भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 281300

शुक्लपक्षस्यादौ चन्द्रमसो विकलं मण्डलं दृश्यते ।
किं तत्र कारणम् ।
[166।14]
स्वच्छायया ऽर्कसामीप्याद्विकलेन्दुसमीक्षणम्
[166।15-166।16]
यदा हि सौरस्य विमानस्यासन्ने चान्द्रमसं विमानं वहति तदा किल सौर्यो भासस्तस्मिन् विमाने पतन्ति ।
[166।16-166।17]
ततो ऽपरपार्श्वे छाया पतन्ती विकलं मण्डलं दर्शयतीति प्राज्ञप्तिको निर्देशः ।
[166।17-166।18]
वाहयोगः स तादृशो भवति यत्कदाचिद्विमानस्यार्धं दृश्यत इति पूर्वाचार्याः ।
[166।18-166।19]
अथैतानि सूर्यादिविमानानि कतमे सत्त्वा अध्यावसन्ति ।
[166।19]
देवाश्चातुर्महाराजकायिकाः ।
किमेतान्येव तेषां स्थानानि ।
[166।20]
विमानवासिनामेतानि ।
भूमिनिवासिनां पुनः सुमेरूपरिषण्डादीनि ।
[166।20-166।21]
कति चास्य परिषण्डाः कियत्यो वा ।
[166।22]
परिषण्डाश्चतस्रो ऽस्य दशसाहस्रिकान्तराः ।
[166।23]।
दशयोजनसहस्राण्युद्गम्यैका ।
एवं यावच्चतुर्थी ।
ताभिः सुमेरोरर्धमाक्षिप्तम् ।
[166।24]
ताश्च ततो यथासंख्यं
[167।01]
षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः
[167।02]
प्रथमा परिषण्डा षोडश सहस्राणि योजनानां सुमेरोर्निर्गता ।
[167।03]
द्वितीया ऽष्टौ तृतीया चत्वारि चतुर्थी द्वे ।
[167।04]
करोटपाणयस्तासु मालाधारास्सदामदाः ।
[167।05]
महाराजिकदेवाश्च
[167।06]
प्रथमायां परिषण्डायां करोटपाणयो नाम यक्षाः प्रतिवसन्ति ।

[167।06-167।07]
द्वितीयायां मालाधारास्तृतीयायां सदामदाः सदामत्ताः ।
[167।07]
सर्व एते चतुर्महाराजकायिकाः ।
[167।07-167।08]
चतुर्थ्यां तु चत्वारो महाराजाः स्वयं प्रतिवसन्ति तत्परिचाराश्च ।
[167।08-167।09]
अतस्तस्यां महाराजकायिका देवा इत्युक्तम् ।
[167।09]
यथा परिषण्डासु चतुर्महाराजकायिका देवा एवं
[167।10]
पर्वतेष्वपि सप्तसु
[167।11]
युगन्धरादिषु पर्वतेषु तेषां ग्रामनिगमाः ।
अत एवैष देवनिकायः सर्वेषां महिष्ठः ।
[167।12]
मेरुमूर्ध्नि त्रयस्त्रिंशाः
[167।13]
अथ कियान्मेरुमूर्धा ।
[167।14]
स चाशीतिसहस्रदिक् ।
[165।15]
एकैकपार्श्वमशीतिसहस्राणि यथैवाधस्तात् ।
[167।15]
अन्ये पुनराहुः ।
[167।15-167।16]
स विंशतिसहस्रदिक् ।
[167।16]
चत्वारि पार्श्वन्यस्य चतस्रो दिशः ।
[167।16-167।17]
एकैकं पार्श्वं विंशतिर्योजनसहस्राणि समन्तात् परिक्षेपेणाशीतिरिति ॥
[167।17]
तस्य च
[167।18]
विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः
[167।19]
सूमेरुमूर्ध्नो विदिशः कोणाः ।
[167।19-167।20]
तासु पञ्चयोजनशतप्रमाणाश्चत्वारः कूटा अभ्युद्गता येषु वज्रपाणयो नाम यक्षाः प्रतिवसन्ति ।
[167।20]

तस्य च मेरुमूर्ध्नः
[167।21-167।22]
मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम् ।
पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु
[167।23-167।24]
सुमेरुतलस्य मध्ये सुदर्शनं नाम नगरम् दैर्ध्ये सार्धतृतीययोजनसहस्रे एकैकं पर्श्वमुच्छ्रायेणाध्यर्धयोजनम् ।
[167।24-167।25]
प्राकारः सौवर्ण एकोत्तरेण धातुशतेनास्य भुमिश्चित्रिता ।
[167।25-167।26]
तच्च भूमितलं तूलपिचुवत् मृदुसंस्पर्शं पादक्षेपोत्क्षेपाभ्यां नतोन्नतं शक्रस्य देवानामिन्द्रस्य राजधानी ।
[168।01]
सार्धद्विशतपाश्र्वो ऽत्र वैजयन्तः
[168।02-168।04]
शक्रस्य देवानामिन्द्रस्य वैजयन्तो नाम प्रासादो नगरस्य मध्ये नानारत्नस्थानविधानसंपदा सर्वान्यभवनश्रीमहिम्ना ह्रेपणो दैर्ध्येणार्धतृतीये योजनशते पार्श्वं पार्श्वम् ।
[168।04]
इयं तावन्नगरस्याभिरामता ।
[168।05]
बहिः पुनः ।
[168।06]
तच्चैत्ररथपारुष्यमिश्रनन्दनभूषितम्
[168।07]
तस्य हि नगरस्य बहिश्चतुर्षु पार्श्वेषु चत्वार्युद्यानादीनि देवानां क्रिडाभूमयः ।
[168।08]
चैत्ररथमुद्यानं पारुष्यकं मिश्रकावणं नन्दनवनं च ।
तैस्तन्नगरं बहिरलङ्कृतम् ।
[168।09]
विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम् ।
[168।10-168।11]
एषां चोद्यानानां चतुर्दिशं चत्वारि सुमूमीनि विंशतियोजनान्तरितानि क्रीडास्थानान्येव देवानां परस्परस्पर्धयैव शोभां वितन्वन्ति ।
[168।12]
वहिरेव नगरस्य पार्श्वे
[168।13]
पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणावरे
[168।14]
पारिजातो नाम कोविदारस्त्रायस्त्रिंशानां देवानां कामरतिप्रकर्षाश्रयः ।
[168।14-168।15]
तस्य पञ्च योजनानि मूलाहिनिवेशो योजनशतमुच्छ्रायः।
[168।15-168।16]
पञ्चाशत् योजनानि शाखापत्रपलाशं स्करित्वा तिष्ठति ।
[168।16-168।17]

तस्य खलु सर्वपरिफुल्लस्य योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजन योजनानि प्रतिवातम् ।
[168।17]
युक्तं तावदनुवातम् ।
[168।17-168।18]
प्रतिवातं तु कथम् ।
[168।18]
वृक्षानतिक्रमं संधायोक्तमित्येके ।
[168।18-168।19]
नहि नाम स्प्रतिवातं वातो वाति ।
[168।19-168।20]
तस्यैव तु सा गन्धस्य तादृशो प्रभावसंपदेष्टव्या यात् प्रतिबध्यमानोऽपि दिव्यैर्मृदुमारुतैर्गन्धान्तरं संतनोति ।
[168।20-168।21]
मन्दतरतमसमारम्भात्तु संतान आश्वेव समुच्छिद्यते यतो न तथा विप्रकृष्टमध्वानं प्रसर्पति ।
[168।21-168।22]
किं पुनः स्वभूताश्रित एवमपुष्पगन्धसंतानो वर्तते उताहो वायुरधिवासितो जायते ।
[168।22]
नात्र नियमः ।
[168।23]
उभयथापि ह्याचार्येष्टिः ।
यत्तर्हि भगवतोक्तं
[168।24-168।25]
"न पुष्पगन्धः प्रतिवातमेति न मौलिकस्तागरश्चान्दनो वा ।
सतां तु गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाती"ति ।
[169।01]
मानुष्यकं पुष्पगन्धं संधायोक्तम् ।
तद्धि प्रतीतं लोके ।
[169।01-169।03]
न च तस्य तादृशी शक्तिः महीसासकास्तु पथन्ति "योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजनानि प्रतिवातमिति ।
[169।03-169।04]
सुधर्मा नाम देवसभा दक्षिणपश्चिमे दिग्भागे यस्यां निषद्य देवाः कृत्याकृत्यं समर्थयन्ति ।
[169।04]
एष तावत्त्रिदशानां भाजनसंनिवेशः ।
[169।05]
ततऊर्ध्वं विमानेषु देवाः
[169।06]
त्रिदशेभ्य ऊर्ध्वं देवा विमानेषु प्रतिष्ठिताः ।
[169।06-169।07]
ते पुनर्यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनश्च ब्रह्मकायिकादयश्च पूर्वोक्ताः षोडशस्थानान्तरगताः ।
[169।08]
इत्येते द्वाविंशतिदेवनिकायाः समासेन येषां भाजनं प्रज्ञायते ।

[169।09]
कामभुजस्तु षट् ।
[169।10]
तेषां तु षट् कामावचरा देवनिकायाः कामान् परिभुञ्जते न शेषाः ।
[169।10-169।11]
तद्यथा चतुर्महाराजकायिका यावत् परनिर्मितवशवर्तिनः ।
[169।11]
ते पुनः
[169।12]
द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षितमैथुनाः
[169।13]
द्वन्द्वेन मैथुनं भूमिसम्बद्धवासिनाम् ।
[169।13-169।14]
चातुर्महाराजकायिकानां त्रायस्त्रिङ्क्शानां यथा मनुष्याणाम् ।
[169।14]
तेषां तु वायुनिर्मोक्षात् दाहविगमः शुक्राभावात् ।
[169।14-169।15]
आलिङ्गनेन मैथुनं यामानामालिङ्गनमात्रेण दाहविगमात् ।
[169।15-169।16]
पाणिसंप्राप्त्या तुषितानां हसितेन निर्माणरतीनां प्रेक्षितेन परनिर्मितवशवर्तिनाम् ।
[169।16-169।17]
स्ववर्तिनां सर्वेषां द्वन्द्वसमापत्त्या ।
[169।17]
कालपरिमानं तु प्रज्ञप्तावुक्तमिति वैभाषिकाः ।
[169।17-169।18]
यावद्यावद्विषयाणां तीव्रतरता तावत्तावद्रागोऽपि तीव्रतरः ।
[169।18-169।19]
यस्य देवस्य देव्या वा उत्सङ्गे देवकुमारो देवकन्या वा जायते स तयोः पुत्रो भवति सा च दुहिता ।
[169।19-169।20]
कियत्प्रमाणो जायते ।
[169।21]
पञ्चवर्षोपमो यावत् दशवर्षोपमः शिशुः ।
[169।22]
संभवत्येषु
[169।23]
यथासंख्यं षट्सु देवनिकायेषु ।
ते तु क्षिप्रमेवाभिवर्धन्ते ।
[169।24]
संपूर्णाः सवस्त्राश्चैव रूपिणः
[170।01]

रूपावचरा देवाः संपूर्णकायाः वस्त्रेण संवीता उपपद्यन्ते ।
[170।01-170।02]
सर्वे देवा आर्यभाषाभाषिणः ।
[170।02]
तदत्र कामधातौ वेदितव्याः
[170।03]
कामोपपत्तयस्तिस्रः कामदेवाः समानुषाः ।
[170।04]
कथं कृत्वा ।
[170।04-170।05]
सन्ति सत्त्वाः प्रत्युपस्थितकामाः प्रत्युपस्थितेषु कामेष्वैश्वर्यं वशे वर्तयन्ति ।
[170।05]
तद्यथा मनुष्यास्तदेकत्याश्च देवाः ।
ते पुनश्चत्वारो देवनिकायाः ।
[170।06]
सन्ति सत्त्वा निर्मितकामा निर्माय कामानैश्वर्य वशे वर्तयन्ति ।
[170।06-170।07]
तद्यथा देवा निर्माणरतयः ।
[170।07-170।08]
सन्ति सत्त्वाः परनिर्मितकामाः परनिर्मितेषु कामेष्वैश्वर्य वशे वर्त्तयन्ति ।
[170।08]
तद्यथा देवाः परनिर्मितवशवर्त्तिनः ।
[170।08-170।10]
ता एता यथोत् पन्नपरिभोगित्वात् यथेच्छात्मनिर्मितपरिभोगित्वाद्यथेच्छात्मपर निर्मितपरिभोगित्वाच्च तिस्रः कामोपपत्तय इत्युच्यन्ते ।
[170।10]
रूपधातौ तु
[170।11]
सुखोपपत्तयस्त्रिसो नवत्रिध्यानभूमयः
[170।12]
त्रिषु ध्यानेषु या नव भूमयः तास्तिस्रः सुखोपपत्तयः ।
[170।12-170।14]
ते हि देवा विवेकजेन समाधिजेन च प्रीतिसुखेन च निष्प्रीतिकेन च सुखेन सुखं विहरन्तो दीर्घमध्वानं तिष्ठन्ति ।
[170।14]
अत एता निर्दुःखदीर्घसुखत्वात्सुखा उपपत्तयः सुखोपपत्तयः ।
[170।14-170।15]
ध्यानान्तरोत्पत्तौ तु प्रीतिसुखाभावात्सुखोपपत्तित्वं विचार्यम् ।
[170।16-170।17]
यान्येतानि देवानां द्वाविंशतिस्थानान्युक्तानि तेषामधरादुत्तरं कियद्विप्रकृष्टम् ।
[170।17]
नैतत् सर्वं योजनपरिसंख्यया सुकरं परिसंख्यातुम् ।

अपि तु
[170।18]
स्थानात् स्थानादधो यावत्तावदूर्ध्वं ततस्ततः ।
[170।19-170।20]
जम्बूद्वीपात् प्रभृति यदुत्तरं स्थानं तस्माद्यावदधो जम्बूद्वीपस्तावत् पुनस्तस्मादूर्ध्वं स्थानान्तरम् ।
[170।20-170।21]
तद्यथा चतुर्थी परिषण्डा चतुर्णां महाराजानां मूलस्थानमितश्चत्वारिंशद्योजनसहस्राणि ।
[170।21-170।22]
तस्माद्यावदधोजम्बूद्वीपस्तावदूर्ध्वं त्रिदशानां स्थानम् तस्मादपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं यामानां स्थानम् ।
[170।23]
ततोऽपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं तुषितानां स्थानमिति ।
[170।23-170।24]
एवं विस्तरेण सर्वमनुक्रम्य सुदर्शनेभ्यो यावदधो जम्बूद्वीपस्तावदूर्ध्वंमकनिष्ठानां स्थानम् ।
[170।25]
तस्मादूर्ध्वं न पुनः स्थानमस्ति ।
अत एव ज्येष्ठभूत्वादकनिष्ठा उच्यन्ते ।
[170।25-170।26]
अघनिष्ठा इत्यपरे ।
[170।26]
अघं किल चित्तस्थं रूपं तन्मात्रनिष्ठेति ।
[170।27]
किं पुनरधरस्थानोपपन्ना उर्ध्वानि विमानानि गत्वा पश्यन्ति
[171।01]
नोर्ध्वं दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात्
[171।02]
ऋद्ध्या वा त्रायस्त्रिंशा यामान् ।
गच्छेयुः ।
[171।02-171।03]
पराश्रयेण वा यद्वृद्धिमता नीयेरन् देवेन वा तत्रत्येन ।
[171।03]
एवं शेषाः ।
[171।03-171।04]
आगतं तूर्ध्वोपपन्नं पश्येन्नतूर्ध्वधातुकं नोर्ध्वभूमिकम् ।
[171।04]
यिअथा स्प्रष्टव्यं न स्पृशेदविषयत्वात् ।
[171।04-171।05]
अत एव तेनास्वेन कायेनागच्छन्ति ।
[171।05-171।06]
किं तर्हि निर्मितेनाधरभूमिकेन तदिच्छया पश्येदिहत्यमिवेति निकायान्तरीयाः ।
[171।07]

अथैषां यामादिविमानानां कियत् प्रमाणम् ।
[171।07-171।08]
चतुर्णां तावद्यावत्सुमेरुमूर्ध्नः इत्येके ।
[171।08]
द्विगुणोत्तरमित्यपरे ।
प्रथमं तु ध्यानं यावांश्चातुर्द्वीपकः ।
[171।08-171।09]
द्वितीयं यावान् साहस्रश्चूडिको लोकधातुः ।
[171।09]
तृतीयं यावान् द्विसाहस्रः ।
[171।09-171।10]
चतुर्थं यावांस्रिसाहस्र इत्येके ।
[171।10]
प्रथमादीनि साहस्रादिपरिमाणानि ।
[171।10-171।11]
चतुर्थं त्वपरिमाणमित्यपरे ।
[171।12]
अथ कोऽयं साहस्रश्चूडिको लोकधातुः को द्विसाहस्रस्त्रिसाहस्रो वा ।
[171।13-171।14]
चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् ।
ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः
[171।15-171।17]
सहस्रञ्जंबूद्वीपानां पूर्वविदेहानामपरगोदानीयानामुत्तरकुरुणां सहस्रं सूर्याणां चन्द्राणां सुमेरूणां सहस्रं चातुर्महाराजकायिकानां देवानां यावत् परनिर्मितवशवर्तिनां सहस्रं ब्रह्मलोकानामयमुच्यते साहस्रश्चूडिको लोकधातुः ।
[171।18]
तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः ।
[171।19]
तेषां चूडिकानां लोकधातूनां सहस्रं द्विसाहस्रो मध्यमो लोकधातुः ।
[171।20]
तत्सहस्रं त्रिसाहस्रः
[171।21]
तेषां द्विसाहस्राणां लोकधातूनां सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातुः ।
[171।21-171।22]
एष हि कृत्स्नः
[171।23]
समसंवर्तसंभवः
[171।24]
समं संवर्तते समं विवर्तते ।
संभवो हि विवर्तः इत्युत्तरत्र व्याख्यास्यते ।
[171।25-171।26]
किं खलु यथा भाजनानां प्रमाणभेद एवं तद्वासिनामपि सत्त्वानां प्रमाणभेदोऽस्ति ।

[171।26]
अस्तीत्याह ।
तत्र तावत्
[171।27]
जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः ।
[171।28]
जम्बूद्वीपका मनुष्याः प्रमाणार्धचतुर्हस्तकाः केचित्तु चतुर्हस्तकाः
[172।01]
द्विगुणोत्तरवृद्ध्या तु पूर्वगोदोत्तराह्वयाः
[172।02-172।03]
पूर्वविदेहका गोदानीका उत्तरकौरवाश्च मनुष्या अष्टषोडशद्वात्रिंशद्धस्तका यथाक्रमम् ।
[172।04]
पादवृद्ध्या तनुर्यावत्सार्धक्रोशो दिवौकसाम् ।
[172।05]
कामिनां
[172।06]
पादः क्रोशस्य चतुर्थो भगः ।
[172।06-172।08]
तन्मात्रं शरीरं चातुर्महाराजकायिकानां द्वौ पादौ त्रायस्त्रिंशानां त्रयो यामानां चत्वारस्तुषितानां पञ्च निर्माणरतीनां अध्यर्धः क्रोशः परनिर्मितवशवर्तिनाम् ।
[172।09]
रुपिणां त्वादौ योजनार्धं
[172।10]
रूपिणां देवानां प्रथमे स्थाने ब्रह्मकायिकानामर्धयोजनमात्रं शरीरम् ।
[172।11]
ततः परम्
[172।12]
अर्धार्धवृद्धिः
[172।13]
त्रिषु स्थानेसु ब्रह्मपुरोहितानां योजनं महाब्रह्मणो ऽध्यर्धं परीत्ताभानां द्वे योजने ।
[172।14-172।15]
उर्ध्वं तु परीत्ताभेभ्य आश्रयः ।
द्विगुणद्विगुणा हित्वा ऽनभ्रकेभ्यऽस्त्रियोजनम्
[172।16]
अप्रमाणाभानां चत्वारि योजनानि ।
आभास्वराणामष्टौ ।
[172।16-172।17]
एवं द्विगुणवृद्ध्या यावच्छुभकृत्स्नानां चतुःषष्टिः ।
[172।17-172।18]
अनभ्रकाणां ततो योजनत्रयेण हीनं द्विगुणं पञ्चविंशतियोजन शतम् ।
[172।18-172।19]

तस्मात् परेण पुनः पुण्यप्रसवानां द्विगुणं द्विगुणं यावदकनिष्ठानां षोडशयोजनसहस्राणि शरीरम् ।
[172।20]
एवं प्रमाणभिन्नानां किमायुषोऽप्यस्ति भेदः ।
अस्तीत्याह ।
[172।21]
सहस्रमायुः कुरुषु
[172।22]
वर्षाणाम् ।
[172।23]
द्वयोरर्धार्धवर्जितम् ।
[172।24]
द्वयोर्द्विपयोरर्धार्धं वर्जयित्वा पञ्च वर्षशतानि गोदानीयानाम् ।
[172।24-172।25]
अर्धतृतीये वर्षशते पूर्वविदेहानाम् ।
[173।01]
इहानियतम्
[173।02]
जम्बूद्वीपे नास्त्यायुषो नियमः कदाचित् भूयो भवति कदाचिदल्पीयः ।
[173।03]
अन्ते तु दशाब्दाः
[173।04]
अब्दः संवत्सरः ।
अन्ते हीयमानं दश वर्षाण्यायुर्भवति ।
[173।05]
आदितोऽमितम्
[173।06]
आदितः प्राथमकल्पिकानं मनुष्याणामपरिमाणमायुर्भवति ।
[173।06-173।07]
सहस्रादिसंख्यया परिमातुं न शक्यते ।
[173।08]
उक्तं मनुष्याणां देवानां वक्तव्यम् ।
[173।08-173।09]
तच्चाहोरात्रं व्यवस्थाप्य शक्यं वक्तुमिति स एव चैषां व्यवस्थाप्यते ।
[173।10-173।11]
नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम् ।
कामेऽधराणां
[173।12-173।13]
यानि मनुष्याणां पञ्चाशद्वर्षाणि तानि कामधातावधराणां देवानां चातुर्महाराजकायिकानामेकं रात्रिन्दिवम् ।
[173।14]
तेनायुः पञ्चवर्षशतानि तु

[173।15-173।16]
तेन ततस्तेनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वादशमासकेन संवत्सरेण दिव्यानि पञ्चवर्षशतान्यायुः प्रमाणम् ।
[173।17]
द्विगुणोत्तरमूर्ध्वानामुभयं
[173।18]
ऊर्ध्वानां देवानामुभय द्विगुणोत्तरमहोरात्रश्चायुश्च ।
कथं कृत्वा ।
[173।18-173।19]
यन्मनुष्याणां वर्षशतं तत्त्रायस्त्रिंशानां देवानामेकं रात्रिन्दिवम् ।
[173।19-173।20]
तेन रात्रिन्दिवेन दिव्यं वर्षसहस्रमायुः ।
[173।20]
एवं यामादीनां यथाक्रमम् ।
[173।20-173।21]
मानुष्यकाणि द्वे चत्वार्यष्टौ षोडश वर्षशतान्येकं रात्रिन्दिवम् ।
[173।21-173।22]
तेन रात्रिन्देवेन द्वे चत्वार्यष्टौ षोडश दिव्यानि वर्षसहस्राण्यायुषः प्रमाणम् ।
[173।22]
युगन्धरादूर्वं सूर्याचन्द्रमसोरभावात् ॥
[173।22-173।23]
कथं देवानामहोरात्रव्यवस्थानमालोककृत्यं वा ।
[173।23-173।24]
पुष्पाणां संकोचविकासात्कुमुदबन्धु वत् शकुनीनां कूजनाकूजनात् मिद्धापगमागमाच्च आलोककृत्यं स्वयंप्रभत्वात् ।
[173।25]
उक्तमायुः कामिनाम् ।
[174।01]
रूपिणां पुनः ।
[174।02]
नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसंमितैः
[174।03]
येषां रूपिणामर्धयोजनमाश्रयः तेषामर्धकल्पमायुः ।
येषां योजनं तेषां कल्पम् ।
[174।03-174।05]
एवं यस्य यावद्योजनमाश्रयस्तस्य तावत्कल्पमायुर्यवदकनिष्ठानां षोडशकल्पसहस्राण्यायुः प्रमाणम् ।
[174।06]
आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम् ।
[174।07]
आकाशानन्त्यायतने विंशतिकल्पसहस्राण्यायुषः प्रमाणम् ।
[174।08]
विज्ञानानन्त्यायतने तस्मादधिकं विंशतिः सहस्राणि ।

[174।08-174।09]
आकिञ्चन्यायतने तस्मादधिकं विंशतिः ।
[174।09]
भवाग्रे तस्मादधिकं विंशतिः ।
[174।09-174।10]
एवं तेषां यथाक्रमं विंशतिश्चत्वारिंशत् षष्टिरशीतिः कल्पसहस्राण्यायुःप्रमाणम् ।
[174।11-174।12]
कतमोऽत्र कल्पो वेदितव्यः किमन्तरकल्पोऽथ संवर्तकल्पोऽथ विवर्त्तकल्पोऽथ महाकल्पः ।
[174।13]
महाकल्पः परीत्ताभात् प्रभृत्यर्धमधस्ततः
[174।14]
परीत्ताभादेव निकायात् प्रभृति महाकल्पेनायुः वेदितव्यम् ।
[174।14-174।15]
तस्मादधो महाकल्पस्यार्ध कल्पीकृत्य महाब्रह्मादीनामायुर्व्यवस्थापितम् ।
[174।15]
कथं कृत्वा ।
[174।15-174।17]
यच्च लोको विंशतिमन्तरकल्पान् विवर्तते यच्च लोको विंशतिमन्तरकल्पान्विवर्त आस्ते यच्च विंशतिमन्तरकल्पान्संवर्तते इमे षष्टिरन्तरकल्पा महाब्रह्मणोऽध्यर्धः कल्पः उक्तः ।
[174।17-174।18]
एवं च कृत्वा महाकल्पस्यार्धं चत्वारिंशदन्तरकल्पान् कल्पीकृत्य तेषामायुः प्रमाणमुक्तम् ।
[174।19]
उक्तं सुगतावायुः प्रमाणम् ।
[174।20]
दुर्गताविदानीं वक्तव्यम् ।
तत्र तावत्
[174।21-174।22]
कामदेवायुषा तुल्या अहोरात्रा यथाक्रमम् ।
संजीवादिषु षट्सु
[174।23-174।24]
यावत् षण्णां कामावचराणां देवनिकायानामायुरुक्तं तेन तुल्या अहोरात्राः षट्षु नरकेषु यथाक्रमं वेदितव्याः ।
[174।24-174।25]
संजीवे कालसूत्रे संघाते रौरवे महारौरवे तापने च ।
[174।26]
आयुस्तैस्तेषां कामदेववत्
[174।27-174।28]
तैरिदानीं स्वैरहोरात्रैस्तेषां यथा षण्णां कामावचराणां देवानामायुस्तथैव यथाक्रमं वेदितव्यम् ।
[174।28]
कथं कृत्वा ।
[174।28-174।29]
यद्धि चातुर्महाराजकायिकानामायुः प्रमाणं तत्संजीवने महानरके एकं रात्रिन्दिवं ।

[174।29-175।01]
तेन यावत् द्वादशमासकेन संवत्सरेण तत्रत्यानि पञ्चवर्षशतान्यायुः ।
[175।01-175।02]
यत्त्रायस्त्रिंशानामायुः प्रमाणं तत् कालसूत्रे महानरके एकं रात्रिन्दिवम् ।
[175।02-175।03]
तेन रात्रिन्दिवेन तस्मिन्वर्षसहस्राण्यायुःप्रमाणं ।
[175।03-175।04]
एवमन्येष्वपि यथायोगं योज्यं यावत् परनिर्मितवशवर्तिनामायुःप्रमाणं तत्तुल्येनाहोरात्रेण तापने षोडश वर्षसहस्राण्यायुःप्रमाणम् ।
[175।05]
अर्धं प्रतापने
[175।06]
प्रतापने महानरकेऽन्तरकल्पस्यार्धमायुः प्रमाणम् ।
[175।07]
अवीचावन्तःकल्पं
[175।08]
तिरश्चां तु नियमो नास्ति ।
[175।09]
परं पुनः ।
[175।10]
कल्पं तिरश्चां
[175।11]
परमायुस्तिरश्चामन्तरकल्पं तत् पुनर्नागानां नन्दोपनन्दाश्वतलीप्रभृतीनाम् ।
[175।11-175।13]
उक्तं हि भगवता "अष्टाविमे भिक्षवो नागा महानागाः कल्पस्था धरणिधरा" इति विस्तरः ।
[175।14]
प्रेतानां मासाह्ना शतपञ्चकम्
[175।15]
यो मनुष्याणां मासः स प्रेतानामहोरात्रः ।
[175।15-175।16]
तेनाहोरात्रेण पञ्च वर्षशतान्यायुः ।
[175।16]
शीतनरकेष्वायुषः किं प्रमाणम् ।
[175।17-175।18]
वाहाद्वर्षशतेनैकतिलोद्धारक्षयायुषः ।
अर्वुदाद्विंशतिगुणप्रतिवृद्ध्यायुषः परे
[175।19-175।20]
उपमानमात्रेण तेष्वायुराख्यातं भगवता "तद्यथा भिक्षवः इह स्याद्विंशतिखारीको मागधकस्तिलवाहः पूर्णस्तिलानां चूडिकावद्धः ।
[175।20-175।22]
ततः कश्चिदेव वर्षशतस्यात्ययादेकं तिलमपनयते क्षिप्रतरं भिक्षवः सविंशतिखारीको मागधस्तिलवाहोऽनेनोपक्रमेण परिक्षयं पर्यादानं गच्छेत् ।
[175।22]

न त्वेवाहमर्वुदोपपन्नानामायुषः पर्यन्तं वदामि ।
[175।22-175।24]
यथा खलु भिक्षवो विंशतिर्वुदा एवमेको निरर्वुदो विस्तरेण यथा खलु भिक्षवो विंशतिः पद्या एवमेको महापद्म" इति ।
[175।25]
एवमेषामायुष्मतां सत्त्वानां किमस्त्यपरिपूर्णायुषामन्तरा मृत्युराहोस्विन्न ।
[175।26]
सर्वत्रास्ति
[176।01]
कुरुबाह्योऽन्तरामृत्युः
[176।02]
उत्तरकुरुषु नियतायुषः सत्त्वा अवश्यं कृत्स्नमायुर्जीवन्ति ।
अन्येषु नावश्यम् ।
[176।03]
पुद्गलानां तु बहूनां नास्त्यन्तरेण कालक्रियया ।
[176।03-176।05]
तुषितस्थर्स्यकजातिबद्धस्य बोधिसत्त्वस्य चरमभविकसत्त्वस्य जिनादिष्टस्य जिनभुतस्य श्रद्धाधर्मानुसारिणो बोधिसत्त्वचक्रवर्त्तिमात्रोश्च तद्गर्भयोरित्येवमादिनाम् ।
[176।06-176।07]
योजनप्रमणेन स्थानानि शरीराणि चोत्कानि वर्षप्रमाणेनायुरुक्तं तयोश्च प्रमाणं नोक्तमिति वक्तव्यं नाना च सर्वेषां ववस्थानमतस्तस्यापि पर्यन्तो वक्तव्यः ।
[176।08]
तेषां समानाख्यानार्थमादिप्रक्रम आरभ्यते ।
[176।09]
परमाण्वक्षरक्षणाः ।
[176।10]
रूपनामाध्वपर्यन्ताः
[176।11]
रूपस्यापचीयमानस्य पर्यन्तः परमाणुः ।
[176।11-176।12]
कालस्य पर्यन्तः क्षणो नाम्नः पर्यन्तोऽक्षरं तद्यथा गौरिति ।
[176।12]
क्षणस्य पुनः किं प्रमाणम् ।
[176।12-176।13]
समग्रेषु प्रत्ययेषु यावता धर्मस्यात्मलाभः गच्छन्वा धर्मो यावता परमाणोः परमाण्वन्तरं गच्छति ।
[176।13-176।14]
बलवत्पुरुषाद्धट्मात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीत्याभिधार्मिकाः ।
[176।15]
परमाणुरणुस्तथा
[176।16-176।17]
लोहापशशाविगोच्छिद्ररजोलिक्षास्तदुद्भवाः ।
यवस्तथाङ्गुलीपर्व ज्ञेयं सप्तगुणोत्तरम्
[176।18]

एतत्परमाण्वादिकं सप्तगुणोत्तरं वेदितव्यम् ।
सप्त परमाणवोऽणुः ।
[176।18-176।19]
सप्ताणवो लोहरजः ।
[176।19]
तानि सप्ताव्रजस्तानि सप्त दाशरजस्तानि सप्तैडकरजः ।
[176।19-176।20]
तानि सप्त गोरजः तानि सप्त वातायनच्छिद्ररजः ।
[176।20]
तानि सप्त लिक्षास्तदुद्भवा यूकेत्यर्थः ।
[176।20-176।21]
सप्त यूका यवः ।
[176।21-176।22]
सप्त यवा अङ्गुलीपर्व त्रीणि पर्वाण्यङ्गुरीति प्रसिद्धमेवेति नोक्तम् ।
[176।22]
पार्श्वाकृतास्तु ।
[177।01]
चतुर्विंशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् ।
[177।02]
धनुः
[177।03]
व्यासेनेत्यर्थः ।
[177।04]
पञ्चशतान्येषां क्रोशो रण्यं च तन्मतम्
[177।05]
मनुषां पञ्च शतानि क्रोशः ।
क्रोशमात्रं च ग्रामादि रण्यमिष्टम् ।
[177।06]
तेऽष्टौ योजनमित्याहुः ।
[177।07]
उक्तं योजनस्य प्रमाणम् ।
वर्षस्येदानीमुच्यते ।
[177।08]
विंशं क्षणशतं पुनः ।
[177।09]
तत्क्षणः
[177।10]
क्षणानां विंशं शतमेकस्तत्क्षणः ।
[177।11]
ते पुनः षष्टिर्लवः ।

[177।12]
तत्क्षणाः षष्टिर्लव इत्युच्यते ।
[177।13]
त्रिंशद्गुणोत्तराः
[177।14]
त्रयो मुहूर्त्ताहोरात्रमासाः
[177।15]
त्रिंशल्लवा मुहूर्त्तस्त्रिशन्मुहूर्त्ता अहोरात्रः ।
[177।15-177।16]
कदाचित्तु रात्रिरधिका भवति कदाचिदूना कदाचित्समा ।
[177।16]
त्रिदशाहोरात्रा मासः ।
[177।17]
द्वादशमासकः ।
[177।18]
संवत्सरः सोनरात्रः
[177।19-177।20]
चत्वारो मासा हेमन्तानां चत्वारो ग्रीष्माणां चत्वारो वर्षाणामित्येते द्वादश मासा संवत्सरः सार्धमूनरात्रैः ।
[177।20]
संवत्सरेण हि षडूनरात्रा निपात्यन्ते ।
कथं कृत्वा ।
[177।21]
"हेमन्तग्रीष्मवर्षाणामध्यर्धे मासि निर्गते ।
शेषेऽर्धमासे विद्वद्भिरूनरात्रो निपात्यते ॥"
[177।23]
उक्तं वर्षप्रमाणम् ।
[178।01]
कल्पस्येदानीं वक्तव्यम् ।
[178।02]
कल्पो बहुविधः स्मृतः
[178।03]
अन्तरकल्पो संवर्त्तकल्पो विवर्तकल्पो महाकल्पश्चेति ।
तत्र तावत्
[178।04]
संवर्त्तकल्पो नरकासंभवात् भाजनक्षयः ।
[178।05]
नरकेषु हि सत्त्वासंभवात् प्रभृति यावत् भाजनसंक्षयः ।
द्वे हि संवर्त्तन्यौ ।
[178।05-178।06]
गतिसंवर्तनी धातुसंवर्तनी च ।

[178।06]
पुनर्द्वे संवर्तन्यौ ।
सत्त्वसंवर्तनी भाजनसंवर्तनी च ।
[178।07]
भवति स कालो यन्नरकेषु सत्त्वाश्च्यवन्ते नोपपद्यन्ते ।
स आरम्भः संवर्तकल्पस्य ।
[178।08]
यदयं लोको विंशत्यन्तरकल्पान् विवृत्तोऽस्थात् तन्निर्यातं वक्तव्यम् ।
[178।08-178।09]
यद्विंशतिमन्तरकल्पान् संवर्तिष्यते तत् प्रतिपन्नं वक्तव्यम् ।
[178।09-178।10]
यदा नरकेष्वेकसत्त्वो नावशिष्टो भवति इयता ऽयं लोकः संवृत्तो भवति ।
[178।10-178।11]
यदुत नरकसंवर्त्तन्या यस्य तदानीं नियतं नरकवेदनीयं कर्म घ्रियते स लोकधात्वन्तरनरकेषु क्षिप्यते ।
[178।11-178।12]
एवं तिर्यक्संवर्त्तनी प्रेतसंवर्त्तनी च वक्तव्या ।
[178।12]
महासमुद्रगतास्तिर्यञ्चः पूर्वं संवर्तन्ते ।
[178।12-178।13]
मनुष्यसहचरिष्णवस्तु तैरेव सार्धं भवन्ति ।
[178।13-178।16]
स कालो यन्मनुष्येष्वन्यतमः सत्त्वः स्वयमनाचार्यकं धर्मताप्रातिलम्भिकं प्रथमं ध्यानं समापद्यते स तस्मात् व्युत्थाय वाचं भाषते सुखं वत विवेकजं प्रीतिसुखं शान्तं वत विवेकजं प्रीतिसुखमिति ।
[178।16-178।17]
तं च शब्दं श्रुत्वा अन्येऽपि सत्त्वाः समापद्यन्ते ।
[178।17]
कालं कृत्वा ब्रह्मलोक उपपद्यन्ते ।
[178।17-178।18]
यदा जम्बूद्वीप एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत जम्बूद्वीपसंवर्तन्या ।
[178।18-178।19]
एवं पूर्वविदेहगोदानीयोत्तरकुरुसंवर्तन्यो वक्तव्याः ।
[178।19-178।20]
यदा मनुष्येष्वेकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत मनुष्यगतिसंवर्त्तन्या ।
[178।20-178।21]
औत्तरकौरवास्तु कालं कृत्वा कामावचरेषु देवेषूपपद्यन्ते ।
[178।21]
तत्र वैराग्याभावात् ।
[178।21-178।22]
एवं चातुर्महाराजकायिकेष्वपि देवेषु प्रथमं ध्यानं समापद्य ब्रह्मलोक उपपद्यन्ते ।
[178।22-178।24]
यदा तत्रैकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत चातुर्महाराजकायिकसंवर्तन्या ।

[178।24-178।25]
एवं यावत् परनिर्मितवशवर्तिसंवर्त्त्न्यो वक्तव्याः ।
[178।25-178।26]
यदैकसत्त्वोऽपि कामावचरेषु देवेषु नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत कामधातुसंवर्तन्या ।
[178।26-178।28]
ब्रह्मलोकेऽप्यन्यतमः सत्त्वो धर्मताप्रातिलम्भिकं द्वितीयं ध्यानं समापद्योत्थाय वाचं भाषते सुखं वत समाधिजं प्रीतिसुखं शान्तं वत समाधिजं प्रीतिसुखमिति ।
[178।28-179।01]
तं शब्दं श्रुत्वाऽन्येऽपि सत्त्वाः समापद्यन्ते कालं च कृत्वा आभास्वरेषु देवेषूपपद्यन्ते ।
[179।01-179।02]
यदा ब्रह्मलोक एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत सत्त्वसंवर्तन्या ।
[179।02-179।04]
ततः शून्ये भाजने इत एव सामन्तकात् सत्त्वानां तदाक्षेपके कर्मणि परिक्षीणे सप्त सूर्याः प्रादुर्भूय क्रमेण यावत् पृथिवीं सुमेरुं च निःशेषं दहन्ति ।
[179।04-179।05]
तस्मादेवं प्रज्वलितादर्चिर्वायुना क्षिप्तं शून्यं ब्राह्मं विमानं निर्दहत् परैति ।
[179।05]
तच्च तद्भूमिकमेवार्चिर्वेदितव्यम् ।
[179।05-179।06]
नहि विसभागा अपक्षालाः क्रमन्ते ।
[179।06]
तत्संबद्धसंभूतत्वात्तस्मात्तदित्युक्तम् ।
[179।06-179।07]
कामावचरो ह्यग्नी रूपावचरमग्निं संबध्नातीति ।
[179।07-179।08]
एवमन्यस्यामपि संवर्तन्यां यथायोगं वेदितव्यमिति ।
[179।08-179।09]
नरकेषु सत्त्वानां च्युत्यनुत्पादात् प्रभृति यावत् भाजनानां संक्षय एष कालः ।
[179।10]
विवर्तकल्पः प्राग्वायोर्यावन्नरकसंभवः
[179।11]
थमाद्वायोः प्रभृति यावन्नरकेषु सत्त्वसम्भवः एष कालो विवर्तकल्प इत्युच्यते ।
[179।12-179।14]
तथा संवृते हि लोक आकाशमात्रावशेषश्चिर कालं तिष्ठति यावत् पुनरपि सत्त्वानां कर्माधिपत्येन भाजनानां पूर्वनिमित्तभूता आकाशे मन्दमन्दा वायवः स्यन्दन्ते ।
[179।14-179।15]
तदा यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽस्थात्तन्निर्यातं वक्तव्यम् ।
[179।15]
यद्विंशतिमन्तरकल्पान् विवर्त्तिष्यते तदुपयातं वक्तव्यम् ।
[179।16]
ततस्ते वायवो वर्धमाना यथोक्तं वायुमण्डलं जायते ।
[179।16-179।17]
ततः शनैर्यथोक्तक्रमविधानं सर्वं जायते अप्मण्डलं काञ्चनमयी महापृथिवी द्वीपाः सुमेर्वादयश्च ।

[179।17-179।18]
प्रथमं तु ब्राह्म विमानमुत्पद्यते ।
[179।18]
ततो यावत् यामीयं ततो वायुमण्डलादीनि ।
[179।18-179।19]
इयताऽयं लोको विवृत्तो भवति यदुत भाजनविवर्तन्या ।
[179।19-179।20]
अथान्यतरः सत्त्व आभास्वरेभ्यश्च्युत्वा शून्ये ब्राह्मे विमान उत्पद्यते ।
[179।20-179।21]
अन्येऽपि सत्त्वास्ततश्च्युत्वा ब्रह्मपुरोहितेषूपपद्यन्ते ।
[179।21]
ततो ब्रह्मकायिकेषु परनिर्मितवशवर्तिषु ।
[179।21-179।22]
क्रमेण यावदुत्तरकुरौ गोदानीये पूर्वविदेहे जम्बूद्वीपे प्रेतेषु तिर्यक्षु नरकेषूपपद्यन्ते ।
[179।22-179।23]
धर्मता ह्येषा यत् पश्चात् संवर्तते तत् पूर्वं विवर्त्तते ।
[179।23-179।24]
यदा नरकेष्वेकः सत्त्वोऽपि प्रादुर्भूतो भवति तदा यदयं लोको विंशतिमन्तरकल्पान् विवर्तते तन्निर्यातं भवति ।
[179।24-179।25]
यद्विंशतिमन्तरल्पान् विवर्त्तः स्थास्यति तदुपयातं भवति ।
[179।26]
अन्तःकल्पोऽमितात् यावद्दशवर्षायुषः
[179।27-180।01]
विवर्तमाने लोके एकान्न विंशतिरन्तरकल्पा अपरिमितायुषां मनुष्याणामतिक्रामन्ति ।
[180।01-180।02]
अपरिमितायुषामेव क्रमतां यावद्दशवर्षायुषो भवन्ति ।
[180।02]
सोऽसौ विवृत्तानां तिष्ठतां प्रथमोऽन्तरकल्पः ।
[180।03]
ततः ।
[180।04]
उत्कर्षा अपकर्षाश्च कल्पा अष्टादशापरे
[180।05]
तस्मादपरेऽष्टादशोत्कर्षा अपकर्षाश्चाष्टादशान्तरकल्पा भवन्ति ।
कथं कृत्वा ।
[180।06]
तेभ्यो हि दशवर्षायुष्केभ्य उत्कर्षं गच्छन्तः क्रमेणाशीतिवर्षसहस्रायुषो भवन्ति ।
[180।07]
पुनश्चापकर्षं गच्छन्तो दशवर्षायुषो भवन्ति ॥
एवं द्वितीयोऽन्तरकल्पः ।

[180।07-180।08]
एवं यावदष्टादश ।
[180।09]
उत्कर्ष एकः
[180।10]
एकान्तरकल्पो विंशतितम उत्कर्ष एवमपकर्षः ।
[180।10-180।11]
दशवर्षायुष्केभ्यो यावदशीतिवर्षायुषां मनुष्याणामिति वर्त्तते ।
[180।11]
अथैते उत्कर्षाः कियन्तं प्रकर्षं गच्छन्ति ।
[180।12]
तेऽशीतिसहस्राद्यावदायुषः ।
[180।13-180।14]
नातः परेण वर्धन्ते यावानेव चान्येषामन्तरकल्पानामुत्कर्षापकर्षकालस्तावानेव प्रथमस्यापकर्षकालः पश्चिमस्य चोत्कर्षकाल इति समानकालाः सर्वे भवन्ति ।
[180।15]
इति लोको विवृत्तोऽयं कल्पांस्तिष्ठति विंशतिम्
[180।16]
इत्यनेनान्तरकल्पन्यायेनायं विंशतिमन्तरकल्पान्विवृत्तस्तिष्ठति ।
[180।16-180।17]
यावन्तं कालं विवृत्तस्तिष्ठति तावन्तमेव कालं
[180।18]
विवर्ततेऽथ संवृत्त आस्ते सम्वर्तते समम् ।
[180।19]
विंशतिमेवान्तरकल्पान् विवर्तते विंशतिं संवर्तते विंशतिं संवृत्त आस्ते ।
[180।19-180।20]
यद्यपि तदानीमुत्कर्षा अपकर्षाश्च न प्रवर्तन्ते कालस्तु समानः परिसंख्यायते ।
[180।20-180।22]
तत्रैकेनान्तर कल्पेन भाजनान्यभिनिवर्तन्ते एकान्नविंशत्या ऽन्तरकल्पैरावास्यन्ते एकेनान्तरकल्पेन भाजनानि विध्वस्यन्ते एकान्नविंशत्या शून्यी भवन्ति ।
[180।22-180।23]
ता एता अन्तरकल्पानां चतस्रो विंशत्योऽशीतिर्भवन्ति ।
[180।24]
ते ह्यशीतिर्महाकल्पः
[180।25]
एतन्महाकल्पस्य प्रमाणम् ।
कल्पः किंस्वभावः ।
पञ्चस्कन्धस्वभावः ।
[180।25-181।01]
यदुच्यते त्रिभिरसंख्येयैः कल्पानां बुधत्वं प्राप्यत" इति ।
[181।01]
तत् कतमेषां कल्पानाम् ।

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc