भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 181200

अशैक्षं तु पञ्चकात्
[105।23]
अत एवानन्तरोक्तात् ।
[105।24]
तस्माच्चत्वारि चित्तानि
[105।25]
तस्मात्पुनरशैक्षाच्चित्तात्समनन्तरं चत्वारि चित्तान्युत्पद्यन्ते ।
[105।25-105।26]
त्रैधातुकानि कुशलान्यशैक्षं च ॥
[105।26]
समाप्तानि द्वादश चित्तानि ॥
[105।27]
पुनः क्रियन्ते
[106।01]
द्वादशैतानि विंशतिः ।
[106।02]
कथं कृत्वा ।
[106।03]
प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा
[106।04]
त्रिषु धातुषु कुशलं चित्तं द्विधा भिद्यते ।
प्रायोगिकं चोपपत्तिलाभिकं च
[106।05]
विपाकजैयपिथिकशैल्पस्थानिकनैर्मितम् ।
[106।06]
चतुर्धा ऽव्याकृतं कामे
[106।07]
भित्त्वेति वर्त्तते ।
कामावचरमनिवृताव्याकृतं चतुर्धा भिद्यते ।
[106।07-106।08]
विपाकजमैर्यापथिकं शेल्पस्थानिकं निर्माणचित्तं च ।
[106।09]
रूपे शिल्पविवर्जितम्
[106।10]
रूपधातौ त्रिधा भिद्यते शैल्पस्थानिकं वर्जयित्वा ।
तत्र शिल्पाभावात् ।
[106।10-106।11]
एवमेतानि द्वादश चित्तानि पुनर्विशर्तिर्भर्वन्ति ।
[106।11-106।12]
षोढा कुशलमनिवृताव्याकृतं च सप्तधा भिद्यते ।

[106।12]
ऐर्यापथिकादीनि चित्तानीर्यापथाद्यभावादारूप्यधातौ न सन्ति ।
[106।13]
रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनम् ।
शैल्पस्थानिकस्य तु शब्दो ऽपि ।
[106।13-106।14]
एतानि मनोविज्ञानान्येव ।
[106।14]
पञ्च तु विज्ञानकाया ऐर्यापथिकशैल्पस्थानिकयोः प्रायोगिकाः ।
[106।15-106।16]
ऐर्यापथिकाभिनिर्हृतं मनोविज्ञानमस्ति द्वादशायतनालम्बननित्यपरे ।
[106।17]
एषां पुनर्विशतेक्श्चित्तानां कस्य कतमत्समनन्तरम् ।
[106।17-106।18]
कामावचराणां तावदष्टानां प्रायोगिकानन्तरं दश चित्तान्युत्पद्यन्ते ।
[106।18-106।19]
स्वभूमिकानि सप्ता ऽन्यत्राभिज्ञाफलात् ।
[106।19]
रूपावचरं प्रायोगिकं शैक्षल्मशैक्षं च ।
तत् पुनरष्टचित्तानन्तरम् ।
[106।19-106।20]
स्वेभ्यः कुशलक्लिष्टेभ्यः रूपावचराभ्यां प्रायोगिक क्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।
[106।20-106।21]
उपपत्तिप्रतिलम्भिकानन्तरं नव ।
[106।21-106।22]
स्वभूमिकानि सप्त ऽन्यत्राभिज्ञाफलाद्रूपा रूपावचरे च क्लिष्टे ।
[106।22]
तत् पुनरेकादशानन्तरम् ।
[106।22-106।23]
स्वेभ्यः सप्तभ्यः पूर्ववत् रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।
[106।23]
अकुशल निवृत्ताव्याकृतानन्तरं सप्त ।
[106।24]
स्वान्येव पूर्ववत् ।
ते पुनश्चतुर्दशचित्तानन्तरम् ।
[106।24-106।25]
स्वेभ्यः सप्तभ्यः रूपावचरेभ्यश्चतुर्भ्यो ऽन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् ।
[106।25-106।26]
आरुप्यावचरेभ्यस्त्रिभ्यो ऽन्यत्र प्रायोगिकात् ।
[106।26]

ऐर्यापथिकविपाकजानन्तरमष्टौ ।
[106।26-106।27]
स्वभूमिकानि षडन्यत्र प्रायोगिकाभिज्ञाफलाभ्यां रूपारुप्यावचारे च क्लिष्टे ।
[106।27-106।28]
ते पुनः सप्तचित्तानन्तरं स्वेभ्य एव पूर्ववत् ।
[106।28]
शैल्पस्थानिकानन्तरं षट् ।
स्वान्येवान्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् ।
[106।29]
तत् पुनः सप्तानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् ।
[107।01]
अभिज्ञाफलानन्तरं द्वे ।
स्वं चाभिज्ञाफलमेव ।
रूपावचरं च प्रायोगिकम् ।
[107।01-107।02]
तदप्यस्मादेव द्वयात् ।
[107।03]
रूपावचराणामिदानीं षण्णां वक्षामः ।
प्रायोगिकानन्तरं द्वादश ।
[107।03-107।05]
कामावचरे कुशले अभिज्ञाफलं च स्वानि षट् आरुप्यावचरं च प्रायोगिकंशैक्षमशैक्षं च ।
[107।05]
तत् पुनर्दशचित्तानन्तरम् ।
[107।05-107।07]
कामावचराभ्यां प्रायोगिकाभिज्ञाफलाभ्यां स्वेभ्यश्चतुर्भ्यो ऽन्यत्रेर्यापथिकविपाकजाभ्यामारूप्यावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।
[107।07]
उपपत्तिप्रतिलम्भिकानन्तरमष्टौ ।
[107।07-107।08]
कामावचरे क्लिष्टे स्वानि पञ्चान्यत्राभिज्ञाफलात् आरुप्यावचरं क्लिष्टम्।
[107।08-107।09]
तत् पुनः पञ्चभ्यः स्वेभ्यः एवान्यत्राभिज्ञाफलात् ।
[107।09]
क्लिष्टानन्तरं नव ।
[107।09-107।10]
कामावचराणि चत्वारि कुशलक्लिष्टानि स्वानि पञ्चान्यत्राभिज्ञाफलात् ।
[107।10]
तत् पुनरेकादशचित्तानन्तरम् ।
[107।11-107।12]
कामावचरेभ्य उत्पत्तिप्रतिलम्भिकैर्यापथिक विपाकजेभ्यः स्वेभ्यः पञ्चभ्यो ऽन्यत्राभिज्ञाफलात् आरूप्यावचरेभ्यस्त्रिभ्यो ऽन्यत्र प्रायोगिकात् ।
[107।12-107।13]

ऐर्यापथिकानन्तरं सप्त ।
[107।13-107।14]
कामावचरे क्लिष्टे स्वानि चत्वार्यन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामारूप्यावचरं च क्लिष्टम् ।
[107।14-107।15]
तत् पुनः पण्य्चानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् ।
[107।15]
एवं विपाकजं वक्तव्यम् ।
अभिज्ञाफलानन्तरं द्वे ।
[107।15-107।16]
स्वे एव प्रायोगिकाभिज्ञाफले ।
[107।16]
तदप्याभ्यामेव ।
[107।17]
आरूप्यावचराणामिदानीं चतुर्णां वक्ष्यामः ।
प्रायोगिकानन्तरं सप्त ।
[107।17-107।18]
रूपावचरं प्रायोगिकं स्वानि चत्वारि शैक्षमशैक्षं च ।
[107।18]
तत् पुनः षट्चित्तानन्तरम् ।
[107।18-107।19]
रूपावचरात् प्रायोगिकात्स्वेभ्यस्त्रिभ्यो ऽन्यत्र वीपाकजात् शैक्षाशैक्षाभ्यां च ।
[107।19-107।20]
उपपत्तिप्रातिलम्भिकानन्तरं सप्त ।
[107।20]
स्वानि चत्वार्यधरभूमिकानि च क्लिष्टानि ।
[107।20-107।21]
तत् पुनश्चतुर्भ्यः स्वेभ्य एव ।
[107।21]
क्लिष्टानन्तरम्ष्टौ ।
[107।21-107।22]
स्वानि चत्वारि रूपावचरे प्रायोगिकक्लिष्टे कामावचारे क्लिष्टे ।
[107।22]
तत् पुनर्दशानन्तरम् ।
[107।22-107।23]
स्वेभ्यश्चतुर्भ्यः कामावचररूपावचरेभ्यश्चोपपत्तिप्रातिंलम्भिकैर्यापथिकविपाकजेभ्यः ।
[107।23]
विपाकजानन्तरं षट् ।
[107।24]
स्वानि त्रीण्यन्यत्र प्रायोगिकादधराणि त्रीणि क्लिष्टानि ।
[107।24-107।25]

तत् पुनश्चतुर्भ्यः स्वेभ्य एव ।
[107।25]
शैक्षानन्तरं षट् ।
[107।25-107।26]
त्रैधातुकानि प्रायोगिकाणि कामावचरमुपपत्तिप्रतिलम्भिकं शैक्षमशैक्षं च ।
[107।26]
तत् पुनश्चतुर्भ्यः ।
[107।26-107।27]
प्रायोगिकेभ्यः त्रिभ्यः शैक्षाच्च ।
[107।27]
अशैक्षानन्तरं पञ्च ।
यथा शैक्षानन्तरं शैक्षमेकं हित्वा ।
[107।27-107।28]
तत् पुनः पञ्चभ्यः ।
[107।28]
त्रिभ्यः प्रायोगिकेभ्यः शैक्षाशैक्षाभ्यां चेति ।
[108।01-108।02]
किं पुनः कारणं प्रायोगिकचित्तानन्तरं वीपाकजैयापथिकशैल्पस्थानिकानिचित्तान्युत्पद्यन्ते न पुन्रेभ्यः प्रायोगिकम् ।
[108।02-108।03]
ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात् दुर्बलानभिसंस्कारवाहित्वाच्चैत्तानि न प्रायोगिकानुकूलानि ।
[108।03-108।04]
निष्क्रमणचित्तं त्वनभिस्कारवाहीति युक्तो ऽस्य प्रायोगिकचित्तानन्तरमुत्पादः ।
[108।04-108।05]
एवं तर्हि क्लिष्टेभ्यो ऽपि प्रायोगिकं नोत्पद्यते ।
[108।05]
विगुणत्वात् ।
[108।05-108।06]
तथापि क्लेशसमुदाचारपरिखिन्नस्य तत्परिज्ञानद्युक्तः प्रायोगिकसंमुखीभावः ।
[108।06-108।07]
कामावचरमुपपत्तिप्रतिलम्भिकं पटुत्वात् शैक्षाशैक्षाभ्यां रूपावचरप्रायोगिकाच्चानन्तरमुत्पद्यते ।
[108।07-108।08]
अनभिसंस्कारवाहित्वात्तस्मादेतानि नोत्पद्यन्ते ।
[108।08-108।09]
रूपावचरकिलष्टानन्तरं कामावचरमुपपत्तिप्रतिलम्भिकमुत्पद्यते ।
[108।09]
पटुत्वात् ।
[108।09-108।10]
आरूप्यावचरक्लिष्टानन्तरं तु रूपावचरमुपपत्तिप्रतिलम्भिकं नोत्पद्यते ऽपटुत्वादिति ॥
[108।11]
त्रयो मनस्काराः ॥

स्वलक्षणमनस्कारः ।
[108।11-108।12]
तद्यथा "रूपणालक्षणं रूप"मित्येवमादि ।
[108।12]
सामान्यलक्षणमनस्कारः ।
षोडशाकारसंप्रयुक्तः ।
[108।12-108।13]
अधिमुक्तिमनस्कारः ।
[108।13-108।14]
अशुभाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनादिषु ।
[108।14-108।16]
त्रिविधमनस्कारानन्तरमार्यमार्गं संमुखीकरोति तस्मादपि त्रिविधं मास्कारम् एवं सति युतमिदं भवति "अशुभासहगतं स्मृतिसंबोध्यङ्ग भावयती"ति ।
[108।16]
सामान्यमनस्कारानन्तरमेवार्यमार्ग संमुखीकरोति ।
तस्मात्तु त्रिविधमित्यपरे ।
[108।17]
अशुभया तु चित्तं दमयित्वा सामान्यमनस्कारानन्तरं मार्गं संमुखीकरोति ।
[108।18]
अतः पारंपर्यमभिसंधायोक्तम् "अशुभासहगतं स्मृतिसंवोध्यङ्गं भावयती"ति ।
[108।19]
आर्यमार्गानन्तरमपि सामान्यमनस्कारमेवेत्यपरे ।
[108।19-108।21]
स्यात्तावदनागम्यादित्रिभूमिसंनिःश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं कामावचरं सामान्यमनस्कारं संमुखीकुर्याद् ।
[108।21]
अथ द्वितीयादिध्यानसंनिःश्रयेण नियामा वक्रान्तौ कथम् ।
[108।21-108।22]
नहि कामावचरः शक्यो ऽतिविप्रकृष्टत्वात् ।
[108।22-108।23]
नच तद्भूमिकः प्रतिलब्धो ऽन्यत्र निर्वेधभागीयात् ।
[108।23]
नचार्यो निर्वेधभागीयं पुनः संमुखीकरोति ।
[108।23-108।24]
नहि प्राप्तफलस्य तत्प्रयोगसंमुखीभावो युक्त इति अन्यो ऽप्यस्य तज्जातीयः सामान्यमनस्कारो भावनां गच्छति ।
[108।25-108।26]
तद्यथा "सर्वसंकारा अनित्याः सर्वधर्मा अनात्मानः शान्तं निर्वाण"मिति तत्संमुखी करिष्यति ।
[108।26]
तदेतन्न वर्णयन्ति ।
[108।26-108।27]
अनागम्यं निश्रित्यार्हत्त्वं प्राप्नुवतः तद्भूमिकं कामावचरं वा व्युत्थानं चित्तम् ।
[108।27-108।28]

आकिञ्चन्यायतनं निश्रित्य तद्भूमिकं भावाग्रिकं वा ।
[108।28]
शेषासु स्वभूमिकमेव ।
[108।28-108।29]
कामधातौ त्रयो मनस्काराः श्रुतचिन्तामयोपपत्तिप्रतिलम्भिकाः ।
[108।29]
भावनामयो नास्ति ।
[108।30]
रूपधातौ त्रयः श्रुतभावनामयोपपत्तिप्रतिलम्भिकाः ।
चिन्तामयो नास्ति ।
[108।30-108।31]
यदा चिन्तमितुमारभन्ते तदैषां समाधिरेवोपतिष्ठते ।
[108।31-109।01]
आरूप्यधातौ भावनामयोपपत्तिप्रतिलम्भिकौ ।
[109।01-109।02]
तत्र पञ्चविधमनस्कारानन्तरमार्यमार्गसंमुखीभावो ऽन्यत्रोपपत्तिप्रतिलभ्भिकेभ्यः ।
[109।02]
प्रयोगप्रतिबद्धत्वात् ।
[109।02-109।03]
मार्गानन्तरं तूपपत्तिप्रतिलम्भिकस्यापि कामावचरस्य संमुखीभावः ।
[109।03]
पटुत्वादिति ॥
[109।04]
यानि द्वादश चित्तानि उक्तान्येषां कतमस्मिंश्चित्ते कतीनां लाभः ।
[109।05]
क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः
[109।06]
कामावचरे क्लिष्टे चित्ते संमुखीभूते षण्णां चित्तानां लाभः ।
[109।06-109।07]
तैर्समन्वागतस्य कामावचरस्य कुशलस्य विचिकित्सया कुशलमूलप्रतिसंधानाद्धातुप्रत्यागमनाच्च ।
[109।08-109।09]
अकुशलनिवृताव्याकृतयोः रूपावचरस्य च क्लिष्टस्य धातुप्रत्यागमनात् परिहाणितश्च ।
[109।09]
आरूप्यावचरस्य क्लिष्टस्य परिहाणितः शेक्षस्य च ।
[109।10]
रूपावचरे ऽपि क्लिल्ष्टे षण्णां लाभः ।
[109।10-109।11]
रूपावचराणां त्रयाणां कामावचरस्य चानिवृताव्याकृतस्य धातुप्रत्यागमनात् ।
[109।11-109।12]
आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च परिहाणितः ।

[109।12]
आरूप्यावचरे तु क्लिष्टे द्वयोर्लाभः ।
[109।12-109।13]
परिहाणितस्तस्यैव क्लिष्टस्य शैक्षस्य च ।
[109।14]
शुभे ।
[109।15]
त्रयाणां रूपजे
[109।16-109।17]
रूपावचरे कुशले त्रयाणां चित्तानां लाभस्तस्यैव कुशलस्य कामरूपावचरयोश्चानिवृताव्याकृतयोः ।
[109।18]
शैक्षे चतुर्णां
[109।19]
तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयोरारूप्यावचारस्य च कुशलस्य ।
[109।20]
आर्यमार्गेण कामरूपधातुवैराग्ये ।
[109।21]
तस्य शेषिते
[109।22]
शेषं कृतं शेषितम् ।
[109।22-109।23]
यत्र चित्ते लाभ्हो न व्याख्यातस्तत्र तस्यैव लाभो द्रष्टव्यो नान्यस्य ।
[109।23]
अन्ये पुनरभेदेनाहुः ।
[109।24-109।25]
"क्लिष्टे चित्ते नवानां हि लाभः इत्युच्यते बुधैः ।
षण्णां तु कुशले चित्ते तस्यैवा व्याकृटे खलु ॥"
[109।26]
तत्र सप्तानां कुशले चित्त इति वक्तव्यम् ।
[109।26-110।02]
कामावचरस्य कुशलस्य सम्यग्दृष्ट्या कुशलमूलप्रतिसंधानात् कामरूपावचरयोरनिवृताव्याकृतयोर्वैराग्यतः रूपारूप्यावचरयोः कुशलयोस्ततस्त्यसमाधिलाभतः शैक्षाशैक्षस्य च नियामावक्रान्त्यर्हत्त्वयोः शेषमत एवव्याख्यानादवधार्यम् ।
[110।02]
संग्रहश्लोकः ।
[110।03-110।04]
"उपपत्तिसमापत्तिवैराग्यपरिहाणिषु ।
कुशलप्रतिसंधौ च चित्तलाभो ह्यतद्वतः" ॥
[110।04]
इति ।
[110।05]
॥समाप्तः प्रत्ययप्रसङ्गः ॥

=====================================================================
[110।06]
अभिधर्मकोशभाष्ये इन्द्रियनिर्द्देशो नाम
[110।07]
द्वितीयं कोशस्थानं
[110।08]
समाप्तमिति ।
=====================================================================
[110।09]
श्रीलामावाकस्य
=====================================================================
तृतीयं कोशस्थानम्
=====================================================================
[111।02]
ओं नमो दुद्धाय ।
[111।03]
इदमिदानीं वक्तव्यम् ।
कामरूपारूप्यनैयम्येन चित्तादीनां कृतो निर्देशः ।
[111।03-111।04]
तत्र कतमे ते कामरूपारूप्यधातव इत्युच्यते
[111।05]
नरकप्रेततिर्यञ्चो मनुष्याः षड् दिवौकसः ।
[111।06]
कामधातुः
[111।07]
चतस्रो गतयः ।
[111।07-111।09]
षट् च देवनिकायास्तद्यथा चातुर्महाराजकायिका स्त्रायस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्त्तिनश्चेत्येष कामधातुः सह भाजनलोकेन ।
[111।09]
स एष कति स्थानानीत्याह
[111।10]
स नरकद्वीपभेदेन विंशतिः
[111।11]
स्थानानीति वाक्यशेषः संबध्यते ।
अष्टौ महानरकाः ।
[111।11-111।12]
संजीवः कालसूत्रः संघातो रौरवो महारौरवस्तपनः प्रतापनो ऽवीचिश्चेति ।
[111।12]
चत्वारो द्वीपाः ।
[111।12-111।13]

जम्बूद्वीपः पूर्वविदेहो ऽवरगोदानीयः उत्तरकुरुश्च ।
[111।13-111।14]
षट् चानन्तरोक्ता देवनिकायाः तिर्यश्चः प्रेताश्च विंशतिः स्थानानि ।
[111।14-111।15]
कामधातुः परनिर्मितवशवर्तिभ्यो यावदवीचिः सभाजनग्रहणेन तु यावद्वायुमण्डलम् ।
[111।15]
एतस्माच्च कामधातोः
[111।16]
ऊर्ध्वं सप्तदशस्थानो रूपधातुः
[111।17]
कथमित्याह
[111।18]
पृथक् पृथक्
[111।19]
ध्यानं त्रिभूमिकं तत्र
[111।20]
प्रथमद्वितीयतृतीयध्यानानि प्रत्येकं त्रिभूमिकानि ।
[111।21]
चतुर्थं त्वष्टभूमिकम्
[111।22]
तत्र प्रथमध्यानं ब्रह्मकायिका ब्रह्मपुरोहिताः महाब्रह्माणः ।
[111।22-111।23]
द्वितीयं परीत्ताभा अप्रमाणाभा आभास्वराः ।
[111।23-111।24]
तृतीयं परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः ।
[111।24-111।25]
चतुर्थमनभ्रकाः पुण्यप्रसवाः बृहत्फला अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा इत्येतानि सप्तदश स्थानानि रूपधातुः ।
[111।25-111।26]
सह तन्निवासिभिः सत्त्वैः षोडशेति काश्मीराः ।
[111।26-111।27]
ब्रह्मपुरोहितेष्वेव किल स्थानमुत्कृष्टतरं महाब्रह्मणः परिगण इवाभिनिर्वृत्तमेकनायकं नतु भूम्यन्तरमिति ।
[112।01]
आरूप्यधातुरस्थानः
[112।02]
नह्यरूपिणां धर्मानां स्थानमस्ति ।
[112।02-112।03]
अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा आदेशस्था इति नियमः ।
[112।03]
स तु
[112।04]

उपपत्त्या चतुर्विधः ।
[112।05]
उपपत्तिभेदेन चतुर्विध आरूप्यधातुः ।
[112।05-112।06]
यदुत आकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैवराञ्ज्ञानासंज्ञायतनमिति ।
[112।06]
नत्वेषां देशकृतमौत्तराधर्य भिद्यते ।
[112।07]
यत्रैव हि देशे तत्स्मापत्तिलाभिनश्च्यवन्ते तत्रैवोपपद्यन्ते इति ।
[112।07-112।08]
पुनश्च तस्माच्च्यवमानानां तत्रैवान्तराभवो ऽभिनिर्वर्त्तते ।
[112।09-112।10]
यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते चित्तसंततिरेवमारूप्येषु किं निश्रित्य प्रव्र्त्तते ।
[112।11]
निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः
[112।12]
निकायसभागं जीवितेन्द्रियं च निश्रित्येत्याभिधार्मिकाः ।
[112।13]
रुपिणामपि तर्हि सत्त्वानां किमर्थ न तदेव द्वयं निश्रित्य प्रवर्त्तते चित्तसन्ततिः ।
[112।14]
दुर्बलत्वात् ।
तस्याः केन बलवत्त्वम् ।
समापत्तिविशेषजत्वात् ।
[112।14-112।15]
सा हि समापत्तिर्विभूतरूपसंज्ञा ।
[112।15]
तत एव तर्हि बलवत्त्वात् प्रवर्त्तिष्यते किम् पुनर्निश्रयेण ।
[112।15-112।16]
इदं चापि वक्तव्यम् ।
[112।16-112।17]
यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते निकायसभागो जीवितेन्द्रियं च एवमरूपिणां सत्त्वानां किं निश्रित्य प्रवर्त्तते ।
[112।17]
तदेव द्वयमन्यो ऽन्यम् ।
[112।18]
रूपिणामपि तर्हि किमर्थं न तदेव द्वयमन्योन्यम् ।
दुर्बलत्वात्तयोः ।
[112।18-112।19]
तत्रेदानीं केन बलवत्त्वाम् ।
[112।19]
समापत्तिविशेषजत्वात् ।

[112।19-112।20]
तदेतच्चित्तसन्ततौ समानं चित्तचैत्तेषु वा ।
[112।20-112।21]
तस्मान्नास्त्यरूपिणां सत्त्वानां चित्तसन्ततेरन्योन्यम् निश्रय इति सौत्रान्तिकाः ।
[112।21-112।23]
अपि तु यस्याश्चित्तसन्ततेराक्षेपहेतुरवीततृष्णो रूपे तस्याः सह रूपेण संभवाद्रूपं निश्रित्य प्रवृत्तिर्यस्यास्तु हेतुर्वीततृष्णो रूपे तस्या अनपेक्ष्य रूपं प्रवृत्तिः ।
[112।23]
हेतोस्तद्विमुखत्वादिति ।
[112।24]
अथ कस्मादेते कामरूपारूप्यधातव इत्युच्यन्ते ।
स्वलक्षणधारणाद्धातुः ।
[112।25-112।26]
कामप्रतिसंयुक्तोधातुः कामधातुः रूपप्रतिसंयुक्तो धातू रूपधातुर्मध्यपदलोपाद्वज्रबालकवत् मरिचपानकवच्च ।
[112।26]
नात्र रूपमस्तित्यरूपः ।
[112।27]
अरूपस्य भाव आरुप्यम् ।
रूपणीयो वा रूप्यः ।
[112।27-112।28]
न रूप्यो ऽरूप्यस्तद्भाव आरूप्यम् ।
[112।28]
तत्प्रतिसंयुक्तो धातुरारूप्यधातुः ।
[112।28-113।01]
कामानां धातुः कामधातुः कामान् यो दधाति ।
[113।01]
एवं रूपारूप्यधातू वेदितव्यौ ।
को ऽयं कामो नाम ।
[113।01-113।02]
समासातः कवडीकाराहार मैथुनोपसंहितो रागः ।
[113।03-113।04]
"न ते कामा यानि चित्राणि लोके संकल्परागः पुरुषस्य कामः ।
तिष्ठन्ति चित्राणि तथैव लोके अठात्र धीरा विनयन्ति कामम्" ॥
इति
[113।05]
गाथाभिधानान् ।
अजीवक आर्यशारिपुत्रं प्रत्याह
[113।06-113।07]
"न ते कामा यानि चित्राणि लोके संकल्परागं वदसीह कामम् ।
भिक्षुर्भविष्यत्यपि कामभोगी संकल्पयन् सो ऽकुशलान् वितर्कान्" ।
[113।08]

आर्यशारिपुत्र आह
[113।09-113।10]
ते चेत्कामा यानि चित्राणि लोके संकल्परागो यदि ते न कामः ।
शास्ता ऽपि ते भविता कामभोगी दृष्ट्वैव रूपाणि मनोरमाणि"॥
[113।11-113।12]
किं पुनर्ये केचन धर्माः कामरूपारुप्यधातुषु समुदाचरन्ति सर्वे ते कामरूपारूप्यप्रतिसंयुक्ताः ।
[113।12]
नेत्याह ।
किं तर्हि ।
येषु कामरूपारुप्यरागा अनुशेरते ।
[113।13]
के पुनरमी कामरूपारूप्यरागाः ।
[113।13-113।14]
ये कामरूपारूप्यधातुष्वनुशेरते ।
[113।14]
इदमिदानीं तदश्ववन्धीयम् ।
कस्यायमश्वबन्धो यस्यायमश्वः ।
[113।14-113।15]
कस्यायमश्वः ।
[113।15]
यस्यायमश्वबन्धः ।
इत्युभयमपि न ज्ञायते ।
नेदमश्वबन्धीयम् ।
[113।15-113।16]
कृतनिर्देशानि हि स्थानानि कामधातौ ।
[113।16]
तेष्ववीतरागस्य यो रागः स कामरागः ।
[113।17]
यत्रानुशेते सो ऽपि धर्मः कामप्रतिसंयुक्तः ।
[113।17-113।18]
एवं रूपारूप्यरागावधोवीतरागस्य यथायोगं वेदितव्यौ ।
[113।18]
असमाहितभूमिको वा रागः कामरागः ।
[113।18-113।19]
ध्यानारूप्येषु रागो रूपारूप्यरागः ।
[113।19]
निर्माणचित्ते कथं कामरागः ।
[113।19-113।20]
श्रुत्वा परिहाय च तदास्वादनात् ।
[113।20]

निर्माणवशेन वा निर्मायक चित्तो ऽपि रागः ।
गन्धरसनिर्माणाद्वा ।
[113।21]
तस्य कामवचरत्वम् ।
रूपावचरेण तयोरनिर्माणात् ।
किं पुनरेकमेव त्रैधातुकम् ।
[113।22]
त्रैधातुकानामन्तो नास्ति ।
यावदाकाशं तावन्तो धातवः ।
[113।22-113।23]
अथ एव च नास्त्यपूर्वसत्त्वप्रादुर्भावः ।
[113।23-113।24]
प्रतिबुद्धोत्पादं चासंख्येयसत्त्वपरिनिर्वाणे ऽपि नास्ति सत्त्वानां परिक्षय आकाशवत् ।
[113।25]
कथमवस्थानं लोकधतूनां ।
[113।25-113।27]
तिर्यक्सूत्र उक्तं तद्यथा "ईषाधारे देवे वर्षति नास्ति वीचिर्वा अन्तरिका व अन्तरीक्षाद्वारिधाराणां प्रपतन्तीनाम् ।
[113।27-113।28]
एवं पूर्वस्यां दिशि नास्ति वीचिर्वा अन्तरिका वा लोकधातूनां संवर्त्तमानानां विवर्त्तमानां च ।
[113।28-113।29]
यथा पूर्वस्यां दिशि एवं दक्षिणास्यां पश्चिमायामुत्तरस्यामि"ति ।
[113।29]
नतूक्तमूर्ध्वमधश्चेति ।
[114।01]
ऊर्ध्वमप्यध्हो ऽपीत्यपरे ।
निकायान्तरपाठाद् ।
अकनिष्ठादूर्ध्वं पुनः कामधातुः ।
[114।02]
कामधातोश्चाधः पुनरकनिष्ठाः ।
यश्चैकस्मात् कामधातोर्वीतरागः स सर्वेभ्यः ।
[114।03]
एवं रूपारूप्येभ्यः ।
[114।03-114।04]
यश्च प्रथमध्यानसंनिश्रयाद्धि उत्पादयति स यत्र लोकधातौ जात उत्पादयति तत्रत्यमेव ब्रह्मलोकमुपागच्छति नान्यम् ।
[114।04-114।05]
य एते त्रयो धातव उक्ताः ।
[114।06]
नरकादिस्वनामोक्ता गतयः पञ्च तेषु
[114।07]
नरकास्तिर्यञ्चः प्रेता देवा मनुष्या इति ।

[114।07-114।08]
स्वैरेव नामभिस्तेषु पञ्च गतयः प्रोक्ताः ।
[114।08]
कामधातो चतस्रो गतयः पञ्चम्याश्च प्रदेशः ।
[114।08-114।09]
रूपारूप्यधात्वोरेकस्या देवगतेः प्रदेशः ।
[114।09]
किं पुनर्गतिनिर्मुक्ताः सन्ति धातवो यत धातुष्वित्युच्यन्ते ।
[114।10]
सन्ति कुशलक्लिष्टभाजनान्तराभवस्वभावा अपि धातवः ।
यास्तु पञ्च गतयः ।
[114।11]
ताः ।
[114।12]
अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः
[114।13]
अनिवृताव्याकृता एव गतयः ।
अन्यथा हि गतिसंभेदः स्यात् ।
[114।13-114।14]
सत्त्वाख्या एव च नचान्तराभवस्वभावाः ।
[114।14-114।15]
प्रज्ञ्यप्तिपूक्तम् "चतसृभिर्योनिभिः पञ्च गतयः संगृहीता नतु पञ्चभिर्गतिभिश्चतस्रो योनयः ।
[114।15]
किमसंबृहीतम् ।
[114।16]
अन्तराभव" इति ।
धर्मस्कन्धे ऽपि चोक्तम् "चक्षुर्धातुः कतमः ।
[114।16-114।18]
चत्वारि महाभूतान्युपादाय यो रूपप्रसादश्चक्षुश्चक्षुरिन्द्रियं चक्षुरायतनं चक्षुर्धातुनरिकस्तैर्यग्योनिकं पैतृविषयिको देव्यो मानुष्यको भावनामयो ऽन्तराभविकश्चे"ति ।
[114।18-114।19]
सूत्रे ऽपि च बहिष्कृतो ऽन्तराभवो गतिभ्यः ।
[114।19]
कस्मिन् सूत्रे ।
[114।19-114।20]
"सप्त भवा नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवो ऽन्तराभव" इति ।
[114।20-114।21]
अत्र हि पञ्च गतयः सहेतुकाः सहागमनाश्चोक्ताः ।
[114।21]
अथ एव चानिवृताव्याकृताः सिध्यन्ति ।
[114।22]

तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् ।
काश्मीराश्च सूत्रं पठन्ति ।
[114।22-114।24]
स्थविरशारिपुत्रेणोक्तं "नारकाणामायुष्मन्नास्रवाणां संमुखीभावान्नरकवेदनीयानि कर्माणि करोत्युपचिनोति ।
[114।24-114।25]
तेषामायुष्मन् कायवाङ्मनोवङ्कानां कायवाङ्मनोदोषकषायाणा नरकेषु रूपं संज्ञा वेदना संस्कारो विज्ञानं विपाको विपच्यते ।
[114।26-224।26]
निर्वृत्ते विपाके नारक इति संख्यां गच्छति ।
[114।26-114।27]
तत्रायुष्मन्नारको नोपलभ्यते ऽन्यत्र तेभ्यो धर्मेभ्य" इति ।
[114।27]
अतो ऽप्यनिवृताव्याकृता एव गतयः ।
[114।27-115।01]
प्रकरणाग्रन्थस्तर्हि परिहार्यो "गतिषु सर्वे ऽनुशया अनुशेरत" इति ।
[115।01-115।02]
प्रतिसंधिचित्तानि हि गतीनां पञ्चप्रकाराणि सन्त्यतः सप्रवेशगतिग्रहणाददोष एव ।
[115।02-115।03]
ग्रामग्रहणे ग्रामोपचार ग्रहणवत् ।
[115।03]
कुशलक्लिष्टा अपीत्यपरे ।
[115।03-115।04]
यक्तूक्तम् "कर्मभवस्य ताभ्यो बहिष्करणा"दिति ।
[115।04]
नावश्यं पृथग्वचनाद्बहिष्कृतो भवति ।
[115।04-115।05]
तद्यथा पञ्चसु कषायेषु क्लेशदृष्टिकषायौ पृथगुक्तौ ।
[115।05]
न च दृष्टयो न क्लेशाः ।
[115।05-115।06]
एवं कर्मभवो ऽपि गतिश्च स्यात् ।
[115।06]
पृथक् चास्य वचनं स्यात् गतिहेतुज्ञापनाऋथम् ।
[115।07]
अन्तराभवे ऽप्येष प्रसङ्गः ।
नायोगात् ।
गच्छन्ति तामिति गतिः ।
[115।07-115।08]
नचान्तराभवो गन्तव्यश्च्युतिदेश एवोत्पादनात् ।
[115।08]
आरूप्या अपि गतिर्न भविष्यन्ति ।

[115।09-015।09]
च्युतिदेश एवोत्पादात् ।
[115।09-115।10]
एवं तर्ह्यन्तराभवत्वादेवान्तराभवो न गतिर्गत्यन्तरालत्वात् ।
[115।10]
यदि हि गतिः स्यादन्तराभव इत्येव न स्यात् ।
[115।10-115।11]
यतर्हि स्थविरशारिपुत्रेणोक्तं "निर्वृत्ते विपाके नारक इति संख्यां गच्छती"ति ।
[115।11-115।12]
निर्वृत्ते वीपाक इत्युक्तः नतु विपाक एवेति ।
[115।12-115।13]
यत्तर्ह्यक्तं "तत्रायुष्मन्नारको नोपलभ्यते ऽन्यत्र तेभ्यो धर्मेभ्य" इति ।
[115।13-115।14]
गतिगामिनः पुद्गलद्रव्यस्य प्रतिषेधं करोति नान्यत्र स्कन्धेभ्य उपलभ्यते नारक इति न तु स्कन्धान्तरप्रतिषेधम् ।
[115।14-115।15]
अव्याकृता एव तु गतयो वर्ण्यन्ते वैभाषिकैः ।
[115।15]
ताश्च विपाकस्वभावा एवेत्येके ।
[115।15-115।16]
औपचयिकस्वभावा अपीत्यपरे ।
[115।17]
अत्रैव पञ्चगतिके धातुत्रये यथाक्रमं वेदितव्याः
[115।18]
नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः ।
[115।19]
विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्रयः
[115।20]
विज्ञानस्थितयः सप्त
[115।21-115।22]
सूत्रे उक्तः "रुपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथामनुष्यास्तदेकत्याश्च देवाः ।
[115।22]
इयं प्रथमा विज्ञानस्थितिः ।
कतमे पुनस्ते तदेकत्या देवाः ।
[115।23]
कामावचराः प्रथमघ्यानभूमिकाश्च प्रथमाभिनिर्वृत्तवर्ज्याः" ।
[115।23-115।24]
नानात्वेन काय एषामिति नानात्वकायाः ।
[115।24]
अनेकवर्णलिङ्गसंस्थानत्वात् ।
[115।24-115।25]

नानात्वेन संज्ञा नानात्वसंज्ञा ।
[115।25-115।24]
सैषामस्तीति नानात्वसंज्ञिनः ।
[115।25]
सुखदुःखादुःखासुखसंज्ञित्वात् ।
[115।25-115।27]
रूपिणः सन्ति नानात्वकाया एकत्वसंज्ञिनस्तद्यथा देवा ब्रह्मकायिका ये तत्प्रथमाभिनिर्वृत्ताः ।
[115।27]
इयं द्वितीया विज्ञानस्थितिः ।
[115।27-115।28]
ते हि प्रथमाभिनिर्वृत्ताः सर्व एकैकसंज्ञिनो भवन्ति अनेन वयं ब्रह्मणा सृष्टा इति ।
[115।28-115।29]
ब्रह्मणो ऽप्येवं भवति मयैते सृष्टा इत्यभिन्नकारसंज्ञानादेकत्वसंज्ञिनः ।
[115।29-115।31]
अन्यथैव तु महाब्रह्मण आरोहपरिणाह आकृतिविग्रहो वाग्भाषा चीवरधारणं च अन्यथा तत्पर्षद इति नानात्वकायाः ।
[115।31-116।02]
यदिदमुक्तं सूत्रे "तेषामेवं भवति इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तं यावदहो वतान्ये ऽपि सत्त्वा इहोपपद्येरन्मम सभामतायामि"ति ।
[116।02]
अस्य च सत्त्वस्यैवञ्चेतसः प्रणिधिर्वयं चेहोपपन्ना इति ।
[116।02-116।03]
कथं तमद्राक्षुः ।
[116।03]
आभास्वरस्था इत्येके ।
[116।03-116।05]
ततो हि ते प्रच्युताः कथमिदानीमलब्धायां द्वितीयध्यानसमापत्तौ तद्भूमिकं पूर्वेनिवासमस्मार्षुः लब्धायां वा कथं महाब्रह्मालम्बनां शीलव्रतपरामर्शदृष्टिं निविष्टाः ।
[116।05]
अन्तराभवस्था अद्राक्षुरित्यपरे ।
[116।06]
तत्रापि न दीर्घमध्वानमवस्थातुं संभवः प्रतिबन्धाभावादिति ।
[116।06-116।07]
कथं तेषामेवं भवति स्म "इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तमि"ति ।
[116।08-116।09]
तस्मात्तत्रस्था एव ते तस्य पूर्ववृत्तान्तं समनुस्मरन्त एव दीर्घमध्वानं तिष्ठन्तं दृष्टवन्तो दृष्ट्वा च पश्चादद्राक्ष्मेत्येषां बभूव ।
[116।09-116।10]
रुपिणः सन्ति सत्त्वा एकत्वकाया नानात्वसंज्ञिनस्तद्यथा देवा आभास्वराः ।
[116।10]
इयं तृतीया विज्ञानस्थितिः ।
[116।10-116।11]
अत्र पुनः पर्यन्तग्रहणात्सकलद्वितीयध्यानग्रहणं वेदितव्यम् ।
[116।11-116।12]

अन्यथा हि परीत्ताभा अप्रमाणाभाश्च कस्यां विज्ञानस्थितौ व्यवस्थाप्येरन् ।
[116।12-116।13]
तत्राभिन्नवर्णलिङ्गसंस्थानत्वादेकत्वकायाः ।
[116।13]
सुखसंज्ञित्वाददुःखासुखसंज्ञित्वाच्च नानात्वसंज्ञिनः ।
[116।14-116।15]
ते किल मौल्यां भूमौ सौमनस्येन्द्रियपरिखिन्नाः सामन्तकादुपेक्षेन्द्रियं संमुखीभवन्ति ।
[116।15-116।16]
सामन्तके चोपेक्षेन्द्रियपरिखिन्नाः पुनमौल्या भुमेः सौमनस्येन्द्रियं संमुखीकुर्वन्ति ।
[116।16-116।17]
यथा कामरतिपरिखिन्ना ईश्वरा धर्मरतिं प्रत्यनुभवन्ति धर्मरतिपरिखिन्नाः कामरतिमिति ।
[116।17]
ननु च शुभकृत्स्नेष्वप्येष प्रस्ङ्गः ।
[116।17-116।18]
न तेषां तेन सुखेनास्ति परिखेदः ।
[116।18]
किं कारणम् ।
[116।18-116।19]
शान्तं हि तत्सुखमशान्तं च सौमनस्यं चेतस उत्प्लावकत्वादिति सौत्रान्तिका व्याचक्षते ।
[116।19-116।20]
सूत्र उक्तं "यथा ते नानात्वसंज्ञिनः ।
[116।20-116।22]
तत्र ये सत्त्वा आभास्वरे देवनिकाये ऽचिरोपपन्ना भवन्ति नैव संवर्त्तनीकुशला न विवर्त्तनीकुशला अस्य लोकस्य ते तामर्चिषं दृष्ट्वा भीताः सन्त उद्विजन्ते संवेगमापद्यन्ते ।
[116।22]
सहैवैषा ऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वा ऽर्वागागमिष्यतीति ।
[116।23-116।24]
तत्र ये सत्त्वा आभास्वरे देवनिकाये चिरोपपन्नाः संवर्त्तनीकुशला विवर्त्तनीकुशलाश्चास्य लोकस्य ते तान् सत्त्वान् भीतानाश्वासयन्ति ।
[116।24-116।25]
मा भैष्ट माऋषाः मा भैष्ट मार्षाः ।
[116।25]
पूर्वमप्येषा ऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वा ऽत्रैवान्तर्हिते"ति ।
[116।26-116।27]
अतो ऽर्चिष आगमव्यपगमसंज्ञित्वात् भीता भीतसंज्ञित्वाच्च ते नानात्वसंज्ञिनो न सुखादुःखासुखसंज्ञित्वादिति ।
[116।27-116।28]
रूपिणः सन्ति सत्त्वा एकत्वकाया एकत्वसंज्ञिनस्तद्यथा देवाः शुभकृत्स्नाः ।
[116।28]
इयं चतुर्थी विज्ञानस्थितिः ।
[116।28-117।01]
तत्राभिन्नवर्णसंस्थानलिङ्गत्वादेकत्वकायाः ।
[117।01]

एकत्वसंज्ञिनः सुखसंज्ञित्वात् ।
[117।01-117।02]
तत्र प्रथमे ध्याने क्लिष्टया संज्ञया एकत्वसंज्ञिनः ।
[117।02-117।03]
द्वितीये कुशलया संज्ञया नानात्वसंज्ञिनस्तृतीये विपाकजया संज्ञयाएकत्वसंज्ञिनः ।
[117।03-117।04]
आरुप्यास्त्रयो यथासूत्रमित्येताः सप्त विज्ञानस्थितयः ।
[117।04]
का ऽत्र विज्ञानस्थितिः ।
[117।04-117।05]
तत्प्रतिसंयुक्ताः पञ्च स्कन्धाश्चत्वारश्च यथायोगम् ।
[117।05]
शेषं कस्मान्ना विज्ञानस्थितिः ।
प्[11705]
यस्मात्
[117।06]
शेषं तत्परिभेदवत् ।
[117।07]
किं पुनः शेषम् ।
दुर्गतयश्चतुर्थ ध्यानं भवग्रं च ।
[117।07-117।08]
अत्र हि विज्ञानपरिभेदाः सन्त्यत एव न विज्ञानस्थितिः ।
[117।08]
कः पुनः परिभेदः येन विज्ञानं परिभिद्यते
[117।08-117।09]
तत्रापायेषु दुःखा वेदना परिभेद उपधातिदत्वात् ।
[117।09]
चतुतें ध्याने आसंज्ञिकमसंज्ञिसमापत्तिश्च ।
[117।10]
भवाग्रे निरोधसमापत्तिश्चित्तसन्ततिच्छेदात् ।
पुनराह ।
[117।10-117।11]
यत्रेहस्थानां गन्तुकामता तत्रस्थानां चाव्युच्चलितुकामता ऽसौ विज्ञानस्थितिरुक्ता ।
[117।11-117।12]
अपायेषु चोभयं नास्हि ।
[117।12-117।13]
चतुर्थे ध्याने सत्त्वा उच्चलितमानसाः पृथग्जना आसंज्ञिकं प्रवेष्टुकामा आर्याः शुद्धावासान् भवाग्रानपटुप्रचारत्वान्न विज्ञानस्थितिरिति ।
[117।14]
एताश्च सप्त विज्ञानस्थितयो यथोक्ताः ।
[117।15]

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc