भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 261280

"तथास्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनम्" इति सूत्र चतुःकोटिकात् ।
[153।18]
प्रथमा कोटिर्द्विधातुवीतरागस्योर्ध्वंस्रोतसो ऽनागामिनः ।
[153।18-153।19]
द्वितीयान्तरापरिनिर्वायिणः ।
[153।19]
तृतीया ऽर्हताम् ।
चतुर्थ्येतानाकारान् स्थापयित्वा ।
[153।19-153।20]
भूतावा ऽर्हन्तः संभवैषिणः सतृष्णाः ।
[153।21]
अथ कत्याहाराः सत्त्वानां स्थितये कति संभवैषिणामनुग्रहाय ।
[153।21-153।22]
सर्वे ऽप्युभयथेति वैभाषिकाः ।
[153।22]
कवडीकाराहारो ऽपि हि तद्रागिणां पुनर्भवाय संवर्तते ।
उक्तं हि ।
[153।23-153।24]
भगवता "अत्वार इमे आहारा रोगस्य मूलल्ं गण्डस्य शल्यस्य जरामरणस्य प्रत्यय" इति ।
[153।24]
मनःसंचेतना ऽपि चेह स्थितये दृश्यते ।
[153।24-153।26]
एवं हि वर्णयन्ति दुर्भिक्षाभ्याहतेन कील पित्रा पुत्रकौ सक्तव इति भस्मना भस्त्रां परिपूर्य कीलके आसज्याश्वासितौ ।
[153।26-153।27]
तौ च तां परिकल्पयन्तौ चिरमप्यासितौ केनापि चोद्घाटितायां भस्मेति नैराश्यमापन्नौ व्यापन्नाविति ।
[153।27-154।02]
पुनश्च महासमुद्रे भग्नयानपात्राः पुरुषाः स्थलमिति महान्तं फेनपिण्डं प्रद्रुताः आमृश्य चैनं निराशा उपरेमुरिति ।
[154।02-154।04]
संगीतिपर्याये चोक्तं महासमुद्रादौदारिकाः प्राणिनो जलात् स्थलमभिरुह्य सिकतास्थले ऽण्डानि स्थापयित्वा सिकताभिरवष्टभ्य पुनरपि महासमुद्रे ऽवतरन्ति ।
[154।04-154।05]
तत्र यासां मातृणामण्डान्यारभ्य स्मृतिर्न मुष्यते तान्यण्डानि न पूतीभवन्ति यासां तु मुष्यते तानि पूतीभवन्ति ।
[154।05]
तदेतन्न वर्णयन्ति सौत्रान्तिकाः ।
[154।05-154।06]
मा भूत् परकीयेणाहारेणाहार इति ।
[154।06]
एवं तु वर्णयन्ति ।
[154।06-154।07]
येषामण्डानां मातरमारभ्य स्मृतिर्न मुष्यते तानि न पूतीभवन्ति ।
[154।07-154।08]

येषां तु मुष्यते तानि पूतीभवन्ति ।
[154।08]
तस्याः स्पर्शावस्थायाः स्मरन्तीति ।
[154।09]
अथ कस्माच्चत्वार एवाहाराः ।
[154।09-154।10]
ननु च सर्व एव सास्रवा धर्मा भवानां पोषकाः ।
[154।10]
यद्यप्येतदेवं तथापि प्रधान्येनोक्तम्
[154।11]
इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम् ।
[154।12]
द्वयमन्यभवाक्ष्पनिवृत्त्यर्थं यथाक्रमम्
[154।13]
आश्रयो हि सेन्द्रियः कायः ।
तस्य पुष्टये कवडीकाराहाराः ।
[154।13-154।14]
आश्रिताश्चित्तचैत्तास्तेषां पुष्टये स्पर्शः ।
[154।14]
अनयोस्तावदिहोत्पन्नस्य भवस्य पोषणे प्राधान्यम् ।
[154।14-154।16]
मनःसंचेतनया पुनर्भवस्याक्षेपः आक्षिप्तस्य पुनः कर्मपरिभाविताद्विज्ञानवीजादभिनिर्वृत्तिरित्यनयोरनुत्पन्नस्य भवस्याकरणे प्राधान्यम् ।
[154।16]
अतश्चत्वार उक्ताः ।
[154।16-154।17]
पूर्वकौ हि द्वौ धात्रीस्थानीयौ जातस्य पोषकत्वात् ।
[154।17]
उत्तरौ मातृस्थानीयौ जनकत्वादिति ।
[154।18]
यः कश्चित् कवडीकारः सर्वः स आहारः ।
[154।18-154।19]
स्यात् कवडीकारो नाहार इति चतुष्कोटिकम् ।
[154।19-154।20]
प्रथमा कोटिर्यं कवडीकारं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानां च परिभेदः ।
[154।20]
द्वितीया कोटिस्त्रय आहाराः ।
[154।20-154।21]
तृतीया यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च वृद्धिः ।
[154।21-154।22]
चतुर्थ्येतानाकारान् स्थापयित्वा ।

[154।22-154।23]
एवं स्पर्शदिभिरपि यथायोगं चतुःकोटिकानि कर्त्तव्यानि ।
[154।23-154।24]
स्यात् स्पर्शादीन् प्रतीत्येन्द्रियाणामुपचयो महाभूतानां च वृद्धिर्न च त आहाराः ।
[154।24]
स्यादन्यभूमिकाननास्रवांश्च ।
[154।24-154।25]
यो ऽपि हि परिभुक्तो भोक्तुर्बाधामादधाति सो ऽप्याहार एव ।
[154।25]
आपाते ऽनुग्रहात् ।
[154।25-154।26]
द्वयोर्हि कालयोराहार आहारकृत्यं करोति परिभुज्यमानो जीर्यंश्चेति वैभाषिकाः ।
[154।26]
अथ कस्यां गतौ कत्याहाराः ।
[154।27]
सर्वासु सर्वे ।
एवं योनिष्वपि ।
कथं नरकेषु कवडीकार आहारः ।
[154।27-154।28]
प्रदीप्तायस्पिण्डाः स्वथितं च ताम्राम् ।
[154।28-155।01]
यद्यूपघातको ऽप्याहारो भवति चतुःकोटिकं बाध्यते प्रकरणग्रन्थश्च "कवडीकार आहारः कतमः ।
[155।01-155।03]
यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभुतानां च वृद्धिर्यापना ऽनुयापनेति विस्तरेण यावद्विज्ञानम् ।"
[155।03]
उपचयाहाराभिसंधिवचनादविरोधः ।
[155।03-155।04]
अपचयाहारस्तु नरकेक्षु लक्षणप्राप्तत्वात् ।
[155।04]
सो ऽपि हि जिघत्सां पिपासां हन्तुं समर्थ इति ।
[155।04-155।05]
अपितु प्रत्येकनरकेषु मनुष्यवत् कवडीकाराहारसद्भावाद्युक्तं पाञ्चगतिकत्वम् ।
[155।05-155।07]
उक्तं भगवता "यश्च बाह्यकानामृषीणां कामेभ्यो वीतरागाणां शतं भोजयेद्यश्चैकं जम्बूषण्डगतं पृथगजनम् ।
[155।07]
अतो दानादिदं दानं महाफलतरमि"ति ।
[155।07-155।08]
को ऽयं जम्बूषण्डगतो नाम पृथग्जनः ।
[155।08]
जम्बूद्वीपनिवासिनः कुक्षिमन्त इत्येके ।

[155।08-155।09]
तदेतन्न युक्तमेकमिति वचनात् ।
[155।09]
कश्चात्र विशेषः ।
[155।09-155।10]
स्याद्यदि भूयसः पृथग्जनान् भोजयित्वा भूयः पुण्यं स्यात् नाल्पीयसो वीतरागानिति ।
[155।10]
संनिकृष्टो बोधिसत्त्व इत्यपरे ।
[155।11]
तदेतन्न वर्णयन्ति "बहुतरं हि तस्मै दत्वा पुण्यं नार्हत्कोटिभ्य" इति ।
[155।11-155।12]
अतो निर्वेधभागीयलाभी पृथग्जन एषोऽभिप्रेतः इति वैभाषिकाः ।
[155।12-155।13]
नत्वियमन्वर्था संज्ञा नापिक्वचित्परिभाषिता सूत्रे शास्त्रे वा ।
[155।13-155।14]
जम्बूषण्डगतो निर्वेधभागीयलाभीति परिकल्प एवायं केवलः ।
[155।14]
बोधिसत्त्व एव त्वेषु जम्बूद्वीपषण्डेषु निषण्णो युज्यते ।
[155।14-155।15]
स हि पृथग्जन कामवैराग्यसंबन्धेन तदानीं तेभ्यो विशिष्यमाण उक्त इति ।
[155।15-155।16]
अनन्तेभ्यो ऽपि हि स तेभ्यो विशिष्यमाणः ।
[155।16]
शतग्रहणं तु पूर्वाधिकारात् ।
[155।16-155।17]
इत्थं चैतदेवं यदेवं पर्युदस्य बाह्यकेभ्य एव स्रोतापत्ति फलप्रतिपन्नकं विशेषयांबभूव ।
[155।17-155।18]
अन्यथा हि जम्बूषण्डगतादेव व्यशेषयिष्यत् ।
[155।18-155।19]
उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो यथावस्थितिश्च्युतिरप्युक्ता यथायुःक्षयादिभिः ।
[155।20]
इदमिदानीं वक्तव्यम् ।
कतमस्मिन् विज्ञाने वर्तमाने च्युत्युपपत्ती भवत इत्याह
[155।21]
छेदसंधान वैराग्यहानिच्युत्युपपत्त्यः ।
[155।22]
मनोविज्ञान एवेष्टाः
[155।23-155।24]
कुशलल्मूलसमुच्छेदः कुशलमूलप्रतिसंधानं धातुभूमिवैराग्यं परिहाणिश्च्युतिरुपपत्तिश्च ।
[155।24]

एते षट् धर्मा मनोविज्ञान एवेष्यन्ते नान्यत्र ।
[155।24-155।25]
उपपत्तिवचनादन्तराभवप्रतिसंधिरप्युक्तरूपो वेदितव्यः ।
[155।25]
वेदनायां तु
[156।01]
उपेक्षायां च्युतोद्भवौ
[156।02]
च्युतिरेव च्युतमुपपत्तिरुद्भवः ।
[156।02-156।03]
एतावदुःखासुखायां वेदनायां भवतस्तस्या अपटुत्वात् ।
[156।03]
इतरे हि वेदने पट्व्यौ ।
न च पटुविज्ञाने च्युत्युपपत्ती युज्येते ।
[156।03-156।04]
तत्रापि च मनोविज्ञाने ऽपि
[156।05]
नैकाग्राचित्तयोरेतौ
[156।06]
च्युतोद्भवाविति वर्तते ।
नहि समाहितचित्तस्यास्ति च्युतिरुपपत्तिर्वा ।
[156।06-156।07]
विसभागभूमिकत्वादभिसंस्कारिकत्वादनुग्राहकत्वाच्च ।
[156।07-156।08]
नाप्यचित्तस्य सा नह्यचित्तक उपक्रमितुं शस्येत ।
[156।08-156।09]
यदा चास्याश्रयो विपरिणन्तुमारभते तदावश्यमस्य तदाश्रयप्रतिबद्धं चित्तं संमुखीभूय पश्चात् प्रच्यवेत नान्यथा ।
[156।09-156।10]
उपपत्तौ च चित्तच्छेदहेत्वभावाद्विना च क्लेशेनानुपपत्तेरयुक्तमचित्तकत्वम् ।
[156।11]
मरणभवस्त्रिप्रकार इत्युक्तम् ।
अर्हस्तु
[156।12]
निर्वात्यव्याकृतद्वये ।
[156।13]
ऐर्यापथिके विपाकचित्ते वा ।
अस्ति चेत्कामधातौ विपाक उपेक्षा ।
[156।13-156।14]
नास्ति चेदैर्यापथिक एव ।
[156।14]

किमर्थमव्याकृट एव नान्यस्मिन् ।
[156।14-156।15]
तद्वि चित्तच्छेदानुकूलं दुर्बलत्वात् ।
[156।16]
अथ म्रियमाणस्य कस्मिन् शरीरप्रदेशे विज्ञानं निरुध्यते ।
[156।16-156।17]
सकृन्मरणे समनस्कं कायेन्द्रियं सहसाऽन्तर्दीयते ।
[156।17]
यदि तु क्रमेण च्यवते ततः
[156।18]
क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः
[156।19]
अधोनृसुरगाजानां
[156।20]
अधो गच्छन्तीत्यधोगा अपायगामिनः ।
नृन् गच्छन्तीति नृगा मनुष्यगामिनः ।
[156।20-156।21]
सुरान् गच्छन्तीति सुरगा देवगामिनः ।
[156।21-156।22]
तेषां यथासंख्यं पादयोर्नाभ्यां हृदये च विज्ञानं संनिरुध्यते ।
[156।22]
न पुनर्जायन्त इत्यजा अर्हन्तः ।
तेषामपि हृदये विज्ञानं निरुध्यते ।
[156।23]
मूर्ध्नीत्यपरे ।
[156।23-156।24]
कायेन्द्रियस्य तेषु निरोधात् कायेन्द्रियं हि म्रियमाणस्य तप्त इवोपले जलं निष्ठ्यूतं संकोचमापद्यमानं पादादिष्वन्तर्धीयत इति ।
[156।24-156।25]
एवं च पुनः क्रमेण मरणम् ।
[156।25]
प्राणिनां प्रायेण मर्मच्छेदवेदनाभ्यां हतानां जायते ।
[156।26]
मर्मच्छेदस्त्वबादिभिः ।
[156।27]
शरीरप्रदेशाः केचिदुपहन्यमाना मरणमानयन्ति ।
[156।27-157।01]
ते ह्येतदुच्यन्ते मर्माणीति ।
[157।01-157।03]
तानि चाप्तेजोवायुधातूनामन्यतमेनातिप्रायं गतेन निशितशस्त्रसंपातस्यर्धिनाडीतीब्राभिर्वेदनाभिः छिद्यन्त इव न च पुनस्तानि काष्ठादिवच्छिद्यन्ते छिन्नबद्वा पुनर्न चेष्टन्त इति च्छिन्नान्युच्यन्ते ।
[157।03-157।04]

कस्मान्न पृथिवीधातुना ।
[157।04]
चतुर्थदोषाभावात् ।
वातपित्तश्लेष्माणो हि त्रयो दोषाः ।
[157।04-157।05]
ते चाप्तेजोवायुधातुप्रधाना यथायोगमिति ।
[157।05]
भाजनलोकसंवर्त्तनीसाधर्म्येणेत्यपरे ।
[157।05-157।06]
देवेषु नास्ति मर्मच्छेदः ।
[157।06]
किं तु च्यवनधर्मणो देवपुत्रस्य पञ्चोपनिमित्तानि प्रादुर्भवन्ति ।
[157।07-157।09]
वस्त्राणामाभरणानां च मनोज्ञः शब्दो निश्चरति शरीरप्रभा मन्दीभवति स्नातस्योदबिन्दवः काये संतिष्ठन्ते चपलात्मना ऽप्येकत्र विषये बुद्धिरवतिष्ठते उन्मेषनिमेषौ चाक्ष्णोः संभवतः ।
[157।09]
एतानि तु व्यभिचारीणि ।
[157।09-157।10]
पञ्च पुनर्निमित्तानि मरणं नातिवर्त्तन्ते ।
[157।10-157।11]
वासांसि क्लिश्यन्ति माला म्लायन्ति कक्षाभ्यां स्वेदो मुच्यते दौर्गन्ध्यं कायेऽवक्रामति स्वे चासने देवपुत्रो नाभिरमते ।
[157।11-157।12]
सोऽयं सत्त्वलोक एवमुत्पद्यमानस्तिष्ठन् च्यवमनश्च त्रिषु राशिषु स्थापितो भगवता ।
[157।12-157।13]
त्रयो राशयः ।
[157।13-157।14]
सम्यक्त्वनियतो राशिर्मिथ्यात्वनियतो राशिरनियतो राशिरिति ।
[157।14]
तत्र पुनः
[157।15]
सम्यङ्मिथ्यात्वनियता आर्यानन्तर्यकारिणः
[157।16]
"सम्यक्त्वं कतमत् ।
[157।16-157।17]
यत्तत्पर्यादाय रागप्रहाणं पर्यादाय द्वेषप्रहाणं पर्यादाय मोहप्रहाणं पर्यादाय सर्वक्लेशप्रहाणमिदमुच्यते सम्यक्त्व"मिति सूत्रम् ।
[157।17]
आर्याः कतमे ।
[157।18]
येषामनास्रवो मार्ग उत्पन्नः ।
आराद्याताः पापकेभ्यो धर्मेभ्य इत्यार्याः ।
[157।18-157।19]

आत्यन्तिकविसंयोगप्राप्तिलाभात् ।
[157।19-157।20]
एते हि क्लेशक्षये नियतत्वात् सम्यक्त्वनियताः मोक्षभागीयलाभिनो ऽप्यवश्यं परिनिर्वाणधर्माण इति ।
[157।20]
कस्मान्न सम्यक्त्वे नियताः ।
[157।21]
ते हि मिथ्यात्वेऽपि नियता भवेयुः ।
[157।21-157।22]
न च ते कालनियमेन सम्यक्त्वे नियता यथा सप्तकृत्वः परमादयः ।
[157।22]
मिथ्यात्वं कतमत् ।
[157।22-157।23]
नरकाः प्रेतास्तिर्यञ्च इदमुच्यते मिथ्यात्वम् ।
[157।23]
तत्रानन्तर्यकारिणो नरके नियतत्वान्मिथ्यात्वनियताः ।
[157।23-157।24]
नियतेभ्योऽन्येऽनियता इति सिद्धम् ।
[157।24]
प्रत्ययापेक्षं हि तेषामुभयभाक्त्वमनुभयभाक्त्वं च ।
[157।25]
उक्तः सत्त्वलोको भाजनलोक इदानीं वक्तव्यः ।
[157।26-157।27]
तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः ।
लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम्
[158।01]
त्रिसाहस्रमहासाहस्रलोकधातोरेवं संनिवेशमिच्छन्ति ।
[158।01-158।02]
यदुताकाशष्प्रतिष्ठमधस्ताद्वायुमण्डलमभिनिर्वृत्तं सर्वसत्त्वानाम् ।
[158।02-158।04]
कर्माधिपत्येन तस्य योजनलक्षाणां षोडशकमुद्वेधः परिणाहेनासंख्यं तथा च दृढंं यन्महालग्नोऽपि वज्रेण भेत्तुमशक्तः ।
[158।04]
तस्योपरिष्टात्
[158।05]
अपामेकादशोद्वेधं सहस्राणि च विंशतिः ॥
[158।06]
मण्डलमिति वर्त्तते ।
[158।06-158।07]
तस्मिन् वायुमण्दले सत्त्वानां कर्मभिर्मेघाः संभूयाक्षमात्राभिर्धाराभिरभिवर्षन्ति ।
[158।07]
तत् भवत्यषां मण्डलम् ।

[158।07-158।08]
तस्य योजनानामेकादशलक्षाण्यूर्ध्वेऽधो विंशतिश्च सहस्राणि ।
[158।08]
कथं ता आपो न तिर्यङ्ग्विस्रवन्ति ।
[158।08-158।09]
सत्त्वानां कर्माधिपत्येन ।
[158।09-158।10]
यथा हि भुक्तं पीतमन्नं पानं च नापक्वं पक्वाशयमापतती त्येके ।
[158।10]
कुसूलन्यायेन वायुना संधार्यन्त इति निकायान्तरीयाः ।
[158।10-158।12]
ताश्च पुनरापः सत्त्वानां कर्मप्रभावसंभूतैर्वायुभिरावर्त्यमाना उपरिष्टात्काञ्चनीभवन्ति पक्वक्षीरीशरीभावयोगेन ।
[158।12]
तत् भवत्यषां मण्डलम् ।
[158।13]
अष्टलक्षोच्छ्रयं पश्चाच्छेषं भवति काञ्चनम्
[158।14]
किं च शेषम् ।
त्रयो लक्ल्षाः सहस्राणि च विंशतिः ।
[158।14-158।15]
सा काञ्चनमयी मही भवत्यपामुपरिष्टात् उक्तो जलकाञ्चनमण्डलोच्छ्रायः ।
[158।16-158।17]
तिर्यक् त्रीणि सहस्राणि सार्धं शतचतुष्टयम् ।
लक्षद्वादशकं चैव जलकाञ्चनमण्डलम्
[158।18]
समानं ह्येतदुभयं विस्तारतः ।
[158।19]
समन्ततस्तु त्रिगुणं
[158।20-158।21]
समन्ततः परिक्षेपेण तु परिगण्यमानं त्रिगुणं जायते षट्त्रिंशल्लक्षा दशसहस्राणि सार्धानि च त्रीणि शतानि योजनानाम् ।
[158।21-158।22]
यच्च तत्काञ्चनमयं महीमण्डलमपामुपरिष्टात् संनिविष्टं
[158।23-158।24]
तत्र मेरुर्युगन्धरः ।
ईशाधारः खदिरकः सुदर्शनगिरिस्तथा
[159।01]
अश्वकर्णो विनितको निमिन्धरगिरिः
[159।02]
इतीमे काञ्चनमण्डलप्रतिष्ठा अष्टौ महापर्वताः ।
मध्ये सुमेरुः ।

[159।02-159।03]
शेषाः सुमेरुपरिचायावस्थिताः ।
[159।03-159।04]
तस्यान्यसप्तपर्वतप्राकारपरिक्षिप्तस्य यो बाह्यः पर्वते निमिन्धरगिरिः ।
[159।05]
ततः ।
[159।06]
द्वीपाः
[159।07]
ततो बहिश्चत्वारो द्वीपाः ।
तेभ्यः पुनः
[159।08]
बहिश्चक्रवाडः
[159।09]
तेन चातुर्द्विपकश्चक्रीकृतः ।
तेषां तु
[159।10]
सप्त हैमाः स आयसः
[159।11]
युगन्धरादयः सप्त पर्वताः सौवऋणाश्चक्रवाडः शस्त्रकः ।
[159।12]
चतूरत्नमयो मेरुः
[159।13]
सुवर्णमयो रूप्यमयो वैदूर्यमयः स्फटिकमयश्च यथासंख्यं चतुर्षु पार्श्वेषु ।
[159।13-159।14]
यच्च यन्मयं पार्श्वं सुमेरोस्तस्यानुभावेन तद्वर्ण तस्यां दिशि नभो दृश्यते ।
[159।14-159।15]
जाम्बूद्वीपकमस्य पार्श्वं वैदूर्यमयं वर्णयन्ति ।
[159।15-159।16]
तस्येह प्रभानुरागेण वैदूर्यमयं नभो दृश्यत इति ।
[159।17]
अथ कथं तेषां संभवः ।
[159।17-159।18]
काञ्चनमय्यां पृथिव्यां पुनर्वारिधारा अतिपतन्ति ।
[159।18-159।19]
ता ह्यापो नानाविधबीजगर्भा बहुविधप्रभावभिन्नैर्वायुभिर्मथ्यमानास्तां तां जातिं परिणमयन्ति ।
[159।19-159।20]
एवं च पुनः परिणमयन्ति यद्भिन्नजातीयस्य कार्यविशेषोत्पत्तावसमवधानेन प्रत्ययीभवन्ति ।
[159।20-159।21]
न तु खलु यथा सांख्यानां परिणामः ।

[159।21]
कथं च सांख्यानां परिणामः ।
[159।21-159।22]
अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भाव इति ।
[159।22]
कश्चात्र दोषः ।
[159।22-159।23]
स एव हि धर्मी न संविद्यते यस्यावस्थितस्य धर्माणां परिणामः कस्प्येत ।
[159।23-159।24]
कश्चैंवमाह धर्मेभ्योऽन्यो धर्मीति ।
[159।24]
तस्यैव तु द्रव्यस्यान्यथीभावमात्रं परिणामः ।
[159।24-159।25]
एवमप्ययुक्तम् ।
[159।25]
किमत्रायुक्तम् ।
तदेव चेदं न चेदं तथेति अपूर्वैषा वायो युक्तिः ।
[159।25-159।26]
एवं च पुनः संभूताः सुवर्णादयः कर्मप्रभावात् प्रेरितैर्वायुभिः समाहृत्य राशीक्रियन्ते ।
[159।26-159।27]
त एते पर्वताश्च भवन्ति द्वीपाश्च ।
[159।27]
ते पुनः सुमेवदयश्चक्रवाडपर्यन्ताः पर्वताः
[160।01]
जलेऽशीतिसहस्रके ।
[160।02]
मग्नाः
[160।03]
काञ्चनमय्याः पृथिव्या उपर्यशीतिय्योजनसहस्राण्युदकं तत्र ते मग्नाः ।
[160।04]
ऊर्ध्वं जलात् मेरुर्भूयो ऽशीतिसहस्रकः
[160।05]
इति हि मेरोः षष्टि योजनशतसहस्रं समुच्छ्रयः ।
[160।06]
अर्धार्धहानिरष्टासु
[160।07]
जलादूर्ध्वं यावान्सुमेरुस्ततोऽर्धेन युगन्धरश्चत्वारिंशद्योजनसहस्राणि ।
[160।07-160।09]
ततो ऽर्धेन ईशाधर इत्येवमन्येष्वप्यर्धार्धहानिर्वेदितव्या यावन्निमिन्धरार्धेनार्धत्रयोदशोत्तराणि त्रीणि योजनशतानि चक्रवाडः ।
[160।10]

समोच्छ्रायघनाश्च ते ।
[160।11]
यावानेव चैषां जलादूर्ध्वं समुच्छ्रायस्तावानेव घनो विस्तार इत्यर्थः ।
[160।12]
शीताः सप्तान्तराण्येषां
[160।13-160।14]
एषां च निमिन्धरान्तनां पर्वतानां सप्तान्तराणि सप्त शीता उच्यन्ते पूर्णा अष्टाङ्गोपेतस्य पानीयस्य ।
[160।14-160।15]
तद्धि पानीयं शीतलं च स्वादु च लघु च मृदु चाच्छं च निष्प्रतिकं च पिबतश्च कण्ठं न क्षिणोति पीतं च कुक्षिं न व्याबाधते ।
[160।16]
तासां च पुनः
[160।17]
आद्याशीतिसहस्रिका
[160।18]
सुमेरुयुगन्धरान्तरं प्रथमा शीता ।
अशीतिर्योजनसहस्राणि वैपुल्येन ।
[160।19]
आभ्यन्तरः समुद्रोऽसौ
[160।20]
द्वौ हि समुद्रावाभ्यन्तरो बाह्यश्च ।
तदाऽसौ शीताऽभ्यन्तरः समुद्रः
[160।21]
त्रिगुणः स तु पार्श्वतः ।
[160।22]
अशीतिर्योजनसहस्राण्यस्य वैपुल्यमुक्तम् ।
[160।22-160।23]
पार्श्वतस्रिगुणो भवति युगन्धरतीरेण गण्यमानः चत्वारिंशत् सहस्राणि लक्षद्वयं च ।
[161।01]
अर्धार्धेनापराः शीताः
[161।02-161।03]
युगन्धरस्येषाधारस्य चान्तरं द्वितीया शीता अर्धेन प्रथमायाश्चत्वारिंशत् योजनसहस्राणि ।
[161।03-161।04]
ततो ऽर्धेन पुनस्तृतीयेत्येवमर्धार्धेनापराः शीताः भवन्ति ।
[161।04]
यावदर्धत्रयोदशशतानि सप्तमी शीता ।
[161।04-161।05]
दैर्ध्यं तु तासां न परिसंख्यातमतिबहुप्रकर्षविसर्पणात् ।
[161।06]
शेषं बाह्यो महोदधेः
[161।07]

किं शेषम् ।
निमिन्धरचक्रवाडयोरन्तरम् ।
[161।07-161।08]
तद्धि बाह्यो महासमुद्रो लवणं पूर्णः ह्षारोदकस्य ।
[161।08]
स खलु विस्तारेण योजनानां
[161।09]
लक्षत्रयं सहस्राणि विंशतिर्द्वे च
[161।10]
तत्र चत्वारो द्वीपाश्चतुर्षु सुमेरुपार्श्वेषु ।
[161।11]
तत्र तु ।
[161।12]
जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः
[161।13]
साहस्राणि त्रीणि पार्श्वान्यस्य शकटस्येवाकृतिः ।
[161।13-161।15]
तस्य च मध्ये काञ्चनमय्यां पृथिव्यां वज्रासनमभिनिर्वृत्तं यस्मिन्निषद्य सर्वे बोधिसत्त्वा वज्रोपमं समाधिमुत्पादयन्ति ॥
[161।15]
नहि तमन्य आश्रयः प्रदेशो वा सोढुं समर्थः ।
[161।16]
सार्धत्रियोजनं त्वेकं
[161।17]
च्तुर्थमस्य पार्श्वं सार्धानि त्रीणि योजनानि ।
अत एव ह्यसौ शकटाकृतिः ।
[161।18]
प्राग्विदेहोऽर्धचन्द्रवत् ।
[161।19]
इतः पूर्वेण सुमेरुपार्श्वे पूर्वं विदेहो द्वीपः ।
सो ऽर्धचन्द्र इवाभिनिर्वृत्तः ।
[161।19-161।20]
परिमाणतस्तु
[161।21]
पार्श्वत्रयं तथा ऽस्य
[161।22]
यथा जम्बूद्वीपस्य द्वे द्वे योजनसहस्रे ।
[161।23]
एकं सार्धं त्रिशतयोजनम्
[161।24]
चतुर्थं पार्श्वं सार्धानि त्रीणि योजनशतानि ।

[161।25]
गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः ।
[162।01-162।02]
इतः पश्चिमेन सुमेरुपार्श्वे ऽपरगोदानीयो द्वीपः सार्धानि सप्त योजनसहस्राणि साकल्येन ।
[162।02]
मण्डलश्चासौ पूर्णचन्द्रवत् ।
[162।03]
सार्धे द्वे मध्यमस्य
[162।04]
मध्यमस्यार्धतृतीये योजनसहस्रे ।
[162।05]
अष्टौ चतुरस्रः कुरुः समः
[162।06]
इह उत्तरेण सुमेरुपार्श्वे उत्तरकुरुद्वीपः ।
[162।06-162।07]
सो ऽष्टौ योजनसहस्राणि साकल्येन चतुरस्रः ।
[162।07]
कृत्यापीठिकावत् ।
[162।07-162।08]
सर्वेषु च पार्श्वेषु समो यथैकं पार्श्वं द्वियोजनसहस्रे ।
[162।08]
तथा ऽन्यानि स्तोकमपि नाधिकम् ।
[162।08-162।09]
यश्च द्वीपो यदाकृतिस्तदाकृतीन्येव तत्र मनुष्याणां मुखानि ।
[162।10]
तेषां खलु द्वीपानामन्तराले ऽन्तरद्वीपा अभिनिर्वृत्ताः ।
[162।10-162।11]
के पुनस्ते कति चेत्याह
[162।12-162।13]
देहा विदेहाः कुरवः कौरवाश्चामरावराः ।
अष्टौ तदन्तरद्ब्वीपा गाठा उत्तरमन्त्रिणः
[162।14]
तत्र देहविदेहौ पूर्वविदेहपरिवारौ ।
कुरुकौरवौ उत्तरकुरोः ।
[162।14-162।15]
गाठोत्तरमन्त्रिणावपरगोदानीयस्य ।
[162।15]
चामरावरौ जम्बूद्वीपस्य ।
सर्वे मनुष्यैरावासिताः ।
[162।15-162।16]

एको राक्षसैरित्यपरे ।
[162।17]
इहोत्तरेण कीटाद्रिनवकाद्धिमवान्
[162।18-162।19]
इहैव जम्बूद्वीपे उत्तरेणास्य जम्बूद्वीपस्य कृष्णपर्वतास्त्रयस्तानतिक्रम्यापरे त्रयः पुनश्च त्रय इति नवभ्यः कीटपर्वतेभ्यः परेण हिमवान् पर्वतः ।
[162।20]
ततः ।
[162।21]
पञ्चाशद्विस्तृतायामं सरो ऽर्वाग्गन्धमादनात्
[162।22-162।23]
तस्माद्धिमवतः परेणानवतप्तं नाम सरो गन्धमादनादर्वाक् यतश्चतस्रो नद्यः स्रव्न्ति गङ्ग सिन्धुः शीता वक्षुश्च ।
[162।23-162।24]
तस्य पञ्चाशद्योजनानि विस्तारः पञ्चाशदायामः ।
[162।24]
पूर्णमष्टाङ्गस्याङ्गोपेतस्याम्भसः ।
[162।24-162।25]
दुर्गमं च मनुअष्याणामनृद्धिमताम् ।
[162।25-162।26]
तस्यैव चान्तिके जम्बूरभिनिर्वृत्ता मधुरस्वादूनि यस्याः फलानि तस्या अधिकारेणायं जम्बूद्वीप इति ख्यातः ।
[162।26-162।27]
तत्फलाधिकारेण वा जम्बूद्वीप इति ।
[162।28]
नरकाः कस्मिन्नवकाशे कियत्प्रमाणाश्च ।
[163।01]
अधः सहस्रैविंशत्या तन्मात्रो ऽवीचिरस्य हि ।
[163।02-163।03]
अस्यैव जम्बूद्वीपस्याधो विंशत्या योजनसहस्रैरवीचिर्महानरको विंशतिसहस्रप्रमाण एवोद्वेधविस्ताराभ्यामेवमस्याधरतलमितश्चत्वारिंशता योजनसहस्रैर्भवति ।
[163।03-163।04]
दुःखनिरन्तरत्वादवीचिः ।
[163।04-163।05]
अन्येषु सान्तरं दुःखम् तद्द्यथा संजीवे च्छिन्नावभिन्नसंपिष्टशरीराणां शीतला वायवो वान्ति पुनरपि तान् सत्त्वान् संजीवयन्ति ।
[163।05-163।06]
अत एव संजीवः ।
[163।06]
नास्मिन् सुखवीचिरस्तीत्यवीचिरित्यपरे ।
[163।06-163।07]
अन्येष्वपि सुखा वेदना विपाको नास्ति ।
[163।07]
नैः ष्यन्दिकी न वार्यते ।
[163।08]

तदूर्ध्वं सप्त नरकाः
[163।09]
तस्मादवीचेरूर्ध्वं सप्त नरकाः उपर्युपरि संनिविष्टाः ।
[163।09-163।10]
प्रतापनस्तापनो महारौरवो रौरवः संघातः कालसूत्रः संजीवश्च ।
[163।10]
अवीचिपार्श्वेष्वित्यपरे ।
ते पुनः
[163।11]
सर्वे ऽष्टौ षोडशोत्सदाः
[163।12]
उक्तं हि भगवता
[163।13-163।14]
"इत्येते नरका अष्टावाख्याता दुरतिक्रमाः ।
रौद्रकर्मभिराकीर्णाः प्रत्येकं षोडशोत्सदाः ॥
[163।15-163।16]
चतुस्कन्धाश्चतुर्द्वारा विभक्ता भागशो ऽसिताः ।
अयःप्राकारपर्यन्ता अयसा प्रतिवर्जिताः ॥
[163।17-163।18]
तप्ता चैवायसी भुमिर्ज्वलिता तेजसा युता ।
अनेकयोजनशता स्फुटा तिष्ठति अर्च्चिषे"ति ।
[163।19]
षोडशोत्सदाः कतमे ।
[163।20]
कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी ।
[163।21]
तेषां चतुर्दिशं ।
[163।22]
द्वारे द्वारे तेषां चत्वार उत्सदाः ।
कुकूलं जानुमात्रम् ।
[163।22-163।23]
यत्र तेषां सत्त्वानां निक्षिप्ते संशीर्यते त्वङ्मांसशोणितमुत्क्षिप्ते पादे पुनरपि संजायते त्वङ्मांसशोणितम् ।
[163।24-163।25]
कुणपं गूथमृत्तिका यत्र न्यङ्कुटा नाम प्राणिनः प्रतिवसन्ति सर्वश्वेताः कृष्णशिरसः सूचिमुखास्तेषां सत्त्वानां यावदस्थीनि भिन्दन्ति ।
[163।25-164।01]
क्षुरधाराचितो महापथः यत्र तेषां सत्त्वाना मन्वाक्रामतां निक्षिप्ते पादे संछिद्यते त्वङ्मांसशोणितमिति पूर्ववत् ।
[164।01-164।02]
असिपत्रवनं यत्र तेषां सत्त्वानां तीक्ष्णा असयः संनिपतन्ति अङ्गप्रत्यङ्गान्यवकृन्तन्ति श्यामशबलाश्च श्वानो भक्षयन्ति ।
[164।02-164।03]
अयःशाल्मलीवनं तीक्ष्णषोड्शाङ्गुलकण्टकम् ।

[164।03-164।04]
तेषां सत्त्वानामभिरोहतां कण्टका अवाङ्मुखीभवन्तः कायं भिन्दन्ति अवतरतां चोर्ध्वीभवन्तः ।
[164।04-164।05]
अयस्तुण्डाश्च वायसा अक्षीण्युत्पाट्योत्पाट्य भक्षयन्ति ।
[164।05-164।06]
तदेतत् क्षुरमार्गादिक त्रयं शस्त्राभिनिपातं सामान्यादेकीक्रियन्ते ।
[164।06-164।08]
चतुर्थ उत्सदो नदी वैतरणि पूर्ण तप्तस्य क्षारोदकस्य यस्यां ते सत्त्वा असिशक्तिप्रासहस्तैः पुरुषैरुभाभ्यां तीराभ्यां प्रतिवार्यमाणा ऊर्ध्वमपि गच्छन्तः स्विद्यन्ते पच्यन्ते अधस्तिर्यगपि गच्छन्तः स्विद्यन्ते पच्यन्ते ।
[164।09]
तद्यथा बहूदकायां स्थाल्यामग्नावधिश्रितायां तिलतण्डुइलादयः ।
[164।09-164।10]
सा हि महानरकस्य परिखेवोत्पन्ना ।
[164।10]
त एते चत्वार उत्सदा दिग्भेदेन षोडशोच्यन्ते ।
[164।11]
अधिकयातनास्थानित्वादुत्सदाः इत्युच्यन्ते ।
नरकेषु हि पतिता एतेषु पुनर्यात्यन्ते ।
[164।12]
नरका वरोधादुर्ध्वमेतेषु सीदन्त्युत्सदा इत्यपरे ।
[164।13]
प्रश्नात्प्रश्नान्तरमुपजायते ।
[164।13-164।14]
किं ते नरकपालाः सत्त्वसंख्याता उताहो नेति ।
[164।14]
नेत्येके ।
कथमिदानीं चेष्टन्ते ।
[164।14-164।15]
सत्त्वानां कर्मभिर्विवर्त्तनीवायुबीजवत् ।
[164।15]
यत्त्र्हि भदन्तधर्मसुभूतिनोक्तं
[164।16-164।17]
"क्रोधनाः क्रूरकर्माणः पापाभिरुचयश्च ये ।
दुःखितेषु च नन्दन्ति जायन्ते यमराक्षसा" इति ॥
[164।18-164।19]
ये ते यमेनानुशिष्टाः सत्त्वान् नरकेषु प्रक्षिपन्ति त एते यमराक्षसा उक्ता न तु ये कारणाः कारयन्तीति ।
[164।19]
सत्त्वसंख्याता इत्येके ।
तस्येदानीं कर्मणः क्व विपाकः ।
[164।20-164।21]
तेष्वेव नरकेषु हि आनन्तर्यकारिणां विपाकावकाशस्तत्र तेषां को विप्रतिबन्धः ।

[164।21]
कथमग्निना न दह्यन्ते ।
अग्नेर्नूनं कर्मभिः कृतावधित्वात् ।
[164।21-164।22]
भूतविशेषनिर्वृत्तेर्वा ।
[164।23]
इमे तावदुष्णा अष्टौ महानरका उच्यन्ते ।
[164।24]
शीता अन्ये ऽष्टावर्वुदादयः
[164।25]
अन्ये शीतनरका अष्टौ ।
[164।25-165।01]
तद्यथा अर्वुदो निरर्वुदः अटतो हहवः हुहुवः उत्पलः पद्मो महापद्मश्च ।
[165।01-165।02]
तेषां सत्त्वानां तीर्वशीताभिहतानां कायशब्दविकारानुरूपाण्येतानि नामानि ।
[165।02]
ते ऽप्यस्यैव जम्बूद्वीपस्याधस्तात् महानरकाणां तिर्यक् ।
[165।02-165।03]
कुत इयतो जम्बूद्वीपस्याधस्तादवीच्यादीनामवकाशः ।
[165।03-165।04]
धान्यराशिवदधो विशाला हि द्वीपाः ।
[165।04]
अत एव महासमुद्रो ऽनुपूर्वनिम्नः ।
[165।04-165।05]
इतीमे षोडश नरकाः सर्वे सत्त्वकर्माधिपत्यनिर्वृत्ताः ।
[165।05-165।06]
प्रत्येकं नरकास्तु स्वैः स्वैः कर्मभिरभिनिर्वृत्ताः ।
[165।06]
बहूनां सत्त्वानां द्वयोरेकस्य वा ।
[165।06-165।07]
तेषामनेकप्रकल्पो भेदः स्थानं चानियतं नदीपर्वतमरुप्रदेशेष्वन्येषु वा ऽधश्च भावात् ।
[165।07-165।08]
एष तावन्नरकभाजनानां संनिवेशः ।
[165।08]
तिर्यञ्चः स्थलजलाकाशगोचराः ।
[165।08-165।09]
तेषां किल मूलं स्थानं महासमुद्रस्ततो ऽन्यत्र विसृता इति ।
[165।09]
प्रेतानां यमो राजा ।
[165।09-165।10]

तस्य जम्बूद्वीपस्याधस्तात् पञ्चयोजनशतान्तरपरिच्छिन्ना राजधानी तेषां मूलस्थानं ततो ऽन्यत्र विसृताः ।
[165।11]
केचित् प्रेता महर्द्धिका दैवीमिव श्रियमुद्वहन्ति ।
शेषा यथा प्रेतावदाने ।
[165।12]
अथेमौ चन्द्रार्कौ कस्मिन् प्रतिष्ठितौ ।
वायौ ।
[165।12-165।13]
वायवोऽन्तरीक्षे सर्वसत्त्वसाधारणकर्माधिपत्यनिर्वृत्ता आवर्तवत् सुमेरुं परिवर्तन्ते ।
[165।13-165।14]
चन्द्रार्कताराणां वोर्ध्वचारः ।
[165।14]
कियद्वीप्रकृष्टावितश्चन्द्रार्कौ ।
[165।15]
अर्धेन मेरोश्चन्द्रार्कौ ।
[165।16]
युगन्धरगिरेर्मूर्ध्ना समं वहतः ।
किं प्रमाणौ ।
यथाक्रमं
[165।17]
पण्चाशत्सैकयोजनौ ।
[165।18]
पञ्चाशत् योजनानि चन्द्रमण्डलस्य प्रमाणम् ।
[165।18-165।19]
सैकानि पञ्चाशत् सूर्यमण्दलस्य प्रमाणम् ।
[165।19]
एकपञ्चाशदित्यर्थः ।
[165।19-165।20]
तारकाविमानानां यस्याल्पप्रमाणं प्रमाणं तस्य क्रोशः ।
[165।20-165।21]
सूर्यविमानस्याधस्तात् वहिः स्फटिकमण्डलं तैजसमभिनिर्वृत्तं तापनं प्रकाशनं च ।
[165।21-165।22]
चन्द्रविमानस्याधस्तादाप्यं शीतलं भास्वरं च ।
[165।22-165।23]
प्रणीनां कर्मभिर्दृष्टिशरीरफलपुष्पसस्योषधीनामनुग्रहार्थमुपघातकार्थं यथासंभवम् ।
[165।23]
चतुर्द्वीपके एकश्चन्द्रमाः कृत्यं करोत्येकः सूर्यः ।
[165।23-165।24]
किं पुनश्चतुर्द्वीपेषु सूर्यो युगपत् कृत्यं करोति ।
[165।24]

नेत्याह ।
किं तर्हि ।
तेषु ।
[165।25]
अर्धरात्रोऽस्तङ्गमनं मध्याह्न उदयः सकृत्
[165।26-165।27]
यदोत्तरकुरावर्धरात्रं तदा पूर्वविदेहे सूर्यस्यास्तङ्गमनं जम्बूद्वीपे मध्याह्नो गोदानीये उदयः ।
[165।27]
एवमन्येष्वपि योज्यम् ।
सूर्यस्येह गतिभेदेन रात्रिदिवानां वृद्धिह्रासौ ।
[165।28]
तत्र पुनः
[166।01]
प्रावृण्मासे द्वितीये ऽन्त्यनवम्यां वर्धते निशा ।
[166।02]
वर्षाणां द्वितीये मासे भाद्रपदे द्वितीयस्य पक्षस्य नवम्यां वर्धते रात्रिः ।
[166।03]
हेमन्तानां चतुर्थे तु हीयते
[166।04]
सैव हेमन्तानां चतुर्थे मासे पुनर्हीयते ।
अन्त्यनवम्यामिति वर्त्तते ।
[166।04-166।05]
फाल्गुनमासस्य द्वितीयपक्षनवम्याम् ।
[166।06]
अहर्विपर्ययात्
[166।07]
यदा रात्रिर्वर्धते तदा दिवसो हीयते ।
यदा रात्रिर्हीयते तदा दिवसो वर्धते ।
[166।08]
कियत्या मात्रया वर्धते ।
[166।09]
लवशो रात्र्यहर्वृद्धी
[166।10]
लवं लवं रात्रिर्वर्धते दिवसो वा ।
ते च हानिवृद्धी यथाक्रमं
[166।11]
दक्षिणोत्तरगे रवौ ।
[166।12]
जम्बूद्विपस्य दक्षिणं पार्श्वं गच्छति भास्करे रात्रिवृद्धिः उत्तरं गच्छत्यहर्वृद्धिः ।
[166।13]

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc