अभिधर्मकोशभाष्य · भाग 301320
[181।01-181।02]
य एव महाकल्पो निर्दिष्टः ।
[181।03]
तदसंख्यत्रयोद्भवम्
[181।04]
बुद्धत्वम्
[181।05]
संख्येयानां कल्पानां त्रयेण ।
[181।05-181।06]
कथमसंख्येयस्यासति संख्येयावसाने पुनस्त्रित्वमुच्यते ।
[181।06]
नैअदेवं वेदितव्यं । किं तर्हि ।
[181।06-181।07]
"षष्टिः स्थानान्तराण्यसंख्येयमि"ति मुक्तकसूत्रं पठ्यते ।
[181।07]
कतमानि षष्टिः ।
एको ह्यद्वितीयः प्रथमं स्थानान्तरम् ।
[181।08]
एककानां दशको द्वितीयम् ।
दश दशकानि शतं तृतीयम् ।
दश शतानि सहस्रम् ।
[181।09]
दश सहस्राणि प्रभेदः ।
दश प्रभेदा लक्षम् ।
[181।09-181।10]
दश लक्षा अतिलक्षः ।
[181।10]
दशातिलक्षाः कौटिः ।
दश कौट्यो मध्यः।
दश मध्या अयुतम् ।
[181।11]
शायुता महायुतम् ।
दश महायुता नियुतम् ।
दश नियुता महानियुतम् ।
[181।11-181।12]
दश महानियुताः प्रयुतम् ।
[181।12]
दश प्रयुता महाप्रयुतः ।
दश महाप्रयुताः कङ्करः ।
[181।12-181।13]
दश कङ्करा महाकङ्करः ।
[181।13]
दश महाकङ्करा विस्वरः ।
दश विस्वरा महाविस्वरः ।
[181।13-181।14]
दश महाविस्वरा अक्षोभ्यः ।
[181।14]
दशाक्षोभ्या महाक्षोभ्यः ।
दश महाक्षोभ्या विवाहः ।
[181।15]
दश विवाहा महाविवाहः ।
दश महाविवाहा उत्सङ्गः ।
दशोत्सङ्गा महोत्सङ्गः ।
[181।16]
दश महोत्सङ्गा वाहनः ।
दश वाहनानि महावाहनम् ।
[181।16-181।17]
दश महावाहनानि तटिभः ।
[181।17]
दश तिटिभा महातिटिभः ।
दश महातिटिभा हेतुः ।
[181।17-181।18]
दश हेतवो महाहेतुः ।
[181।18]
दश महाहेतवः करभः ।
दश करभा महाकरभः ।
[181।18-181।19]
दश महाकरभा इन्द्रः ।
[181।19]
दशेन्द्रा महेन्द्रः ।
दश महेन्द्राः समाप्तम् ।
दश समाप्तानि महासमाप्तम् ।
[181।20]
दश महासमाप्तानि गतिः ।
दश गतयो महागतिः ।
दश महागतयो निम्बरजः ।
[181।20-181।21]
दश निम्बरजांसि महानिम्बरजः ।
[181।21]
दश महानिम्बरजांसि मुद्रा ।
दश मुद्रा महामुद्रा ।
[181।21-181।22]
दश महामुद्राः बलम् ।
[181।22]
दश बलानि महाबलम् ।
[181।22-181।23]
दश महाबलानि सज्ञा ।
[181।23]
दश संज्ञा महासंज्ञा ।
दश महासंज्ञा विभूतः ।
दश विभूता महाविभूतः ।
[181।23-181।24]
दश महाविभूता बलाक्षम् ।
[181।24]
दश बलाक्षा महाबलाक्षम् ।
दश महाबलाक्षाण्यसम्ख्यम् ।
[181।25]
अष्टकं मध्याद्विस्तृतम् ।
[181।25-182।01]
इत्येतेषां षष्टिस्थानान्तरगतां संख्यामनुप्राप्ताः कल्पा असंख्येयानित्युच्यन्ते ।
[182।01]
ततो व्यावृत्य पुनर्गण्यन्ते ।
[182।01-182।02]
एवं त्रीणि असंख्येयानीत्युच्यन्ते ।
[182।02]
न तु नैव परिसंख्यातुं शक्यन्त इति ।
[182।03]
किन्तु खलु कालप्रकर्षेणैव कृतप्रणिधाना बोधिसत्त्वा बोधिमभिसंबुध्यन्ते ।
[182।04]
किमेतदेव भविष्यति ।
[182।04-182।05]
महतां हि पुण्यज्ञानसंभारेण षड्भिः पारमिताभिः बहुभिर्दुष्करशतसहस्रैस्त्रिभिः कल्पासंख्येयैरनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते बोधिसत्त्वाः ।
[182।06]
यद्यप्यन्यथाऽप्यस्ति मोक्षावकाशः किमर्थं त इयन्तं यत्नमारभन्ते ।
[182।06-182।07]
परार्थं त इयन्तं यत्नमारभन्ते कथं परानपि महतो दुःखौघात् परित्रातुं शक्नुयामिति ।
[182।07-182।08]
क एषां परार्थेन स्वार्थः ।
[182।08]
एष एव तेषां स्वार्थो यः परार्थस्तस्याभिमतत्वात् ।
[182।08-182।09]
इदानीमेतच्छ्राद्धास्यते ।
[182।09]
सत्यं दुःश्रद्धानमेतदात्मंभरिभिर्निष्करुणैः ।
[182।09-182।11]
कारुणिकैस्तु श्रद्धितमेवैतत् यथा चेह केचिदभ्यस्तनैर्धृण्या असत्यपि स्वार्थे परव्यसनाभिरता उपलभ्यन्ते ।
[182।11-182।12]
तथा पुनरभ्यस्तकारुण्या असत्यपि स्वार्थे परहितक्रियाभिरामाः सन्तीति संभाव्यम् ।
[182।12-182।15]
यथैव चाभ्यासवशादनात्मभूतेषु संस्कारेषु संस्कृतलक्षणानभिज्ञा आत्मस्नेहं निवेश्य तद्धेतोर्दुःखान्युद्वहन्ति एवं पुनरभ्यासवशादात्मस्नेहं तेभ्यो निर्वर्त्य परेष्वपेक्षां वर्धयित्वा तद्धेतोर्दुःखान्युद्वहन्तीति संभाव्यम् ।
[182।15-182।16]
गोत्रान्तरमेव हि तत्तथाजातीयं निर्वर्तते यत् परेषां दुःखेन दुःखायते सुखेन सुखायते नात्मन इति ।
[182।16]
न ते पुनः स्वार्थमन्यं पश्यन्ति ।
आह चात्र
[182।17-182।20]
"हीनः प्रार्थयते स्वसंततिगतं यैस्तैरूपायः सुखं
मध्यो दुःखनिवृत्तिमेव न सुखं दुःखास्पदं तद्यतः ।
श्रेष्ठः प्रार्थयते स्वसंततिगतैर्दुःखैः परेषां सुखं
दुःखात्यन्तनिवृत्तिमेव च यतस्तद्दुःखदुःख्येव सः ॥"
[182।21]
किं पुनरुत्कर्षा बुद्धा उत्पयन्ते आहोस्विदपकर्षाः ।
[182।22]
अपकर्षे हि शताद्यावत्तदुद्भवः ।
[182।23-182।24]
अशीतिवर्षशतायुपि प्रजायामपकर्षे आरब्धे यावद्वर्षशतायुषो मनुष्या भवन्त्येतस्मिन्नन्तरे बुद्धा उत्पद्यन्ते ।
[182।24]
कस्मान्नोत्कर्षकाले ।
तदा हि दुःसमुद्वेजाः सत्त्वा भवन्ति ।
[183।01]
कस्मान्न शतात् ।
[183।01-183।02]
तदा हि पञ्च कषाया अभ्युत्सदा भवन्ति ।
[183।02-183।03]
तद्यथाऽयुष्कषायः कल्पकषायः क्लेशकषायः दृष्टिकषायः सत्त्वकषायश्च ।
[183।03]
अपकर्षस्याधस्तात् प्रत्यवरा आयुरादयः किटभूतत्वात् कषाया उच्यन्ते ।
[183।04]
द्वाभ्यां हि जीवितोपकरणविपत्ती यथाक्रमम् ।
द्वाभ्यां कुशलपक्षवीपत्तिः ।
[183।04-183।05]
कामसुखल्लिकाऽत्मक्लमथानुयोगाधिकारात् गृहिप्रव्रजितपक्षयोर्वा ।
[183।05-183।06]
एकेनात्मभाववीपत्तिः ।
[183।06]
प्रमाणरूपारोग्यबलवृद्धिस्मृतिवीर्यधैर्यभ्रंसात् ।
[183।07]
अथ प्रत्येकबुद्धानां कस्मिन् काले उत्पादः ।
[183।08]
द्वयोः प्रत्येकबुद्धानां ।
[183।09]
उत्कर्षेऽयपकर्षेऽपि ।
द्विविधा हि प्रत्येकबुद्धा वर्गचारिणः खड्गविषाणकल्पाश्च ।
[183।10]
तत्र वर्गचारिणः श्रावकपूर्विणः प्रत्येकजिना उच्यन्ते ।
[183।10-183।11]
पृथग्जनपूर्विणोऽपि सन्तीत्यपरे ।
[183।11]
येऽन्यत्रोत्पादितनिर्वेधभागीया इह स्वयं मार्गमभिसंबुध्यन्ते ।
[183।11-183।14]
तथाहि पूर्वयोगं पठन्ति "पर्वते किल पञ्चशतानि तापसानां कष्टानि तपांसि तप्यन्ते स्म यावत् प्रत्येकबुद्धसहोषितेन मर्कटेनागम्य तदीर्यापथसंदर्शनात् प्रत्येकबोधिमभिसंबन्द्धा" इति ।
[183।14]
नचार्याः सन्तः कष्टानि तपांसि तप्येरन् ।
[183।14-183।15]
खड्गविषाणकल्पाः पुनरेकविहारिणः ।
[183।15]
तेषां प्रत्येकबुद्धानां
[183।16]
खड्गः कल्पशतान्वयः
[183।17-183।18]
महाकल्पानां शतं बोधिसंभारेषु चरितः खड्गं विषाणकल्पो भवति ।
[183।18]
विनोपदेशेनात्मानमेकं प्रतिबुधा इति प्रत्येकबुद्धाः ।
[183।18-183।19]
ते ह्येकमात्मानं दमयन्ति नान्यान् ।
[183।19]
किं पुनरत्र कारणम् ।
[183।19-183।20]
नहि तावदशक्ता धर्मं देशयितुं प्रतिसंवित्प्राप्तत्वात् ।
[183।20]
शक्यं च तैः पूर्वबुद्धानां शासनमनुस्मृत्यापि धर्मं देशयितुम् ।
[183।21]
नापि निष्करुणाः ।
सत्त्वानुग्रहार्थमृद्धेराविष्करणात् ।
[183।21-183।22]
नापि सत्त्वानामभव्यत्वात् ।
[183।22]
तथा हि लौकिकमार्ग वीतरागाः संविद्यन्ते ।
किं तर्हि ।
[183।22-183।23]
पूर्वाभ्यासवशेनाल्पोत्सुकताऽधिमुक्तत्वात् नोत्सहन्ते गम्भीरधर्मग्रहणाय परेषां व्यापर्तुम् ।
[183।24]
अनुस्रोतो गामिनीनां हि प्रजानां दुष्करं प्रतिस्रोतो नयनम् ।
[183।24-183।25]
गणपरिकर्षणप्रसङ्गपरिहारार्थं च व्याक्षेपसंसर्गभीरुत्वात् ।
[184।01]
अथ चक्रवर्त्तिनः कदोत्पद्यन्ते ।
[184।02]
चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात् ।
[184।03]
अमिते चायुषि मनुष्याणां यावदशीतिसहस्रके चोत्पत्तिश्चक्रवर्त्तिनां नाधः ।
[184।03-184।04]
तस्याः सस्यसंपदस्तदूनायुषामभाजनत्वात् ।
[184।04-184।05]
राज्यं चक्रेण वर्तयितुं शीलमेषामिति चक्रवर्त्तिनः ।
[184।05]
ते पुनश्चतुर्विधाः ।
[184।06]
सुवर्णरूप्यताम्रायश्चक्रिणः
[184।07]
सुवर्णरूप्यताम्रायश्चक्र्काणि येषां सन्ति ।
[184।07-184।08]
प्रथम एषामुत्तमो द्वितीय उपोत्तमः तृतीयो मध्यमश्चतुर्थो ऽधमः ।
[184।09]
ते ऽधरक्रमात्
[184।10]
एकद्वित्रिचतुर्द्वीपाः
[184।11]
यस्यायसं चक्रं स एकद्वीपाधिपतिः ।
यस्य ताम्रमयं स द्वयोः ।
[184।11-184।12]
यस्य रूप्यमयं स त्रयाणाम् ।
[184।12]
यस्य सुवर्ण्मयं स चतुर्द्वीपाधिपतिः ।
एष प्राज्ञप्तिको निर्देशः ।
[184।13]
सूत्रे तु प्रधानग्रहणादेकमेव सौवर्णं चक्रम् ।
[184।13-184।16]
"यस्य राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदईव पोषधे पञ्चदश्यां शिरःस्नातस्योपोषधो पोषितस्योपरिप्रासादतलगतस्यामात्यगणपरिवृतस्य पूर्वस्यां दिशि चक्ररत्नं प्रादुर्भवति सहस्रारं सनाभिकं सनेमिकं सर्वाकारपरिपूर्णं शुभकर्मारकृतं दिव्यं सर्वसौवर्णं स राजा भवति चक्रवर्ती"ति ।
[184।17]
एवं चैते चक्रवर्तिन उत्पद्यन्ते ।
[184।18]
न च द्वौ सह बुद्धवत् ।
[184।19-184।20]
सूत्र उक्त" मस्थानमनवकाशो यदपूर्वाचरमौ द्वौ तथागतावर्हन्तौ सम्यक्संबुद्धौ लोक उत्पद्येयातां नेदं स्थानं विद्यते स्थानमेतद्विद्यते यदैकस्तथागतः ।
[184।20-184।21]
यथा तथागत एवं चक्रवर्त्तिनावि"ति ।
[184।21]
इदमत्र संप्रधार्यम् ।
[184।21-184।22]
किमत्र त्रिसाहस्रमहासाहस्रो लोकधातुर्लोक इष्ट उताहो सर्वलोकधातव इति ।
[184।22-184।23]
नान्यत्र बुद्धा उत्पद्यन्ते इत्येके ।
[184।23]
किं कारणम् ।
[184।23-184।24]
मा भूत् भगवतः शक्तिव्याघातः इति ।
[184।24]
एक एव हि भगवान् सर्वत्र शक्तः ।
[184।24-184।25]
यत्र बुद्ध एको न शक्तः स्याद् विनेयान् विनेतुं तत्राऽन्योऽपि न शक्त इति ।
[184।25-184।27]
उक्तं च सूत्रे "स चेत्त्वां शारिपुत्र कश्चिदुपसंक्रम्यैवं पृच्छेत् अस्ति कश्चिदेतर्हि श्रमणो वा ब्राह्मणो वा समसमः श्रमणेन गोतमेन यदुताभिसंबोधाय ।
[184।27-184।28]
एवं च पृष्टः किं व्याकुर्याः ।
[184।28-185।01]
स चेन्मां भदन्त कश्चिदुपसंक्रम्येवं पृच्छेत्तस्याहं पृष्ट एवं व्याकुर्या नास्ति कश्चिदेतर्ह्हि शृअमणो वा ब्राह्मणो वा समसमो भगवता यदुताभिसंबोधाय ।
[185।01]
तत्कस्य हेतोः ।
[185।01-185।03]
संमुखं मे भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतं अस्थानमनवकासो यदपूर्वाचरमौ तथागतौ लोक उत्पद्येयातां नेदं स्थानं विद्यत" इति ।
[185।03-185।04]
यत्तर्हि भगवतोक्तं ब्रह्मसूत्रे "यावत्त्रिसाहस्रमहासाहस्रको लोको वशे मेऽत्र वर्तत" इति ।
[185।04]
आभिप्रायिक एष निर्देशः ।
[185।04-185।05]
कोऽत्राभिप्रायः तावतोऽनभिसंस्कारेण व्यवलोकनात् ।
[185।05-185।06]
अभिसंस्कारेन त्वनन्तो बुद्धानां चक्षुर्विषयः ।
[185।06]
सन्त्येवान्यलोकधातुषु बुद्धा इति निकायान्तरीयाः ।
किं कारणम् ।
[185।07]
बहवो हि समं संभारेषु प्रवर्तमाना दृश्यन्ते ।
[185।07-185।09]
न चैकत्र बहूनां बुद्धानां युगपत् योग उत्पत्तुं न चास्ति तदुत् पत्तौ कक्श्चित् प्रतिबन्धः इति नियतं लोकधात्वन्तरेषूत्पद्यन्ते ।
[185।09-185।10]
अनन्ता लोकधातव इति न शक्यं भगवता कल्पमप्यायुर्विर्भ्रता यिथेह तथाऽन्येष्वपि अनन्तेषु लोकधातुषु व्यापर्तुं किं पुनः पुरुषायुषम् ।
[185।10-185।11]
कथं चेह बुद्धो व्याप्रियते ।
[185।11-185।13]
अस्य पुद्गलस्येदमिन्द्रियम् इयता कालेलामुष्मिन् देशे अमुं पुद्गलमागम्यास्य दोषस्य परिहारादस्याङ्गस्योपसंहारादनेन प्रयोगेणानुत्पन्नं वोत्पत्स्यते अपरिपूर्णं वा परिपूरयिष्यतीति ।
[185।13-185।15]
यत्त्विदं सूत्रमत्रोपनीत "मस्थानमनवकाशो यद्पूर्वाचरमौ द्वी तथागतावेकत्र लोक उत्पद्येयातामि"ति तदेवेदं संप्रधार्यते किमिदमेकं लोकधातुमधिकृत्योक्तमाहोस्वित् सर्वानिति ।
[185।15-185।16]
चक्रवर्तिनोऽपि चास्य लोकद्धातौ न स्यादुत्पादः ।
[185।16]
सहोत्पत्तिप्रतिषेधात् बुद्धवत् ।
[185।16-185।17]
अथैतत् क्षम्यते इदं तु कस्मान्न क्षम्यते "पुण्यस्तु बुद्धानां लोक उत्पाद" इति ।
[185।17-185।18]
यदि बहूनां बहुषु स्यान्न दोषः स्यात् ।
[185।18]
भूयसां लोकानामभ्युदयेन योगः स्यान्निःश्रेयसेन च ।
[185।18-185।19]
अथैङ्कस्मिन्नपि कस्मात् द्वौ तथागतौ न सहोत्पद्येते ।
[185।19]
प्रयोजनाभावात् प्रणिधानवशाच्च ।
[185।19-185।21]
एवं हि बोधिसत्त्वाः प्रणिधानं कुर्वन्ति अहो वताहमन्धे लोके ऽपरिणायके बुद्धो लोक उत्पद्येयमनाथानां नाथ इति ।
[185।21]
आदराभित्वरार्थं च ।
[185।22-185।23]
एकस्मिन्हि बुद्धे सुतरामाद्रियन्ते दुर्लभ ईदृशोऽन्य इति मन्यमानाः सुतरां चाभित्वरन्ते शासनप्रतिपत्तौ माऽस्मिन् गते परिनिर्वृते वा ऽनाथा भूमेति ।
[185।24]
अथैते चक्रवर्तिनः सुवर्णादिमयैश्चक्रैः पृथिवीं जयन्तः कथं जयन्ति ।
यथाक्रमं
[185।25]
प्रत्युद्यानस्वयंयान कलहास्त्रजितः
[185।26]
यस्य सौवर्ण चक्रं भवति तं कोटराजानः स्वयं प्रत्युद्गच्छन्ति ।
[185।26-186।01]
इमे देवस्य जनपदाः ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च ।
[186।01-186।02]
तान् देवः समनुशास्तु ।
[186।02]
वयं देवस्यानुयात्रिका भविष्याम इति ।
[186।02-186।03]
यस्य रूप्यमयं स स्वयमेव तेषामन्तिकं याति पश्चादस्य प्रह्वीभवन्ति ।
[186।03-186।04]
यस्य ताम्रमयं स तेषामन्तिकं गत्वा कलहायते पश्चात् प्रह्वीभवन्ति ।
[186।04-186।05]
यस्य शस्त्रमयं स तेषामन्तिकं गच्छति अन्योन्यं शस्त्राण्यावहन्ति पश्चान्नमन्ति ।
[186।05]
सर्वे तु चक्रवर्तिनः
[186।06]
अवधाः
[186।07-186।08]
शस्त्रेणापि जयतां बधो न प्रवर्तते निर्जित्य च सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयन्ति ।
[186।08]
अत एव ते नियतं देवेषूत्पद्यन्ते ।
[186।08-186।09]
सूत्र उक्तं "राज्ञश्चक्रवर्तिनो लोके प्रादुर्भावात्सप्तानां रत्नानां लोके प्रादुर्भावो भवति ।
[186।10-186।11]
तद्यथा चक्ररत्नस्य हस्तिरत्नस्याश्वरत्नस्य मणिरत्नस्य स्त्रीरत्नस्य गृहपतिरत्नस्य परिणायकरत्नस्ये"ति ।
[186।11]
कथं सत्त्वसंख्याता हस्त्यादयः परकीयेण कर्मणोत्पद्यन्ते ।
[186।12]
न वै कश्चित् परकीयेणोत्पद्यते ।
[186।12-186।13]
येन तु सत्त्वेन तत्संबन्ध संवर्तनीयं कर्मोपचितं तस्मिन्नुत्पन्ने स्वान्येवैनं कर्माण्युत्पादयन्ति ।
[186।13-186।14]
किमेष एवान्यराजभ्यश्चक्रवर्तिनां विशेषः ।
[186।14]
अन्योऽपि विशेषोऽस्ति ।
[186।14-186।15]
तद्यथा द्वात्रिंशन्महापुरुषलक्षणान्येषां भवन्ति तद्यथा बुद्धानाम् ।
[186।15]
तत्र तु
[186।16]
देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः ।
[186।17]
देशस्थतराणि बुद्धानां लक्षणानि ।
[186।17-186।18]
उत्तप्ततराणि संपूर्णतराणि चेत्येष तेषां विशेषः ।
[186।19]
किं खलु प्राथमकल्पिका अपि मनुष्याः सराजका आसन् ।
नेत्याह ।
[186।20]
किं तर्हि ।
[186।21]
प्रागासन्नुपिवत् सत्त्वाः
[186।22]
प्रथमकल्पिका मनुष्या रूपावचरा इवासन् ।
[186।22-186।24]
सूत्र उक्तं "ते भवन्ति रूपिणो मनोमयाः सर्वाङ्गप्रत्यङ्गोपेता आविकला अहीनेन्द्रियाः शुभा वर्णस्थायिनः स्वयं प्रभा विहायसंगमाः प्रीतिभक्षः प्रीत्याहारा दीर्घायुषो दीर्घमध्वानं तिष्ठन्ती"ति ।
[186।25]
रसरागात्ततः शनैः
[186।26]
आलस्यात्सम्निधिम् कृत्वा साग्रहैः क्षेत्रपो भृतः ।
[186।27]
तेषां तथाभूतानां भूमिरसः प्रादुर्भूतो मधुस्वादुरसः ।
[186।27-187।01]
तस्यान्यतमो लोलुपजातीयः सत्त्वो गन्धं घ्रात्वा रसं स्वादितवान् भक्षितवांश्च ।
[187।01-187।02]
तथाऽन्येऽपि सत्त्वास्तथैवाकार्षुः ।
[187।02]
स आरम्भः कवडीकाराहारस्य ।
[187।02-187।03]
तेषां तदाहाराभ्यासात् खरत्वं गुरुत्वं च कायेऽवक्रान्तं प्रभावा अन्तर्हिताः ।
[187।03-187।04]
ततोऽन्धकार उत्पन्ने सूर्याचन्द्रमसौ प्रादुर्भूतौ ।
[187।04-187।05]
सोऽप्येषां भूमिरस आस्वादगृद्धानां क्रमेणान्तर्हितो भूमिपर्पटकं प्रादुर्भूतम् ।
[187।05]
तत्रापि गृद्धास्तदप्यन्तर्हितम् ।
वनलता प्रादुर्भूता ।
[187।05-187।06]
तत्रापि गृद्धाः साऽप्यन्तर्हिता ।
[187।06]
अकृष्टोप्तः शालिरुत्पन्नस्तं प्रभुक्ताः ।
[187।06-187।08]
तस्येदानीमौदारिकत्वान्निःस्यन्दनिर्वाहार्थं सत्त्वानां मूत्रपुरीषमार्गौ सह स्त्रीपुरुषेन्द्रियाभ्यां प्रादुर्भूतौ संस्थानं च भिन्नम् ।
[187।08-187।09]
तेषामन्योन्यं पश्यतां पूर्वाभ्यासवशादयोनिशोमनस्कारग्राहग्रासतां गतानां कामराग उदीर्णो यतो विप्रतिपन्नाः ।
[187।09-187।10]
एष आरम्भः कामिनां कामभूतग्रहावेशस्य ।
[187।10-187।11]
ते च खलु तं शालिं सायं च सायमाशार्थं प्रातश्च प्रातराशार्थं प्रवेशयन्ति स्म ।
[187।11]
अथान्यतमः सत्त्वोऽलसजातीयः संनिधिकारमकार्षीत् ।
[187।12]
अन्येऽपि च सत्त्वाः संनिधिकारमकार्षुः ।
[187।12-187।13]
तेषां तत्र ममकार उत्पन्ने स शालिर्लूनो लूनो न पुनर्जायते स्म ।
[187।13-187।14]
ततः क्षेत्राणि प्रविभज्य स्वेष्वाग्रहं कृत्वा परकीयं हर्तुमारब्धाः ।
[187।14]
प्रथम आरम्भश्चौर्यस्य ।
[187।14-187।15]
तैस्तेषामङ्कुशार्थं समेत्यान्यतमः पुरुषविशेषः क्षेत्राणि पालयितुं षष्ठभागेन भृतः ।
[187।15-187।16]
तस्य क्षेत्राणामधिपतिः क्षत्रियः क्षत्रिय इति संज्ञोत्पन्ना ।
[187।16-187।17]
महाजनकायस्य संमतः प्रजां च रञ्जयतीति महासंमतो राजेति सम्ज्ञोत्पन्ना ।
[187।17]
एष आरम्भो राजपरंपरायाः ।
[187।17-187।18]
तत्र ये गृहेभ्यो वहिर्मनसः संवृत्तास्तेषां ब्राह्मणा इति संज्ञोत्पन्ना ।
[187।18-187।19]
अथान्यतमस्य राज्ञो लोभात् सम्विभागमकुर्वन्तः सत्त्वानां तास्कर्यं प्राचुर्यमापन्नं स तान् शस्त्रेणोपसंक्रमते स्म ।
[187।20]
ततोऽन्ये नैवङ्कारकाः स्म इति मृषा वाचं वक्तुमारब्धाः इति
[187।21]
ततः कर्मपथाधिक्यादपह्रासे दशायुषः
[187।22-187।23]
तत एवं कर्मपथानां वृद्धौ सत्यां क्रमेण ह्रसतां मनुस्याणां दशवर्षायुषो मनुष्याः संभवन्ति ।
[187।23]
अतोऽस्य कृत्स्नस्यानर्थौघस्य द्वौ धर्मौ मूलयोनिः रसराग आलस्यं च ।
[187।24]
दशवऋषायुषां मनुष्याणामन्तरकल्पस्य निर्यणं भवति ।
कथं भवतीत्याह
[187।25]
कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः ।
[187।26]
त्रिभिरन्तरकल्पस्य निर्याणं भवति ।
शस्त्रेण रोगेण दुर्भिक्षेण च ।
[187।26-188।02]
अन्तरकल्पस्य निर्याणकाले दशवर्षायुषो मनुष्याः अधर्मरागरक्ता भवन्ति विषमलोभाविभूता मिथ्याधर्मपरीताः ।
[188।02-188।03]
तेषां व्यापाद उत्कर्ष गतोऽन्योन्यं सत्त्वं दृष्ट्वा तीव्रमाघातचित्तं वधकचित्तं च प्रत्युपस्थितं भवति ।
[188।03-188।05]
तद्यथेदानीं मृगलुब्धकस्यारण्यकं मृगं दृष्ट्वा ते यद्यदेव गृह्णन्ति काष्ठम् वा लोष्टं वा तत्तेषां तीक्ष्णं शस्त्रं प्रादुर्भवति ।
[188।05]
तेऽन्योन्यं सत्त्वं जीविताद्व्यपरोपयन्ति ।
[188।05-188।06]
पुनः कल्पस्य निर्याणकाले दशवर्षायुषां मनुष्याणां तैरेव दोषैरमनुष्या ईति मुत्सृजन्ति ।
[188।06-188।07]
तेषामसाध्या व्याध्यादयः प्रादुर्भवन्ति यतो म्रियन्ते ।
[188।07-188।08]
पुनर्दशवर्षायुषां तैरेव दोषैर्देवा वर्षं नोत्सृजन्ति यतो दुर्भिक्षं जायते चञ्चः श्वेतास्थि शलाकावृत्तिः ।
[188।08]
कथं च चञ्चः ।
[188।09]
द्वाभ्यां कारणाभ्याम् ।
य इदानीं समवायः स तदानीं चञ्च इत्युच्यते ।
[188।09-188।10]
समुद्गोऽपि चञ्चः ।
[188।10-188।11]
ते च मनुष्या जिघत्सादौर्बल्यपरीताः समेत्य कालं कुर्वन्ति समुद्रेषु चानागतजनताऽनुग्रहार्थं बीजान्यवस्थापयन्ति ।
[188।11]
अतस्तद्दुर्भिक्षं चञ्चमित्युच्यते ।
[188।12]
कथं श्वेतास्थि ।
द्वाभ्यां कारणाभ्याम् ।
[188।12-188।14]
तेषां हि शुष्करुक्षकायानां कालं कुर्वतामाश्वेवास्थीनि श्वेतानि भवन्ति बुभुक्षाहताश्च श्वेतान्यस्थीनि संहृत्य क्वाथयित्वा पिवन्ति ।
[188।14]
कथं शलाकावृत्तिः ।
द्वाभ्यां कारणाभ्याम् ।
[188।14-188।17]
ते हि सत्त्वाः शलाकोद्देशिकया गृहेष्वामिर्षं सम्विभजन्ते अद्य गृहस्वामी भोक्ष्यते श्वो गृहस्वामिनीत्येवमादि धान्यस्थानविवरेभ्यश्च शलाकया धान्यफलानि निष्कृष्य बहुलोदकेन क्वाथयित्वा पिवन्ति ।
[188।17]
एवं वर्णयन्ति ।
[188।17-188।19]
येनैकाहमपि प्राणातीपातविरतिः सम्रक्षिता भवति एकहरीतकी वा संघायैकपिण्डपातो वा सत्कृत्यानुप्रदत्तो भवति स तेषु शस्त्ररोगदुर्भिक्षान्तरकल्पेषु नोत्पद्यत इति ।
[188।20]
अथ कियन्तं कालमेतानि शस्त्राघातरोगदुर्भिक्षाणि तेषां सत्त्वानां भवन्ति
[188।21]
दिवसान् सप्त मासांश्च वर्षाणि च य्थाक्रमम्
[188।22]
शस्त्रकः प्राणातिपातः सप्त दिवसान् भवति ।
रोगः सप्त मासांश्च दिवसांश्च ।
[188।23]
दुर्भिक्षं सप्तवर्षाणि च मासांश्च दिवसाम्श्चेति समुच्चयार्थश्चकारः ।
[188।23-188।24]
तदा च द्वयोर्द्वीपयोस्तेषां प्रतिरूपकाणि भवन्ति ।
[188।24-188।25]
व्यापाद उद्रेकप्राप्तो भवति वैवस्त्र्यदौर्बल्ये जिघत्सापिपासे च ।
[188।25]
यदुक्तमेवमन्यस्यामपि संवर्तन्यां वेदितव्यम् यथायोगमिति ।
[188।26]
अथ कतीमाः संवर्तन्यः ।
[189।01]
संवर्तन्यः पुनस्तिस्रो भवन्त्यग्न्यम्बुवायुभिः ।
[189।02]
एकत्र ध्याने सत्त्वाः समं संवर्तन्ते एतस्यामिति संवर्तनी ।
[189।02-189।03]
सप्तभिः सूर्यैस्तेजः संवर्तनी भवति वर्षोदकेनाप्संवर्तनी वायुप्रकोपाद्वायुसंवर्तनी ।
[189।04]
ताभिश्च भाजनानां सुक्ष्मोऽप्यवयवो नावशिष्यते ।
[189।04-189।05]
अत्र तु केचितीर्थङ्करा इच्छन्ति ।
[189।05]
परमाणवो नित्यास्ते तदानीं शिष्यन्त इति ।
कस्मात्त एवमिच्छन्ति ।
[189।06]
मा भूदबीजकः स्थूलानां प्रादुर्भाव इति ।
[189।06-189।07]
ननु च सत्त्वानां कर्मजः प्रभावविशिष्टो वायुर्बीजमुक्तम् ।
[189।07]
सर्वर्तनीशीर्षवायुर्वातस्य निमित्तं भविष्यति ।
[189।07-189।08]
"वायुना लोकान्तरेभ्यो बीजान्याह्रियन्त" इति महीशासकाः सूत्रे पठन्ति ।
[189।08-189।09]
एवमपि न ते बीजादिभ्योऽङ्कुरादीनामुत्पत्तिमिच्छन्ति ।
[189।09]
किं तर्हि ॥
[189।09-189।10]
स्वेभ्य एवावयवेभ्यस्तेषामपि स्वेभ्यः ।
[189।10]
एवं यावत् परमाणुभ्यः ।
[189।10-189।11]
किमिदं बीजादीनामङ्कुरादिषु सामर्थ्यम् ।
[189।11]
न किञ्चिदन्यत्र तत्परमाणूपसर्पणात् ।
[189।11-189।12]
किं पुनः कारणं त एवमिच्छन्ति ।
[189।12]
नहि विजातीयात्संभवो युक्त इति ।
कस्मान्न युक्तः ।
[189।12-189।13]
अनियमो हि स्यात् ।
[189।13]
शक्तिनियमान्नैवं भविष्यति ।
शब्दपाकजोत्पत्तिवत् ।
[189।13-189।14]
चित्रो हि गुणधर्मो द्रव्यं तु नैवम् ।
[189।14-189।15]
समानजातीयेभ्यः एव हि द्रव्येभ्यः समानजातीयानां दृष्ट उत्पादस्तद्यथा वीरणेभ्यः कटस्य तन्तुभ्यः पटस्येति ।
[189।15]
इदमयुक्तं वर्तते ।
[189।15-189।16]
किमत्रायुक्तम् यदसिद्धं साधनायोदाह्रियते ।
[189।16]
किमत्रासिद्धम् ।
[189।17]
अन्यो वीरणेभ्यः कटोऽन्यश्च तन्तुभ्यः पट इति ।
[189।17-189।18]
त एव हि ते यथासंनिविष्टास्तां तां संज्ञां लभ्न्ते ।
[189।18]
पिपीलिकापङ्क्तिवत् ।
कथं गम्येत ।
[189।18-189।19]
एकतन्तुसंयोगे पटस्यानुपलम्भात् ।
[189।19]
को हि तदा सतः पटस्योपलब्धौ प्रतिबन्धः ।
[189।19-189।20]
अकृत्स्नवृत्तौ पटभागोऽत्र स्यान्न पटः ।
[189।20]
समूहमात्रं च पटः स्यात् ।
कश्च तन्तुभ्योऽन्यः पटभागः ।
[189।20-189।21]
अनेका श्रयसंयोगापेक्षणे दशामात्रसंयोगे पटोपलब्धिः स्यान्न वा कदाचित् ।
[189।21-189।22]
मध्यपरभागानामिन्द्रियेणासंनिकर्षात् ।
[189।22-189।23]
क्रमसंनिकर्षे चावयवानां चक्षुःस्पर्शनाभ्यामवयवविज्ञानं न स्यात् ।
[189।23-189।24]
तस्मात्क्रमेण संनिकर्षादवयविव्यवसायादवयवेष्वेव तद्बुद्धिरलातचक्रवत् ।
[189।24]
भिन्नरूपजातिक्रियेषु तन्तुषु पटस्य रूपाद्यसंभवात् ।
[189।24-189।26]
चित्ररूपादित्वे विजातीयारम्भोऽपि स्यात् अचित्रे च पार्श्वान्तरे पटस्यादर्शनं चित्रदर्शनं वा ।
[189।26]
क्रियाऽपि चित्रेत्यतिचित्रम् ।
[189।26-189।27]
तापप्रकाशभेदे वाऽग्निप्रभाया आदिमध्यान्ते तद्रूपस्पर्शयोरनुपपत्तिः ।
[189।27-190।02]
परमाण्वतीन्द्रियत्वेऽपि समस्तानां प्रत्यक्षत्वं यथा तेषां कार्यारम्भकत्वं चक्षुरादीनां च तैमिरिकाणां च विकीर्णकेशोपलब्धिः ।
[190।02]
तेषां परमाणुवदेकः देशोऽतीन्द्रियः ।
[190।02-190।03]
रूपादिष्वेव च परमाणुसंज्ञानिवेशा त्तद्विनाशे सिद्धः परमाणुविनाशः ।
[190।03-190।04]
द्रव्यं हि परमाणुरन्यच्च रूपादिभ्यो द्रव्यमिति न तेषं विनाशे तद्विनाशः सिद्ध्यति ।
[190।04-190।05]
अयुक्तमस्यान्यत्वं यावता न निर्धार्यते केनचित् इमानि पृथिव्यप्तेजांसि इम एषां रूपादय इति ।
[190।06-190।07]
चक्षुःस्पर्शनग्राह्याणि च प्रज्ञायन्ते दग्धेषु चोर्णाकर्पासकुसुम्भकुङ्कुमादिषु तद्बुद्ध्यभावाद्रूपादिभेदेष्वेव तद्बुद्धिः ।
[190।07-190।08]
पाकजोत्पत्तौ घटपरिज्ञनं संस्थानसामान्यात् पङ्क्तिवत् ।
[190।08]
चिह्नमपश्यतः परिज्ञानाभावात् ।
[190।08-190।09]
को वा बालप्रलापेष्वादरः इति तिष्ठतु तावदेवाप्रतिषेधः ।
[190।10]
अथ कस्याः संवर्तन्याः कतमच्छीर्ष भवति ।
[190।11]
ध्यानत्रयं द्वितीयादि शीर्ष तासाम् यथाक्रमम्
[190।12]
त्रीणि संवर्तनीशीर्षाणि ।
तेजःसंवर्तन्या द्वितीयं ध्यानं शीर्षं भवत्यधो दह्यते ।
[190।13]
अप्संवर्तन्यास्तृतीयं ध्यानं शीर्ष भवत्यधः क्लिद्यते ।
[190।13-190।14]
वायुसंवर्त्तन्याश्चतुर्थं ध्यानं शीर्षं भवत्यधो विकीर्यते ।
[190।14]
यद्धि संवर्तन्या उपरिष्टात्तच्छीर्षमित्युच्यते ।
[190।14-190।16]
किं पुनः कारणं प्रथमद्वितीयतृतीयध्यानानि तेजोजलवायुभिर्ध्वस्यन्ते ।
[190।17]
तदपक्षालसाधम्र्यात्
[190।18]
प्रथेमे हि ध्याने वितर्कविचारा अपक्षालाः ।
[190।18-190।19]
ते च मनसः परिदाहकत्वादग्निकल्पाः ।
[190।19]
द्वितीये प्रीतिरपक्षालः सा च प्रस्रब्धियोगेनश्रयमृदूकरणादप्कल्पाः ।
[190।20]
अत एवतस्मिन् कृत्स्नकायक्रौर्यापगमात् दुःखेन्द्रियस्य निरोध उक्तः सूत्रे ।
[190।21]
तृतीये ध्याने आश्वासप्रश्वासाः ।
ते च वायव एव ।
[190।21-190।22]
इति यस्यां ध्यानसमापत्तौ यथाभुत आध्यात्मिकोऽपक्षालस्तस्याम् ध्यानोपपत्तौ तथाभूतो बाह्य इति ।
[190।22-190।23]
कस्मात् पृथिवीसंवर्तनी न भवति ।
[190।23-190।24]
पृथिव्येव हि भाजनाख्या तस्यां तेजोजलवायुभिर्विरोधो न पृथ्हिव्येति ।
[190।24]
अथ चतुर्थध्याने कथं न संवर्तनी ।
[190।25]
न चतुर्थेऽस्त्यनिञ्जनात् ।
[190।26]
चतुर्थं ध्यानमाध्यात्मिकापक्षालरहितत्वादानेञ्ज मुक्तं भगवता ।
[190।26-190।27]
अतोऽत्र बाह्योऽपक्षालो न प्रवर्तत इति नास्त्यत्र संवर्तनी ।
[190।27]
शुद्धावासप्रभावादित्यपरे ।
[190।27-191।01]
नहि तैः शक्यमारुप्यान् प्रवेष्टुं नाप्यन्यत्र गन्तुमिति ।
[191।01-191।02]
नित्यं तर्हि चतुर्थध्यानभाजनं प्राप्न्नोति ।
[191।03]
न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात्
[191।04]
नहि चतुर्थं ध्यानमेकभूमिसंबद्धम् ।
किं तर्हि ।
[191।04-191।05]
विच्छिन्नस्थानान्तरं तारकावत् ।
[191।05]
तत्राप्ययं सत्त्व उपपद्येत च्यवेत वा ।
[191।05-191।06]
स सार्धं विमानेनेति नास्त्यस्य नित्यत्वम् ।
[191।06]
केन पुनः क्रमेणैताः संवर्तन्यो भवन्ति ।
निरन्तरं तावत्
[191।07]
सप्ताग्निना
[191।08]
सप्त संवर्तन्यस्तेजसा भवन्ति ।
ततः ।
[191।09]
अद्भिरेका
[191।10]
सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति ।
[191।11]
एवं गतेऽद्भिः सप्तके पुनः ।
[191।12]
तेजसा सप्तकः
[191।13]
एतेन क्रमेणाप्संवर्तनीनां गते सप्तके पुनः तेजःसंवर्तनीनां सप्तको भवति ।
[191।14]
पश्चाद्वायुसंवर्तनी ततः
[191।15]
पश्चादेकावायुसंवर्तनी भवति ।
किं कारणम् ।
[191।15-191।17]
यथिव हि तेषां सत्त्वानां समापत्तिविशेषादात्मभावानां स्थितिविशेषस्तथा भाजनानामपामिति ता एता भवन्ति षट्पञ्चाशत्तेजः संवर्तन्यः सप्ताप्संवर्त्तन्यः एका वायुसंवर्त्तनी ।
[191।17-191।18]
एवं च प्रज्ञप्तिभाष्यं सुनीतं भवति "चतुःषष्टि कल्पाः शुभकृत्स्नानां देवानामायुःप्रमाणमि"ति ।
[191।19-191।20]
"ये धर्मा हेतुप्रभवा हेतुम् तेषां तथागतोह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमण" ॥ इति ।
[191।21]
अभिधर्मकोशभाष्ये लोकनिर्देशो नाम
[191।22-191।23]
तृतीयं कोशस्थानम् समाप्तमिति ।
चतुर्थं कोशस्थानम्
=====================================================================
[192।02]
ओं नमो बुद्धाय ।
[192।03]
अथ यदेतत्सत्त्वभाजनलोकस्य बहुधा वैचित्र्यमुक्त तत् केन कृतम् ।
[192।03-192।04]
न खलु केनचिद्बुद्धिपूर्वकं कृतम् ।
[192।04]
किं तर्हि ।
सत्त्वानां
[192।05]
कर्मजं लोकवैचित्र्यं
[192।06-192।07]
यदि कर्मजं कस्मात्सत्त्वानां कर्मभिः कुङ्कुमचन्दनादयो रम्यतरा जायन्ते न तेषां शरीराणि ।
[192।07-192।08]
कर्माण्येव तान्येवञ्जातीयाति व्याभिश्रकारिणां सत्त्वानां यदाश्रयाश्च व्रणभूता जायन्ते भोगाश्च रम्यास्तत्प्रतीकारभूताः ।
[192।08-192।09]
अव्यामिश्रकारिणां तु देवानामुभये ऽपि रम्याः ।
[192।09]
किं पुनस्तत्कर्मेत्याह
[192।10]
चेतना तत्कृतं च तत् ।
[192।11]
सूत्र उक्तं "द्वे कर्मणी चेतना कर्म चेतयित्वा चे"ति ।
[192।11-192।12]
यत्तच्चेतयित्वा चेतनाकृटं च तत् ।
[192।12]
ते एते द्वे कर्मणी त्रीणि भवन्ति ।
कायवाङ्मनस्कर्माणि ।
[192।12-192।13]
कथमेषां कर्मणां व्यवस्थानम् ।
[192।13]
किमाश्रयतः आहोस्वित् स्वभावतः समुत्थानतो वा ।
[192।13-192।14]
आश्रयतश्चेदेकं कायकर्म प्राप्नोति ।
[192।14]
सर्वेषां कायाश्रितत्वात् स्वभावतश्चेद्वाक्कर्मैकं प्राप्नोति ।
[192।15]
वचसः कर्मस्वभावत्वात् ।
समुत्थानतश्चेन्मनस्कर्मैकं प्राप्नोति ।
[192।15-192।16]
सर्वेषां मनः समुत्थितत्वात् ।
[192।16]
यथाक्रमं त्रिभिः कारणैस्त्रयाणामिति वैभाषिकाः ।
तत्र पुनः
[192।17]
चेतना मानसं कर्म
[192।18]
चेतना मनस्कर्मे ति वेदितव्यम् ।
[192।19]
तज्जं वाक्कायकर्मणी
[192।20]
यत्तच्चेतनाजनितं चेतयित्वा कर्मेत्युक्तं कायवाक्कर्मणी ते वेदितव्ये ।
[192।21]
ते तु विज्ञप्त्यविज्ञप्ती
[192।22]
ते तु कायवाक्कर्मणी प्रत्येकं विज्ञप्त्यविज्ञप्तिस्वभावे वेदितव्ये ।
तत्र तु
[192।23]
कायविज्ञप्तिरिष्यते ।
[192।24]
संस्थानं
[192।25]
चित्तवशेन कायस्य तथा तथा संस्थानं कायविज्ञप्तिः ।
गतिरित्यपरे ।
[192।25-192।26]
प्रस्यन्दमानस्य हि कायकर्म नो ऽप्रस्यन्दमानस्येति ।
[192।26]
त उच्यन्ते
[193।01]
न गतिर्यस्मात्संस्कृतं क्षणिकं
[193।02]
को ऽयं क्षणो नाम ।
आत्मलाभो ऽनन्त्रविनाशी ।
सो ऽस्यास्तीति क्षणिकम् ।
[193।03]
दण्डकवत् ।
सर्व हि संस्कृतमात्मलाभा दूर्ध्वं न भवतीति यत्रैव जातं तत्रैव ध्वस्यते ।
[193।04]
तस्यायुक्ता देशान्तरसंक्रान्तिः ।
तस्मान्न गतिः कायकर्म ।
[193।04-193।05]
स्यादेतदेव यदि सर्वस्य ष्क्णिकत्वं सिध्येत् ।
[193।05]
सिद्धमेवैतत् विद्धि ।
कुतः ।
संस्कृतस्यावश्यं ।
[193।06]
व्ययात्
[193।07]
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0