भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 221240

तत्रायं धर्मसंकेतो यदुतास्मिन् सतीदं भवतीति विस्तरेण प्रतीत्यसमुत्पादः "।
[129।12]
कीदृशस्तर्ह्यात्मा न प्रतिषिध्यते ।
[129।13]
स्कन्धमात्रं तु
[129।14]
यदि तु स्कन्धमात्रमेवात्मेति उपचर्यते तस्याप्रतिषेधः ।
[129।14-129।15]
एवं तर्हि स्कन्धा एव लोकान्तरं संचरन्तीति प्राप्तं स्कन्धमात्रं तु नात्र संचरतीति ।
[129।16]
क्लेशकर्माभिसंस्कृतम् ।
[129।17]
अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत्
[129।18]
क्षणिका हि स्कन्धास्तेषां संचरितुं नास्ति शक्तिः ।
[129।18-129।19]
क्लेशैस्तु परिभावितं कर्मभिश्च क्लेशमात्रमन्तराभासंज्ञिकया संतत्या मातुः कुक्षिमायाति ।
[129।19-129।20]
तद्यथा प्रदीपः क्षणिको ऽपि संतत्या देशान्तरमिति नास्त्येष दोषः ।
[129।20-129।21]
तस्मात्सिद्धमेतदसत्यप्यात्मनि क्लेशकर्माभिसंस्कृटः स्कन्धानां संतानो मातुः कुक्षिमापद्यत इति ।
[129।21]
स पुनः
[129।22]
यथाक्षेपं क्रमाद्वृद्धः सन्तानः क्लेशकर्मभिः ।
[129।23]
परलोकं पुनर्याति
[129।24]
नहि सर्वस्य स्कन्धसन्तानस्याक्षेपस्तुल्यो भवत्यायुप्यस्य कर्मणो भेदात् ।
[129।24-129।25]
अतो यस्य यावानाक्ष्पस्तस्य तावती वृद्धिः क्रमेण भवति ।
[129।25]
केन क्रमेण ।
[130।01-130।02]
"कललं प्रथमं धवति कललाज्जायते ऽर्बुदः ।
अर्बुदाज्जायते पेशी पेशीतो जायते घनः ॥
[130।03-130।04]
घनात् प्रशाखा जायन्ते केशरोमनखादयः ।
इन्द्रियाणि च रूपीणि व्यञ्जनान्यनुपूर्वशः ॥
[130।05]

इत्यार्याः ।
[130।05-130।06]
एताः पञ्च गर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः ।
[130।06-130।08]
तस्य खलु कालान्तरेण परिपाकप्राप्तस्य गर्भशत्लस्याभ्यन्तरात् मातुः कुक्षौ कर्मविपाकजा वायवो वान्ति ये तं गर्भशल्यं संपरिवर्त्त्य मातुः कायावक्षरद्वाराभिमुखमवस्थापयन्ति ।
[130।08-130।09]
सक्रूरपुरीषपिण्ड इवातिमात्रं स्थानात् प्रच्युतो दुःखं संपरिवर्त्त्यते ।
[130।09-130।15]
यदि पुनः कदाचिन्मातुराहारविहारक्रियापचारेण च पूर्वकर्मापराधेन गर्भ एव व्यापादं प्राप्नोति तत एनं तज्ज्ञास्त्रियः कुमारभृत्यका वा सुखोष्णेन सर्पिस्तैलेन सुपिष्टेन शाल्मलीकल्केनान्येन वा हस्तमभ्यज्य तीक्ष्णं तनुकं चात्र शस्त्रकमुपनिवध्य तस्मिन्वर्चस्कूप इवोग्रदुर्गन्धान्धकारसमलपल्वले सुवहुक्रिमिकुलसहस्रावासे नित्यस्राविणि सततप्रतिक्रिये शुक्रश्रोणितलसिकामलसंक्लिन्नविक्लिन्नक्वथितपिच्छिले परमवीभत्सदर्शने छिद्रतनुचर्मावच्छादिते पूर्वकर्मवीपाकर्जे महति कामनाडीर्वणे हस्तं प्रवेश्या ङ्गमङ्गं निकृत्याध्याहरन्ति ।
[130।16]
स चाप्यपरपर्यायवेदनीयेन कर्मणा पूर्वकेण कामपि गतिं नीयते ।
[130।16-130।20]
अथ पुनः स्वस्ति प्रजायते तत एनं माता पुत्राभिलाषिणी तत्परिका वा स्त्रियः सद्योजातकं तरुणव्र्णायमानात्मानं शस्त्रक्षारा यमाणसंस्पर्शाभ्यां पाणिभ्यां परिगृह्य स्नापयन्ति स्तन्येन सर्पिपा वाप्याययन्ति औदारिकं चाहारमाहर्तुं क्रमेणाभ्यासयन्ति ।
[130।20-130।21]
तस्य वृद्धेरन्वयादिन्द्रियाणां परिपाकान्पुनरपि क्लेशाः समुदाचरन्ति कर्मणि चोपचयं गच्छन्ति ।
[130।21-130।22]
सः तैः कायस्य भेदादन्तराभवसंतत्या पूर्ववत् परलोकं पुनर्याति ।
[130।23]
इत्यनदिभवचक्रकम्
[130।24-130।25]
एतेन प्रकारेण क्लेशकर्महेतुकं जन्म तद्धेतुकानि पुनः क्लेशकर्माणि तेभ्यः पुनर्जन्मेत्यनादिभवचक्रकं वेदितव्यम् ।
[130।25-130।26]
आदौ हि परिकल्प्यमाने त्स्याहेतुकत्वमेतेषु सज्येत सति चाहेतुकत्वे सर्वमेवेदमहेतुकं प्रादुःस्यात् ।
[130।27-130।28]
दृष्टं चाङ्कुरादीषु वीजादीनां सामर्थ्यं देशकालप्रतिनियमादग्न्यादीनां च पाकजादिष्विति नास्ति निर्हेतुकः प्रादुर्भावः ।
[130।28-131।01]
नित्यकारणास्तित्ववादश्च प्रागेव पर्युदस्तः ।
[131।01]
तस्मान्नास्त्येव संसारस्यादिः ।
अन्तस्तु हेतुक्षयात् युक्तः ।
[131।01-131।02]
हेत्वधीनत्वाज्जन्मनो वीजक्षयादिवङ्कुरस्येति ।
[131।03]
य एष स्कन्धसंतानो जन्मत्रयावस्थ ऊपदिष्टः
[131।04]
स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः ।
[131।05-131।06]
तत्र द्वादशाङ्गानि अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर्जरामरणं च ।
[131।06-131।07]
त्रीणि काण्डानि पूर्वापरान्तमध्यान्यतीतानागतप्रत्युत्पन्नानि जन्मानि ।

[131।07-131।08]
कथमेषु त्रिकाण्डेषु द्वादशाङ्गानि व्यवस्थाप्यन्ते ।
[131।09]
पूर्वापरान्तयोर्द्वे द्वे मध्ये ऽष्टौ
[131।10]
अविद्या संस्काराश्च पूर्वान्ते जातिर्जरामरणं चापरान्ते ।
[131।10-131।11]
शेषाण्यष्टौ मध्ये ।
[131।11]
किं पुनरेतान्यष्टाङ्गानि सर्वस्यां जातौ भवन्ति ।
नेत्याह ।
कस्य तर्हि ।
[131।12]
परिपूरिणः
[131।13-131।14]
परीपूरो ऽस्यास्तीति परिपूरो य एतानि सर्वाण्येवावस्थान्तराणि स्पृशति सो ऽत्र पुद्गलो ऽभिप्रेतो न तु यो ऽन्तराल एव म्रियते ।
[131।14]
नापि रूपारुप्यावचरः ।
[131।14-131।15]
तथा हि महानिदानपर्याये कामावचर एव पुद्गलो निर्दिष्टः ।
[131।15-131।16]
"विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेदि"ति वचनात् ।
[131।16-131।18]
यदा तु द्विविधः प्रतीत्यसमुत्पाद उच्यते पौर्वान्तिकश्चापरान्तिकश्चेति तदा सप्ताङ्गानि पौर्वान्तिको यावद्वेदनान्तः पञ्चापरान्तिकः ।
[131।18]
सफलहेतुकयोः पूर्वापरान्तयोर्ग्रहणात् ।
[131।19]
अथ क इमे ऽविद्यादयः ।
[131।20]
पूर्वक्लेशा दशा ऽविद्या
[131।21]
या पूर्वके जन्मनि क्लेशावस्था सेहाविद्येत्युच्यते ।
[131।21-131।22]
साहचर्यात्तद्वशेन तेषां समुदाचाराच्च ।
[131।22]
राजागमनवचने तदनुयात्रिका गमनसिद्धवत् ।
[131।23]
संस्काराः पूर्वकर्मणः ।
[131।24]
दशेति वर्त्तते ।

[131।24-131।25]
पूर्वजन्मन्येव या पुण्यादिकर्मावस्था सेह संस्कारा इत्युच्यन्ते यस्य कर्मण इह विपाकः ।
[131।26]
संधिस्कन्धास्तु विज्ञानं
[131।27]
मातुः कुक्षी प्रतिसंधिक्षणे पञ्च स्कन्धा विज्ञानम् ।
[132।01]
नामरूपमतः परम्
[132।02]
प्राक् षडायतनोत्पादात्
[132।03-132।04]
संधिचित्तात् परेण यावत् षडायतनं नोत्पद्यते सा ऽवस्था नामरूपं तावत् षडायतनमित्युच्यते ।
[132।04-132।05]
प्रक्चतुरायतनोत्पादादिनि वक्तव्ये षडायतनवचनं तदा तद्व्यवस्थापनात् ।
[132।06]
तत्पूर्वं त्रिकसंगमात् ।
[132।07-132।08]
उत्पन्ने षडायतने सावस्था तावत् षडायतनमित्युच्यते यावदिन्द्रियविषयविज्ञानत्रिकसंनिपातः ।
[132।09]
स्पर्शः प्राक्सुखदुःखादिकारणज्ञानशक्तितः
[132।10]
त्रयाणां संनिपातात् स्पर्शो भवति ।
[132।10-132।11]
स यावद्वेदनात्रयकारणपरिच्छेदेन समर्थो भवति सा ऽवस्था स्पर्श इत्युच्यते ।
[132।11]
परिच्छेदसामर्थ्ये सति
[132।12]
वित्तिः प्राक् मैथुनात्
[132।13]
वेदनावस्था यावन्मैथुनरागो न समुदाचरति ।
[132।14]
तृष्णा भोगमैथुनरागिणः ।
[132।15]
कामगुणमैथुनरागसमुदाचारावस्था तृष्णेत्युच्यते यावन्न तद्विषयपर्येष्टिमापद्यते ।
[132।16]
उपादानं तु भोगानां प्राप्तये परिधावतः
[132।17-132।18]
यस्यामवस्थायां विषयप्राप्तये पर्येष्टिमापन्नः सर्वतो धावत्यसाववस्था उपादानमित्युच्यते ।
[132।18]
तथा च परिधावन्

[132।19]
स भविष्यत् भवफलं कुरुते कर्म तत् भवः ।
[132।20]
स विषयाणां प्राप्तिहेतोः परिधावन् पौनर्भविकं कर्मोपचिनोति सो ऽस्य भवः ।
[132।21]
तेन हि कर्मणा पुनरितः प्रच्युतस्यायत्यां प्रतिसंधिर्भवति ।
यो ऽसौ
[132।22]
प्रतिसंधिः पुनर्जातिः
[132।23]
यदेवेह विज्ञानाङ्गं तदेवास्यान्यत्र जन्मनि जातिः ।
तत् ऊर्ध्वं
[132।24]
जरामरणमा विदः
[132।25]
जातेः परेण यावदेदनावस्था जरामरणम् ।
[132।25-132।27]
यान्येवेह चत्वार्यङ्गानि नामरूपषडायतनस्पर्शवेदनास्तान्येवान्यत्र जरामरणमित्येतानि द्वादशाङ्गानि ।
[132।27]
स चैष प्रतीत्यसमुत्पादश्चतुर्विध उच्यते ।
[133।01]
क्षणिकः प्रकर्षिकः सांबन्धिकः आवस्थिकश्च ।
कथं क्षणिकः ।
[133।01-133।02]
एकस्मिन् खल्वपि क्षणे द्वादशाङ्गानि भवन्ति ।
[133।02-133।03]
तद्यथा लोभवशेन प्राणिनं जीविताद् व्यपरोपयेत् ।
[133।03]
यो मोहः सा ऽविद्या ।
या चेतना ते संस्काराः ।
वस्तुप्रतिविज्ञप्तिर्विज्ञानम् ।
[133।04]
विज्ञानसहभुवश्चत्वारः स्कन्धा नामरूपम् ।
[133।04-133।05]
नामरूपे व्यवस्थापितानि इन्द्रियाणि षडायतनम् ।
[133।05]
षड्डायतनाभिनिपातः स्पर्शः ।
स्पर्शानुभवनं वेदना ।
[133।05-133।06]
यो लोभः स तृष्णा ।

[133।06]
तत्संप्रयुक्तानि पर्यवस्थानानि उपादानम् ।
[133।06-133।07]
तत्समुत्थितं कायवाक्कर्म भवः ।
[133।07-133।08]
तेषां धर्माणामुत्सर्जनं जातिः परीपाको जरा भङ्गो मरणमिति ।
[133।08]
पुनराहुः ।
[133।08-133।09]
क्षणिकः सांबन्धिकश्च यथा प्रकरणेषु "प्रतीत्यसमुत्पादः कतमः ।
[133।09]
सर्वे संस्कृता धर्मा" इति ।
[133।09-133।10]
आवस्थिको द्वादश पञ्चस्कन्धिका अवस्था निरन्तरजन्मत्रयसंबद्धाः ।
[133।10]
स एव प्राकर्षिकः ।
एषां कतमो ऽयमभिप्रेतो भगवतः ।
[133।11]
आवस्थिकः किलेष्टो ऽयं
[133।12]
यद्यङ्गमङ्गं पञ्च स्कन्धाः किं कारणमविद्यादीनेव धर्मान् कीर्त्तयति स्म ।
[133।13]
प्राधान्यत्त्वङ्गकीर्तनम् ।
[133।14-133।15]
अविद्याप्रधानामवस्थामविद्यां जगाद संस्कारप्रधानां संस्कारान्यावज्जरामरणमित्यदोषः ।
[133।15-133।16]
किं पुनः कारणं सूत्रे द्वादशाङ्ग उक्तः प्रकरणेष्वन्यथा "प्रतीत्यसमुत्पादः कतमः ।
[133।16]
सर्वे संस्कृता धर्मा" इति ।
[133।16-133।17]
अभिप्रायिकः सूत्रे लाक्षणिको ऽभिधर्मः ।
[133।17-133।18]
तथावस्थिकः क्षणिकः प्राकर्षिकः सांबन्धिकः सत्त्वाख्यो ऽसत्त्वाख्यश्चेति भेदः ।
[133।18]
किमर्थं पुनः सूत्रे सत्त्वाख्य एव ।
[133।19]
पूर्वापरान्तमध्येषु संमोहविनिवृत्तये
[133।20]
अत एव च त्रिकाण्डः ।
[133।20-133।21]

तत्र पूर्वान्तसंमोहो यत इयं विचिकित्सा किं न्व हमभूवमतीते ऽध्वनि आहोस्विन्नाभूवं को न्वहमभूवं कथं न्वहमभूवमिति ।
[133।22]
अपरान्तसंमोहो यत इयं विचिचित्सा किं नु भविष्याम्यनागते ऽध्वनीति विस्तरः ।
[133।23]
मध्यसंमोहो यत इयं विचिकित्सा किम्स्विदिदं के सन्तः के भविष्याम इति ।
[133।24-133।26]
एतस्य त्रिविधस्य संमोहस्य व्यावर्त्तनार्थं सत्त्वाख्य एव त्रिकाण्डश्च प्रतीत्यसमुत्पाद उपदिष्टः सूत्रे यथाक्रममविद्या संस्काराश्च जातिर्जरामरणं च विज्ञानं यावत् भवश्च ।
[133।26-134।02]
तथाहि सूत्र एवोक्तं "यतश्च भिक्षवो भिक्षुणा प्रतीत्यसमुत्पादश्च प्रतीत्यसमुत्पन्नाश्च धर्मा एवं यथाभूतं सम्यक् प्रज्ञया दृष्टा भवन्ति ।
[134।02]
स न पूर्वान्तं प्रतिसरति किं न्वहमभूवमतीते ऽध्वनी"ति विस्तरः ।
[134।03]
तृष्णोपादानभवा अप्यपरान्तसंमोहव्यावर्तनार्थमित्यपरे ।
[134।03-134।04]
तस्यैव ह्येते हेतव इति स पुनरेष द्वादशाङ्गः प्रतीत्यसमुत्पादस्त्रिस्वभावो वेदितव्यः ।
[134।05]
क्लेशकर्मवस्तूनि ।
तत्र
[134।06]
क्लेशास्त्रीणि
[134।07]
त्रीण्यङ्गानि क्लेशस्वभावान्यविद्यातृष्णेपादानानि ।
[134।08]
द्वयं कर्म
[134।09]
अङ्गद्वयं कर्मस्वभावं संस्कारा भवश्च ।
[134।10]
सप्त वस्तु
[134।11]
सप्ताङ्गानि वस्तुस्वभावानि विज्ञाननामरूपषडायतनस्पर्शवेदनाजातिजरामरणानि ।
[134।12]
क्लेशकर्माश्रयत्वात् ।
यथा च वस्तु सप्ताङ्गानि
[134।13]
फलं तथा ।
[134।14]
सप्तैवाङ्गानि फाभूतानि ।
शेषाणि पञ्च हेतुभूतानि ।
[134।14-134।15]
कर्मक्लेशस्वभावभूतत्वात् ।

[134।15]
किं पुनः कारणं मध्ये फलहेतू विशालितौ ।
[134।15-134।16]
वस्तुनः पञ्चधा भेदात् ।
[134।16]
क्लेशस्य द्विधा ।
अनागते ऽध्वनि फलं संक्षिप्तं द्विधा भेदात् ।
[134।17]
अतीते ऽध्वनि हेतुरेकमुखक्लेशोपदेशादिति ।
[134।18]
फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः
[134।19]
मध्येनैव हि पूर्वान्तापरान्तयोरपि हेतुफलविस्तरः शक्यो ऽनुमानुमिति नोक्तः ।
[134।20]
पुनरपरात्मकं हि यत्नं मा कार्यमिति ।
[134।20-134।22]
यदि खलु द्वादशाङ्ग एव प्रतीत्यसमुत्पाद एवं सत्यविद्याया अनुपदिष्टहेतुकत्वादादिमान् संसारः प्राप्नोति जरामरणस्य चानुपदिष्टफलत्वादन्तवान् ।
[134।22-134।23]
अङ्गान्तरं वा पुनरुपसंख्यातव्यं तस्याप्यन्यस्मादित्य नवस्थाप्रसङ्गः ।
[134।23]
नोपसंख्यातव्यम् ।
यस्मादुपदर्शितो ऽत्र भगवता
[134।24-134।25]
क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः ।
वस्तुक्लेशाश्च जायन्ते भवाङ्गनामयं नयः
[134।26]
क्लेशात् क्लेशो जायते तृष्णाया उपादानम् ।
क्लेशात् कर्म ।
[134।26-135।01]
उपादानात् भवो ऽविद्यायाश्च संस्कारा ।
[135।01]
कर्मवस्तुसंस्कारेभ्यो विज्ञानं भवाच्च जातिः ।
[135।01-135।02]
वस्तुनो वस्तुविज्ञानानामरूपं यावत् स्पर्शाद्वेदना जातेश्च जरामरणम् ।
[135।02-135।03]
वस्तुनः क्लेशो वेदनाया स्तृष्णेति ।
[135।03-135।04]
यस्मादेष नयो व्यवस्थितो भवाङ्गानां तस्मादविद्या ऽपि क्लेशस्वभावा वस्तुनः क्लेशाद्वेति ज्ञापितं भवति ।
[135।04-135।05]
वेदनावशाच्च जरामरणवस्तुनः पुनः क्लेशो भावीति नात्र पुनः किञ्चिदुपसंख्येयम् ।

[135।05-135।06]
"एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवती"ति वचनात् ।
[135।06]
अन्यथा हि किमस्य सामर्थ्यं स्यात् ।
[135।07]
अयोनिशोमनस्कारहेतुका ऽविद्योक्ता सूत्रान्तरे ।
अविद्याहेतुकश्चायोनिशोमनस्कारः ।
[135।08]
स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति अपरे ।
[135।08-135।09]
कथमयोनिशोमनस्कारस्योपादाने ऽन्तर्भावः ।
[135।09]
यदि संप्रयोगतः ।
तृष्णा ऽविद्ययोरपि तस्यान्तर्भावप्रसङ्गः ।
[135।10]
सत्यपि चान्तर्भावे कथमत्रेदं ज्ञापितं भवत्ययोनिशोमनस्कारहेतुका अविद्येति ।
[135।11-135।12]
यदि तर्ह्यन्तर्भावेनैव हेतुफलभावो विज्ञायते तृष्णा ऽविद्ययोरपि तर्हि तत्रान्तर्भावा दङ्गन्तरत्वं शक्यमकर्त्तुम् ।
[135।12]
अन्यः पुनराह ।
[135।12-135।13]
अयोनिशो मनस्कारो हेतुरविद्याया उक्तः सूत्रान्तरे ।
[135।13]
स चापि स्पर्शकाले निर्दिष्टः ।
[135।13-135।14]
"चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज" इति ।
[135।14]
वेदनाकाले चावश्यमविद्यया भवितव्यम् ।
[135।15]
"अविद्यासंस्पर्शजं वेदितं प्रतीत्योत्पन्ना तृष्णे"ति सूत्रान्तरात् ।
[135।16-135।17]
अतः स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्त्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति नास्त्यहेतुकत्वमविद्याया न चाङ्गान्तरमुपसंख्येयम् ।
[135।17-135।18]
नचाप्यनवस्थाप्रसङ्गः ।
[135।18-135।19]
तस्याप्ययोनिशोमनस्कारस्य पुनर्मोहजवचनादाविलो मनस्कारो मोहज इति ।
[135।19]
तत्तर्ह्येतदन्त्यत्रोक्तमिह पुनर्वक्तव्यम् ।
न वक्तव्यम् ।
कथमनुच्यमानं गम्यते ।

[135।20]
युक्तितः ।
कया युक्त्या ।
[135।20-135।21]
नहि निरवद्या वेदना तृष्णायाः प्रत्ययीभवत्यर्हतां न चावीपरीतः स्पर्शः क्लिष्टाया वेदनायाः ।
[135।21-135।22]
नच पुनर्निरवद्यस्यार्हतः स्पर्शो विपरीत इत्यनया युक्त्या ।
[135।22]
अतिप्रसङ्ग एवं प्राप्नोति ।
[135।22-135।23]
यौवत् युक्त्या संभवति तावदनुक्तम् गम्यत इति ।
[135।23-135।24]
तस्मान्न भवत्ययं परिहारः ।
[135।24]
अचोद्यमेव त्वेतद् ।
[135।24-135।25]
अविद्याजरामरणयोः परेणाङ्गन्तरानभिधानात्संसारस्याद्यन्तवत्त्वप्रसङ्गः ।
[135।25]
नचापरिपूर्णो निर्देश इति ।
किं कारणम् ।
[135।26-135।27]
प्रवृत्तिसंमूडेभ्यो विनेयेभ्यः कथं परलोकादिहलोक इहलोकाच्च पुनः परलोकः संबध्यत इत्येतावतो ऽत्रार्थस्य विवक्षितत्वात् ।
[135।27]
एतस्य च पूर्वमेवोत्तत्वात् ।
[136।01]
पूर्वापरान्तमध्येषु संमोह विनिवृत्तये" ।
[136।02-136।03]
उक्तं भगवता "प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि प्रतीत्यसमुत्पन्नांश्च धर्मानित्यथक एषां विशेषः ।
[136।03]
शास्त्रतस्तावन्न कश्चित् ।
[136।03-136।04]
उभ्यं हि सर्वे संस्कृता धर्मा इति ।
[136।04]
कथमिदानीमनुत्पन्ना एवानागताः प्रतीत्यसमुत्पन्ना इत्युच्यन्ते ।
[136।04-136।05]
कथं तावदकृता एवानागताः संस्कृता उच्यन्ते ।
[136।05]
आभिसम्स्कारिकया चेतनया चेतितत्वात् ।
[136।05-136।06]
अनास्रवाः कथम् ।

[136।06]
ते ऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति ।
निर्वाणे ऽपि प्रसङ्गः ।
[136।07-136।08]
तज्जातीयत्वात्तत्तत्रैवातिदेशो यथा नच तावद्रूप्यते रूपं चोच्यते तज्जातीयत्वादित्यदोषः ।
[136।08]
सूत्राभिप्रायस्त्वयमुच्यते ।
[136।09]
हेतुरत्र समुत्पादः समुत्पन्नं फलं मतम् ।
[136।10-136।11]
हेतुभूतमङ्गप्रतीत्यसमुत्पादः समुत्पद्यते ऽस्मादिति दृत्वा फलभूतमङ्ग प्रतीत्यसमुत्पन्नम् ।
[136।11]
एवं सर्वाण्यङ्गान्युभययथा सिध्यन्ति ।
हेतुफलभवात् ।
[136।11-136।12]
न चैवं सत्यव्यवस्था भवन्त्यपेक्षाभेदात् ।
[136।12-136।13]
यदपक्षय प्रतीत्यसमुत्पादो न तदेवापेक्ष्य प्रतीत्यसमुत्पन्नं हेतुफलवत् पितृपुत्रवच्च ।
[136।13-136।14]
स्थविरपूर्णाशः किलाह स्यात् प्रतीयसमुत्पादो न प्रतीत्यसमुत्पन्ना धर्मा इति ।
[136।14]
चतुष्कोटिकः ।
[136।15]
प्रथमा कोटिरनागता धर्माः ।
द्वितीया ऽर्हतश्चरमाः ।
[136।15-136।16]
तृतीया तदन्ये ऽतीतप्रत्युपन्ना धर्माः ।
[136।16]
चतुर्थ्य संस्कृता धर्मा इति ।
अत्र तु सौत्रान्तिका विज्ञापयन्ति ।
[136।16-136।17]
किं खल्वेता इष्टय उच्यन्ते या यस्येष्टिराहोस्वित्सूत्रार्थः ।
[136।17]
सूत्रार्थ इत्याह ।
[136।17-136।18]
यदि सूत्रार्थो नैष सूत्रार्थः ।
[136।18]
कथं कृत्वा ।
[136।18-136।19]
यत्तावदुक्तमा "वस्थिक एष प्रतीत्यसमुत्पादो द्वादश पञ्चस्कन्धिका अवस्था द्वादशङ्गानी" त्येतदुत्सूत्रम् ।

[136।19]
सूत्रे ऽन्यथा निर्देशाद् ।
[136।20]
"अविद्या कतमा ।
यत्तत् पूर्वान्ते ऽज्ञानमि"ति विस्तरेण ।
[136।20-136।21]
यच्च नीतार्थं न तत् पुनर्नेयं भवतीति नैष सूत्रार्थः ।
[136।21]
न वै सर्वं निर्देशतो नीतार्थं भवति ।
[136।21-136।22]
यथाप्रधानं चापि निर्देशाः क्रियन्ते ।
[136।22-136।23]
तद्यथा हस्तिपदोपमे "पृथिवीधातुः कतमः" इत्यधिकृत्याह "केशा रोमाणी"ति ।
[136।23]
सन्ति च तत्रान्ये ऽपि रूपादयः ।
एवमत्रापि यथाप्रधानं निर्देशः स्यात् ।
[136।24]
औपसंहार एषः ।
नहि तत्र केशादयः पृथिवीधातुना निर्दिश्यन्ते ।
[136।24-136।25]
यत एषामपरिपूर्णो निर्देशः स्यादपि तु केशादिभिरेव पृथिवीधातुः तत्र निर्देश्यते ।
[136।25-136।26]
न च केशादीनभ्यतीत्याप्यस्ति पृथिवीधातुरिति संपूर्ण एवास्य निर्देशः ।
[136।26-137।01]
एवमिहाप्यविद्यादीनां परिपूर्ण एव निर्देशो न सावशेषः ।
[137।01-137।02]
ननु चाभ्यतीत्यापि केशादीनश्रुखेट शिङ्घाणका दिष्वस्ति पृथिवीधातुः ।
[137।02]
सो ऽपि निर्दिष्ट एवेति ।
[137।02-137।04]
यद्व "पुनरन्यदप्यस्मिन् काये खकूखटं खरगतमिति वचनात् भवतु वा तथैवाविद्यावशेषो यदि शक्यते दर्शयितुम् ।
[137।04]
जात्यन्तरस्य त्वविद्यायां किङ्कृतः प्रक्षेपः ।
[137।05-137।06]
यद्यपि च तास्ववस्थासु पञ्च स्कन्धा विद्यन्ते यस्य तु भावाभावयोर्यस्य भावाभावनियमः तदेवाङ्गं व्यवस्थापयितुम् ।
[137।06-137।07]
सत्यपि च पञ्चस्कन्धके ऽर्हतः संस्कारा न भवन्ति पञ्चस्कन्धहेतुकाः ।
[137।07]
किं तर्हि
अविद्याहेतुका एव ।

[137।07-137।08]
तथा पुण्यापुण्यानेञ्ज्योपगं च विज्ञानं तृष्णा दयश्चेति ।
[137।08]
यथानिर्देशमेव सूत्रार्थः ।
[137।09]
यदप्युक्तं "हेतुरत्र समुत्पादः समुत्पन्नं फलं यावच्चतुष्कोटिक" इति ।
[137।10]
एतदप्युत्सूत्रम् ।
सूत्रे ऽन्यथा निर्देशात् ।
"प्रतीत्यसमुत्पादः कतमः ।
[137।10-137।12]
यदुतास्मिन् सतीदं भवतीति विस्तरेणोक्त्वा इति या ऽत्र धर्मता धर्मस्थितिता यावदविपर्यस्तता अयमुच्यते प्रतीत्यसमुत्पाद" इति ।
[137।12]
ध्र्मता च नाम धर्मजातिः धर्माणां शैलिः ।
[137।13]
अतो येयं धर्मता य एष नियमः ।
अविद्यायामेवसत्यां संस्कारा भवन्ति नोन्यथा ।
[137।14]
एष प्रतीत्यसमुत्पादो न हेतुरेव ।
[137।14-137।15]
यदपि चतुष्कोटिकमुक्तं तत्र यद्यनागताः धर्मा न प्रतीत्यसमुत्पन्नाः सूत्रं विरुध्यते ।
[137।15-137।16]
प्रतीत्यसमुत्पन्ना धर्माः कतमे ।
[137।16]
अविद्या यावज्जातिः जरामरणम् ।"
[137।16-137।17]
तयो रनागताध्वव्यवस्थानं नैष्टव्यमिति त्रिकाण्डव्यवस्था भिद्यते ।
[137।17]
असंस्कृतः प्रतीत्यसमुत्पाद इति निकायान्तरीयाः ।
[137।18]
"उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेयं धर्मते"ति वचनात् ।
[137।18-137।19]
तदेतदभिप्रायवशादेवं च न चैवम् ।
[137।19]
कथं तावदेवं कथं वा नैवम् ।
[137।19-137।21]
यद्ययमभिप्राय उत्पादद्वा तथागतानामनुत्पादाद्वा नित्यमविद्यादीन् प्रतीत्य संस्कारादीनामनुत्पादो न कदाचिदप्रतीत्यान्यद्वा प्रतीत्यातो नित्य इति एवमेतदिति प्रतिग्राह्यम् ।
[137।21-137।22]
अथायमभिप्रायः प्रतीत्यसमुत्पादो नाम किञ्चित् भावान्तरं नित्यमस्तीति ।
[137।22-137।23]

नैतदेवमिति प्रतिषेद्धव्यम् ।
[137।23]
किं कारणम् ।
उत्पादस्य संस्कृतलक्षणत्वात् ।
[137।23-137।24]
न च नित्यं भावान्तरमनित्यस्य लक्षणं युज्यते ।
[137।24-137।25]
उत्पादश्च नामोत्पत्तुर्भवतीति को ऽस्याविद्यादिभिरभिसम्बन्धो यतस्तेषां प्रतीत्यसमुत्पाद इत्युच्येत ।
[137।25-137।26]
पदार्थश्चासमर्थो भवतीति नित्यश नाम प्रतीत्यसमुत्पादश्चेति ।
[138।01]
अथ प्रतीत्यसमुत्पाद इति कः पदार्थः ।
[138।01-138।02]
प्रतिः प्राप्त्यर्थ एति गत्यर्थः ।
[138।02]
उपसर्गवशेन धात्वर्थपरिणामात् प्राप्येति यो ऽर्थः सोऽर्थः प्रतीत्येति ।
[138।03]
पदिः सत्तार्थं समुत्पूर्वः प्रादुर्भावार्थः ।
[138।03-138।04]
तेन प्रात्ययं प्राप्य समुद्भवः प्रतीत्यसमुत्पादः ।
[138।04]
न युक्त एष पदार्थः ।
किं कारणम् ।
[138।04-138।05]
एकस्य हि कर्त्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर्भवति ।
[138।05]
तद्यथा स्नात्वा भुङ्क्त इति ।
[138।05-138।06]
नचासौ पूर्वमुत्पादात् कश्चिदस्ति यः पूर्वं प्रतीत्योत्तरकालमुत्पद्यते ।
[138।06-138।07]
नचाप्यकर्तु कास्ति क्रियेति ।
[138।07]
आह चात्र
[138।08-138।09]
"प्रत्येति पूर्वमुत्पादाद्यद्यसत्त्वान्न युज्यते ।
सह चेत् क्त्वा न सिद्धो ऽत्र पूर्वकालविधानत" इति ॥
[138।10]
नैष दोषः ।
इदं तावद्यं प्रष्टव्यः शाब्दिकः ।
[138।10-138।11]

किमवस्थो धर्मः उत्पद्यते वर्त्तमान उताहो ऽनागते इति ।
[138।11]
किं चातः ।
यदि वर्त्तमान उत्पद्यते ।
[138।11-138।12]
कथं वर्त्तमानो यदि नोत्पन्नः ।
[138।12]
उत्पन्नस्य वा पुनरुत्पत्तावनवस्थाप्रसङ्गः ।
[138।12-138।13]
अथानागत उत्पद्यते कथमसतः कर्तृत्वं सिद्धत्यकर्तृका वा क्रियेति ।
[138।13-138।14]
अतो यदवस्थ उत्पद्यते तदवस्थ एव प्रत्येति ।
[138।14]
किमवस्थश्चोत्पद्यते ।
उत्पादाभिमुखो ऽनागतः ।
[138।14-138।15]
तदवस्थ एव प्रत्ययं प्रत्येतीत्युच्यते ।
[138।15-138।16]
अनिष्पन्नं चेदं यदुत शाब्दिकीयं कर्तृक्रियाव्यवस्थानं भवतीत्येष कर्त्ता भूतिरित्येषा क्रिया ।
[138।16-138।17]
न चात्र भवितुरर्थात् भूतिमन्यां क्रियां पश्यामः ।
[138।17]
तस्मादच्छलं व्यवहारेषु ।
एष तु वाक्यार्थः ।
[138।17-138।18]
अस्मिन् सत्यस्य भावः अस्योत्पादादिदमुत्पद्यत इति यो ऽर्थः सो ऽर्थः प्रतीत्यसमुत्पाद इति ।
[138।19]
आह चात्र
[138।20-138।23]
"असन्नुत्पद्यते यद्वत् प्रत्येत्यपि तथा ऽथ सन् ।
उत्पन्न उत्पद्यत इत्यनिष्ठा ऽसन् पुरा ऽपि वा ॥
सहकाले ऽपि च क्त्वा ऽस्ति दीपं प्राप्य तमो गतम् ।
आस्यं व्यादाय शेते च पश्चाच्चेत्किं न संवृते ॥"
[138।24]
अन्ये पुनरस्य चोद्यस्य परिहारार्थमन्यथा परिकल्पयन्ति ।
[138।24-138।25]
प्रतिर्वीप्सार्थः ।
[138।25]
इतौ साधव इत्या अनवस्थायिनः ।
उत्पूर्वः पदिः प्रादुर्भावार्थः ।

[138।26-138।27]
तां तां कारण सामग्रीं प्रति इत्यानां समवायेनोत्पादः प्रतीत्यसमुत्पाद इति ।
[138।27]
एषा तु कल्पना ऽत्रैव कल्प्यते ।
[138।27-138।28]
इह कथं भविष्यति "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमिति"ति ।
[138।28-139।01]
किमर्थं पुनर्भगवान् पर्यायद्वयमाह "अस्मिन् सतीदं भवति अस्योत्पादादिदमुत्पद्यते" इति ।
[139।01-139।02]
अवधारणार्थम् ।
[139।02-139।03]
यथा ऽन्यत्राह "अविद्यायां सत्यां संस्कारा भवन्ति नान्यत्राविद्यायाः संस्कारा" इति ।
[139।03]
अङ्गपरंपरां वा दर्शयितुम् ।
[139।03-139।04]
अस्मिन्नङ्गे सतीदं भवति अस्य पुनरङ्गस्योत्पादादिदमुत्पद्यत इति ।
[139।04]
जन्मपरंपरां वा ।
[139।04-139।05]
पूर्वान्ते सति मध्यान्तो भवति मध्यान्तस्योत्पादादपरान्त उत्पद्यत इति ।
[139।05-139।06]
साक्षात् पारंपर्येण प्रत्ययभावं दर्शयति ।
[139।06]
कदाचिद्धि समनन्तरमविद्यायाः संस्कारा भवन्ति कदाचित् पारंपर्येणेति ।
[139।07]
अहेतुनित्यहेतुवादप्रतिषेधार्थमित्यपरे ।
[139।07-139।08]
नासति हेतो भावो भवति न चानुत्पत्तिमतो नित्यात् प्रकृतिपुरुषादिकात्किञ्चिदुत्पद्यत इति ।
[139।08-139।09]
अस्यां तु कल्पनायां पूर्वपदस्य ग्रहणमनर्थकं प्राप्नोति ।
[139।09]
अस्योत्पादादिमुत्पद्यत इत्यनेनैवोभयवादप्रतिषेधसिद्धेः ।
[139।10-139।11]
सन्ति तर्हि केचिद्य आत्मनि सत्याश्रयभूते संस्कारादीनां भावं परिकल्पयन्ति अविद्यादीनां चोत्पादात्तदुत्पत्तिम् ।
[139।11-139।12]
अतस्ताम् कल्पनां पर्युदासयितुमिदं निर्धारयांवभूव यस्यैवोत्पादाद्यदुत्पद्यते तस्मिन्नेव सति तत् भवति नान्यस्मिन् ।
[139।12-139।13]
यदुता "विद्याप्रत्ययाः संस्काराः यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति"ति ।
[139।14]
अप्रहीणोत्पत्तिज्ञापनार्थमित्याचार्याः ।

अविद्यायामप्रहीणायां संस्कारा न प्रहीयन्ते ।
[139।15]
तस्या एवोत्पादादुत्पद्यन्त इति विस्तरः ।
[139।15-139।16]
स्थित्युत्पत्तिसंदर्शनार्थमित्यपरे ।
[139।16]
यावत् कारणस्रोतस्तावत् कार्यस्रोतो भवति ।
[139।16-139।17]
कारणस्यैवचोत्पादात् कार्यमुत्पद्यत इति ।
[139।17-139।18]
उत्पादे त्वधिकृते कः प्रसङ्गः स्थितिवचनस्य भिन्नक्रमं च भगवान् किमर्थमाचक्षित प्राक् स्थितिं पश्चादुत्पोआदम् ।
[139।18-139।19]
पुनराह "अस्मिन् सतीदं भवती"ति "कार्ये सति कारणस्य विनाशो भवती"ति ।
[139।19-139।20]
स्यान्मत महेतुकं तर्हि कार्यमुत्पद्यत इत्यत आह नाहेतुकम् ।
[139।20-139।21]
यस्मादस्योत्पादादिदमुत्पद्यत इति ।
[139।21]
एष चेत्सूत्रार्थो ऽभविष्यदस्मिन् सतीदं न भवतीत्येवाचक्षत ।
[139।21-139।22]
पूर्वं च तावत् कार्यस्योत्पादाने वाचक्षत पश्चादस्मिन् सतीदं न भवतीति ।
[139।22-139।23]
एवं हि साधुः क्रमो भवति ।
[139।23-139।24]
इतरथा तु प्रतीत्यसमुत्पादः कतम इत्यादेरर्थे कः प्रक्रमो विनाशवचनस्य ।
[139।24]
तस्मान्नैष सूत्रार्थः ।
[139।24-139।25]
कथं पुन "र्विद्याप्रत्ययाः संस्कारा यावत् जातिप्रत्ययं जरामरणामि"ति ।
[139।25]
आभिसंबन्धमात्रं दर्शयिष्यामः ।
[139।25-140।02]
बालो हि प्रतीत्यसमुत्पन्नं संस्कारमात्रमिदमित्यप्रजानन् आत्मदृष्ट्यस्मिमानाभिनिविष्ट आत्मनः सुखार्थमदुःखार्थं वा कायादिभिस्त्रिविधं कर्मारभते आयति सुखार्थं पुण्यं सुखादुःखासुखार्थमानैज्जमैहिकसुखार्थमपुण्यं तस्याविद्याप्रत्ययाः संस्काराः कर्माक्षेपवशाच्च विज्ञानसंअततिस्तां तां गतिं गच्छति ।
[140।02-140।03]
ज्वालागमनयोगेनान्तराभवसंबन्धात् ।
[140।03]
तदन्यसंस्काराप्रत्ययं विज्ञानम् ।
[140।03-140।04]
एवं च कृत्वा तदुपपन्नं भवति विज्ञानाङ्गनिर्देशे "विज्ञानं कतमत् ।
[140।04]

षड्विज्ञानकाया" इति ।
[140।05-140।06]
विज्ञानपूर्वकं पुनस्तस्यां तस्यां गतौ नामरूपं जायते पञ्चस्कन्धकं कृत्स्नजन्मानुगतम् ।
[140।06]
विभङ्गे महानिदानपर्याये चैवं निर्देशात् ।
[140।06-140।07]
"तथा नामरूपपरिपाकात्क्रमेण षडायतनम् ।
[140।07]
ततो विषयसंप्राप्तौ सत्यां विज्ञानसंभव" इति ।
[140।07-140।08]
त्रयाणां संनिपातः स्पर्शः सुखादिवेदनीयः ।
[140।08]
ततस्त्रिविधा वेदना ।
तत्स्तृष्णा ।
[140।08-140।09]
दुःखोत्पीडितस्य सुखायां वेदनायां कामतृष्णा ।
[140।09]
सुखायामदुःखासुखायां च रूपतृष्णा ।
[140।09-140।10]
अदुःखासुखायामारुप्यतृष्णा ।
[140।10]
तत इष्टवेदनातृष्णायाः कामादीनामुत्पादनम् ।
[140।10-140।11]
तत्र कामाः पञ्च कामगुणाः ।
[140।11]
दृष्टयो द्वाषष्टिर्यथा ब्रह्मजालसूत्रे ।
शीलं दौःशील्यविरतिः ।
[140।12]
व्रतं कुक्कुरगोव्रतादीनि ।
यथा च निर्ग्रन्थादीनां नग्नो घवत्यचेलक इति विस्तरः ।
[140।13-140।14]
ब्राह्मणपाशुपतपरिब्राजकादीनां च दण्डाजिनभस्मजटात्रिदण्डमौण्ड्यादिसमादानम् ।
[140।14]
आत्मवादः पुनरात्मभावः ।
[140।14-140।15]
आत्मेति वादो ऽस्मिन्नित्यात्मवादः ।
[140।15]
आत्मदृष्ट्यस्मिमानावित्यपरे ।
कथमनयोरात्मवादत्वम् ।
[140।15-140।16]

"आभ्यामात्मे"ति वचनात् ।
[140।16]
आत्मनो ह्यसत्त्वादात्मवादोपादानमित्युच्यते ।
[140।16-140।17]
प्रज्ञप्तिमात्रकस्योपादानात् ।
[140।17-140।18]
यथोक्त "मात्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो नत्वत्रात्मा वा आत्मीयं वा" इति ।
[140।18-140।19]
तेषामुपादानं तेषु यश्छन्दरागः ।
[140।19]
एवं हि भगवता सर्वत्राख्यातम् "उपादानं कतमत् ।
[140।19-140।20]
यो ऽत्रच्छन्दरागं" इति ।
[140।20]
उपादानप्रत्ययं पुनः पौनर्भविकं कर्मोपचीयते ।
तद्भवः ।
[140।20-140।21]
"यदप्यानन्द कर्मायत्यां पुनर्भावाभिनिवर्तम्कमिदमत्र भवस्ये"ति सूत्रात् ।
[140।21-140।22]
भवप्रत्ययं पुनर्विज्ञानावक्रान्तियोगेन ।
[140।22]
अनागतं जन्म जातिः पञ्चस्कन्धिका ।
[140।22-140।23]
जातौ सत्यां जरामरणं यथा निरिष्टं सूत्रे ।
[140।23]
"एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो घवती"ति ।
[140।24]
केवलस्येत्यात्मीयरहितस्य ।
महतो दुःखस्कन्धस्येत्यनाद्यनन्तस्य दुःखसमूहस्य ।
[140।25]
समुदयो भवतीति प्रदुर्भावः ।
स एव तु वैभाषिकन्यायो यः पूर्वमुक्तः ।
[140।26]
अथाविद्येति को ऽर्थः ।
या न विद्या ।
चक्षुरादिष्वपि प्रसङ्गः ।
[140।26-140।27]
विद्याया अभावस्तर्हि ।
[140।27]
एवं सति न किञ्चित् स्यात् ।

[140।27-140।28]
न चैतत् युक्तम् ।
[140।28]
तस्मात्
[141।01]
विद्याविपक्षो धर्मो ऽन्यो ऽविद्या ऽमित्रानृतादिवत्
[141।02-141।03]
यथा मित्रविपर्ययेण तद्विपक्षभूतः कश्चिदमित्रो भवति न तु यः कश्चिदन्यो मित्रान्नापि मित्राभावः ।
[141।03]
ऋतं चोच्यते सत्यम् ।
[141।03-141।04]
तद्विपक्षभूतं वाक्यमनृतं भवति ।
[141।04]
अधर्मानर्थाकार्यादयश्च धर्मादिप्रतिद्वन्द्वभूताः ।
[141।04-141।05]
एवमविद्या ऽपि विद्यायाः प्रतिद्वन्द्वभूतधर्मान्तरमिति द्रष्टव्यम् ।
[141।05]
कुत एतत् ।
प्रत्ययभावेनोपदेशात् ।
अपि च
[141।06]
संयोजनादिवचनात्
[141।07]
संयोजनं बन्धनमनुशय ओघो योगश्चाविद्योच्यते सूत्रेषु ।
[141।07-141।08]
न चाभावमात्रं तथा भवितुमर्हति ।
[141।08]
न चापि चक्षुरादयः ।
तस्माद्धर्मान्तरमेवाविद्या ।
[141।08-141।09]
यथा तर्हि कुभार्या अभार्येत्युच्यते कुपुत्रश्चापुत्रः ।
[141।09]
एवमविद्या ऽप्यस्तु ।
[141।10]
कुप्रज्ञा चेन्न दर्शनात् ।
[141।11]
कुत्सिता हि प्रज्ञ क्लिष्टा ।
सा च दृष्टिस्वभावा इति नाविद्या युज्यते ।
[141।11-141।12]
या तर्हि न दृष्टिः सा भविष्यति ।

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc