भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 201220

भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः
[117।16]
एषु हि सत्त्वा आवसन्ति स्वेच्छया ।
[117।17]
अनिच्छावसनान्नान्ये
[117।18]
के पुनरन्ये ।
अपायाः ।
तेषु हि सत्त्वा अकामकाः कर्मराक्षसैरावास्यन्ते ।
[117।19]
नत्विच्छया वसन्ति ।
अतस्तेन सत्त्वावासा बन्धनस्थानवत् ।
[117।19-117।20]
अन्यत्र सूत्रे सप्त विज्ञानस्थितय उक्ताः अन्यत्र
[117।21]
चतस्रः स्थितयः पुनः ।
[117।22]
कतमाश्चतस्रः ।
रूपोपगा विज्ञान स्थितिर्वेदनोपगा संज्ञोपगा संस्कारोपगा इति ।
[117।23]
तासां कः स्वभावः ।
ता हि यथाक्रमं ।
[117।24]
चत्वारः सास्रवाः स्कन्धाः
[117।25]
ते पुनः
[117।26]
स्वभूमावेव
[117।27]
नान्यत्र भूमौ ।
किं कारणम् ।
प्रतिष्टा हि स्थितिः ।
[117।27-117।28]
न च विसभागभूमिकेषु स्कन्हेषु विज्ञानं तृष्णावशात् प्रतितिष्ठतीति ।
[117।28-117।29]
कस्मान्न विज्ञानं विज्ञानस्थितिरुच्यते यथा सप्तसु विज्ञानस्थितिषु पञ्च स्कन्धा इति ।
[117।29]
स्थातुः परिहारेण स्थितिविधानात् ।
[118।01]
नहि स्थातैव स्थितिरुच्यते ।

[118।01-128।01]
यथा न राजैव राजासनमिति ।
[118।01-118।02]
यांश्च धर्मानभिरुह्य विज्ञानं वाहयति नौनाविकन्यायेन ते धर्मा विज्ञानस्थितय उक्ताः ।
[118।03]
नतु विज्ञानं विज्ञानमेवारुह्य वाहयत्यतो नोक्तमिति वैभाषिकाः ।
[118।03-118।04]
यत्तर्हि सूत्र उक्तं "विज्ञाने आहारे अस्ति नन्दी अस्ति राग इति ।
[118।04-118।05]
यत्रास्ति नन्दी अस्ति रागः प्रतिष्ठितं तत्र विज्ञानमधिरूढमि"ति ।
[118।05]
तत्कथम् ।
[118।05-118।06]
"सप्त च विज्ञानस्थितयः पञ्चस्कन्धसंगृहीता" इति तत्कथम् ।
[118।06-118।07]
एवं तर्ह्यभेदेनोपपत्त्यायतनसंगृहीतेषु स्कन्धेषु साभिरामायां विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः ।
[118।07-118।08]
प्रत्येकं तु यथा रूपादयो विज्ञानस्य संक्लेशाय भवन्ति ।
[118।08]
तस्माच्चतसृषु विज्ञानस्थितिषु
[118।09]
केवलम्
[118।10]
विज्ञानं न स्थितिः प्रोक्तं
[118।11]
अपि च क्षेत्रभावेन भगवता चतस्रो विज्ञानस्थितयो देशिताः ।
[118।11-118।13]
वीजभावेन च सोपादानं विज्ञानं कृत्स्नमेवेति न पुनर्बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयांबभूवेत्यभिप्रायं परिकलपयामास ।
[118।13-118।14]
ये धर्माः सहवर्त्तिनो विज्ञानस्य ते ऽस्य क्षेत्रभावेन साधीयांसो भवन्तीति त एवास्य स्थितय उक्ताः ।
[118।15-118।16]
अथ कथं सप्तभिर्विज्ञानस्थितिभिश्चतस्रो विज्ञानस्थितयः संगृहीताश्चातसृभिर्वा सप्त ।
[118।16]
नैव हि सप्तभिश्चतस्रो नापि चतसृभिः सप्त ।
[118।17]
चतुष्कोटि तु संग्रहे ।
[118।18]
संग्रहे विचार्यमाणे चतुष्कोटिकं वेदितव्यम् ।
[118।18-118।19]
स्यात्सप्तभिः संगृहीतं न चतसृभिरित्येवमादि ।

[118।19]
प्रथमाः कोटिः सप्तसु यद्धिज्ञानम् ।
[118।19-118।20]
द्वितीया अपायेषु चतुर्थे ध्याने भवाग्रे च विज्ञानवर्ज्याः स्कन्धाः ।
[118।20-118।21]
तृतीया सप्तसु चत्वारः स्कन्धाश्चतुर्थ्येतानाकारान् स्थापयित्वा ।
[118।22]
यच्चैतत् गत्यादिभेदभिन्नं त्रैधातुकमुक्तं वेदितव्याः ।
[118।23]
चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः
[118।24]
अण्डजा योनिर्जरायुजा संस्वेदजा उपपादुका योनिः ।
योनिर्नाम जातिः ।
[118।25]
युवान्त्यस्यां सत्त्वा मिश्रीभवन्ति प्रसवसाम्यादिति योनिः ।
अण्डजा योनिः कतमा ।
[118।26]
ये सत्त्वा अण्डेभ्यो जायन्ते ।
तद्यथा हंसक्रोञ्चचक्रवाकमयूरशूकशारिकादयः ।
[118।27]
जरायुजा योइः कतमा ।
ये सत्त्वा जरायोर्जायन्ते ।
[118।27-118।28]
तद्यथा हस्त्यश्वगोमहिषखरवराहादयः ।
[118।28]
संस्वेदजा योनिः कतमा ।
[118।28-118।29]
ये सत्त्वा भूसंस्वेदाज्जायन्ते ।
[118।29]
तद्यथा कृमिकीटपतङ्गमशकादयः ।
उपपादुका योनिः कतमा ।
[119।01]
ये सत्त्वा अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः सकृदुपजायन्ते ।
[119।01-119।02]
अत एव उपपदने (रेअद्: उपपादने) साधुकारित्वादुपपादुका इत्युच्यन्ते ।
[119।02]
तद्यथा देवनारकान्तराभविकादयः ।
[119।03]
अथ कस्यां गतौ कति योनयः संविद्यन्त इत्याह
[119।04]

चतुर्धा नर तिर्यञ्चः
[119।05]
मनुष्याश्चतुर्विधाः ।
[119।05-119।07]
अण्डजास्तावद्यथा क्रोञ्चीनिर्यातौ शैलोपशैलौ स्थविरौ मृगारमातुश्च द्वात्रिंशत् पुत्राः पञ्चालराजस्य च पञ्च पुत्रशतानि ।
[119।07]
जरायुजा यथेदानीम् ।
[119।07-119।08]
संस्वेदजास्तद्यथा मान्धातुचारुश्पचारूपचारुकपोतमालिन्याम्रपाल्यादयः ।
[119।08]
उपपादुकाः पुनः प्राथमकल्पिकाः ।
[119।08-119।09]
एवं तिर्यञ्चो ऽपि चतुर्विधाः ।
[119।09]
त्रिविधा दृश्यन्त एव ।
उपपादुकास्तु नागसुपर्णि प्रभृतयः ।
[119।10]
नारका उपपादुकाः ।
[119।11]
अन्तराभवदेवाश्च
[119।12]
सर्वे नारका अन्तराभविकाः देवाश्चोपपादुका एव ।
[119।13]
प्रेता अपि जरायुजाः
[119।14]
अपिशब्दादप्युपपादुका इति ।
आयुष्मते महामौद्गल्यायनाय प्रेती निवेदयते
[119।15]
"पञ्च पुत्रानहं रात्रौ दिवा पञ तथा परान् ।
[119।16]
भक्षयामि जनित्वा तान् नास्ति तृप्तिस्तथापि मे ॥"
[119।17]
कतमा योनिः सर्वसाध्वी ।
उपपादुका ।
[119।17-119।18]
अथ किमर्थं चरमभविको बोधिसत्त्वः प्राप्तोपपत्तिवशित्वे ऽपि जरायुर्जां योर्नि भजते ।
[119।18-119।19]
एवं हि क्रियमाणे महान्तमर्थं पश्यति ।
[119।19-119।21]
ज्ञातिसंबन्धेन महतः शाक्यवंशस्य धर्मे ऽवतरणार्थं चक्रवर्त्तिवंश्यो ऽयमिति चान्येषां बहुमानादरावर्जनार्थं मनुष्यभूता अपि चैनां सिद्धिं गच्छन्तीति विनेयाना मुत्साहार्थम् ।

[119।21-119।23]
इतरथा ह्यप्रज्ञायमानकुलगोत्रः को ऽप्ययं मायापुरुष इत्येवं परिकल्पयेयुर्देवः पिशाच इति वा यथा ऽन्यतीर्थ्या अपभाषन्ते कल्पशतस्यात्ययादेवंविधो मायावी लोके प्रादुर्भूय मायया लोकं भक्षयतीति ।
[119।24]
अपरे त्वाहुः ।
[119।24-119।26]
शरीरधातूनामवस्थापनार्थं येषुमनुष्या अन्ये च प्रजां विज्ञाय सहस्रशः स्वर्गं च प्राप्ता अपवर्गं चेति उपपादुकानां हि सत्त्वानां बाह्यबीजाभावान् मृतानां कायो नावतिष्ठते निशान्त इव तैलप्रद्योतो ऽन्तर्धीयते ।
[119।26-119।27]
आधिष्ठानिकीमृद्धिं भगवत इच्छतां न युक्त एक्ष परिहारः ।
[119।27]
प्रश्नात्प्रश्नान्तरमुपजायते ।
[119।27-120।02]
यद्यप्युपपादुकानां कायनिधनं न प्रज्ञयते कथमुक्तं सूत्रे "उपपादुकः सुपर्णी उपपादुकं नागमुद्धरति भक्षार्थमि"ति ।
[120।02]
नोक्तं भक्षयतीत्यपि तूद्धरति भक्षार्थमज्ञत्वादित्यदोषः ।
[120।02-120।03]
भक्षयति वा यावन्न मृतो भवति न पोउन्र्मृतस्यास्य तृष्यतीति ।
[120।04]
कतमा योनिः सर्ववह्वी ।
उपपादुकैव ।
[120।04-120।05]
सा हि द्विगती तिसृणां च प्रदेशः सर्वे चान्तराभाविका इति ।
[120।06]
को ऽयमस्तराभावो नाम ।
[120।07]
मृत्यूपपत्तिभवयोरन्तरा भवतीह वः ।
[120।08-120।09]
मरणभवस्योपपत्तिभवस्य चान्तरा य आत्मभावो ऽभिनिर्वर्त्तते देशान्तरोपपत्तिसम्प्राप्तये सो ऽन्तराभव इत्युच्यते ।
[120।09]
गत्यन्तरालत्वात् ।
[120।09-120।10]
कथमयं जातश्च नाम नचोपपन्नो भवति ।
[120।11]
गम्यदेशानुपेतत्वान्नोपपन्नो ऽन्तराभवः
[120।12]
उपपत्तिगतो ह्युपपन्न इत्युच्यते ।
पदेर्गत्यर्थत्वात् ।
[120।12-120।13]
नचायं गम्यदेशमुपगतोन्तराभवस्तस्मान्नोपपन्नः ।
[120।13]
कः पुनरसौ देशो गन्तव्यः ।

[120।13-120।14]
यत्राक्षिप्तस्य वीपाकस्याभिव्यक्तिः समाप्तिश्च ।
[120।14-120।15]
विच्छिन्न एवोपपत्तिभवो मरणभवात्संभवतीति निकायान्तरीयाः ।
[120।15]
तदेतन्नेष्यते ।
किं कारणम् ।
युक्तितश्च आगमतश्च ।
[120।15-120।16]
तत्र तावत् युक्तिं निश्रित्योच्यते ।
[120।17]
व्रीहिसन्तानसाधर्म्वादविच्छिन्नभवोद्भवः ।
[120।18-120।19]
सन्तानवर्त्तिनां हि धर्माणामविच्छेदेन देशान्तरेषु प्रादुर्भावो दृष्टस्तद्यथा व्रीहिसन्तानस्य ।
[120।19-120।920]
तस्मादस्यापि सत्त्वसन्तानस्याविच्छेदेन देशान्तरेषु प्रादुर्भावो भविष्णुः ।
[120।20-120।21]
विच्छिन्नो ऽपि दृष्टः प्रादुर्भावस्तद्यथा आदर्शादिषु बिम्बात् प्रतिबिम्बस्य ।
[120।21]
एवं मरणभवादुपपत्तिभवस्य स्यात् ।
[120।22]
प्रतिबिम्बमसिद्धत्वादसाम्याच्छानिदर्शनम्
[120।23]
प्रतिबिम्बं नामान्यदेवोत्पद्यते धर्माह्न्तरमित्यसिद्धमेतत् ।
[120।23-120।24]
सिद्धावपि च सत्यामसाम्यादनिदर्शनं भवति ।
[120।24]
कथं तावदसिद्धम् ।
[120।25]
सहैकत्र द्वयाभावात्
[120।26]
तत्रैव हि देशे आदर्शरूपं दृश्यते प्रतिबिम्बं च ।
[120।26-120।27]
न चैकत्र देशे रूपद्वयस्यास्ति सहभाव आश्रयभूतभेदात् ।
[120।27-120।30]
तथा दिग्भेदव्यवस्थितेरेकस्मिन्वाप्यम्बुदेशे स्वाभिमुखदेशस्थानां रूपाणामन्यो ऽन्यं प्रतिबिम्बकमुपलभ्यते नत्वेकत्र रूपे द्वयोः पश्यतोः सहदर्शनं न भवतीति न तत्र रूपान्तरोपपत्तिर्युक्ता ।
[120।30-121।01]
छायातपयोश्च द्वयोः सहैकत्रभावो न दृष्टः ।
[121।01-121।02]
उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिविम्बकमिति न युक्तो ऽस्य तत्र प्रादुर्भावः ।

[121।02]
अथवा "सहैकत्र द्वयाभावादि"ति कतमस्य द्वयस्य ।
[121।02-121।03]
आदर्शतलस्येन्दुप्रतिबिम्बकस्य च ।
[121।03-121।04]
अन्यत्रैव हि देशे आदर्शतलं भवत्यन्यत्रैवान्तर्गतं चन्द्रप्रतिबिम्बकं दृश्यते कूप इवोदकम् ।
[121।04-121।05]
तच्च तत्रोपपद्यमानं नान्यत्रोपलभ्यते ।
[121।05]
अतो नास्त्येव तत् किञ्चित् ।
[121।05-121।06]
सामग्र्यास्तु स तस्यास्तादृशः प्रभावो यत्तथा दर्शनं भवति ॥
[121।06]
अचिन्त्यो हि धर्माणां हि धर्माणां शक्तिभेदः ।
[121।06-121।07]
एवं तावन्दसिद्धत्वात् ।
[121।07]
कथमसाम्यादनिदर्शनं भवति ।
[121।08]
असन्तानाद्
[121।09]
नहि विम्वस्य प्रतिबिम्बकं सन्तानभूतमादर्शसन्तानसंवद्धत्वात् सहभावाच्च ।
[121।10]
यथा मरणस्योपपत्तिभवः ।
[121।10-121।11]
सन्तानं च प्रत्यविच्छेदेन देशान्तरेषु प्रादुर्भाव उदाहृअतो नासन्तानमित्यसाम्यं दृष्टान्तस्य प्रतिबिम्बस्य च ।
[121।12]
द्वयोदयात् ।
[121।13]
द्वाभ्यां हि कारणाभ्यां प्रतिबिम्बस्योदयो भवति ।
[121।13-121।14]
बिम्बाच्चादर्शा च्चेति यत् प्राधानं कारणं तदाश्रित्योत्पद्यते ।
[121।14-121।16]
नचैवमुपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां संभवो मरणभवाच्चान्यतश्च प्रधानभूतादित्यतो ऽप्ययमसमानो दृष्टान्तः ।
[121।16]
न च युक्तमुक्तं बाह्यमेव चेतनं शुक्रशोणितं प्रधानकारणमिति ।
[121।16-121।17]
यत्र चान्धकाण एव प्रादुर्भाव उपपादुकानां तत्र किं परिकल्प्यते ।
[121।17-121।18]
एवं तावद्युक्तितो नेष्यते ।

[121।18]
न मराणभवाद्विच्छिन्न उपपत्तिभवप्रादुर्भावः ।
तस्मादस्त्येवान्तराभवः ।
[121।19]
कण्ठोक्तेश्चास्ति
[121।20]
सूत्र उक्तं "सप्त भवाः ।
[121।20-121।21]
नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवो ऽन्तराभव इति ।
[121।21]
नैतत्सूत्रं तैराम्नायते ।
इतस्तर्हि
[121।22]
गन्धर्वात्
[121।23]
"त्रयाणां स्थानानां संमुखीभावात् मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति ।
[121।23-121।24]
माता कल्या स्पि भवति ऋतुमती च ।
[121।24]
मातापितरौ रक्तौ भवतः सनिपतितौ च ।
[121।25]
गन्धर्वश्च प्रत्युपस्थितो भाती"ति ।
अन्तराभवं हित्वा को ऽन्यो गन्धर्वः ।
[121।26]
एतदपि नैव तैराम्नायते ।
कथं तर्हि ।
"स्क्न्धभेदश्च प्रत्युपस्थितो भवती"ति ।
[121।27]
यद्येवमाश्वलायनसूत्रं कथं नीयते ।
[121।27-121।28]
"जानन्त भवन्तो यो ऽसौ गन्धर्वः प्रत्युपस्थितः ।
[121।28]
क्षत्रियो वा ऽसौ ब्राह्मणो वा वैश्यो वा शूद्रो वा ।
[121।28-122।01]
यदि वा पूर्वस्या दिश आगतो यदि वा दक्षिणस्या पश्चिमाया उत्त्रस्या" इति ।
[122।02]
नहि स्कन्धभेदस्यागमनं युज्यते ।
अथैतदपि न पठच्यते ।
इतस्तर्हि ।
[122।03]

पञ्चोक्तेः ।
[122।04]
"पञ्चानागामिन" इत्युक्तं भगवता ।
[122।04-122।05]
अन्तरापरिनिर्वायी उपपद्यपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायी ऊर्ध्वस्त्रोताश्चेति ।
[122।05-122।06]
असत्यन्तराभवे कथमन्तरापरिनिर्वायी नाम स्यात् ।
[122।06]
अन्तरा नाम देवाः सन्तीत्येके ।
[122।07]
उपपद्यादयो ऽपि हि नाम देवा एवं सति प्रसज्यते ।
तस्मान्येयं कल्पना साध्वी ।
[122।08]
इतश्च
[122।09]
गतिसूत्रतः
[122।10]
"सप्त सत्पुरुषगतयः" इत्यत्र सूत्रे ।
अन्तरापरिनिर्वायिणस्त्रय उक्ताः ।
[122।10-122।11]
कालदेशप्रकर्षभेदेन ।
[122।11-122।12]
तद्यथा परीत्तः सकलिकाग्निरभिनिवर्त्तमान एव परिनिर्वायादेवं प्रथमः ।
[122।12]
तद्यथा ऽयः प्रपाटिका उत्पतन्त्येव निर्वायादेवं द्वितीयः ।
[122।12-122।13]
तद्यथा ऽयःप्रपातिका उत्प्लुत्य पृथिव्यामपतितैव निर्वायादेवं तृतीयः ।
[122।13-122।14]
नचैवमन्तरा नाम देवास्त्रिप्रकाराः कालदेशप्रकर्षभिन्नाः सन्तीति कल्पनैवेयं केवला ॥
[122।14]
अन्ये पुनराहुः ।
[122।15-122।16]
आयुप्रमाणान्तरे वा देवसमीपान्तरे वा यः क्लेशान् प्रजहाति सो ऽन्तरापरिनिर्वायी ।
[122।16-122।17]
स पुनर्धातुगतो वा परिनिर्वाति संज्ञागतो वा वितर्कगतो वा ।
[122।17]
तेन त्रिविधो भवतीति ।
[122।17-122।18]
प्रथमो वा रूपधातौ निकायसभागपरिग्रहं कृत्वा परिनिर्वाति ।
[122।18]

द्वितीयो देवसमृद्धिं चानुभूय ।
[122।18-122।19]
तृतीयो देवानां धर्मसंगीतिमनुप्रविश्य ।
[122।19-122।21]
उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां संगीतिमनुप्रविश्य परिनिर्वाति भूयसा वा आयुरूपहत्य नोपपन्नमात्र एवेति त एते सर्वे ऽपि शकलिकादिदृष्टान्तैर्न संवध्यन्ते ।
[122।21]
देशगतिविशेषाभावात् ।
[122।21-122।22]
आरुप्येष्वपि चान्तरापरिनिर्वायी पठ्येतायुःप्रमाणान्तरे परिनिर्वाणात् ।
[122।22]
न च पठ्यते ।
[122।23-122।24]
"ध्यानैश्चतस्रो दशिका आरुप्यैः सप्तिकात्रयम् ।
संज्ञया षट्टिकां कृत्वा वर्गो भवति समुदितः ॥
[122।25]
इत्येतस्यायुर्दानगाथायाम् ।
तस्मादेतदपि सर्वं कल्पनामात्रम् ।
[122।26]
अथैतान्यपि सूत्राणि तैर्नाम्नायन्ते ।
[122।26-123।01]
किमिदानीं कुर्मो यच्छास्ता च परिनिर्वृतः शासनं चेदमनायकं बहुधा भिन्नं भिद्यते चाद्यापि यथेच्छं ग्रन्थतश्चार्थतश्च ।
[123।01-123।02]
येषां तु तावदयमागमः प्रमाणं तेषामागमतो ऽपि सिद्धो ऽन्तराभवः ।
[123।02-123।03]
यत्तर्हि सूत्र उत्तम् "अथ च पुनर्दूषी मारः स्वशरीरेणाविचौ महानरके प्रपतित" इति ।
[123।03]
तत् कथमिति ।
[123।04]
स हि जीवन्नेव नारकीभिर्ज्वालाभिरालिङ्गितः ।
[123।04-123।05]
कालल्ं कृत्वा ऽन्तराभवेनावीचिं प्राप्त इत्ययं तत्राभिप्रयः ।
[123।05-123।06]
अत्युदीर्णपरिपूर्णानि हि कर्माणि कायस्य निक्षेपं न प्रतीक्षन्ते ।
[123।06]
अतो ऽस्य दृष्टधर्मवेदनीयं कर्म पूर्वं वीपक्वं पश्चादुपपद्यवेदनीयमिति ।
[123।07-123।08]
इदमिदानीं कथं नीयते "पञ्चानन्तर्याणि कर्माणि यानि कृत्वोपचित्य समनन्तरं नरकेषूपपद्यत" इति ।
[123।08]
अन्यां गतिमगत्वेत्यभिप्रायः ।
[123।08-123।09]

उपपद्यवेदनीयत्वं तत्र कर्मणो द्योतितम् ।
[123।09]
अथ यथारुतं कल्प्यते ।
पञ्चैव कृत्वा नैकमिति प्राप्नोति ।
[123।09-123।10]
क्रियानन्तरं च ।
[123।10]
न कालान्तरं जीवित्वा को वा ऽन्तराभवस्योपपद्यमानत्वं नेच्छति ।
[123।10-123।11]
अन्तरा भवेनैव ह्यसौ मरणान्तरं नरकेषूपपद्यते ।
[123।11]
अभिमुखत्वात् ।
[123।11-123।12]
न च ब्रूम उपपन्नो भवतीति ।
[123।12]
इयं तर्हि गाथा कथं नीयते
[123।13-123।14]
"उपनीततया जरातुरः संप्राप्तो हि ममान्तिकं द्विज ।
वासो ऽपि हि नास्ति ते ऽन्तरा पाथेयं च न विद्यते तवे" ति ॥
[123।15]
अत्रापि मनुष्येष्वन्तरावासो नास्तीत्यभिप्रायः ।
[123।15-123।16]
अथवा ऽन्तराभवे ऽप्यस्य वासो नास्त्युपपत्तिदेशसंप्राप्तिप्रति गमनाधिष्ठानादिति ।
[123।16-123।17]
अयमत्राभिप्रायो नायमभिप्राय इति दुत एवैतत् ।
[123।17]
तुल्य एष भवतो ऽप्यनुयोगः ।
[123।17-123।18]
तस्मादुभयस्मिन्नपि पक्षे यथ्होत्तसूत्राविरोधान्न भवत्येतदन्तराभवस्याभावे ज्ञापकम् ।
[123।18-123।19]
ज्ञापकं हि नामागतिका गतिरिति ।
[123।20]
अथ कां गतिं गमिष्यतः किमाकृतिरन्तराभवो ऽभिनिवर्त्तते ।
[123।21]
एकाक्षेपादसावैष्यत्पूर्वकालभवाकृतिः ।
[123।22]
येनैव कर्मणा गतिराक्षिप्यते तेनैवान्तराभवस्तत्प्राप्तये ।
[123।22-123।23]
अतो यां गतिं गन्ता भवति तस्यां गतौ य आगमिष्यत्पूर्वकालभवस्तस्यैवास्याकृतिर्भवति ।
[123।23-123।25]

एवं तर्हि शुनीप्रबृतीनामेकस्मिन् कुक्षौ पाञ्चगतिको ऽन्तराभवो ऽभिनिर्वर्त्तते इति नारको ऽन्तराभवः कुक्षिं निर्दहेत् ।
[123।25-123।26]
पूर्वकालभवे ऽपि तावन्नारका न नित्यं प्रज्वलिता भवन्त्युत्सदेषु भ्रमन्तः किं पुनरन्तराभविकाः ।
[123।26]
अस्तु वा प्रज्वलितः ।
[123।26-123।27]
स तु यथा न द्रष्टुं शस्यते तथा न स्प्रष्टुमप्यच्छत्वादात्मभावस्येत्यचोद्यमेतत् ।
[123।27-123।28]
अन्तराभवानामप्यन्योन्यं कुक्षावसंश्लेषात्कर्मप्रतिबन्धाच्च न दाहः ।
[123।28-124।01]
प्रमाणं तु यथा पञ्चषड्वर्षस्य दारकस्य स तु षटिन्द्रियो भवति बोधिसत्त्वस्य पुनर्यथा संपूर्णयूनः सलक्षणानुव्यञ्जनश्च ।
[124।01-124।02]
अत एवान्तराभवस्थेन मातुः कुक्षिं प्रविशता कोटीशतश्चातुर्द्वीपिकानामवभासितः ।
[124।03]
यत्तर्हि माता बोधिसत्वस्य स्वप्ने गजपोतं पाण्डरं कुक्षिं प्रविशन्तमद्राक्षीत् ।
[124।03-124।04]
निमित्तमात्रं तत् तिर्यग्योनेश्चिरव्यावृत्तत्वात् ।
[124।04]
तद्यथा कृकी राजा दश स्वप्नानद्राक्षीदिति ।
[124।05-124।06]
"करिकूपसक्तु चन्दनकलभारामास्त था कपेरभिषेकः ।
अशुचिकपिः पटकलहाविति दश दृष्टा नृपेण कृकिणा स्वप्नाः" ॥
[124।07]
नैव चान्तराभविकः कुक्षिं भित्त्वा प्रविशत्यपि तु मातुर्योनिद्वारेण ।
[124।07-124।08]
अत एव यमलयोर्यः पश्चात् प्रजायते स ज्यायानुच्यते यः पूर्वं स कनीयानिति ।
[124।08]
धर्मसूत्रविभाष्यं कथं नीयते ।
[124।09-124।10]
"वारण त्वमुपगम्य पाण्डरं षड्विषाणरुचिरं चतुष्क्रमम् ।
मातृगर्भशयनं विशेषसंप्रजाननृषिराश्रमं यथेति" ॥
[124।11]
नैतदवश्यनेतव्यम् ।
नह्येतत् सूत्रं न विनयः नाभिधर्मः ।
काव्यमेतत् ।
[124।11-124।12]
कवीनां च काव्यं समायोजयतां केचित् भावाः समारोपिता गच्छन्ति ।
[124।12]
अथवा नेतव्यमेव ।
[124।12-124।13]

यथा ऽस्य माता स्वप्ने तं प्रविशन्तमद्राक्षित्तथा सो ऽपि गाथामकार्षीदिति ।
[124।13-124।14]
रूपावचरो ऽप्यन्तराभवः संपूर्णप्रमाणः सवस्त्रश्च प्रादुर्भवति ।
[124।14]
अपत्राप्योत्सदत्वात् ।
[124।14-124।15]
बोधिसत्त्वस्य सवस्त्रः शुक्लायाश्च भिक्षुण्याः प्रणिधानवशाध्यावन्तमेव परिवेष्टिता निर्दग्धा ।
[124।15]
अन्यो नग्नः ।
[124।15-124।16]
कामधातोरनपत्राप्योत्सदत्वात् ।
[124।17]
अथ को ऽयं पूर्वकालभवो नाम ।
[124।18]
स पुनर्मरणात्पूर्व उपपत्तिक्षणात्परः
[124।19]
भवो हि नामाविशेषेण पञ्चोपादानस्कन्धाः ।
स एव चतुर्धा भिद्यते ।
अन्तराभवो यथोक्तः ।
[124।20]
उपपत्तिभबो गतीषु प्रतिसन्धिक्षणः ।
[124।20-124।21]
तस्मात् परेण मरणक्षणं पर्युदस्यान्यः सर्वो भवः पूर्वकालभवः ।
[124।21]
चरमक्षणो मरणभबो यत ऊर्ध्वमन्तराभवो भवति रूपिषु चेत्सत्त्वेषूपपद्यते ।
[124।22]
स चायमन्तराभवः ।
[124।23]
सजातिशुद्धदिव्याक्षिदृश्यः
[124।24]
समानजातीयैरेवान्तराभविकैर्दृश्यते ।
[124।24-125।01]
येषां च दिव्यं चक्षुः सुविशुद्धमभिज्ञामयं त एनं पश्यन्ति ।
[125।01]
उपपत्तिक्षुषा तु न दृश्यते ।
जात्यर्थमच्छत्वात् ।
[125।01-125।02]
देवान्तराभविकः सर्वान् पश्यति ।
[125।02]
मनुष्यप्रेततिर्यग्नारकान्तराभविकाः पूर्व पूर्वमपात्येत्यपरे ।

[125।03]
कर्मर्द्धिवेगवान् ।
[125।04]
ऋद्धिराकाशगमनम् ।
कर्मणा ऋद्धिः कर्मर्द्धिः ।
तस्या वेगः कर्मर्द्धिवेगः शीग्रता ।
[125।05]
सो ऽस्यास्तीति कर्मर्द्धिवेगवान् ।
येनासौ न शक्यो बुद्धैरपि प्रतिबन्द्धुम् ।
[125।05-125।06]
कर्मणो ऽस्य बलीयस्त्वात् ।
[125।07]
सकलाक्षः
[125।08]
समग्रपञ्चेन्द्रियः ।
[125।09]
अप्रतिघवान्
[125।10]
प्रतिघातः प्रतिघः ।
सो ऽस्यास्तीति प्रतिघवान् ।
न प्रतिघवानप्रतिघवान् ।
[125।10-125।11]
वज्रादिभिरप्यनिवार्यत्वात् ।
[125।11-125।12]
तथा हि प्रदीप्तायःपिण्दभेदे तन्मध्यसंभूतः क्रिमिरूपलब्धः श्रूयते ।
[125।12]
यस्यां च गतौ स उत्पत्स्यमानस्तस्याः सर्वथा ।
[125।13]
अनिवर्त्यः
[125।14]
नहि कदाचिन्मनुष्यान्तराभवो ऽन्तर्धाय देवान्तराभवो भवत्यन्यो वा ।
[125।14-125।15]
नियतमनेन यामेव गतिमधिकृत्याभिनिर्वृत्तस्तस्यामेवोपपत्तव्यम् नान्यस्यामिति ।
[125।16]
किं पुनरन्तराभवो ऽपि कामावचरः कवडीकारमाहारं भुङ्क्ते ।
ओमित्याह ।
न त्वौदारिकम् ।
[125।17]
किं तर्हि ।
[125।18]

स गन्धभुक्
[125।19]
अत एव गन्धर्व इत्युच्यते ।
धातूनामनेकार्थत्वात् ।
ह्रस्वत्वं शकन्धुकर्कन्धुवत् ।
[125।19-125।20]
अल्पेशाख्यस्तु दुर्गन्धाहरो महेशख्यः सुगन्धाहारः ।
[125।20]
कियन्तं कालमवतिष्ठते ।
नास्ति नियम इति भदन्तः ।
[125।21]
यावदुपपत्तिसामग्रीं न लभते नहि तस्यायुषः पृथगेवाक्षेपः ।
एकनिकायसभागत्वात् ।
[125।21-125।22]
इतरथा हि तस्यायुषः क्षयान्मरणभवः प्रसज्येत ।
[125।22-126।01]
यद्यासुमेरोः स्थलं मांसस्य स्यात्तत्सर्व वर्षासु क्रिमीणां पूर्येत ।
[126।01-126।02]
किमिदानीं तत्प्रतीक्षा एव तेषामन्तराभवा आसन् कुतो या तदा तेभ्यो गता इति वक्तव्यम् ।
[126।02]
नैतदागतं सूत्रे शास्त्रे वा ।
[126।02-126।03]
एवं तु युज्यते ।
[126।03]
गन्धरसाभिगृद्धानामल्पायुषां जन्तूनामन्तो नास्ति ।
[126।03-126।05]
ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिभावसंवर्त्तनीयं कर्म प्रवोध्य तया तृष्णया क्रिमिषूपपद्यन्त इति ।
[126।05-126।07]
अथवा नूनं तत्प्रत्ययप्रचूर एव काले तत्संवर्त्तनीयानि कर्माणि वीपाकाभिनिर्वृत्तौ वृत्तिं लभ्न्ते नान्यत्र ।
[126।07-126।08]
तथाहि चक्रवर्त्तिसंवर्त्तनीयानि कर्मणि अशीतिवर्षसहस्रायुषि प्रजायां वहुतरायुषि वा चक्रवर्त्तिनो जायन्ते नान्यस्याम् ।
[126।08-126।09]
अत एव चोक्तं भगवता "अचिन्त्यः सत्त्वानां कर्मविपाक" इति ।
[126।09]
सप्ताहं तिष्ठतीति भदन्तवसुमित्रः ।
[126।09-126।10]
यदि तावता सामग्रीं न लभते तत्रैव पुनश्च्युत्या जायन्ते ।
[126।10]
सप्त सप्ताहानीत्यपरे ।
[126।10-126।11]

अल्पं कालमिति वंभाषिकाः ।
[126।11-126।12]
स हि संभवैषित्वात्सम्धावगत्वा सम्धिं बध्नातीति यथात्वसमग्राः प्रत्यया भवन्ति ।
[126।12]
नियतं चानेन तस्मिन् देशे तस्यां जातौ जनितव्यं भवति ।
[126।12-126।13]
तदा कर्माण्येव प्रत्ययानां सामग्रीमावहन्ति ।
[126।13-126।14]
अथानियातं ततो ऽन्यत्र देशे तस्यां जातौ जायते सदृश्या मित्यपरे ।
[126।14-126।15]
तद्यथा गवामूष्मसु मैथुनस्य प्राचुर्यं शरदि शुनां ऋक्षानां हेमन्ते चाक्ष्वानाम् ।
[126।15-126।17]
गवयशृगालखरतरक्षाणां पुनः कालो नास्तीति येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यते येन श्वस् स शृगालेषु येनाश्वेसु स गर्दभेषु येन ऋक्षेषु स तरक्षेषूपपद्यते इति ।
[126।17-126।18]
न त्वस्य निकायसभागान्तराभवो नान्यत्र निकायसभागे शक्यमुत्पत्तुमेककामाक्षेपादिति वक्तव्यमेतत् ।
[126।19]
स खल्वेष गतिदेशसंप्राप्त्यर्थं प्रादुर्भूतो ऽन्तराभवः
[126।20]
विपर्यस्तमतिर्याति गतिदेशम् रिरंसया ।
[126।21]
स हि कर्मप्रभावसंभूतेन चक्षुषा सुदूरस्थो ऽपि स्वमुपपत्तिदेशं प्रेक्षते ।
[126।21-126।22]
तत्रास्य मातापित्रोस्तां विप्रतिपत्तिं दृष्ट्वा पुंसः सतः पौंस्नो राग उत्पद्यते मातरि स्त्र्या सत्या स्त्रैणो रागाः उद्पद्यते पितरि ।
[126।22-126।23]
विपर्ययात् प्रतिघः ।
[126।23-126।24]
एवं पठच्यते प्रज्ञप्तौ "गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरच्चित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वेति ।
[126।24-126।25]
स ताभ्यां विपर्यस्तो रन्तुकामतया तम् देशमाश्लिष्य तामवस्थामात्मन्यधिमुच्यते ।
[126।25-126।26]
तस्मिंश्चाशुचौ गर्भस्थानसंप्राप्ते जातहर्षो ऽभिनिविशते ।
[126।26-126।27]
ततो ऽस्य स्कन्धा घनीभवन्त्यन्तराभवस्कन्धाश्चान्तर्धीयन्ते इत्युपपन्नो भवति ।
[126।27-126।28]
स चेत्पुमान् भवति मातुर्दक्षिणकुक्षिमाश्रित्य पृष्ठाभिमुख उत्केटुकः संभवत्यथ स्त्री ततो वामकुक्षिमाश्रित्योदराभिमुखी ।
[127।01]
अथेदानीं नपुंसकं तद्येन रागेणाश्लिष्टं तथा तिष्ठति ।
[127।01-127।02]
न चास्त्यन्तराभवो व्यन्तरः सकलेन्द्रियत्वात्।
[127।02-127।03]

अथः स्त्रीभूतः पुरुषभूतो वा ऽनुप्रविश्य यथास्थानं तिष्ठति पश्चात् गर्भ आप्यायमानो नपुंसकं भवतीति" ।
[127।03]
इदं विचार्यते ।
[127।03-127।05]
किमस्य शुक्रक्शोणितमहाभूतान्येवेन्द्रियाश्रयभावमापद्यन्ते कर्मवशादाहोस्वित् भूतान्तराण्येव कर्मभिर्जायन्ते ।
[127।05]
तान्युपश्रित्येति ।
तान्येवेत्येके ।
[127।05-127।06]
अनिन्द्रियं हि शुक्रशोणितमन्तराभवेन सार्धं निरुध्यते सेन्द्रियं प्रादुर्भवति ।
[127।06-127।07]
वीजाङ्दुरनिरोधोत्पादन्यायेन यत्तत्कालमित्याख्यायते ।
[127।07-127।08]
एवं च कृत्वेदं सूत्रपदं सूत्रे सूनीतं भवति "मातापित्रशुचिकललसंभुतस्ये"ति ।
[127।08-127।09]
तथा "दीर्घरात्रं युष्माभिर्भिक्षिवः कतसिः संवर्द्धिता रुधिरविन्दुरूपात्त" इति ।
[127।09]
भूतान्तराण्येवेत्यपरे ।
तद्यथापर्णक्रिमेः ।
[127।09-127।10]
अशुचिसंनिश्रयोत्पत्त्यभिसंबन्धिवचनात्तु कललस्य सूत्राविरोध इति ।
[127।10-127।11]
एवं तावदण्डजां जरायुजां च योर्नि प्रतिपद्यते ।
[127।11]
अन्यत्र तु यथायोगं वक्तव्यमित्याहुः ।
[127।11-127।12]
तत्र चायं योगो दृश्यते
[127।13]
गन्धस्थानाभिकामो ऽन्यः
[127।14-127।15]
संस्वेदजां योनिं प्रतिपद्यमान उपपत्तिस्थानं गत्वाभिलाषात् गच्छत्यमेध्यं मेध्यं वा यथाक्रमम् ।
[127।15]
उपपादुकां तु योनिं प्रपद्यमानः स्थानाभिलाषात् ।
[127।15-127।16]
कथं नरकेषु स्थानाभिलाषः ।
[127।16]
विपर्यस्तबुद्धित्वात् ।
[127।16-127।17]
स हि शीतवातवर्षाभिषेकैरात्मानं बाध्यमानं पश्यति नरकेषु चाग्निं दीप्यमानम् ।
[127।17-127।18]

तत्र उष्णाभिलाषाद्धावति ।
[127।18-127।19]
पुनस्तप्तवातातपाग्निसंतापैरात्मानं बाध्यमानमनुपश्यन् शैत्यं च नरकेषु शीताभिलाषाद्धावति ।
[127।19-127।20]
यद् अवस्थस् तद् उपपत्तिसंवर्त्तनीयं कर्माकार्षीत् तदवस्थात्मानं ताश्च सत्त्वान् पश्यन् धावतीति पूर्वाचार्याः ।
[127।20-127।21]
तत्र पुनर्देवान्तराभव ऊर्ध्वं गच्छत्या सनादिवोत्तिष्ठन् मनुष्यतिर्यक्प्रेतानां मनुष्यादिवत् ।
[127।22]
ऊर्ध्वपादस्तु नारकः
[127।23-127।24]
"ते वै पतन्ति नरकादूर्ध्वपादा अवाङ्मुखाः ।
ऋषीणामभिवक्तारः संयतानां तपस्विनाम्" इति ॥
[127।25]
गाथाभिधानात् ।
[127।26]
यदुक्तं "विपर्यस्तमतिर्याती"ति ।
[127।26-127।27]
किमवश्यं सर्वो ऽन्तराभवस्तथा मातुः कुक्षिमवक्रामति ।
[127।27]
नित्याह ।
किं तर्हि ।
चतस्रो गर्भावक्रान्तयः सूत्र उक्ताः ।
कतमाश्चतस्रः ।
[128।01]
संप्रजानन् विशत्येकः
[128।02]
तिष्ठति निष्क्रामति सा संप्रजानन् ।
[128।03]
तिष्ठत्यप्यपरः ।
[128।04]
संप्रजानन्निति वर्त्तते ।
प्रविशत्यपीत्यपिक्षब्दात् ।
[128।05]
अपरः ।
[128।06]
निष्क्रामत्यपि
[128।07]
संप्राजानन् प्रविशति तिष्ठत्यपि ।
[128।08]
सर्वाणि मूढो ऽन्यः

[128।09-128।10]
कश्चित् पुनः सर्वाण्येवासंप्रजानन् करोति प्रविशत्यसंप्रजानन् तिष्ठति निष्क्रामत्यपि ।
[128।10]
एताश्चतस्रो गर्भावक्रान्तयः प्रतिलोमं निर्दिष्टाः ।
[128।11]
श्लोकबन्धानुगुण्यतः ।
[128।12]
नित्यमण्डजः
[128।13]
अण्डजः सत्त्वो नित्यं मूढ एव सर्वाणि करोति ।
कथमण्डाज्जातो गर्भं प्रविशति ।
[128।14]
यो ऽपि जनिष्यते सो ऽप्यण्दजः ।
अथवा भाविन्यापि संज्ञया निर्देशाः क्रियन्ते ।
[128।15]
तद्यथा "संकृतमभिसंस्करोती"ति सूत्रे ओदनं पचतीति सक्तुम् पिनष्टीति लोके ।
[128।16]
तस्मान्नैष दोषः ।
[128।17]
कथं पुनरसंप्रजानन् मातुः कुक्षिं प्रविशति यावन्निष्क्रामति कथं वा संप्रजानन् ।
[128।18-128।19]
अल्पेशाख्यस्य तावत्सत्त्वस्य मातुः कुक्षिं प्रविशतः एवं वीपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते ।
[128।19]
वातो वाति देवो वर्षति ।
[128।19-128।21]
शीतं दुर्दिनं महतो वा जनकायस्य कोलाहलं ह्न्त तृणगहनं वा प्रविशामि वनगहनं वा तृणकुटीं वा पर्णकुटीं वा वृक्षमूलं वा सर्पामि कुण्डयमूलं वेति ।
[128।21-128।22]
तिष्ठतो ऽप्येषु तिष्ठामिति निष्क्रामतो स्प्येभ्यो निर्यामीति ।
[128।22-128।23]
महेशाख्यस्य तु सत्त्वस्यारामं वा प्रविशाम्युद्यानं वाप्रासादं वा ऽभिरोहामि कूटागारं वा पर्यङ्क वेति ।
[128।23]
तथा तिष्ठामि निर्यामीति ।
[128।23-128।24]
एवं तावदसंप्रजानन् प्रविशति यावन्निष्क्रामति ।
[128।24-128।25]
संप्रजानंस्तु सम्यक् प्रजानाति मातुः कुक्षिं प्रविशाम्यत्रैव तिष्ठामि अत एव निर्यामिति ।
[128।25-128।26]
नास्य विपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते ।
[128।26]
अत्र पुनरपदिश्यते ।

[128।27]
गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयंभुवाम् ।
[128।28]
चक्रवर्त्तिनश्च स्वयंभुवोश्च प्रत्येकबुद्धसंबुद्धयोश्च ।
यथाक्रममित्यन्ते वक्ष्यति ।
[128।28-128।29]
तत्र प्रथमा चक्रवर्त्तिनः ।
[128।29]
स हि प्रविशत्येव संप्रजानन् न तिष्ठति नापि निष्क्रामति ।
[128।30]
प्रत्येकबुद्धस्तिष्ठत्यपि ।
बुद्धो निष्क्रामत्यपि ।
अत्रापि भाविन्या संज्ञया निर्देशः ।
[129।01]
कर्मज्ञानोभयेषां वा विशदत्वाद् यथाक्रमम्
[129।02]
विशदकर्मणाम्दारपुण्यक्रियाणां प्रथमा ।
[129।02-129।03]
विशदज्ञानानां बाहुश्रुत्यकृतप्रविचयानां द्वितीया ।
[129।03]
विशद पुण्यकर्मज्ञानानां तृतीया ।
[129।03-129।04]
त एव त्वेते चक्रवर्त्त्यादय एवंभूता युज्यन्ते यथाक्रमम् ।
[129।04]
शेषाणां चतुर्थीति सिद्धं भवति ।
[129।05]
अत्रेदानीं बाह्यका आत्मवादं परिगृह्योत्तिष्ठन्ते ।
[129।05-129।06]
यदि सत्त्वो लोकान्तरं संचरतीति प्रतिज्ञायते सिद्ध आत्मा भवतीति ।
[129।06]
स एष प्रतिषिध्यते
[129।07]
नात्मास्ति
[129।08]
कीदृश आत्मा य इमान् निक्षिपत्यन्याश्च स्क्न्धान् प्रतिसंदधातीति परिकल्प्यते ।
[129।09]
स तदृशो नास्त्यन्तर्व्यापारपुरुषः ।
[129।09-129।11]
एवं तूक्तं भगवता "अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतात् ।
[129।11-129।12]

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc