अभिधर्मकोशभाष्य · भाग 241260
[141।12]
सा ऽपि भवितुं नार्हति ।
किं कारणम् ।
[141।13]
दृष्टेस्तत्संप्रयुक्तत्वात्
[141।14]
अविद्या चेत् प्रज्ञा ऽभविष्यन्न दृष्टिस्तया युज्यते संप्रायोक्ष्यत ।
[141।14-141।15]
द्वयोः प्रज्ञाद्रव्ययोरसंप्रयोगात् ।
[141।15]
इतश्च
[141।16]
प्रज्ञोपक्लेशदेशनात्
[141।17]
"रागोपक्लिष्टं चित्तं नावमुच्यते अविद्योपक्लिष्टा प्रज्ञा न विशुध्यती"त्युक्तम् सूत्रे ।
[141।18]
न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति ।
[141।18-141।19]
यथा चित्तस्यान्यो भिन्नजातीय उपक्लेशो राग एवं प्रज्ञाया अविद्या ।
[141।19]
किं पुनरेवं नेष्यते ।
[141।20]
क्लिष्टया प्रज्ञया कुशला प्रज्ञा व्यव्कीर्यमाणा न विशुध्यति ।
[141।20-141।21]
अतो ऽसौ तस्या उपक्लेश इति ।
[141।21]
यद्वापि रागोपक्लिष्टं चित्तं न विमुच्यते ।
[141।21-141।22]
किं तदवश्यं रागपर्यवस्थितं भवति ।
[141।22]
उअपहतं तु तत्तथा रागेण भवति यन्न विमुच्यते ।
[141।22-141।23]
तां पुन्र्भावनां व्यावर्तयतो विमुच्यते ।
[141।23-141।24]
एवमविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीत्यविद्योपहतां परिक्ल्पयामः ।
[141।24]
को हि परिकल्पयन् वार्यते ।
जात्यन्तरमेव त्वविद्यां वर्णयन्ति ।
[141।25]
यो ऽपि मन्यते "सर्वक्लेशा अविद्ये"ति तस्याप्यत एव व्युदासः ।
[141।25-142।01]
सर्वक्लेशस्वभावा ऽपि सती संयोजनादिषु पृथग्नोच्येत दृष्ट्या च न संप्रयुज्येत ।
[142।01-142।02]
अन्येन वा क्लेशेन दृष्ट्यादीनां परंपरासंप्रयोगात् चित्तमपि चाविद्योपक्लेष्टमेवोक्तं भवेत् ।
[142।02-142।03]
अथ मतं विशेषणार्थं तथोक्तमिति ।
[142।03]
प्रज्ञायामप्यविद्याविशेषणं कर्त्तव्यं भवेत् ।
[142।03-142।04]
भवत्वविद्या धर्मान्तरं कस्तु तस्याः स्वभावः ।
[142।04]
सत्यवन्न कर्मफलानामसंप्रख्यानम् ।
[142।04-142।05]
एतच्चैव न ज्ञायते किमिदमसंप्रख्यानं नामेति ।
[142।05-142।06]
यदि यन्न संप्रख्यानं संप्रख्यानाभावे ऽपि तथैव दोषो यथा अविद्यायाम् ।
[142।06-142।07]
अथ संप्रख्यानविपक्षभूतं धर्मान्तरम् ।
[142।07]
तदिदं तथैव न ज्ञायते किं तदिति ।
[142।07-142।08]
एवञ्जातीयको ऽपि धर्माणां निर्देशो भवति ।
[142।08]
तद्यथा "चक्षुः कतमत् ।
यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय" इति ।
[142।09]
अस्मीति सत्त्वमयता ऽविद्येते भदन्तधर्मत्रातः ।
का पुनरस्मिमानादन्या मयता ।
[142।10-142।12]
या ऽसौ सूत्र उक्ता "सो ऽहमेवं ज्ञात्वा एवं दृष्ट्वा सर्वासां तृष्णानां सर्वासां दृष्टीनां सर्वासां मयतानां सर्वेषामहङ्कारममकारास्मिमानाभिनिवेशानुशयानां प्रहाणात् परिज्ञानान्निश्छायो निवृत" इति ।
[142।12]
अस्त्येषा मयता ।
सा त्वियमविद्येति कुत एतत् ।
[142।13]
यत एषा नान्यः क्लेशः शक्यते वक्तुम् ।
ननु चान्यो मान एव स्यात् ।
[142।13-142।14]
अत्र पुनर्विचार्यमाणे बहु वक्तव्यं जायते ।
[142।14]
तस्मात्तिष्ठत्वेतत् ।
[142।15]
अथ नामरूपमिति को ऽर्थः ।
रूपं विस्तरेण यथोक्तम् ।
[142।16]
नाम त्वरूपिणः स्कन्धाः
[142।17]
किं कारणम् ।
नामेन्द्रियार्थवशेनार्थेषु नमतीति नाम ।
कतमस्य नाम्नो वशेन ।
[142।18]
यदिदं लोके प्रतीतं तेषां तेषामर्थानां प्रत्यायकं गौरश्वो रूपं रस इत्येवमादि ।
[142।19]
एतस्य पुनः केन नामत्वम् ।
तेषु तेष्व् अर्थेषु तस्य नाम्नो नमनात् ।
[142।19-142।20]
इह निक्षिप्ते काय उपपत्त्यन्तरे नमनान्नामरुपिणः स्कन्धा इत्यपरे ॥
[142।21]
षडायतनमुक्तम् ।
[142।22]
स्पर्शो वक्तव्यः ।
[142।23]
ष्पर्शाः षट्
[142।24]
चक्षुःसंस्पर्शो यावन्मनःसंस्पर्श इति ।
ते पुनः
[143।01]
संनिपातजाः ।
[143।02]
त्रयाणां संनिपाताज्जाता इन्द्रियार्थविज्ञानानाम् ।
[143।02-143।03]
युक्तं तावत् पञ्चानामिन्द्रियाणामर्थविज्ञानाभ्यां संनिपातः ।
[143।03]
सहजत्वात् ।
[143।03-143।04]
मनैन्द्रियस्य पुनर्निरुद्धस्यानागतवर्त्तमानाभ्यां धर्ममनोविज्ञानाभ्यां कथं संनिपातः ।
[143।04-143।05]
अयमेव तेषां संनिपातो यः कार्यकारणभावः ।
[143।05]
एककार्यार्थो वा संनिपातार्थः ।
[143।05-143।06]
सर्वे च ते त्रयो ऽपि स्पर्शोत्पत्तौ प्रगुणा भवन्तीति ।
[143।06]
अत्र पुनराचार्याणां भेदं गता बुद्धयः ।
[143।06-143।08]
केचिद्धि सकृन्निपातमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति "इति य एषां त्रयाणां धर्माणां संगतिः संनिपातः समवायः स स्पर्शः" इति ।
[143।08-143।09]
केचित्पुनश्चित्तसंप्रयुक्तं धर्मान्तरमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति "षट्षट्को धर्मपर्यायः कतमः ।
[143।10]
षडाध्यात्मिकान्यायतनानि ।
षट् बाह्यान्यायतनानि ।
षट् विज्ञानकायाः ।
[143।10-143।11]
षट् स्पर्शकायाः ।
[143।11]
षट् वेदनाकायाः ।
षट् तृष्णाकाया" इति ।
[143।11-143।12]
अत्र हीन्द्रियार्थविज्ञानेभ्यः स्पर्शकायाः पृथग् देशिताः ।
[143।12-143।13]
तत्र ये संनिपातमेव स्पर्शमाहुस्त एवं क्परिहारमाहुः ।
[143।13]
न वै पृथिग्निर्देशात् पृथग्भावो भवति ।
[143।13-143।14]
मा भूद्धर्मायतनाद्वेदनातृष्णयोः पृथग्भाव इति ।
[143।14-143।15]
नैष दोषस्तद्व्यतिरिक्तस्यापि धर्मायतनस्य भावात् ॥
[143।15-143।16]
न चैवं स्पर्शभूतात्त्रयादन्यत्त्रयमस्ति यस्य शेषस्यात्र ग्रहणं स्यात् ।
[143।16-143।17]
यद्यपि हीन्द्रियार्थौ स्यातामविज्ञानकौ न तु पुन्र्विज्ञानमनिन्द्रियार्थकम् ।
[143।17]
तस्मात्त्रिषु निर्दिष्टेषु पुनः स्पर्शस्य ग्रहणमनर्थकं प्राप्नोति ।
[143।18-143।19]
न खलु सर्वे चक्षुरूपे सर्वस्य चक्षुर्विज्ञानस्य कारणं नापि सर्वं चक्षुर्विज्ञानं सर्वयोश्चक्षुरूपयोः कार्यम् ।
[143।19-143।20]
अतो येषां कार्यकारणाभावस्ते स्पर्शभावे व्यवस्थापिता इत्येके ।
[143।20-143।21]
ये पुनः संनिपातादन्यं स्पर्शमाहुस्त एतत्सूत्र कथं परिहरन्ति "इति य एषां त्रयाणां संगतिः संनिपातः समवायः स स्पर्श" इति ।
[143।21]
न वा एवं पठन्ति ।
[143।21-143।22]
किं तर्हि ।
[143।22-143।23]
संगतेः संनिपातात् समवायादिति पठन्ति कारणे व कार्योपचारो ऽयमिति ब्रुवन्ति ।
[143।23]
अतिवहुविस्तरप्रसारिणी त्वेषा कथेत्यलं प्रसङ्गेन ।
[143।23-143।24]
अन्यमेव स्पर्शं वर्णयन्त्याभिधार्मिकाः ।
[143।24]
तेषां प्न्नां षण्णां स्पर्शानां
[143।25]
पञ्चप्रतिघसंस्पर्शः षष्ठो ऽधिवचनाह्वय
[143।26]
चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शाः पञ्च प्रतिघ संस्पर्श इत्युच्यते ।
[143।26-144।01]
सप्रतिघेन्द्रियाश्रयत्वात् ।
[144।01]
मनः संस्पर्शः षष्ठः सो ऽधिवचनस्पर्श इत्युच्यते ।
[144।01-144।02]
किं कारणं अधिवचनमुच्यते नाम ।
[144।02]
तत्किलास्याधिकमालम्बनमतो ऽधिवचनसंस्पर्श इति ।
[144।02-144।04]
यथोक्तं "चक्षुर्विज्ञानेन नीलं विजानाति नो तु नीलं मनोविज्ञानेन नीलं विजानाति नीलमिति च विजानाती"ति ।
[144।04]
एक आश्रयिअप्रभाइतो द्वितीय आलम्बनप्रभावितः ।
[144।05]
अपरे पुनराहुः ।
वचनमधिकृत्यार्थेषु मनोविज्ञानस्य प्रवृत्ति र्न पञ्चानाम् ।
[144।06]
अतस्तदेवाधिवचनम् ।
[144।06-144।07]
तेन संप्रयुक्तः स्पर्शो ऽधिवचनसंस्पर्श इत्येक आश्रयप्रभावितो द्वितीयः संप्रयोगप्रभावितः ।
[144।07]
पुनस्त एव षट् स्पर्शास्त्रयो भवन्ति ।
[144।08]
विद्याविद्येतरस्पर्शाः
[144।09]
विद्यासंस्पर्शो ऽविद्यासंस्पर्शः ।
ताभ्यां चान्यो नैवविद्यानाविद्यासंस्पर्श इति ।
[144।09-144।10]
एते पुनर्यथाक्रमं वेदितव्याः ।
[144।11]
अमलक्लिष्टशेषिताः ।
[144।12-144।13]
अनास्रवः स्पर्शो विद्यासंस्पर्शः क्लिष्टो ऽविद्यासंस्पर्शो विद्या ऽविद्याभ्यां संप्रयुक्तत्वात् ।
[144।13]
शेषो नैवविद्यानाविद्यासंस्पर्श उभाभ्यामसंप्रयोगात् ।
कः पुन शेषः ।
[144।14]
कुशलसास्रवो ऽनिवृताव्याकृतश्च ।
[144।14-144।15]
पुनरविद्यासंस्पर्शस्याभीक्ष्णसमुदाचारिण एकदेशस्य ग्रहणात् द्वौ सोपर्शौ भवतः ।
[144।16]
व्यापादानुनयस्पर्शौ
[144।17]
व्यापादानुनयाभ्यां संप्रयोगात् ।
पुनः सर्वसंग्रहेण
[144।18]
सुखवेद्यादयस्त्रयः
[144।19]
सुखवेदनीयः स्पर्शो दुःखवेदनीयो ऽदुःखासुखवेदनीयश्च ।
सुखवेदनादिहितत्वात् ।
[144।20]
अथवा वेद्यते तद्वेदयितुं वा शक्यमिति वेदनीयम् ।
किं तत् ।
वेदितम् ।
[144।20-144।21]
सुखं वेदनीयमस्मिन्निति सुखवेदनीयः स्पर्शो यत्र सुखं वेदितमस्ति
[144।21-144।22]
एवं दुःखादुःखासुखवेदनीयावपि योज्यौ ।
[144।22]
त एते षोडश स्पर्शा भवन्ति ।
उक्तः स्पर्शः ॥
[144।23]
वेदना वक्तव्या ।
तत्र यः पूर्वं षड्विधः स्पर्श उक्तः
[144।24]
तज्जाः षड्वेदनाः
[144।25]
चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदनाः ।
तासां पुनः
[145।01]
पञ्च कायिकी चैतसी परा ।
[145।02]
चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शजाः पञ्च्चवेदनाः कायिकी वेदनेत्युच्यते ।
[145।02-145।03]
रूपीन्द्रियाश्रितत्वात् ।
[145।03]
मनःसंस्पर्शजा पुनर्वेदना चैतसिकीत्युच्यते ।
चित्तमात्राश्रितत्वात् ।
[145।03-145।04]
अथ किं स्पर्शादुत्तरकालं वेदना भवत्याहोस्वित् समानकालम् ।
[145।04-145।05]
समानकालमिति वैभाषिकाः ।
[145।05]
अन्योन्यं सहभूहेतुत्वात् ।
[145।05-145।06]
कथं सहोत्पन्नयोर्जन्यजनकभावः सिध्यति ।
[145।06]
कथं च न सिध्यति ।
असामर्थ्यात् ।
[145।06-145।07]
जाते धर्मे धर्मस्यनास्ति सामर्थयं प्रतिज्ञा ऽविशिष्टम् ।
[145।07-145।08]
यदेव हीदं सहोत्पन्नयोर्जन्यजनकभावो नास्तीति तदेवेदं जाते धर्मे धर्मस्य नास्तीति ।
[145।08]
अन्योन्यजनकप्रसङ्गत्तर्हि ।
इष्टत्वाददोषः ।
[145।09]
इष्टमेव हि सहभूहेतोरन्योन्यफलत्वम् ।
[145।09-145।10]
इष्टमिदं सूत्रे त्वनिष्टं स्पर्शवेदनयोरन्योन्यफलत्वम् ।
[145।10-145।11]
"चक्षुःसंस्पर्श प्रतीत्य उत्पद्यते चक्षुःसंस्पर्शजा वेदना न तु चक्षुःपंस्पर्शजां वेदनां प्रतीत्योत्पद्यते चक्षुःसंस्पर्श" इति वचनात् ।
[145।11-145।12]
जनकधर्मातिक्रमाव्चायुक्तम् ।
[145।12-145।13]
यो हि धर्मो यस्य धर्मस्य जनकः प्रसिद्धः स तस्मात् भिन्नकालः प्रसिद्धः ।
[145।13-153।14]
तद्यथा पूर्वं वीजं पश्चादङ्कुरः पूर्वं क्षीरं पश्चाद्दधि पूर्वमभिघातः पश्चाच्छन्दः पूर्वं मनः पश्चात् मनोविज्ञानमित्येवमादि ।
[145।14-145।15]
अन्यथा परंपरापेक्षत्वात् कार्यकारणयोः सर्वं वा युगपदुत्पद्यते न वा कदाचित् पश्चाद्विशेषाभावात् ।
[145।15-145।16]
नहि न सिद्धः कार्यकारणयोः पूर्वापराभावः ।
[145।16]
सहभावो ऽपि तु सिद्धः ।
[145।16-145।18]
तद्यथा चक्षुर्वज्ञानादीनां चक्षुरूपादिभिर्भूतभौतिकानां च तत्रापि पूर्वमिन्द्रियार्थौ पश्चाद्विज्ञानम् ।
[145।18-145।19]
पूर्वकाच्च भूतभौतिकसमुदायादुत्तर उत्पद्यत इतीष्यमाणे कः प्रतिषेधः ॥
[145।19]
यथा तर्हि च्छायाङ्कुरयोरेवं स्पर्शवेदनयो रिति वैभाषिकाः ।
[145।20]
स्पर्शादुत्तरकालं वेदनेत्यपरे ।
इन्द्रियार्थौ हि पूर्वान्तो विज्ञानम् ।
[145।20-145।21]
सो ऽसौ त्रयाणां संनिपातः स्पर्शः स्पर्शप्रत्ययात्पश्चाद्वेदना तृतीयक्षण इति ।
[145।21-145।22]
एवं तर्हि न सर्वन्त्रवज्ञाने वेदना प्राप्नोति न च सर्वं विज्ञानं स्पर्शः ।
[145।22]
नैष दोषः ।
[145।22-145।23]
पूर्वस्पर्शहेतुका ह्युत्तरत्र स्पर्शे वेदना सर्वे च स्पर्शाः सर्ववेदनकाः सर्वं च विज्ञानं स्पर्श इति ।
[145।24]
इदमयुक्तं वर्त्तते ।
किमत्रायुक्तम् ।
[145।24-145।25]
यदुत भिन्नालम्बनयोरपि स्पर्शयोः पूर्वस्पर्शैतुकोत्तरस्य वेदनेति ।
[145।25-145।26]
कथं नामान्यजातीयालम्बनस्पर्शसंभूता वेदना ऽन्यालम्बना भविष्यति येन वा चित्तेन संप्रयुक्ता ततो भिन्नालम्बनेति ।
[145।26-146।01]
अस्तु तर्हि तस्मिन्काले स्पर्शभूतं विज्ञानमवेदनकम् ।
[146।01-146।02]
तस्माच्च यत् पूर्वं विज्ञानं सवेदनकं तन्न स्पर्शः ।
[146।02]
प्रत्ययवैधुर्यादित्येवं सति को दोषः ।
महाभूमिकनियमो भिद्यते ।
[146।03]
"सर्वत्र चित्ते दशमहाभूमिका" इति ।
क्व चैष नियमः सिद्धः ।
शास्त्रे ।
[146।03-146।04]
सूत्रप्रमाणका वयं न शास्त्रप्रमाणकाः ।
[146।04-146।05]
उक्तं हि भगवता "सूत्रान्तप्रतिशरणैर्भवितव्यमि" ति ।
[146।05-146।06]
न वा एष महाभूमिकार्थः सर्वत्र चित्ते दश महाभूमिकाः संभवन्तीति ।
[146।06]
कस्तर्हि महाभूमिकार्थः ।
तिस्रो भूमयः ।
[146।06-146।07]
सवितर्का सविचारा भुमिः अवितर्का विचारमात्रा अवितर्का विचारा भूमिः
पुनश्तिस्र कुसला भूमिः अकुशला ऽव्याकृता भुमिः ।
[146।07-146।08]
पुनस्तिस्रः ।
[146।08]
शैक्षी भूमिरशैक्षी नैवशैक्षी भुमिः ।
[146।08-146।09]
तद्य एतस्यां सर्वस्यां भूमौ भवन्ति ते महाभूमिकाः ।
[146।09-146।10]
ये कुक्शलायामेव ते कुक्शलमहाभूमिकाः ।
[146।10]
ये क्लिष्टायामेव ते क्लेशमहाभूमिकाः ।
[146।10-146।11]
ते पुनर्यथासंभवं पर्यायेणनतु सर्वे युगपदित्यपरे ।
[146।11]
अकुशलमहाभूमिकास्तु पाठप्रसङ्गे नासञ्जिताः ।
[146।11-146।12]
इदानीं पूर्वं न पठ्यन्ते स्म ।
[146।12-146।14]
यदि तर्हि स्पर्शादुत्तरकालल्ं वेदना सूत्रं परिहार्यं "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः सहजाता वेदना संज्ञा चेतने"ति ।
[146।14-146।15]
सहजाता इत्युच्यते न स्पर्शसहजाता इति किमत्र परिहार्यम् ।
[146।15-146।16]
समनन्तरे ऽपि चायं सहशब्दो दृष्टस्तद्यथा "मैत्रीसहगतं स्मृतिसंवोध्यङ्गं भावयती" त्यज्ञापकमेतत् ।
[146।16-146।18]
यत्तर्हि सूत्र उक्तं "या च वेदना या च संज्ञा या च चेतना यच्च विज्ञानं संसृष्टा इमे धर्मा नासंसृष्टा" इत्यतो नास्ति वेदनाभिरसंसृष्टं विज्ञानम् ।
[146।18]
संप्रधार्यं तावदेतत् क एष सम्सृष्टार्थः ।
[146।18-146।20]
तत्र हि सूत्र एवमुक्तं "यद्वेदयते तच्चेतयते यच्चेतयते तस्त्संप्रजानीते यत्संप्रजानीते तद्विजानाती"ति ।
[146।20-146।21]
तन्न विज्ञायते किम् तावदयमेषामालम्बननियम उक्त उताहो क्षणनियम इति ।
[146।21]
आयुरुष्मणोः साहभाव्ये संसृष्टवचनात् सिद्धः क्षणनियमः ।
[146।22]
यच्चापि सूत्र उक्तं "त्रयाणां संनिपातः स्पर्शः" इति ।
[146।22-146।23]
तत् कथं विज्ञानं चास्ति न च त्रयाणां संनिपातो न च स्पर्श इति ।
[146।23-146।24]
तस्मादवश्यं सर्वत्र विज्ञाने स्पर्शः स्पर्शसहजा च वेदनैष्टव्या ।
[146।24]
अलमतिप्रसङ्गिया कथया ।
प्रकृतमेवानुक्रम्यताम् ॥
[146।25]
उक्ता समासेन चैतसिकी वेदना ॥
[146।26]
पुनश्चाष्टादशविधा सा मनोपविचारतः
[146।27]
सैव चैतसिकी वेदना पुनराष्टदश मनोपविचारव्यवस्थानादष्टादधा भिद्यते ।
[146।27-146।28]
पुनः संधिकरणं चात्र द्रष्टव्यम् ।
[146।28]
अष्टादशमनो पविचाराः कतमे ।
[146।28-147।01]
षट् सौमनस्योपचिराः षट् दौर्मनस्योपविचाराः षडुपेक्षोपविचाराः ।
[147।01]
कथमेषां व्यवस्थानम् ।
यदि स्वभावतः ।
[147।02]
त्रयो भविष्यन्ति ।
सौमनस्यदौर्मनस्योपेक्षाविचाराः ।
[147।02-147।03]
अथ संप्रयोगतः ।
[147।03]
एको भविष्यति ।
सर्वेषां मनः संप्रयुक्तत्वात् ।
अथालम्बनतः ।
[147।03-147।04]
षट् भविष्यन्ति ।
[147।04]
रूपादिषड्विषयालम्बनत्वत् ।
त्रिभिरपि स्थापना ।
[147।04-147।05]
तेषां पञ्चदश रूपाद्युपविचारा असंभिन्नालम्बनाः प्रतिनियतरूपाद्यालम्बनत्वात् ।
[147।05-147।06]
त्रयो धर्मोपविचारा उभयथा ।
[147।06]
मनोपविचारा इति को ऽर्थः ।
[147।06-147।07]
मनः किल प्रतीत्यैते सौमनस्यदयो विषयानुपविचरन्तीति ।
[147।07]
विषयेषु वा मन उपविचारयन्तीत्यपरे ।
[147।08]
वेदनावशेन मनसो विषयेषु पुनः पुनर्विचरणात् ।
[147।08-147।09]
कस्मात् कायिकी वेदना न मनोपविचारः ।
[147।09-147।10]
नैव ह्यसौ मन एवाश्रिता नाप्युपविचारिका ऽविकल्पकत्वादित्ययोगः ।
[147।10]
तृतीयध्यानसुखस्य कस्मान्मनोपविचारेष्वग्रहणम् ।
[147।10-147।11]
आदितः किल कामधातौ मनोभूमिकसुखेन्द्रियाभावात्तत्प्रतिद्वन्द्वेन कुःखोपविचाराभावाच्चेति ।
[147।12]
यदि मनोभूमिका एवैते ।
[147।12-147।13]
यत्तर्हि सूत्र उक्तं "चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयानि रूपाण्युपविचरन्तीत्येवमादिः ।
[147।13]
कथम् ।
[147।13-147।14]
पञ्चविज्ञानकायाभिनिर्हृतत्वमभिसंधायैतदुक्तं "मनोभूमिका ह्येते ।
[147।14-147।15]
तद्यथा ऽशुभा चक्षुर्विज्ञानाभिनिर्हृता च मनोभूमिका चे"ति ।
[147।15-147।16]
अपि तु "दृष्ट्वा यावत् स्पृष्ट्वे"ति वचनात् ।
[147।16-147।17]
अचोद्यमेवैतत् ।
ये ऽप्य दृष्ट्वा यावदस्पृष्ट्वोपविचर्न्ति ते ऽपि मनोपविचाराः ।
[147।17-147।18]
इत्रथा हि कामधातौ रूपधात्वालम्बना रूपाद्युपविचारा न स्युः कामधात्बलम्वनाश्च रूपधातौ गन्धरसस्प्रष्टव्योपविचाराः ।
[147।18-147।19]
यथा तु यक्ततरं तथोक्तं यो ऽपि रूपाणि दृष्ट्वा शब्दानुपविचरति सो ऽपि मनोपविचारः ।
[147।20]
यथा त्वनाकुलं तथोक्तमिन्द्रियार्थस्य व्यवच्छेदतः ।
[147।20-147।21]
किमस्ति रूपं यत्सौमनस्यस्थानीयमेव स्यात् यावदुपेक्षास्थानीयमेव ।
[147।21-147।22]
अस्ति संतानं नियमय्य न त्व्बालम्बनम् ॥
[147।23-147।24]
अथैषां मनोपविचाराणां कति कामप्रतिसंयुक्तास्तेषां च कति किमालम्बना एवं यावदारूप्यप्रतिसंयुक्ता वक्तव्याः ।
[147।24]
आह
[147।25]
कामे स्वालम्बनाः सर्वे
[147।26]
आमधातौ सर्वे ऽष्टादश सन्ति स च तेषां सर्वेषामालम्बनम् ।
तेषामेव
[148।01]
रूपी द्वादशगोचरः ।
[148।02]
रूपधातुर्द्वादशानामालम्बनं षट् गन्धरसोपविचारानपास्य ।
तत्र तयोरभावात् ।
[148।03]
त्रयाणामुत्तरः
[148।04]
गोचर इति वर्तते ।
आरुप्यधातुस्त्रयाणां धर्मोपविचाराणामालम्बनम् ।
[148।04-148।05]
तत्र रूपाद्यभावात् ॥
[148।05]
उक्ताः कामप्रतिसंयुकताः ।
[148।06]
रूपप्रतिसंयुक्ता वक्तव्याः ।
तत्र तावत्
[148।07]
ध्यानद्वये द्वादश
[148।08]
दौर्मनस्योपविचारानपास्य ।
ते च द्वादश
[148।09]
कामगाः
[148।10]
कामान् गच्छन्तीति कामगाः ।
कामधातुमालबन्त इत्यर्थः ।
[148।10-148।11]
दृष्टो हि विषयाणां ग्रहणार्थे गमिप्रयोगः ।
[148।11]
कथमेतत् गम्यते ।
एवमेतत् गम्यत इति ।
[148।12]
स्वो ऽष्टालम्बनम्
[148।13]
स एव रूपधातुस्तेषं स्वः ।
स एव रूपधातुस्तेषां स्वः ।
[148।13-148।14]
स्वो ऽष्टानां मनोपविचाराणामालम्बनं गन्धरसोपविचारांश्चतुरो हित्वा ।
[148।15]
आरूप्यो द्वयोः
[148।16]
धर्मोपविचारयोरालम्बनम् ।
[148।17]
ध्यानद्वये तु षट् ।
[148।18]
तृतीयचतुर्थयोर्ध्यान्योः षडुपेक्षोपविचारा एव सन्ति नान्ये ।
तेषां पुनरालम्बनं
[148।19]
कामाः षण्णां
[148।20]
कामधातुः षण्णामप्यालम्बनम् ।
[148।21]
चतुर्णां स्वः
[148।22]
रूपधातुश्चतुर्णां तत्र गन्धरसाभावात् ।
[148।23]
एकस्यालम्बनं परः
[148।24]
आरुप्यधातुरेकस्यैव धर्मोपविचारस्यालम्बनम् ।
उक्ता रूपप्रतिसंयुक्ताः ।
[149।01]
आरूप्यप्रतिसंयुक्ता इदानीमुच्यन्ते ।
[149।02]
चत्वारो ऽरूपिसामन्ते
[149।03]
आकाशानन्त्यायतनसामन्तकमत्रारूपिसामन्तकम् ।
[149।03-149।04]
तत्र चत्वारो रूपशब्दस्प्रष्टव्यधर्मोपविचाराः ।
[149।04]
ते च
[149।05]
रूपगाः
[149।06]
चतुर्थं हि ध्यानमेषामालम्बनम् ।
[149।06-149।08]
येषां तत् व्यवच्छिन्नालम्बनमस्ति येषां पुनः परिपिण्डितालम्बनं तेषां तत्रैक एव संभिन्नालम्बनो धर्मोपविचारः ।
[149।09]
एक ऊर्ध्वगः ।
[149।10]
एक एव धर्मोपविचारस्तत्रारूप्यधात्वालम्बनः ।
[149।11]
एको मौले
[149।12]
मौले पुनरारूप्ये धर्मोपविचार एवैको ऽस्ति नान्यः ।
स चापि
[149।13]
स्वविषयः
[149।14]
आरुप्यधात्वालम्बन एव ।
[149।14-149।15]
नहि मौलानामारुप्याणामधरो धातुरालम्बनमिति पश्चात् प्रतिवेदविष्यामः ।
[149।15]
एते च मनोपविचाराः
[149।16]
सर्वे ऽष्टादश सास्रवाः
[149।17]
नास्ति कश्चिदनास्रवः ।
कः कतिभिः समन्वागतः ।
[149।17-149।21]
कामधातूपपन्नो रूपावचरस्य कुशलस्य चित्तस्यालाभी कामावचरैः सर्वैः प्रथमद्वितीयध्यानभूमिकैरष्टाभिः तृतीयचतुर्थध्यानभूमिकैश्चतुर्भिः क्लिष्टैर्गन्धरसालम्बनान् पर्युदस्य आरूप्यावचरेणैकेन क्लिष्टेनैवालाभी रूपावचरस्य कुशलस्य चित्तस्या वितरागः सर्वैः कामावचरैः प्रथमध्यानभुमिकैर्दशभिः ।
[149।21-149।22]
चतुर्भिः सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनौ व्युदस्य षड्भिरूपेक्षोपविचारैरनागम्यभूमिकैः ।
[149।22]
द्वितीयध्यानभूमिकैरष्टाभिः ।
[149।23]
तृतीयचतुर्थध्यानारूप्यभूमिकैः पूर्ववत् ।
अनया वर्त्तन्या शेषमनुगन्तव्यम् ।
[149।24-149।25]
ध्यानोपपन्नस्तु कामावचरेणैकेनोपेक्षाधर्मोपविचारेण निर्माणचित्तसंप्रयुक्तेन समन्वागतो वेदितव्यः ।
[149।25]
अपर आह ।
[149।25-150।01]
अस्त्येवं मनोपविचाराणां वैभाषिकीयो ऽर्थः ।
[150।01]
सूत्रार्थस्त्वन्यथा दृश्यते ।
[150।01-150।02]
नहि यो यस्माद्वीतरागः स तदालम्बनमुपविचरतीति युक्तम् ।
[150।02-150।03]
अतः सास्रवा अपि न सर्वे सौमनस्यादयो मनोपविचाराः ।
[150।03]
किं तर्हि ।
सांक्लेशिका यैर्मनो विषयानुपविचरतीति ।
[150।03-150।04]
कथं चोपविचरति ।
[150।04-150।05]
अनुनीयते च प्रतिहन्यते चाप्रतिस्ङ्ख्याय चोपेक्षते येषां प्रतिपक्षेण षट् सातता विहारा भवन्ति ।
[150।05-150।07]
चक्षुषा रूपाणि दृष्ट्वा नैव सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतिमान् संप्रजानन् एवं यावन्मनसा धर्मान् विज्ञायेति ।
[150।07-150।08]
नह्यर्हतो लौकिकं नास्ति कुशलं धर्मालम्बनं सौमनस्यं यत्तु तत्सांक्लेशिकं मनस उपविचारभुतं तस्यैव प्रतिषेधो लक्ष्यत इति ।
[150।08-150।09]
पुनस्त एव सौमनस्यादयः षट्त्रिंशच्छास्तृपदानि भवन्ति ।
[150।09]
गर्धनैष्क्रम्याश्रितभेदेन ।
[150।10]
तद्भेदस्य शास्त्रा गमितत्वात् ।
[150।10-150।11]
तत्र गर्धाश्रिताः क्लिष्टा नैष्क्रम्याश्रिताः कुशलाः ।
[150।11]
एवमेतद्वेदनाख्यं भवाङ्गमनेकप्रकारभेदं वेदितव्यम् ।
[150।11-150।12]
शेषाण्यङ्गानि पुनर्नोच्यन्ते ।
[150।12]
किं कारणम् ।
यस्मात्
[150।13]
उक्तं च वक्ष्यते चान्यत्
[150।14]
किञ्चिदत्राङ्गमुक्तं किञ्चित् पश्चद्वक्ष्यते ।
तत्र विज्ञानं तावदुक्तं
[150।15]
"विज्ञानं प्रतिविज्ञप्तिर्मन आयतनं च तदि"ति ।
[150।16]
षडायतनमप्युक्तं
[150।17]
"तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादय" इति ।
[150।18]
संस्कारा भवश्च कर्मकोशस्थाने व्याख्यास्यन्ते ।
तृष्णोपादानानि क्लेशकोशस्थाने ।
[150।19]
स चैष प्रतीत्यसमुत्पादः समासतः क्लेशकर्मवस्तूनीति प्राक् ज्ञापितम् ।
[150।20]
अत्र तु क्लेश इष्यते ।
[150।21]
बीजवन्नागवन्मूलवृक्षवत्तुषवत्तथा
[150।22]
किमस्य वीजादिभिः साधर्म्यम् ।
[150।22-150।23]
तद्यथा वीजादङ्कुरकाण्डपत्रादीनां प्रभवो भवत्येवं क्लेशात् क्लेशकर्मवस्तूनाम् ।
[150।23-151।01]
यथा नागाधिष्टितं सरो न शुष्यत्येवं क्लेशनागाधिष्ठितं जन्मसरः ।
[151।01-151।02]
यथा चानपोद्धृतमूला वनस्पतयश्छिन्नाश्छिन्नाः पुनरपि प्ररोहन्त्येवमनपोद्धृतक्लेशमूला गतयः ।
[151।02-151।03]
यथा च वृक्षाः कालेन कालल्ं पुष्पफलानां प्रसोतारो भवन्त्येवं क्लेशा अप्यसकृत् क्लेशकर्मवस्तूनां हेतुर्भवन्ति ।
[151।03-151।06]
यथा च तुषावनद्धास्तण्डुलाः प्ररोहणसमर्था भवन्ति न केवला एवं क्लेशप्राप्ततुषावनद्धं कर्म जन्मान्तरविरोहणे समर्थं भवति न केवलमित्येवं तावत् क्लेशो बीजादिवद्वेदितव्यः ।
[151।07]
तुषितण्डुलवत् कर्म तथैवौषधिपुष्पवत् ।
[151।08]
तुषौ ऽस्यास्तीति तुषी ।
तुषस्थानीयः क्लेश उक्तः ।
[151।08-151।09]
इदानीं तुषितण्डुलस्थानीयं कर्म्मोच्यते ।
[151।09-151।10]
सन्त्योषधयः फलपाकान्ता एवं कर्माणि विपच्य पुनर्विपाकानभिनिर्वर्त्तयन्ते ।
[151।10-151।11]
यथा च पुष्पं फलोत्पत्तवासन्नं कारणमेवं कर्माणि विपाकोत्पत्तो वेदितव्यानि ।
[151।12]
सिद्धान्नपानवद्वस्तु
[151।13-151।14]
पथा सिद्धमन्नं पानं च केवलं परिभोगाय कल्प्यते न पुनर्विरोहाय एवं विपाकाख्यं वस्तु ।
[151।14]
नहि पुनर्विपाकाद्विपाकान्तरं जन्मान्तरेषु प्रवर्हते ।
[151।14-151।15]
यदि हि प्रवर्धेत मोक्षो न स्यात् ।
[151।15-151।16]
न खल्वेष जन्मसंतान एवं प्रतीत्यसमुत्पद्यमानो भवचतुष्टयं नातिक्रामति ।
[151।16]
यदुतान्तराभवमुपपत्तिभवं पूर्वकालभवं मरणभवं च ।
[151।16-151।17]
ते च व्याख्याताः ।
[151।18]
तस्मिन् भवचतुष्टये
[151।19]
उपपत्तिभवः क्लिष्टः
[151।20]
एकान्तेन ।
कतमेन क्लेशेन ।
[151।21]
सर्वक्लेशै स्वभूमिकैः ।
[151।22]
यद्भमिक उपपत्तिभवस्तद्भूमिकईरेव सर्वक्लेशैः ।
[151।22-151।23]
नहि स क्लेशो ऽस्ति येन प्रतिसम्धिबन्धः प्रतिविद्यते इत्याभिधर्मिकाः ।
[151।23-151।24]
क्लेशैरेव तु न पर्यवस्थानैः स्वतन्त्रईः ।
[151।24-151।25]
यद्यपि सा ऽवस्था मन्दिका यस्तु यत्राभीक्ष्णं चरित आसन्नश्च तस्य तदानीं स एव क्लेश उपतिष्ठते ।
[151।25]
पूर्वावेधात् ।
[151।25-151।26]
अन्तरभवप्रतिसंधिरप्येवमवश्यं क्लिष्टो वेदितव्यः ।
[151।27]
त्रिधा ऽन्ये
[151।28]
अन्ये त्रयो भवास्त्रिप्रकाराः अन्तरभवादयः कुशलक्लिष्टाव्याकृताः ।
[152।01]
अथैषां भवानां कतमः किंप्रतिसंयुक्तः ।
[152।02]
त्रय आरूप्ये
[152।03]
अन्तराभवं वर्जयित्वा ।
[152।03-152।04]
नह्यारूप्यधातुः स्थानान्तरपरिच्छिन्नो यस्य प्राप्त्यर्थमन्तराभवो ऽभिनिर्वर्तेत ।
[152।04-152।05]
कामरूपधात्वोरपरिसंख्यानात् सर्व एव चत्वारो भवाः सन्तीत्यनुज्ञापितं भवति ।
[152।05-152।06]
उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो विस्तरेण ।
[152।07]
अथ कथं सत्त्वानां स्थितिभवतीत्याह
[152।08]
आहारस्थितिकं जगत्
[152।09-152।10]
एको धर्मो भगवता स्वयमभिज्ञायाभिसंबध्याख्यातो "यदुत सर्वस्त्त्वा आहारस्थितिका" इति सूत्रपदम् ।
[152।10]
के पुनराहाराः ।
चत्वार आहाराः ।
[152।10-152।11]
कवडीकाराहारः प्रथमः ।
[152।11]
औदारिकः सूक्ष्मश्च ।
[152।11-152।12]
सूक्ष्मो ऽन्तराभविकानां गन्धाहारत्वात् ।
[152।12]
देवानां प्राथमकल्पिकानां च निःष्यन्दाभावात् ।
[152।12-152।13]
तैलस्येव सिकतास्वङ्गेष्वनुप्रवेशात् ।
[152।13]
सूक्ष्माणां वा सूक्ष्मो बालकसंस्वेदजन्तुकादीनाम् ।
[152।13-152।14]
स्पर्शो द्वितीयः ।
[152।14]
मनःसंचेतना तृतीयः ।
विज्ञानमाहारश्चतुर्थः ।
[152।15]
तत्र पुनः
[152।16]
कवडीकार आहारः कामे
[152।17]
न रूपारूप्यधात्वोस्तद्वीतरागस्य तत्रोपपत्तेः ।
स च
[152।18]
त्र्यायतनात्मकः ।
[152।19]
कामावचराणि गन्धरसस्प्रष्टव्यायतनानि सर्वाण्येव कवडीकार आहारः ।
[152।19-152।20]
कवडीकृत्याभ्यवहरणात् ।
[152।20]
मुखनासिकाग्रासव्यवच्छेदतः ।
[152।20-152।21]
च्छायातपज्वालाप्रभासु तेषां कथमाहारत्वम् ।
[152।21]
बाहुल्येन किलैष निर्देशः ।
[152।21-152।22]
यान्यपि तु नाभ्यवह्नियन्ते स्थितिं चाहरन्ति तान्यपि सूक्ष्म आहारः ।
[152।22]
स्नानाभ्यङ्गवदिति ।
[152।22-152।23]
कस्मान्न रूपायतनमाहारः ।
[152।23]
तदपि कवडीकृत्याभ्यवह्रियते ।
[152।24]
न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात्
[152।25]
आहारो हि नाम य इन्द्रियमहाभूतानामनुग्रहाय संवर्त्तते ।
[152।25-152।26]
रूपायतनं चाभ्यवहरणकाले स्वमिन्द्रियं तन्महाभूतानि वा नानुगृह्णाति ।
[152।26]
कुत एवान्यान्यविषत्वात् ।
[153।01-153।02]
यदापि च दृश्यमाने सुखसौमनस्ये आदधाति तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवति न रूपम् ।
[153।02-153।03]
मुक्तानामनागाम्यर्हेतां सुमनोज्ञमप्याहारं पश्यतामनुग्रहाभावात् ।
[153।04]
स्पर्शसंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु ।
[153।05]
स्पर्शस्त्रिकसंनिपातजः ।
[153।05-153।06]
चेतना मनस्कर्म विज्ञानं च सास्रवाण्येवाहाराः त्रिष्वपि धातुषु संविद्यन्ते ।
[153।06]
किमर्थं नानास्रवाणि ।
[153।06-153।07]
यस्मात् भवापोषणार्थ आहारार्थः ।
[153।07]
तानि च भावक्षयायोत्थितानीति वैभाषिकाः ।
[153।07-153।09]
अपि तु सूत्र उक्तं "चत्वार इमे आहारा भूतानां सत्त्वानां स्थितये यापनायै संभवैषिणां चानुग्रहाये"ति ।
[153।09]
न चैवमनास्रवा धर्मा इति नाहाराः ।
[153।10]
भूता हि तावत्सत्त्वा उपपन्ना इति विज्ञायन्ते ।
अथ संभवैषिणः कतमे ।
[153।11]
मनोमयः संभवैषी गन्धर्वश्चान्तराभवः
[153।12]
निर्वृत्तिश्च
[153।13]
अन्तराभवो ह्येभिरभिधानैरुक्तो भगवता ।
[153।13-153।14]
स एव मनोनिर्जातत्वात् मनोमय उक्तः ।
[153।14]
शुक्रशोणितादिकं किञ्चिद्बाह्यमनुपादाय भावात् ।
[153।14-153।15]
संभवैषणशीलत्वात् संभवैषी ।
[153।15]
गन्धर्वणात् गन्धर्वः ।
उपपत्त्यद्भिमुखत्वादभिनिर्वृत्तिः ।
[153।15-153।16]
"अव्याबाधमात्मभावमभिनिर्वर्त्य सव्याबाधे लोके उपपद्यत" इति सूत्रपदात् ।
[153।16-153।18]
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0