भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 120

प्रथमं कोशस्थानम्
[001।03-001।07]
ओं नमो बुद्धाय
यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार ।
तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम्
[001।08]
शास्त्रं प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभते य इति ।
[001।09-001।10]
बुद्धं भगवन्तमधिकृत्याह हतमस्यान्धकारमनेन वेति हतान्धकारः ।
[001।10]
सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः ।
[001।10-001।11]
अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाधकारम् ।
[001।11-001।12]
तच्च भगवतो बुद्धस्य प्रतिपक्षलाभेनात्यन्तं सर्वथा सर्वत्र ज्ञेये पुनरनुत्पत्तिधर्मत्वाद्धतम् ।
[001।12]
अतो ऽसौ सर्वथासर्वहतान्धकारः ।
[001।13]
प्रत्यैकबुद्धश्रावका अपि कामं सर्वत्र हतान्धकाराः ।
क्लिष्टसंमोहात्यन्तविगमात् ।
[001।14]
न तु सर्वथा ।
[001।14-001।15]
तथ ह्येषां बुद्धधर्मेष्वतिविप्रकृष्टदेशकालेषु अर्थेषु चानन्तप्रभेदेषु भवत्येवाक्लिष्टमज्ञानम् ।
[001।15-001।16]
इत्यात्महितप्रतिपत्तिसंपदा संस्तुत्य पुनस्तमेव भगवन्तं परहितप्रतिपत्तिसंपदा संस्तौति संसारपङ्काज्जगदुज्जहारेति ।
[001।17]
संसारो हि जगदासङ्गस्थानत्वात् दुरुत्तरत्वाच्च पङ्कभूतः ।
[001।17-001।20]
तत्रावमग्नं जगदत्राणमनुकम्पमानो भगवान् सद्धर्मदेशनाहस्तप्रदानैर्यथाभव्यमभ्युद्धृतवान् इति य एवमात्मपरहितप्रतिपत्तिसंपदा युक्तस्तस्मै नमस्कृत्येति शिरसा प्रणिपत्य ।
[001।20]
यथार्थमविपरीतं शास्तीति यथार्थशास्ता ।
[001।20-001।21]
अनेन परहितप्रतिपत्त्युपायमस्याविष्करोति ।
[001।21-001।22]
यथाभूतशासनाच्छास्ता भवन्न्तसौ संसारपङ्काज्जगदुज्जहार न त्वृद्धिवरप्रदानप्रभावेणेति ।
[001।22-002।01]
तस्मै नमस्कृत्य किं करिष्यामी त्याह शास्त्रं प्रवक्ष्यामि ।
[002।01]
शिष्यशासनाच्छास्त्रम् ।

[002।01-002।02]
कतमच्छास्त्रमित्याह अभिधर्मकोशम्
[002।02]
को ऽयमभिधर्मो नाम ।
[002।03]
प्रज्ञा ऽमला सानुचरा ऽभिधर्मः (1-2अ)
[002।04]
तत्र प्रज्ञा धर्मप्रविचयः।
अमलेति अनास्रवा ।
सानुचरेति सपरिवारा ।
[002।04-002।05]
एवमनास्रवः पञ्चस्कन्धको ऽभिधर्म इत्युक्तं भवति ।
[002।05]
एष तावत् पारमार्थिको ऽभिधर्मः ।
[002।06]
सांकेतिकस्तु
[002।07]
तत्प्राप्तये यापि च यच्च शास्त्रम् । (1-2ब्)
[002।08-002।09]
यापि च श्रुतचिन्ताभावनामयी सास्रवा प्रज्ञा उपपत्तिप्रतिलम्भिका च सानुचरा ।
[002।09-002।10]
यच्च शास्त्रमस्याः प्राप्त्यर्थमनास्रवायाः प्रज्ञायाः तदपि तत्संभारभावादभिधर्म इत्युच्यते ।
[002।10]
निर्वचनं तु स्वलक्षणधारणाद् धर्मः ।
[002।10-002।11]
तदयं परमार्थधर्मं वा निर्वाणं धर्मलक्षणं वा प्रत्यभिमुखो धर्म इत्यभिधर्मः ।
[002।12]
उक्तो ऽभिधर्मः ।
इदं तु शास्त्रं कथमभिधर्मकोशम् ।
[002।13-002।14]
तस्यार्थतो ऽस्मिन् समनुप्रवेशात्
स चाश्रयो स्येत्यभिधर्मकोशम् (1-2च्-2द्)
[002।15-002।16]
स हि शास्त्रसंज्ञको ऽभिधर्म एतस्मिन्नर्थतो यथाप्रधानमन्तर्भूत इत्येतच्छास्त्रं तस्य कोशस्थानीयं भवति ।
[002।16]
अथवा सो ऽभिधर्म एतस्याश्रयभूतः शास्त्रस्य ।
[002।17]
ततो ह्येतन्निराकृष्टम् ।
अतः स एवास्याभिधर्मः कोश इत्येतच्छास्त्रमभिधर्वर्मकोशम् ।
[002।18-002।19]

किमर्थं पुनरभिधर्मोपदेशः केन चायं प्रथमत उपदिष्टो यट आचार्यो ऽभिधर्मकोशं वक्तुमाद्रियत इति ॥
[002।19]
आह॥
[002।20-002।23]
धर्माणां प्रविचयमन्तरेण नास्ति क्लेशानां यत उपशान्तये ऽभ्युपायः ।
क्लेशैश्च भ्रमति भवार्णवे ऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा
[002।24]
यतो न विना धर्मप्रविचयेनास्ति क्लेशोपशमाभ्युपायः ।
[002।24-003।01]
क्लेशाश्च लोकं भ्रमयन्ति संसारमहार्णेवे ऽस्मिनन् ।
[003।01-003।02]
अतस्तद्धेतोस्तस्य धर्मप्रविचयस्यार्थे शास्त्रा किल बुद्धेनाभिधर्म उक्तः ।
[003।02]
नहि विना ऽभिधर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचेतुमिति ।
[003।03-003।04]
स तु प्रकीर्ण उक्तो भगवता भदन्तकात्यायनीपुत्र-प्रभृतिभिः पिण्डीकृत्य स्थपितोभदन्त धर्मत्रातो दानवर्गीयकरणवदित्याहुर्वैभाषिकाः ।
[003।05]
कतमे पुनस्ते धर्मा येषां प्रविचयार्थमभिधर्मोपदेश इत्याह
[003।06]
सास्रवा ऽनास्रवा धर्माः (1-4अ)
[003।07]
एष सर्वधर्माणां समासनिर्द्देशः ।
[003।07-003।08]
तत्र कतमे सास्रवा धर्मा इत्याह
[003।08-003।09]
संस्कृता मार्गवर्जिताः ।
सास्रवाः (1-4ब्-4च्1)
[003।10]
मार्गसत्यं वर्जयित्वा ऽन्ये संस्कृता धर्माः सास्रवाः ।
किं कारणम् ।
[003।11]
आस्रवास्तेषु यस्मात् समनुशेरते (1-4च्2-4द्)
[003।12-003।13]
कामं निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्ते न तिनुशेरते तत्रेति न तयोः सास्रवत्वप्रसञ्गः ।
[003।13-003।14]
यथा ऽत्र नानुशेरते तत् पश्चादनुशयनिर्देश एव ज्ञापयिष्यामः ।
[003।14]
उक्ताः सास्रवाः ।
[003।15]
अनस्रवाः कतमे ।

[003।16]
अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् । (1-5अ-5ब्)
[003।17]
कतमत्त्रि विधम् ।
[003।18]
आकाशं द्वौ निरोधौ च (1-5च्)
[003।19]
कतमौ द्वौ ।
प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश्च ।
[003।19-003।20]
इत्येतदाकाशादि त्रिविधमसंस्कृतं मार्गसत्यं चानास्रवा धर्माः ।
[003।20]
किं कारणम् ।
नहि तेष्वास्रवा अनुशेरत इति ।
[003।21]
यदेतत् त्रिविधमसंस्कृतमुद्दिष्टम्
[003।22]
तत्राकाशमनावृतिः (1-5द्)
[003।23]
अनावरणस्वभावमाकाशं यत्र रूपस्य गतिः ॥
[003।24]
प्रतिसंख्यानिरोधो यो विसंयोगः (1-6अ-6ब्1)
[004।01]
यः सास्रवैर्धर्मैर्विसंयोगः स प्रतिसंख्यानिरोधः ।
[004।01-004।02]
दुःखादीनामार्यसत्यानां प्रतिसंख्यानं प्रतिसंख्या प्रज्ञाविशेषस्तेन प्राप्यो निरोधः ।
[004।02]
प्रतिसंख्यानिरोधः ।
[004।02-004।03]
मध्यपदलोपात् गोरथवत् ।
[004।04]
किं पुनरेक एव सर्वेषां सास्रवाणां धर्माणां प्रतिसंख्यानिरोधः ।
नेत्याह ।
[004।05]
किं तर्हि ।
[004।06]
पृथक् पृथक् । (1-6ब्2)
[004।07]
यावन्ति हि संयोगद्रव्याणि तावन्ति विसंयोगद्रव्याणि ।
[004।07-004।08]

अन्यथा हि दुःखदर्शनहेयक्लेशनिरोधसाक्षात्क् करणात् सर्वक्लेशनिरोधसाक्षात्क्रिया प्रसज्येत ।
[004।08-004।09]
सति चैवं शेषप्रतिपक्षभावनावैयर्थ्यं स्यात् ।
[004।09-004।10]
यत्तर्ह्युक्तम् "असभागोनिरोध" इत्यस्य को ऽर्थः ।
[004।10-004।11]
नास्य कश्चित् सभागहेतुरस्ति नासौ कस्यचिदित्ययमस्य वाक्यस्यार्थो न तु नास्य कशिचत् सभागो ऽस्तीति ।
[004।11]
उक्तः प्रतिसंख्यानिरोधः ॥
[004।12]
उत्पादात्यन्तविघ्नो ऽन्यो निरोधो ऽप्रतिसंख्यया (1-6च्-6द्)
[004।13-004।14]
अनागतानां धर्माणामुत्पादस्यात्यन्तं विघ्नभूतो विसंयोगाद् यो ऽन्यो निरोधः सो ऽप्रतिसंख्यानिरोधः ।
[004।14]
न ह्यसौ प्रतिसंख्यया लभ्यते ।
किं तर्हि ।
प्रत्ययवैकल्यात् ।
[004।14-004।16]
यथैकरूपव्यासक्तचक्षुर्मनसो यानि रूपाणि शब्दगन्धरसस्प्रष्टव्यानि चात्ययन्ते तदालम्बनैः पञ्चभिर्विज्ञानकायैर्न शक्यं पुनरुत्पत्तुम् ।
[004।16-004।17]
न हि ते सत्या अतीतं विषयमालम्बयि तुल्मिति ।
[004।17]
अतः स तेषामप्रतिसंख्यानिरोधः प्रत्ययवैकल्यात् प्राप्यते ।
[004।18]
चतुष्कोटिकं चात्र भवति ।
सन्ति ते धर्मा येषां प्रतिसंख्यानिरोध एव लभ्यते ।
[004।19]
तद्यथा अतितप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणाम् ।
[004।19-004।20]
सन्ति येषामप्रतिसंख्यानिरोध एव ।
[004।20]
तद्यथा ऽनुत्पत्तिधर्माणामनास्रवसंस्कृतानाम् ।
सन्ति ते येसामुभयम् ।
[004।21]
तद्यथा सास्रवाणामनुत्पस्त्तिधर्माणाम् ।
सन्ति येषां नोभयम् ।
[004।21-004।22]
तद्यथा अतीतप्रत्युत्पन्नोत्पत्तिधर्माणामणास्रवाणामिति ।
[004।22]
उक्तं त्रिविधमसंस्कृतम् ॥

[004।23]
यत्तूक्तं "संस्कृता मार्गवर्जिताः ।
[004।23-004।24]
सास्रवा" इति कतमे ते संस्कृताः ।
[004।25]
ते पुनः संस्कृता धार्मा रूपादिस्कन्धपञ्चकम् । (1-7अ-7ब्)
[004।26]
रूपस्कन्धो वेदनास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्चेत्येते संस्कृता धर्माः ।
[004।27]
समेत्य संभूय प्रत्ययैः कृताः इति संस्कृताः ।
नह्येकप्रत्ययजनितं किञ्चिदस्तीति ।
[004।27-005।01]
तज्जातीयत्वादनागतेष्वविरोधो दुग्धेन्धनवत् ।
[005।02]
त एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः (1-7च्-7द्)
[005।03]
त एव संस्कृता गतगच्छद्गमिष्यद्भावादध्वानः अद्यन्ते ऽनितयत्येति वा ।
[005।03-005।04]
कथा वावायम् तस्या वस्तु नाम ।
[005।04]
सार्थकवस्तुग्रहणात् तु संस्कृन्तं कथावस्तूच्यते ।
[005।04-005।05]
अन्यथा हि उरकरणग्रन्थो विरुध्येत ।
[005।05]
"कथावस्तून्यष्टादशभिर्धतुभिः संगृहीतानि ।"
[005।05-005।06]
निःसरणं निःसारः सर्वस्य संस्कृतस्य निर्वाणम् ।
[005।06]
तदेषामस्तीति सनिःसाराः ।
[005।06-005।07]
सहेतुकत्वात् सवस्तुकाः ।
[005।07]
हेतुवचनः किल वस्तुशब्द इति वैभाषिचाः ।
[005।07-005।08]
इत्येते संस्कृतधर्मौअर्यायाः ।
[005।08]
त एव पुयः संस्कृता धरमाः ।
[005।09]
ये सास्रवा उपादानस्कन्धास्ते (1-8अ-8ब्1)
[005।10]

अतः किं दिद्धं ।
[005।10-005।11]
य उपादानस्कन्धाः स्कन्धा अपि ते स्युः एव नोपादानस्कन्धाः ।
[005।11]
अनास्रवाः संस्कारा इति
तत्र उपादानानि क्लेशाः ।
[005।11-005।12]
तत्संभूतत्वादुपादानस्कन्धाः ॥
[005।12]
त्रुणतुपाग्निवत् ।
तद्धिधेयत्वाद्वा राजपुरूपवत् ।
[005।12-005।13]
उपादानानि वा तेभ्यः संभवन्तीति उपादानस्कन्धाः पुष्पफलवृक्षवत् ।
[005।13-005।14]
त एव सास्रवा धर्मा उच्यन्ते ।
[005।15]
सरणा अपि । (1-8ब्2)
[005।16]
रण्सा हि क्लेशाः ।
आत्मपारव्यावाधनात् ।
स्तदनुशयितत्वात् सरणाः ।
सास्रववत् ।
पुनः
[005।17]
दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते (1-8च्-8द्)
[005।18]
आर्याणां प्रतिकूलत्वाद्दुःखम् ।
समुदेत्यस्माद् दुःखमिति समुदयः ।
[005।18-005।19]
लक्ष्यत इति लोकः ।
[005।19]
दृष्टिरस्मिंस्तिष्ठत्यनुशयनादिति दृष्टिस्थानम् ।
भवतीति भवः
[005।20]
इत्येते सास्रवाणसं धर्माणामान्वर्थपर्यायाः
[005।21]
पञ्च रूपादयः स्कन्धा इत्युक्तम् ।
तत्र
[005।22]
रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च । (1-9अ-9ब्)

[005।23]
पञ्चेन्द्रियाणि चक्षुःश्त्रोत्रग्र्हाणजिह्वाकायेन्दरिया ण ।
[005।23-005।24]
पञ्चार्थास्तेषामेवचक्षुरादीनामिन्द्रियाणां यथास्वं ये पञ्च विषयाः रूपशब्दगन्धरसस्प्रष्टव्याख्याः ।
[005।25]
अविज्ञप्तिश्चेति ।
एतावान् रूपस्कन्धः
[005।26]
तत्र य एते पञ्च रूपादयो ऽर्था उक्ताः ।
[005।27]
तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः (1-9च्-9द्)
[006।01-006।02]
रूपशब्दगन्धरसस्प्रष्टव्यविज्ञानानामाश्रयभूता ये पञ्च रूपात्मकाः प्रसादास्ते यथाक्रमं चक्षुःश्रोत्रघ्राणजिह्वाकाया वेदितव्याः ।
[006।02-006।03]
यथोक्तं भगवता "चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय" रूप प्रसाद इति विस्तरः ।
[006।03-006।04]
यान्येतानि चक्षुरादीन्युक्तनि तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः ।
[006।04-006।05]
चक्षुर्विज्ञानाद्याश्रया इत्यर्थः ।
[006।05]
एवं कृत्वा प्रकरणग्रण्थो ऽप्यनुवृत्तो भवति ।
"चक्षुः कतमत् ।
[006।05-006।06]
चक्षुर्विज्ञानाश्रयो रूपप्रसाद" इति विस्तरः ।
[006।06]
निर्द्दिष्टानि पञ्चेन्द्रियाणि ।
[006।07]
अर्थाः पञ्चा निर्द्देश्याः ।
तत्र तावत्]
[006।08]
रूपं द्विधा
[006।09]
वर्णः संस्थानं च ।
तत्र वर्णश्चतुर्विधो नीलादिः ।
तद्भेदा अन्ये ।
[006।09-006।10]
सम्स्थानमष्टविधं दीर्घदि विसातान्तम् ।
[006।10]
तदेव रूपायतनं पुनरुच्यते ।
[006।11]

विम्शतिधा
[006।12-006।13]
तद्यथा नीलं पीतं लोहितमवदातं दीर्घं ह्रस्वं वृत्तं परिमण्डलं उन्नतमवनतं सातं विसातं अभ्रं धूमो रजो महिका च्छाया आतपः आलोकः अन्धकारमिति ।
[006।13-006।14]
केचिन्नभश्चैकवर्णमिति एकविंशतिं संपठन्ति ।
[006।14]
तत्र सातं समस्थानम् । विसातं विषम स्थानम्ल् महिका नीहारः । आतपः सूर्यप्रभा ।
[006।14-006।15]
आलोकः चन्द्रतारकाग्न्योषधिमणीनं प्रभा ।
[006।16]
छाया यत्र रूपाणां दर्शनम् ।
विपर्ययादन्धकारम् ।
[006।16-006।17]
शेषं सुगमत्वान्न विपञ्चितम् ।
[006।17]
अस्ति रूपायतनं वर्णतो विद्यते न संस्थानतः
[006।17-006।18]
नीलपीतलोहितवदातच्छायातपालोकान्धकाराख्यम् ।
[006।18]
अस्ति संस्थानतो न वर्णतः ।
[006।18-006।19]
घादीनां प्रदेषः कायविज्ञप्तिस्वभावः ।
[006।19]
अस्त्युभयथा ।
परिशिष्टं रूपायतनम् ।
[006।19-006।20]
आतपालोकावेव वर्णतो विद्येते इत्यपरे ।
[006।20]
"दृश्यते हि नीलादीनं दीर्घादिपरिच्छेद" इति ।
[006।21]
कथं पुनरेकं द्रव्यमुभयथा विद्यते ।
अस्त्युभयस्य तत्र प्रज्ञानात् ।
[006।21-006।22]
ज्ञानार्थो ह्येष विदिर्न सत्तार्थः ।
[006।22]
कायविज्ञप्तावपि तर्हि प्रसङ्गः ।
उक्तं रूपायतनं ॥
[006।23]
शब्दस्त्वष्टविधः ।
[006।24]

उपात्तानुपात्तमहाभूतहेतुकः सत्त्वासत्त्वाख्यश्चेति चतुर्विधः ।
[006।24-006।25]
पुनर्मनोज्ञामनोज्ञभेदादष्टविधो भवति ।
[006।25-006।26]
तत्रोपात्तमहाभूतहेतुको यथा हस्तवाक्छब्दः ।
[006।26]
अनुपात्तमहाभुतहेतुको यथा वायुवनस्पतिनदीशब्दः ।
[006।26-006।27]
सत्त्वाख्यो वाग्विज्ञप्तिषब्दः ।
[006।27]
असत्त्वाख्यो ऽन्यः
[006।27-006।28]
उपात्तानुपात्तमहाभूतहेतुको ऽप्यस्ति शब्द इत्यपरे ।
[006।28]
तद्यथा हस्तमृदङ्गसंयोगज इति ।
[006।28-007।01]
स तु यथैकौ वर्णपरमाणुर्न भूतचतुष्कद्वयमुपादायेष्यते तथा नैवैष्टव्य इति ।
[007।01]
उक्तः शब्दः ॥
[007।02]
रसः ।
[007।03]
षोढ
[007।04]
मधुराम्ललवणकटुकतित्तकषायभेदात् ।
[007।05]
चतुर्विधो गन्धः
[007।06]
सुगन्धदुर्गन्धयोः समविषमगन्धत्वात् ।
त्रिविधस्तु शास्त्रे ।
[007।06-007।07]
"सुगन्धो दुर्गन्धः समगन्ध" इति ।
[007।08]
स्पृश्यमेकादशात्मद्कम्
[007।09]
स्प्रष्टव्यमेकादशद्रव्यस्वभावम् ।
[007।09-007।10]
चत्वारि महाभूतानि श्लक्ष्णत्वं कर्कशत्वं गुरुत्वं लघुत्वं शीतं जिघत्सा पिपासा चेति ।
[007।10]
तत्र भूतानि पश्चाद्वक्ष्याम्ः ।

[007।10-007।11]
श्लक्ष्णत्वं मृदुता ।
[007।11]
कर्कशत्वं परुषता ।
गुरुत्वं येन भावास्तुल्यन्ते ।
लघुत्वं विपर्ययात् ।
[007।11-007।12]
शीतमुष्णाभिलाषकृत् ।
[007।12]
जिघत्सा भोजनाभिलाषकृत् ।
कारणे कार्योपचारात् ।
यथा
[007।13-007।14]
"बुद्धानां सुख उत्पादः सुखा धर्मस्य देशना ।
सुखा सङ्घस्य सामग्री समग्राणां तपः सुखं" ॥ इति ।
[007।15]
तत्र रूपधातौ जिघत्सापिपासे न स्तः ।
शेषमस्ति
[007।15-007।16]
यद्यपि तत्र वस्त्राण्येकशो न तुल्यन्ते सञ्चितानि पुनस्तुल्यन्ते ।
[007।16]
शीतमुपघातकं नास्ति ।
[007।16-007।17]
अनुग्राहकं किलास्ति ।
[007।18-007।19]
यदेतद्बहुविधं रूपमुक्तं तत्र कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति ।
[007।19]
कदाचिद् बहुभिर्यदा न व्यवच्छेदः ।
[007।19-007।20]
तद्यथा सेनाव्यूहमनेकवर्णसंस्थानं मणिसमूहं च दूरात् पश्यतः ।
[007।20]
एवं श्रोत्रादिविज्ञानं वेदितव्यं ।
[007।21]
कायविज्ञानं तु परं पञ्चभिः स्प्रष्टव्यैरुत्पद्यत इत्येके ।
[007।21-007।22]
चतुर्भिर्महाभूतैरेकेन च श्लक्ष्णत्वादिना ।
[007।22]
सर्वैरेकादशभिरित्यपरे ।
[007।22-007।23]
ननु चैवं समस्तालम्बनत्वात् सामान्यविषयाः पञ्च विज्ञानकायाः प्राप्नुवन्ति न स्वलक्षणविषयाः ।

[007।23-007।24]
आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया इष्यन्ते न द्रव्यस्वलक्षणमित्यदोषः ।
[007।25]
इदं विचार्यते ।
[007।25-007।26]
कायजिह्वेन्द्रिययोर्युगपद् विषयप्राप्तौ सत्यां कतरद् विज्ञानं पूर्वमुत्पद्यते ।
[007।26]
यस्य विषयः पटीयान् ।
[007।26-007।27]
समप्राप्ते तु विषये जिह्वाविज्ञानं पूर्वमुत्पद्यते ।
[007।27]
भोक्तुकामतावर्जितत्वात्सस्न्ततेः ।
[007।27-007।28]
उक्ताः पञाचेन्द्रियार्थाः यथा च तेषां ग्रहणं ।
[007।29]
अविज्ञप्तिरिदानीं वक्तव्या ।
सेयमुच्यते
[008।01-008।02]
विक्षिप्ताचित्तकस्यापि यो ऽनुबण्धः शुभाशुभः ।
महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते
[008।03]
विक्षिप्तचित्तकस्येति तदन्यचित्तस्यापि ॥
[008।03-008।04]
अचित्तकस्यापीत्यसंज्ञिनिरोधसमापत्तिसमापन्नस्यापि ।
[008।04]
अपिशब्देनाविक्षिप्तसचित्तस्यापीति विज्ञायते ।
[008।05]
यो ऽनु बन्ध इति यः प्रवाहः ।
शुभाशुभ इति कुशलाकुशलः ।
[008।05-008।06]
कुशलाकुशले प्राप्तिवाहो ऽप्यस्तीदृश इति तद्विशेषणार्थमुच्यते महाभूतान्युपादायेति ।
[008।07]
हेत्वर्थ उपादायार्थ इति वैभाषिकाः ।
जननादिहेतुभावात् ।
[008।07-008।08]
स ह्यविज्ञप्तिरिति हिशब्दस्तन्नामकरणविज्ञापनार्थः ।
[008।08-008।09]
रूपक्रियास्वभावापि सती विज्ञप्तिवत् परं न विज्ञापयतीत्यविज्ञप्तिः ।
[008।09-008।09
उच्यत इति आचार्यवचनं दर्शयति ।

[008।09-008।10]
समासतस्तु विज्ञप्तिसमाधिसंभूतं कुशलाकुशलं रूपमविज्ञप्तिः ।
[008।11]
महाभूतान्युपादायेत्युक्तानि कतमानि भूतानि ।
[008।12]
भूतानि पृथिवीधातुरप्तेजोवायुधातवः
[008।13]
इत्येते चत्वारः स्वलक्षणोपादायरूपधारणाद् धातवश्चत्वारि महाभूतान्य् उच्यन्ते ।
[008।14]
महत्त्वमेषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वात् ।
[008।14-008।15]
अथ वा तदुद्भूतवृत्तिषु पृथिव्यप्तेजोवायुस्कन्धेष्वेषां महास्ण्निवेशत्वात् ।
[008।15-008।16]
ते पुनहेते धातवः कस्मिन् कर्मणि संसिधाः किंस्वभावाश्चेत्याह
[008।17]
धृत्यादिकर्मसंसिद्धाः
[008।18]
धृतिसंग्रहपक्तिव्यूहनकर्मस्वेते यथाक्रमं संसिद्धाः पृथिव्यप्तेजोवायुधातवः ।
[008।18-008।19]
व्यूहनं पुनर्वृद्धिः प्रसर्पणं च वेदितव्यम् ।
[008।19]
इदमेषां कर्म ।
स्वभावस्तु यथाक्रमं
[008।20]
खरस्नेहोस्णतेरणाः
[008।21]
खरः पृथिवीधातुः ।
स्नेहो ऽब्धातुः ।
उष्णता तेजोधातुः ।
[008।22]
ईरणा वायुधातुः ।
ईर्यते ऽनया भूतस्रोतो देशान्तरोत्पादनात् प्रदीपेरणवदितीरणा ।
[008।23]
"वायुधातुः कतमो लघुसमुदीरणत्वम्" इति प्रकारणेषु निर्दिष्टं सूत्रे च ।
[008।23-008।24]
तत्तु लघुत्वमुपादाय रूपमप्युक्तं प्रकरणेषु ।
[008।24-008।25]
अतो य ईरणास्वभावो धर्मः स वायुरिति कर्ंअणा ऽस्य स्वभावो ऽभिव्यक्तः ।
[008।26]
कः पुनः पृथिव्यादिनां पृथिवीधात्वादीनां च विशेषः ।

[009।01]
पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया ।
[009।02]
तथा हि पृथिवीं दर्शयन्तो वर्णं संस्थानं च दर्शयन्ति ।
यथा पृथिवी एवं
[009।03]
आपस्तेजश्च
[009।04]
वर्णसंस्थानमेवोच्यते लोकसंज्ञया ।
[009।05]
वायुस्तु धातुरेव
[009।06]
य एव तु वायुधातुः स एव लोके वायुअरित्युच्यते ।
[009।07]
तथपि च
[009।08]
यथा पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया तथ वायुअरपि ।
[009।08-009।09]
नीलिका वात्या मण्डलिका वात्येति ॥
[009।10]
कस्मात् पुनरयमविज्ञप्तिपर्यन्तो रूपस्कन्ध इत्युच्यते ।
रौपणात् ।
[009।10-009।11]
उक्तं भगवता "रूप्यते रुप्यत इति भिक्षवस्तस्माद्रूपोपादानस्दन्ध इत्युच्यते ॥
[009।11-009।12]
केन रुप्यते ।
[009।12]
पाणिस्पर्शेनापि स्पृष्टो रूप्यत" इति विस्तरः ।
रूप्यते बाध्यत इत्यर्थः ।
[009।13]
तथा ह्यर्थवर्गीयेषूक्तम्
[009।14-009।15]
"तस्य चेत् कामयानस्य च्छन्दजातस्य देहिनः ।
ते कामा न समृध्यन्ति शल्यविद्ध इव रूप्यते ॥"
[009।16]
रूपस्य पुनः का बधना ।
विपरिणामोत्पादना ।
[009।16-009।17]
प्रतिघातो रूपेणेत्यपरे ।
[009।17]

परमाणुरूपं तर्हि रूपं न प्राप्नोत्यरूपणात् ।
[009।17-009।18]
न वै परमाणुरूपमेकं पृथग् भूतमस्ति ।
[009।18]
सञ्घातस्थं तु तद् रूप्यत एव ।
[009।18-009।19]
अतीतानागतं तर्हि रूपं न प्राप्नोति ।
[009।19]
तदपि रूपितं रूपयिष्यमाणं तज्जातीयं चेति रूपमिन्धनवत् ।
[009।19-009।20]
अविज्ञप्तिस्तर्हि न प्राप्नोति ।
[009।20]
सापि विज्ञप्तिरूपणाद् रूपिता भवति ।
[009।20-009।21]
वृक्षप्रचलने च्छायाप्रचलनवत् ।
[009।21]
नाविकारात् ।
[009।21-009।22]
विज्ञप्तिनिवृत्तौ चाविज्ञप्तिनिवृत्तिः स्याद् वृक्षाभावे च्छाया ऽभाववत् ।
[009।22-009।23]
आश्रयभूतरूपणादित्यपरे एवं तर्हि चक्षुर्विज्ञानादीनामप्याश्रयरूपणात् रूपत्वप्रसङ्गः ।
[009।23]
विषमो ऽयमुपन्यासः ।
[009।23-009।24]
अविज्ञप्तिर्हि च्छायेव वृक्षं प्रभेव मणिं भूतान्याश्र्त्य वर्त्तते ।
[009।24-009।25]
न त्वेवं चक्षुरादीन्याश्रित्य वर्त्तन्ते चक्षुर्विज्ञानादीनि केवलं तूत्पत्तिनिमिक्तमात्रं तानि तेषां भवन्तीति ।
[009।25-009।26]
इदं तावदवैभाषिकीयं वृक्षमाश्रित्य च्छाया वर्त्तते मणिं चाश्रित्य प्रभेति ।
[009।26-010।01]
च्छायादिवर्णपरमाणूनां प्रत्येकं स्वभूतचतुष्काश्रितत्वाभ्युपगमात् ।
[010।01]
सत्यपि च तदाश्रितत्वे च्छायाप्रभयोर्नाविज्ञप्तिस्तथैवाश्रिता ।
युज्यते ।
[010।02]
निरुद्धेष्वपि अविज्ञ प्त्याशयेषु महाभूतेषु तस्या अनिरोधो ऽभ्युपगम्यते ।
[010।02-010।03]
अतो न भवत्येष परिहारः ।
[010।03-010।04]
अन्ये पुनरत्र परिहारमाहुः चक्षुर्विज्ञानादीनामाश्रयो भेदं गतः ।

[010।04]
कष्चिद्रूप्यते चक्षुरादिः कश्चिन्न रूप्यते यथा मनः ।
[010।05]
न त्वेवमविज्ञप्तिः ।
[010।05-010।06]
तस्मादसमानः प्रसङ्गः इत्यत उपपन्नमेतदाश्रय रूपणाद्रूपमिति ।
[010।07]
य एव रूपस्कन्धस्वभावा उक्ताः
[010।08]
इन्द्रियार्थस्त एवेष्टा अशायतनधातवः ।
[010।09]
आयतनव्यवस्थायां दशायतनानि ।
[010।09-010।10]
चक्षुरायतनं रूपायतनं यावत् कायायतनं स्प्रष्टव्यायतनमिति ।
[010।10-010।11]
धातुव्यवस्थायां त एव दशधातवश्चक्षुर्छातू रूपधातुर्यावत् कायधातुः स्प्रष्टव्यधातुरिति ।
[010।11]
उक्तो रूपस्कन्धस्तस्य चायतनव्यवस्थानम् ।
[010।12=01012]
वेदनादयो वक्तव्यः ।
[010।12]
तत्र
[010।13]
वेदना ऽनुभवः
[010।14]
त्रिविधो ऽनुभवो वेदनास्कन्धः ।
सुखो दुःखो , दुःखासुखश्च ।
[010।14-010।15]
स पुनर्भिद्यमानः षड् वेदनाकायाः चक्षुःसंस्पर्शजा वेदना यावम्वनःसंस्पर्शजा वेदनेति ।
[010।16]
संज्ञा निमित्तोद्ग्रहणात्मिका
[010।17-010।18]
यावन्नीलपीतदीर्घह्रस्वस्त्रिपुरुषमित्रमित्रसुखदुःखादिनिमित्तोद्ग्रहणमसौ संज्ञास्कन्धः ।
[010।18]
स पुनर्भिद्यमानः षट्संज्ञाकाया वेदनावत् ॥
[010।19]
चतुर्भ्यो ऽन्ये तु संस्कारस्कन्धः
[010।20]
रूपवेदनासंज्ञाविज्ञानेभ्यश्चतुब्ब्र्यो ऽन्ये तु संस्काराः संस्कारस्कन्धः।
[010।20-010।21]

भगवता तु सूत्रे षट् चेतनाकाया इत्युक्तं प्राधान्यात् ।
[010।21-010।22]
सा हि कर्मस्वरूपत्वादभिसंस्करणे प्रधाना ।
[010।22-010।23]
अत एवोक्तं भगवता "संस्कृतमभिसंस्करोति ।
[010।23]
तस्मात् संस्कारा उपादानस्कन्ध इत्य् उच्यत" इति
[010।23-010।25]
अन्यथा हि शेषाणां चैतसिकानां विप्रयुक्तानां च संस्काराणां स्कन्धासंग्रहाद्दुःखसमुदयसत्यत्वं न स्यादिति परिज्ञापरिहाणे अपि न स्याताम्।
[010।25-010।26]
उक्तं च भगवता "नाहमेकधर्ममपि अनभिज्ञायापरिज्ञाय दुःखस्यान्तक्रियां वदामीति ।
[010।26]
एवमप्रहाये" त्युक्तम् ।
[011।01]
तस्मादवश्यमेषां संस्कारस्कन्धसंग्रहो "भ्युपगन्तव्यः ।
[011।02]
एते पुनस्त्रयः ।
[011।03]
वेदनासंज्ञासंस्कारस्कन्धाः आयतनधातुव्यवस्थायां
[011।04]
धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतैः
[011।05]
इत्येतानि सप्त द्रव्याणि धर्मायतनं धर्मधातुश्चेत्याख्यायन्ते ।
[011।06]
विज्ञानं प्रतिविज्ञप्तिः
[011।07]
विषयं विषयं प्रति विज्ञप्तिरुपलब्धिर्विज्ञान स्कन्ध इत्युच्यते ।
[011।07-011।08]
स पुनः षड् विज्ञानकायाः चक्षुर्विज्ञानं यावन्मनोविज्ञानमिति ।
[011।08-011।09]
य एष विज्ञानस्कन्ध उक्त आयतनव्यवस्थायां
[011।10]
मन आयतनं च तत् ।
[011।11]
धातुव्यवस्थायां स एव
[011।12]
धातवः सस्प्त च मताः
[011।13]
कतमे सप्त ।
[011।14]

षड् विज्ञानान्यथो मनः
[011।15]
चक्षुर्विज्ञानधातुर्यावन्मनोविज्ञानधातुमनोधातुश्च ।
[011।15-011।16]
एवमत्र पञ्च स्कन्धा द्वादशायतनानि अष्टादश धातवो निर्द्दिष्टा भवण्ति ।
[011।16-011।17]
अविज्ञप्तिवर्ज्यो रूपस्कन्धो दशायतनानि दश धतवः ।
[011।17-011।18]
वेदना दयः स्कन्धास्त्रयो "विज्ञप्तिरसंस्कृतानि च धर्मायतनं धर्मधातुश्च विज्ञानस्कन्धो मन आयतनं षड् विज्ञानधातवो मनोधातुश्चेति ॥
[011।19]
ननु च षड् विज्ञानकाया विज्ञानस्कन्ध इत्युक्तम् ।
[011।19-011।20]
अथ को "यं पुनस्तेभ्यो "न्यो मनोधातुः न खलु कश्चिदन्यः ।
[011।20]
किं नर्हि ।
तेषामेव
[011।21]
षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः ।
[011।22]
यद्यत्समनन्तरनिरुद्धं विज्ञानं तन्मनोधातुरित्युच्येत ।
[011।22-011।23]
तद्यथा स एव पुत्रो "न्यस्य पिता भवति तदेव फलमन्यस्य बीजमिति ।
[011।23-011।25]
एवं तर्हि द्रव्यतः सप्तदश धातवो भवन्ति द्वादश वा षड्विज्ञानधातुमनोधातूनामितरेतरान्तर्भावादिति कस्मादष्टादाश व्यवस्थाप्यन्ते ।
[011।25]
यद्यप्येवं तथापि
[011।26]
षष्ठाश्रयप्रसिद्ध्यर्थ धातवो "षादश् स्मृताः
[011।27]
पञ्चानां विज्ञानधातूनां चक्षुर्धात्वायतनादयः पञ्चाश्रयाः ।
[011।28]
षष्ठस्य मनोविज्ञानधातोराश्रयो "न्यो नास्ति ।
[011।28-011।29]
अतस्तदाश्रयप्रसिद्धच्यर्थ मनोधातुरूपदिष्टः ।
[011।29-012।01]
एवमाश्रयाश्रितालम्बनष्ट्कव्यवसथानादष्टादश धातवो भवन्तीति ।
[012।01]
अर्हतस्तर्हि चरमं चित्तम् न मनो भविष्यति ।
[012।02]
नहि तदस्ति यस्य तत्सस्मनन्तरातीतं स्यादिति ।

न ।
[012।02-012।03]
तस्यापि मनोभावेनावस्थितत्वात् ।
[012।03]
अन्यकारणवैकल्यात्तु नोत्तरविज्ञानसंभूतिः ॥
[012।04]
तत्र स्कन्धैः सर्वसंस्कृतसंग्रहः ।
[012।04-012।05]
उपादानस्कन्धैः सर्वसास्रवाणामा यतनधातुभिः सर्वधर्माणाम् ।
[012।05]
समासतस्तु ज्ञातव्यः
[012।06-012।07]
सर्वसंग्रह एकेन स्कन्देह्नायतनेन च
धातुना च
[012।08]
रूपस्कन्धेन मन आयतनेन धर्मधातुना च सर्वधर्माणां संग्रहो बोद्धव्यः ।
[012।08-012।09]
स खल्वेष संग्रहो यत्र क्वचिदुच्यमानो वेदितव्यः ।
[012।10]
स्वभावेन
[012।11]
न परभावेन ।
किम् कारणम् ।
[012।12]
परभाववियोगतः
[012।13]
वियुक्तो हि परभवेन धर्मः ।
तस्मान्न येन वियुक्तस्तेनैव संगृहीतो युज्यते ।
[012।13-012।14]
तद्यथा चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां च दुःखसमुदयसत्याभ्यां च संगृहीतम् ।
[012।15]
तत्स्वभावत्वात् ।
नान्यैः स्कन्धादिभिस्तद्भाव वियुक्तत्वात् ।
[012।15-012।16]
यस्त्वन्येनान्यस्य संग्रह उच्यते यथा संग्रहवस्तुभिः पर्षदां स हि कादाचित्कत्वात् सांकेतिको वेदितव्यः ।
[012।17]
ननु चैकविंशत्या धातुभिर्भवितव्यम् ।
चक्षुषो द्वित्वात् श्रोत्रघ्राणयोश्च ।
[012।18]
न भवितव्यम् ।

यस्मात् ।
[012।19-012।20]
जातिगोचरविज्ञानसामान्यादेकधातुता
द्वित्वे "पि चक्षुरदीनं
[012।21]
त्र जातिसामान्यमुभयोश्चक्षुःस्वभावत्वात् ।
[012।21-012।22]
गोचरसामान्यमुभयो रूपविषयत्वात् ।
[012।22]
विज्ञानसामान्यमुभयोरेकचक्षुर्विज्ञानाश्रयत्वात् ।
तस्मदेक एव चक्षुर्धातुः ।
[012।23]
एवं श्रोत्रघ्राणयोरपि योज्यम् ।
[012।24]
शोभार्थं तु द्वयोद्भवः
[012।25]
एकधातुत्वे "पि तु चक्षुरादीनं द्वयोः संभव आश्रयस्य शोभार्थम् ।
[012।25-013।01]
अन्य था ह्येकचक्षुःश्रोत्राधिष्ठानैकनासिकाविलसंभवात् महद् वैरुप्यं स्यादिति ।
[013।02]
उक्ताः स्कन्धायतनधातवः
[013।03]
इदं तु वक्तव्यं कः स्कन्धायतनधात्वर्थ इति ।
[013।04]
राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः ।
[013।05-013।07]
ऽयत् किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमाध्यात्मिबाह्यम् औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे अन्तिके तत्सर्वमैकध्यमभिसंक्षिप्य रूपस्कन्ध इति संख्यां गच्छती ति वचनात् सूत्रे राश्यर्थः स्कन्धार्थ इति सिद्धम् ।
[013।07-013।08]
तत्रातीतं रूपमनित्यतानिरुद्धम् ।
[013।08]
अनागतमनुत्पन्नम् ।
प्रत्युत्पन्नमुत्पन्नानिरुद्धम् ।
[013।09]
आध्यात्मिकं स्वासान्तानिकं बाह्यमन्यदायतनतो वा
[013।09-013।10]
औदारिकं सप्रतिघं सूक्ष्ममप्रतिघमापेक्षिकं वा ।
[013।10]
आपेक्षिकत्वादसिद्धमिति चेत् ।
न ।
[013।10-013।11]

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc