् ।
[203।13]
समुत्थानं द्विधा हेतुतत्क्षणोत्थानसंज्ञितम् ।
[203।14]
द्विविधं समुत्थानं हेतुसमुत्थानं तत्क्षणसमुत्थानं च ।
तत्रैव क्षणे तद्भावात् ।
[203।15]
प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम्
[203।16]
हेतुसमुत्थानं प्रवर्तकमाक्षेपकत्वात् ।
तत्क्षणसमुत्थानमनुवर्तकं क्रियाकालानुवर्तनात् ।
[203।17]
किमिदानीं तस्य तस्यां क्रियायां सामर्थ्यम् ।
[203।17-203।18]
तेन हि विना ऽसौ मृतस्येव न स्यादा क्षिप्ता ऽपि सती ।
[203।18]
अचित्तकस्य तर्हि संवरोत्पत्तौ कथं भवति ।
[203।18-203।19]
स्फुटतरा तर्हि सचित्तकस्य भवतीत्येतत्सामर्थ्यम् ।
[203।19]
तत्र च
[203।20]
प्रवर्तकं दृष्टिहेयं विज्ञानम्
[203।21]
दर्शनप्रहातव्यं चित्तं विज्ञप्तेः प्रवर्तकम् ।
[203।21-203।22]
तत्समुत्थापकयोर्वितर्कविचारयोर्निदानभूतत्वात् ।
[203।22]
न त्वनुवर्तकम् ।
[203।22-203।23]
बहिर्मुखचित्तस्य क्रियाकाले तदभावात् ।
[203।23]
तत्समुत्थापितं च रूपं दर्शनप्रहातव्यं स्यात् ।
किं स्यात् ।
[203।23-203।24]
अभिधर्मोबाधितः स्यात् ।
[203।24]
विद्या ऽविद्याभ्यां चाविरोधान्नास्ति रूपं दर्शनप्रहातव्यम् ।
[203।24-203।25]
साध्य एष पक्षः ।
[203।25]
भूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः ।
समानचित्तोत्थापितत्वात् ।
[204।01]
नैवं भविष्यति यथा न कुशलाकुशलानि भवन्ति ।
अथवा पुनर्भवन्तु ।
नैवं शक्यम् ।
[204।02]
नहि तानि दर्शनप्रहातव्यानि युज्यन्ते नाप्यप्रहातव्यानि ।
किं कारणम् ।
[204।02-204।03]
अक्लिष्टस्य धर्मस्य विद्या ऽविद्याभ्यामविरोधात् ।
[204।03-204।04]
अतो हेतुसमुत्थानमधिकृत्य सूत्रे पठनान्नास्ति विरोधः ।
[204।05]
उभयं पुनः ॥
[204।06]
मानसं भावनाहेयं ।
[204।07]
भावनाहेयं पुनर्मनोविज्ञानमुभयं भवति ।
प्रवर्त्तकं चानुवर्तकं च ।
[204।08]
पञ्चकं त्वनुवर्तकम्
[204।09]
पञ्च विज्ञानकाया अनुवर्तका एव ।
तदिदं चतुष्कोटिकं भवति ।
[204।09-204।10]
प्रवर्तकमेव दर्शनप्रहातव्यं चित्तम् ।
[204।10]
अनुवर्तका एव पञ्च विज्ञानकायाः ।
[204।10-204।11]
उभयं भावनाहेयं मनोविज्ञानम् ।
[204।11]
नोभयमनास्रवम् ।
किं खलु यथा प्रवर्तकं तथैवानुवर्तकं भवति ।
[204।12]
नायमेकान्तम् ।
[204।13]
प्रवर्तके शुभादौ हि स्यात्त्रिधा ऽप्यनुवर्तकम् ।
[204।14]
कुशले प्रवर्तके कुशलाकुशलाव्याकृतमनुवर्तकं स्यात् ।
[204।15]
एवमकुशले चाव्याकृते च ।
[204।16]
तुल्यं मुनेः
[204।17]
बुद्धस्य तु भगवतस्तुल्यं प्रवर्तकेनानुवर्तकम् ।
कुशले कुशलमव्याकृते चाव्याकृतम् ।
[204।18]
शुभं यावत्
[204।19]
कुशलं वा भवत्यनुवर्तकमव्याकृते ऽपि प्रवर्तके ।
[204।19-204।20]
न तु कदाचित् कुश्लं प्रवर्तकमनुवर्तकं चाव्याकृतं भवति ।
[204।20]
आम्नायमाना हि बुद्धानां देशनेति ।
[204।20-204।21]
नास्ति बुद्धानामव्याकृतं चित्तमिति निकायान्तरीयाः ।
[204।21-204।22]
कुशलैकताना हि बुद्धानां संततयो नित्यं समाहितत्वात् ।
[204।22]
उक्तं हि सूत्रे
[204।23-204।24]
"चरन् समाहितो नागस्तिष्ठन्नागः समाहितः ।
स्वपन् समाहितो नागो निषण्णो ऽपि समाहित" इति ।
[204।25-204।26]
अनिच्छया ऽस्य चित्तस्याविसरणादेवमुक्तं न तु न सन्त्यव्याकृतानि विपाकजैर्या पथिकनिर्माणचित्तानि बुद्धानामिति वैभाषिकाः ।
[204।26-204।27]
मानसं भावनाहेयं प्रवर्तकं चानुवर्तकं चेत्युक्तम् ।
[204।27]
तत्कुशलाकुशलाव्याकृतं सर्वं वेदितव्यम् ।
[205।01]
नोभयं तु विपाप्कजम्
[205।02]
विपाकजं तु चित्तं नैव प्रवर्तकं नानुवर्तकं निरभिसंस्कारवाहित्वात् ।
[205।02-205।03]
किमिदानीं यथा प्रवर्तकं तथा विज्ञप्तिराहोस्विद्यथा ऽनुवर्तकम् ।
[205।03]
किं चातः ।
[205।03-205।04]
यथा प्रवर्तकं चेत् ।
[205।04]
इहापि निवृताव्याकृता विज्ञप्तिः प्राप्नोति ।
[205।05]
सत्कायान्तग्राहदृष्टिप्रवर्तितत्वात् ।
[205।05-205।06]
न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति विशेषणं वक्तव्यम् ।
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0