अभिधर्मकोशभाष्य · भाग 161180
[094।16-094।17]
तदत्र हेतुर्वस्तुशब्देनोक्तस्तस्मादस्त्येवासंस्कृतं द्रव्यत इति वैभाषिकाः ।
[094।17]
तस्य तु हेतुफले न विद्येते इति ।
गतं तावदेतत् ।
[094।18]
अथैषां फलानां कतमत् फलं कस्य हेतोः ।
[094।19]
विपाकफलमन्त्यस्य
[094।20]
विपाकहेतुरन्त्ये ऽभिहितत्वात् अन्त्यः ।
तस्य विपाकफलम् ।
[094।21]
पूर्वस्याधिपतं फलम् ।
[094।22]
कारणहेतुः पूर्वमुक्तत्वात् पूर्वः ।
तस्याधिपजं फलम् ।
[094।22-094।23]
अनावरणभावमात्रेणावस्थितस्य किमाधिपत्यम् ।
[094।23-094।24]
एतदेव अङ्गीभावो ऽपि चास्ति कारणहेतोस्तद्यथा "पञ्चसु विज्ञानकायेषुदशानामायतनानां भाजनलोके च कर्मणाम् ।
[094।24-094।25]
श्रोत्रादीनामप्यस्ति चक्षुर्विज्ञानोत्पत्तौ पारंपर्येणाधिपत्यम् ।
[094।25-094।26]
श्रुत्वा द्रष्टुकामतोत्पत्ते" रित्येवमादि योज्यम् ।
[094।27]
सभाग सर्वत्रगयोर्निष्यन्दः
[094।28]
सदृशफलत्वादनयोर्निःष्यन्दफलम् ।
[095।01]
पौरुषं द्वयोः
[095।02]
सहभूसंप्रयुक्तकहेत्वोः पुरुषकारफलम् ।
पुरुषभावव्यतिरेकात् पुरुषकारः पुरुषं एव ।
[095।03]
तस्य फलं पौरुषम् ।
को ऽयं पुरुषकारो नाम ।
यस्य धर्मस्य यत् कारित्रम् ।
[095।04]
पुरुषकार इव हि पुरुषकारः ।
तद्यथा काकजङ्घा ओषधिर्मत्तहस्ती मनुष्य इति ।
[095।05]
किमन्येषामप्यस्ति पुरुषकारफामुताहो द्वयोरेव ।
[095।05-095।06]
अन्येषामप्यस्त्यन्यत्र विपाकहेतोः ।
[095।06-095।07]
यस्मात्सहोत्पन्नं वा समनन्तरोत्पन्नं वा पुरुषकारफलं भवति ।
[095।07]
न चैवं विपाकः ।
तस्याप्यस्ति विप्रकृष्टपुरुषकारफलम् ।
[095।07-095।08]
यथा कर्षकाणां सस्यमित्यपरे ।
[095।09]
किं पुनरिदं विपाकफलं नाम किं यावदधिपतिफलम् ।
[095।10]
विपाको ऽव्याकृतो धर्मः ।
[095।11]
अनिवृताव्याकृतो हि धर्मः विपाकः ।
असत्त्वाख्यो ऽपि स्यादत आह ।
[095।12]
सत्त्वाख्यः
[095।13]
औपचयिको ऽपि स्यात् नैःष्यन्दिको ऽप्यत् आह ।
[095।14]
व्याकृतोद्भवः ।
[095।15]
कुशलाकुशलं हि विपाकं प्रति व्याकरणाद्व्याकृतम् ।
[095।15-095।16]
तस्माद्य उतरकालं भवति न सह नान्तरं स विपाकः ।
[095।16]
एतद्विपाकस्य लक्षणम् ।
[095।16-095।17]
कस्मादसत्त्वाख्यो ऽर्थः कर्मजो न विपाकः ।
[095।17]
साधारणत्वात् ।
अन्यो ऽपि हि तत्तथैव परिभोक्तुं समर्थः ।
[095।18]
असाधारणस्तु विपाकः ।
नह्यन्यकृतस्य कर्मणो ऽन्यो विपाकं प्रतिसंवेदयते ।
[095।18-095।19]
अधिपतिफलं कस्मात् प्रतिसंवेदयते ।
[095।19]
साधारणकर्मसंभूतत्वात् ।
[095।20]
निःष्यन्दो हेतुसदृशः ।
[095।21]
हेतोर्यः सदृशो धर्मः स निष्यन्दफलम् ।
तद्यथा सभागसर्वत्रगहेत्वोः ।
[095।21-095।22]
यदि सर्वत्रगहेतोरपि समानं फलं कस्मान्न सभागहेतोरेवेष्यते ।
[095।22-095।23]
यस्मात् भूमितः क्लिष्टतया चास्य सादृश्यं नतु प्रकारतः ।
[095।23-095।24]
यस्य तु प्रकारतो ऽपि सादृश्यं सो ऽभ्युपगम्यत एव सभागहेतुः ।
[095।24-095।25]
अथ एव यो यस्य सभागहेतुः सर्वत्रगहेतुरपि स तस्येति चतुष्कोटिकः क्रियते ।
[095।25]
प्रथमा कोटिरसर्वत्रगः सभागहेतुः ।
[095।25-095।26]
द्वितीया ऽन्यनैकायिकः सर्वत्रगहेतुः ।
[095।26]
तृतीयैकनैकायिकः सर्वत्रगहेतुः ।
[095।26-095।27]
चतुर्थ्यतानाकारान्स्थापयित्वेति ।
[096।01]
विसंयोगः क्षयो धिया
[096।02]
क्षयो निरोधः ।
धीः प्रज्ञा ।
तेना प्रतिसंख्या निरोधो विसंयोगफलमित्युक्तं भवति ।
[096।03]
यद्वलाज्जायते यत्तत्फलं पुरुषकारजम् ।
[096।04-096।05]
तद्यथा अधरभूमिकस्य प्रयोगचित्तस्योपरिभूमिकः समाधिः सास्रवस्यानास्रवो ध्यानचित्तस्य निर्माणचित्तमित्येवमादि ।
[096।05-096।06]
प्रतिसंख्यानिरोधस्तु यद्वलात् प्राप्यत इति वक्तव्यम् ।
[096।07-095।607]
अपूर्वः संस्कृतस्यैव संस्कृतो ऽधिपतेः फलम्
[096।08]
पूर्वोत्पन्नादन्यः संस्कृतो धर्मः संस्कृतस्यैव सर्वस्याधिपतिफलम् ।
[096।08-096।09]
पुरुषाधिपतिफलयोः किं नाना कारणम् ।
[096।09]
कर्तुः पुरुषकारफलम् ।
अकर्तुरप्यधिपतिफलम् ।
[096।10]
तद्यथा शिल्पिनि शिल्पं पुरुषकारफलमधिपतिफलं च ।
अन्येषामधिपतिफलमेव ।
[096।11]
अथैषां हेतूनां कतम्मो हेतुः कस्मिन्काले फलं प्रतिगृह्णाति ददाति वा ।
[096।12]
वर्तमानाः फलं पञ्च गृह्णन्ति
[096।13]
नातीताःः प्रतिगृहीतत्वान्नाप्यनागता निष्पुरुषकारत्वात् ।
कारणहेतुरप्येवम् ।
[096।13-096।14]
स तु नावश्यं सफल इति नोच्यते ।
[096।15]
द्वौ प्रयच्छतः ।
[096।16]
सहभूसंप्रयुक्तकहेतू वर्त्तमानौ फलं प्रयच्छतः ।
[096।16-096।17]
समानकालमेव ह्यनयेः फलदानग्रहणम् ।
[096।18]
वर्त्तमानाभ्यतीतौ द्वौ
[096।19]
फलं प्रयच्छतः सभागसर्वत्रगहेतू ।
युक्तं तावद्यदतीताविति ।
[096।19-096।20]
अथ कथं वर्त्तमानौ निष्यन्दफलं प्रयच्छतः ।
[096।20]
समनन्तरनिवर्त्तनात् ।
[096।20-096।21]
निवृत्ते तु फले तौ चाभ्यतीतौ भवतः ।
[096।21]
फलं चापि दत्तं न पुनस्तदेव दत्तः ।
[096।21-096।22]
अस्ति कुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति चतुष्कोटिकः ।
[096।22-096।23]
प्रथमा कोटिः कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहाति ।
[096।23-096।24]
द्वितीया कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते ।
[096।24]
एवं तु वक्तव्यम् ।
[096।24-096।25]
स्यात्ता एव प्रतिसंदधानस्य तृतीया असमुच्छिन्नकुशलमूलस्य शेषास्ववस्थासु ।
[096।25]
चतुर्थ्यतानाकारान् स्थापयित्वा ।
[096।26]
अकुशलस्य तु प्रथमा कोटिः ।
[096।26-096।28]
कामवैराग्यमनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्विजहाति द्वितीया कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते ।
[096।28]
एवं तु वक्तव्यम् ।
[096।28-096।29]
स्यात्ता एव परिहीयमाणस्य ।
[096।29]
तृतीया कामावीतरागस्य शेषास्ववस्थासु ।
[096।29-097।01]
चतुर्थ्यतानाकारान् स्थापयित्वा ।
[097।01-097।02]
एवं निवृताव्याकृतस्याप्यर्हत्त्वप्राप्तिपरिहाणितो यथायोगं योज्यम् ।
[097।02]
अनिवृताव्याकृतस्य पश्चात्पादकः ।
[097।02-097।03]
यास्तावत् ददाति प्रतिगृह्णात्यपि सः ।
[097।03]
स्यात् प्रतिगृह्णाति न ददात्यर्हतश्चरमाः स्क्न्धाः ।
[097।03-097।04]
सालम्बननियमेन तु क्षणशः ।
[097।04]
कुशलः सभागहेतुः फलं प्रतिगृह्लाति न ददातीति ।
चतुष्कोक्टिकः ।
[097।05]
प्रथमा कोटिः कुशलचित्तानन्तरं क्लिष्टमव्याकृतं वा चित्तं संमुखीकरोतीति ।
[097।06]
द्वितीया विपर्ययात् ।
तृतीया कुशलचित्तानन्तरं कुशलमेव ।
[097।06-097।07]
चतुर्थ्यतानाकारान् स्थापयित्वा ।
[097।07]
एवमकुशलादयो ऽपि योज्याः ।
कथं पुनः फलं प्रतिगृहीतं भवति ।
[097।08]
तस्य बीजभावोपगमात् ।
[097।09]
एको ऽतीतः प्रयच्छति
[097।10]
विपाकहेतुरतीत एव फलं प्रयच्छति ।
यस्मान्न सह वा समनन्तरो वा ऽस्ति विपाकः ।
[097।11]
पुनरन्ये चतुर्विधं फलमाहुः ।
प्रतिष्ठाफलम् ।
[097।11-097।12]
यथा जलमण्डलं वायुमण्डलस्य यावत्तृणादयः पृथिव्याः ।
[097।12]
प्रयोगफलम् ।
यथा ऽशुभाया यावदनुत्पादज्ञानम् ।
[097।13]
सामग्रीफलम् ।
यथा चक्षुरादीनां चक्षुर्विज्ञानादीनि ।
भावनाफलम् ।
[097।13-097।14]
यथा रूपावचरस्य चित्तस्य निर्माणम् ।
[097।14-097।15]
एतत्तु पुरुषकाराधिपतिफलयोरन्तर्भूतम् ।
[097।15]
उक्ता हेतवः फलानि च ॥
[097।16-097।17]
तत्र कतमे धर्माः कतिभिः हेतुभिरुत्पद्यन्त इत्याह समासत इमे चतुर्विधा धर्मास्तद्यथा क्लिष्टा धर्मा विपाकजाः प्रथमानास्रवास्तेभ्यश्च शेषाः ।
[097।17-097।18]
के पुनः शेषाः ।
[097।18]
विपाकवर्ज्याः अव्याकृताः प्रथमानास्रवक्षणवर्ज्याश्च कुशला इति ।
[097।18-097।19]
एते चतुर्विधा धर्माः ।
[097।20-097।21]
क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम् ।
विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः
[097।22]
क्लिष्टा धर्मा विपाकहेतुं हित्वा शेषेभ्यः पञ्चभ्यो जायन्ते ।
[097।22-097।23]
विपाकजा सर्वत्रगहेतुं हेत्वा शेषेभ्यः पञ्चभ्य एव ।
[097।23-097।24]
शेषा धर्मास्तौ विपाकसर्वत्रगहेतू हित्वा शेषेभ्यश्चतुर्भ्र्यो जायन्ते ।
[097।24-097।25]
प्रथमानास्रवास्तौ च विपाकसर्वत्रगहेतू सभागहेतुं च हित्वा शेषेभ्यः त्रिभ्यो जायन्ते ।
[097।26]
कतमे इमे धर्माश्चतुर्विधा निर्दिष्टा इत्याह
[097।27]
चित्तचैत्ताः
[097।28]
अथ ये चित्तविप्रयुक्ता रूपिणश्च धर्मास्ते कथमित्याह ।
[097।29]
तथा ऽन्ये ऽपि संप्रयुक्तकवर्जिताः ।
[097।30-098।01]
प्रयुक्तकहेतुनैकेन वर्जिताः अन्ये ऽपि क्लिष्टादयो धर्मास्तथैवोत्पद्यन्ते यथा चित्तचईत्ताः ।
[098।01]
तत्र क्लिष्टाश्चतुभ्र्यो विपाकजाश्च ।
[098।01-098।02]
शेषास्त्रिभ्यः प्रथमानास्रवा द्वाभ्याम् ।
[098।02]
एकहेतुसंभूतो नास्ति धर्मः ॥
समाप्तो हेतुविस्तरः ॥
[098।03]
प्रत्ययाः कतमे ।
[098।04]
चत्वारः प्रत्यया उक्ताः
[098।05]
क्ववोक्ताः ।
सूत्रे ।
"चतस्रः प्रत्ययताः ।
[098।05-098।06]
हेतुप्रत्ययता समनन्तरप्रत्ययता आलम्बनप्रत्ययता अधिपतिप्रत्ययता चे"ति ।
[098।06]
प्रत्ययजातिः प्रत्ययता ।
तत्र
[098।07]
हेत्वाख्यः पञ्च हेतवः
[098।08]
कारणहेतुवर्ज्याः पण्य्च हेतवो हेतुप्रत्ययः ।
[098।09]
चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः ।
[098।10]
अर्हतः पश्चिमानपास्योत्पन्नाश्चित्तचैत्ताः समनन्तरप्रत्ययः ।
[098।10-098।11]
समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्ययः ।
[098।11]
अत एव रूपं न समनन्तरप्रत्ययो विषमोत्पत्तेः ।
[098।12-098।13]
तथाहि कामावचरस्य रूपस्यानन्तरं कदाचित् कामावचरं रूपावचरं चाविज्ञप्तिरूपमुत्पद्यते कदाचित्कामावचरं चानास्रवं चेति व्याकुलो रूपसंमुखीभावः ।
[098।14-098।15]
अव्याकुलस्तु समनन्तरप्रत्ययः अनिरुद्ध एवैकस्मिन्नौप चयिकरूपसन्ताने द्वितीयोत्पत्तेरिति भदन्तवसुमित्रः ।
[098।15]
अल्पबहुतरोत्पत्तेरिति भदन्तः ।
[098।15-098।16]
कदाचिद्धि महतो रूपादल्पमुत्पद्यते ।
[098।16]
तद्यथा पलालराशेर्भस्म ।
कदाचिदल्पाद्वहूत्पद्यते ।
[098।16-098।17]
तद्यथा वटनिकायाः क्रमेण यावदनेकशाखावरोहो न्यग्रोध इति ।
[098।17-098।18]
ननु चास्ति चैत्ताना मप्यल्पबहुतरोत्पत्तिः ।
[098।18-098।19]
कुशलाकुशलाव्याकृतेषु चित्तेसु सवितर्कसविचारादौ च समाधित्रये ।
[098।19]
अस्ति जात्यन्तरं प्रति न स्वजातिम् ।
[098।19-098।20]
नहि कदाचिद्वहुतरा वेदनोत्पद्यते संज्ञादयो वा ।
[098।20-098।21]
किं पुनः स्वजातेरेव समनन्तरप्रत्ययो भवति ।
[098।21]
नैतदस्ति ।
[098।21-098।22]
सकल एव कलापः सकलस्य कलापान्तरस्य समनन्तरप्रत्ययो नत्वल्पकाद्वेदनादिद्रव्यात् प्रभूतं वेदनादि द्रव्यमुत्पद्यत इत्येतावदेवात्रोत्तम् ।
[098।23]
सन्तानसभागिकास्तु मन्यन्ते "स्वजातेरेव समनन्तरप्रत्ययः ।
[098।23-098।24]
तद्यथा चित्तं चित्तस्यैव वेदना वेदनाया एवे"ति विस्तरः ।
[098।24-098।26]
यदा त्वक्लिष्टान्तरं क्लिष्टमुत्पद्यते तस्य क्लेशस्य पूर्वनिरुद्धः क्लेशः समनन्तरप्रत्ययस्तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्येति ।
[098।26]
तदेतन्न वत्स्र्यते ।
[098।26-098।27]
प्रथमानास्रवचित्तानुत्पत्तिप्रसङ्गत् चित्तविप्रयुक्ता अपि संस्काराः ।
[098।27-098।29]
अत एव व्याकुलसंमुखीभावान्न समनन्तरप्रत्ययस्त्रैवातुकाप्रतिसंयुक्तानां युगपत् संमुखीभावात् ।
[098।29]
कस्मादनागतो नेष्यते समनन्तरप्रत्ययः ।
[098।29-099।01]
व्याकुलत्वादनागतस्याध्वनः पूर्वोत्तरता ऽभावात् ।
[099।01-099।02]
कथं तर्हि भगवान् जानाति अमुष्यानागतत्त्यानन्तरमिदमनागतं भावीति ।
[099।02]
अतीतसांप्रतानुमानात् ।
[099।02-099।03]
अतीतं किलाध्वानं पश्यति भगवानेवञ्जातीयकात्कर्मणः एवञ्जातीयको वीपाकः उत्पन्नो धर्माद्वा धर्मः ।
[099।04]
इदं चापि संप्रत्येवञ्जातीयकं कर्म ।
[099।04-099।05]
तस्मादतो ऽप्येवञ्जातीयको विपाक उत्पत्स्यते धर्माद्वा धर्म इति जानाति ।
[099।05]
नचान्यत् ज्ञानमानुमानिकं भवति ।
[099।05-099।07]
यस्मादतीतसांप्रतानुमानेन भगवान् विकीर्णान्यनागतानि द्रव्याणि प्रत्यक्षमीक्षित्वा जानात्यनेन पुद्गलेनैवंविधं कर्म कुर्वतेदमनागतं फलं परिगृहीतमिति ।
[099।07-099।08]
एवं तर्हि भगवान् पूर्वान्तमदृष्ट्वा ऽपरान्तं न जानीयात् ।
[099।08]
अन्ये पुनराहुः ।
[099।08-099।10]
फलचिह्नभूतः सत्त्वानां सन्ततौ चित्तविप्रयुक्तः संस्कारविशेषो ऽस्ति यं व्यवलोक्य भगवाननागतं जानात्यसंमुखीकृत्वापि ध्यानमभिज्ञां चेति ।
[099।10-099।11]
नैमिक्तिको हि नाम भगवान् स्यादेवं सति न पुनः साक्षात्कारी ।
[099।11]
तस्मात्सर्वमिच्छामात्रेण भगवान् जानातीति सौत्रान्तिकाः ।
[099।12]
"अचिन्त्यो हि बुद्धानां बुद्धिविषय" इत्युक्तं भगवता ।
[099।12-099।13]
अथ असत्यनागतस्य क्रमनियमावस्थाने कस्मादग्रधर्मानन्तरं दुःखे धर्मज्ञानक्षान्तिरेवोत्पद्यते नान्यो धर्मः ।
[099।14]
एवं यावद्वर्जो पमानन्तरं क्षयज्ञानमेवोत्पद्यते नान्यो धर्म इति ।
[099।15]
यस्य यत्प्रतिबद्ध उत्पादः स तस्यानन्तरमुत्पद्यते ।
[099।15-099।16]
तद्यथा वीजादीनामङ्कुरादयो विनापि समनन्तरप्रत्ययेनेति ।
[099।16]
कस्मादर्हतश्चरमाश्चित्तचैत्ता न समनन्तरप्रत्ययः ।
[099।17]
अन्यचित्तासंबन्धनात् ।
[099।17-099।18]
ननु चैवं समनन्तरनिरुद्धं चित्तं मनो भवतीत्यनन्तर विज्ञानाभावात् मनो ऽपि चरमं चित्तं न प्राप्नोति ।
[099।18-099।19]
आश्रयभावप्रतिभावितं मनो न कारित्रप्रभावितमित्यस्त्येवाश्रयभावः ।
[099।19-099।20]
कारणान्तरवैकल्यात्तु विज्ञानान्तरं नोत्पद्यत इति ।
[099।20-099।21]
कारित्रप्रभावितस्तु समनन्तरप्रत्ययस्तेन यो धर्मः फलं क्प्रतिगृहीतः स सर्वैरपि धर्मईः सर्वप्राणिभिर्वा न शक्यं प्रतिब्न्द्धुं यथा नोत्पद्यते ।
[099।21-099।22]
ये धर्माश्चित्तसमनन्तराश्चित्तनिरन्तरा अपि ते ।
[099।22]
चतुष्कोटिकः ।
[099।22-099।23]
प्रथमा कोटिरचित्तकायाः समापत्तेर्व्युत्थान चित्तं द्वितीयादयश्च समापत्तिक्षणाः ।
[099।23-099।24]
द्वितीया कोटिः प्रथमस्य समापत्तिक्षणस्य सचित्तकायाश्चावस्थाया जात्यादयः ।
[099।24-099।25]
तृतीया कोटिः प्रथमः समापत्तिक्षणः सचित्तिका चावस्था ।
[099।25-099।26]
चतुर्थी कोटि द्वीर्तीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च ।
[099।26-099।27]
ये धर्माश्चित्तसमनन्तराः समापत्तिनिरन्तरा अपि ते ।
[099।27]
चतुष्कोटिकः ।
[099।27-100।01]
ये तृतीयावतुर्थ्यौ ते प्रथमाद्वितीये ये प्रथमाद्वितीये ते तृतीयाचतुर्थ्यौ कर्त्तव्ये ।
[100।01-100।02]
कथमिदानीं दूरान्तरविच्छिन्नं व्युत्थानचित्तं समापत्तिचित्तस्य समनन्तरमित्युच्यते ।
[100।02]
चित्तान्तराव्यवहितत्वात् ॥
उक्तःः समनन्तरप्रत्ययः ॥
[100।03]
आलम्बनं सर्वधर्माः ।
[100।04]
यथायोगं चक्षुर्विज्ञानस्य ससंप्रयोगस्य रूपम् ।
श्रोत्रविज्ञानस्य शब्दः ।
[100।04-100।05]
ग्राणविज्ञानस्य गन्धः ।
[100।05]
जिह्वाविज्ञानस्य रसः ।
कायविज्ञानस्य स्प्रष्टव्यम् ।
[100।05-100।06]
मन्नोविज्ञानस्य सर्वधर्माः ।
[100।06]
यो धर्मो यस्य धर्मस्यालम्बनं न कदाचित्स धर्मस्तद्धर्मस्य नालम्बनम्।
[100।07]
अनालम्ब्यमानो ऽपि तथालक्षणत्वाद् ।
[100।07-100।08]
यथा ऽनिध्यमानमपीन्धनमुच्यते काष्ठादिकं तथालक्षाणत्वादिति ।
[100।08-100।09]
त एते चित्तचैता धर्मा आयतनद्रव्यलक्षणनियमेनालम्बने यथास्वं नियताः ।
[100।09]
किमाश्रयनियमेनापि नियताः ।
ओमित्याह ।
[100।09-100।10]
उत्पन्नास्त्वाश्रयसहिता अनुत्पन्ना ह्यतीता आश्रयविश्लिष्टाः ।
[100।10]
अतीता अप्याश्रयसहिता इत्यपरे ॥
[100।11]
उक्त आलम्बनप्रत्ययः ॥
[100।12]
कारणाख्यो ऽधिपः स्मृतः
[100।13]
य एव कारणहेतुः स एवा धिपतिप्रत्ययः ।
[100।13-100।14]
अधिको ऽयं प्रत्यय इत्यधिपतिप्रत्ययः ।
[100।14-100।15]
आलम्बनप्रत्ययो ऽपि सवन्धर्माः अधिपतिप्रत्ययो ऽपीति किमस्त्याधिक्यम् ।
[100।15]
न जातु सहभुवो धर्मा आलम्बनं भवन्ति ।
[100।15-100।16]
भवन्ति त्वधिपति प्रत्यय इत्यस्यैवाधिक्यम् ।
[100।16]
अधिकस्य वा प्रत्ययः ।
[100।16-100।17]
सर्वः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य ।
[100।17]
स्याद्धर्मो धर्मस्य चतुर्भिरपि प्रत्ययैर्न प्रत्ययः ।
[100।17-100।18]
स्यात्स्वभावः स्वभावस्य परभावो ऽपि ।
[100।18]
स्यात्संस्कृतमसंस्कृतस्यासंस्कृतं चासंस्कृतस्य ।
[100।19-100।18]
अथैते प्रत्ययाः कारित्रं कुर्वन्तः किमवस्थे धर्मे कुर्वन्ति ।
[100।19-100।20]
हेतुप्रत्ययस्तावत् पञ्चविध उक्तः ।
[100।20]
तत्र
[100।21]
निरुध्यमाने कारित्रं द्वी हेतू कुरुतः ।
[100।22]
निरुध्यमानं नाम वर्क्तमानम् ।
निरोधाभिमुखत्वात् ।
[100।22-100।23]
तत्र सहभूसंप्रयुक्तकहेतु कारित्रं कुरुतः ।
[100।23]
सहोत्पन्ने ऽपि फले तयोर्व्यापारः ।
[100।24]
त्रयः ।
[100।25]
जायमाने
[100।26]
जायमानं नामानागतमुत्पादाभिमुखम् ।
[100।26-100।27]
तत्र सभागसर्वत्रगविपाकहेतवः कारित्रं कुर्वन्ति ।
[100।27]
एवं तावद्धेतुप्रत्ययः ।
[101।01]
ततो ऽन्यौ तु प्रत्ययौ तद्विपर्ययात्
[101।02-101।03]
येन कारित्रन्यायेन हेतुप्रत्ययौ द्विधा कृत्वोक्तस्तद्विपर्ययात्समनतरप्रत्ययालम्बनप्रत्ययौ वेदितव्यौ ।
[101।03-101।04]
समन्तरप्रत्ययो जायमाने कारित्रं करोत्यवकाशदानात् ।
[101।04]
आलम्बनप्रत्ययो निरुध्यमाने ।
वर्त्तमानैश्चित्तचैतैर्ग्रहणात् ।
[101।04-101।05]
अधिपतिप्रत्ययस्तु सर्वस्यामवस्थायामनावरणभावेनावस्थित इत्येतदेवास्य कारित्रम् ॥
[101।06]
उक्ताः सकारित्राः प्रत्ययाः ॥
[101।07]
अथ कतमो धर्मः कतिभिः प्रत्ययैरुत्पद्यते ।
[101।08]
चतुर्भिश्चत्तचैत्ता हि
[101।09]
तत्र हेतुप्रत्यय एषां सर्वे पञ्च हेतवः ।
[101।09-101।10]
समन्तरप्रत्ययः पूर्वकाश्चित्तचैत्ता अन्यैरव्यवहिताः ।
[101।10]
आलम्बनप्रत्ययो यथायोगं पञ्च विषयाः सर्वे धर्माश्च ।
[101।10-101।11]
अधिपतिप्रत्ययः स्वभावर्ज्याः सर्वधर्माः ।
[101।12]
समापत्तिद्वयं त्रिभिः ।
[101।13]
निरोधासंज्ञिसमापत्त्यो रालम्बनप्रत्ययो नास्ति ।
नहि ते आलम्बिके ।
[101।13-101।14]
हेतुप्रत्ययस्तुतयोर्द्विविधो हेतुः ।
[101।14-101।15]
सहभूहेतुश्च जात्यादयः सभागहेतुश्च पूर्वोत्पन्ना समानभूमिकाः कुशला धर्माः ।
[101।15]
समनन्तरप्रत्ययः ससंप्रयोगं समापत्तिचित्तम् ।
[101।15-101।16]
अधिपतिप्रत्ययः पूर्ववत् ।
[101।16]
चित्ताभिसंस्कारजत्वादेते समापत्ती चित्तसमनन्तरे ।
[101।16-101।17]
चित्तोत्पत्तिविबन्धकत्वात् न समनन्तरप्रत्ययः ।
[101।18]
द्वाभ्यामन्ये तु जायन्ते
[101।19-101।20]
अन्ये तु विप्रयुक्ता रूपिणश्च धर्मा हेत्वधिपतिप्रत्ययाभ्यां जायन्ते यथाविहितमेव ।
[101।20-101।21]
आह तु "प्रत्ययेभ्यो भावा उपजायन्ते न पुनः सर्वस्यैव जगतः ईश्वरपुरुषप्रधानादिकं कारणमिति ।
[101।21]
को ऽत्र हेतुः ।
यदि खलु हेतुकृतां सिद्धिं मन्यसे ।
[101।22]
ननु च अथ एवास्य वादस्य व्युदासः प्राप्नोत्येकं कारणमीश्वरादिकं सर्वस्येति ।
[101।23]
अपिच
[101।24]
नेश्वरादेः क्रमादिभिः
[101।25]
यदि ह्येकमेव कारणमीश्वरः स्यादन्यद्वा युगपत्सर्वेण जगता भवितव्यंस्यात् ।
[101।26]
दृश्यते च भावानां क्रमसंभवः ।
[101।26-101।27]
स तर्हि च्छन्दवशा दीश्वरस्य स्यादयमिदानीमुत्पद्यतामयं निरुध्यतामयं पश्चादिति ।
[101।27]
च्छन्दभेदात्तर्हि सिद्धमनेकं कारणं स्यात् ।
[101।27-102।01]
स चापि च्छन्दर्भेदो युगपत्स्यात्तद्धेतोरीश्वरस्याभिन्नत्वात् ।
[102।01-102।02]
कारणान्तरभेदापेक्षणे वा नेश्वर एव कारणं स्यात् ।
[102।02-102।04]
तेषामपि च क्रमोत्पत्तौ कारणान्तरभेदापेक्षणादनवस्थाप्रसङ्ग स्यादित्यनन्तरभेदायाः कारणपरंपराया अनादित्वाभ्युपगमादयमीश्वरकारणाधिमुक्तः शाक्ययूर्वीयमेव न्यायं नातिवृत्तः स्यात् ।
[102।04-102।05]
योगपद्ये ऽपीश्वरच्छन्दानां जगतो न यौगपद्यम् ।
[102।05]
यथाच्छन्दमुत्पादनादि ति चेत् ।
न ।
[102।05-102।06]
तेषां पश्चाद्विशेषाभावात् ।
[102।06]
कश्च तावदीश्वरस्येयता सर्गप्रयासेनार्थः ।
[102।06-102।08]
यदि प्रीतिस्तां तर्हि नान्तरेणोपाये शक्तः कर्तुमिति न तस्यामीश्वरः स्यात्तथैव चान्यस्मिन् ।
[102।08-102।09]
यदि चेश्वरो नरकादिषु प्रजां बहुभिश्चेतिभिरूपसृष्टां सृष्ट्वा तेन प्रीयते नमो ऽस्तु तस्मै तादृशायेश्व्राय ।
[102।09]
सुगीतश्चायं तमारभ्य श्लोको भवति ।
[102।10]
"यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
[102।11]
मांसशोणितमज्जादो यत्ततो रुद्र उच्यत" इति ।
[102।12-102।13]
एकं खल्वपि जगतः कारणं परिगृह्णता ऽन्येषामर्थानां प्रत्यक्षः पुरुषकारो निह्गृह्ण्तः स्यात् ।
[102।13]
सहापि च कारणैः कारक मीश्वरं कल्पयता केवलो भक्तिवादः स्यत् ।
[102।14]
कारणेभ्यो ऽन्यस्य तदुत्पत्तौ व्यापारादर्शनात् ।
[102।14-102।15]
सहकारिषु चान्येषु कारणेष्वीश्वरो नेश्वरः स्यात् ।
[102।15]
अथादिसर्ग ईश्वरहेतुकः ।
[102।15-102।16]
तस्याप्यन्यानपेक्षत्वादीश्वरवदनादित्वप्रसङ्ग ।
[102।16]
एवं प्रधाने ऽपि यथायोगं वाच्यम् ।
[102।16-102।17]
तस्मान्न लोकस्यैकं कारणमस्ति ।
[102।17]
स्वान्येवैषां कर्माणि तस्यां तस्यां जातौ जनयन्ति ।
[102।17-102।18]
अकृतबुद्धयस्तु वराकाः स्वं स्वं विपाकफलं चानुभवन्त ईश्वरमपरं मिथ्या परिकल्पयन्ति ।
[102।19]
गतमेतद्यत्तु खलु तदुक्तं "द्वाभ्यामन्ये तु जायन्त" इति ।
[102।20]
अथ कथं भूतानि भूतानां हेतुप्रत्ययः ।
[102।21]
द्विधा भूतानि तद्धेतुः
[102।22]
भूतहेतुरित्यर्थः ।
सभागसहभूहेतुभ्यां
[102।23]
भौतिकस्य तु पञ्चधा ।
[102।24]
भौतिकस्य तु भूतानि पञ्चप्रकारो हेतुः ।
कथम् ।
[102।25]
"जननान्निःश्रयात् स्थानादुपस्तम्भोगवृंहणात्"
[102।26]
सो ऽयं कारणहेतुरेव पुनः पण्य्चधा भिन्नः ।
[102।26-102।27]
जननहेतुस्तेभ्य उत्पत्तेः ।
[102।27-102।28]
निश्रयहेतुर्जातस्य भूतानुविधायित्वात् पुरुषकारफलादाचार्यादिनिःश्रयवत् ।
[102।28]
प्रतिष्ठाहेतुराधारभावात् ।
चित्रकृत्यवत् ।
[103।01]
उपस्तम्भहेतुरनुच्छेदहेतुत्वात् ।
[103।01-103।02]
एवमेषां जन्मविकाराधारस्थितिवृद्धिहेतुत्वमाख्यातं भवति ।
[103।03]
त्रिधा भौतिकमन्योन्यं ।
[103।04]
हेतुसहभूसभागविपाकहेतुभिः कारणहेतुरविशेषयत्तित्वात् न सर्वदा गण्यते ।
[103।04-103।05]
तत्र सहभूहेतुरन्योन्यं चित्तानुपरिवर्त्ति कायवाक्कर्म ।
[103।05]
नान्यदुपादायरूपम् ।
[103।05-103।06]
सभागहेतुः सर्वं पूर्वोत्पन्नं सभागस्य ।
[103।06]
विपाकहेतुर्यस्य वाक्कर्मणश्चक्षुरादयो विपाकः ।
[103।07]
भूतानामेकधैव तत्
[103।08]
भूतानां तु तद्भूतिकं रूपं विपाकहेतुरेव यस्य कायवाक्कर्मणो भूतानि विपाकाः ।
[103।09-103।10]
अभेदेन चित्तचैत्ताः समनन्तरप्रत्यय उक्ता नियमस्तु नोक्तः कस्य चित्तस्यानन्तरं कस्योत्पक्तिरिति ।
[103।10]
स इदानीं वक्तव्यः ।
[103।10-103।11]
तत्र तावत् समासेन द्वादश चित्तानि ।
[103।11]
किमर्थमित्याह
[103।12]
कुशलाकुशलं कामे निवृतानिवृतं मनः ।
[103।13]
कामधातौ चत्वारि चित्तानि ।
[101।13]
कुशलमकुशलं निवृताव्याकृतमनिवृताव्याकृतं च ।
[103।14]
रूपारूप्येष्वकुशलादन्यत्र
[103।15]
रूपधातावकुशलं नास्ति ।
त्रीणि सन्ति ।
एवमारूप्यधातौ ।
[103।15-103।16]
इत्येतानि सानुस्रवाणि दश चित्तानि भवन्ति ।
[103।17]
अनास्रवं द्विधा
[103।18]
शैक्षमशैक्षं च ।
एवमेतानि द्वादश चित्तानि भवन्ति ।
तत्र
[103।19]
कामे नव शुभाच्चित्ताच्चित्तानि
[103।20]
अनन्तरमिति पश्चाद्वक्ष्यति ।
[103।20-103।21]
कामधातौ यत्कुशलं चित्तं तस्मादनन्तरं नव चित्तान्युत्पद्यन्ते ।
[103।21]
स्वभूमिकानि चत्वारि ।
रूपावचरे द्वे ।
[103।21-103।22]
समापत्तिकाले कुशलं प्रतिसन्धिकाले निवृतम् ।
[103।22]
आरूप्यावचरं निवृतमेव प्रतिसन्धिकाले ।
[103।22-103।23]
अतिविप्रकृष्टत्वात् न कुशलम् ।
[103।23]
आरूप्या हि कामधातोश्चतसृभिर्दूरताभिर्दूरे ।
[103।23-103।24]
आश्रयाकारालम्बनप्रतिपक्षदूरताभिः ।
[103।24]
शैक्षमशैक्षं चेति ।
[103।25]
अष्टाभ्य एव तत् ।
[103।26]
तत्र पुनः कामावचरं कुशलं चित्तमष्टाभ्यः समनन्तरमुत्पद्यते ।
[103।26-103।27]
स्वभूमिकेभ्यश्चतुर्भ्यो रूपावचराभ्यां द्वाभ्याम् ।
[103।27]
कुशलाच्च व्युत्थानकाले ।
[103।27-103।28]
निवृताच्च क्लिष्टसमापत्त्युत्पीडितस्याधारकुशलभूमिसंश्रयणात् ।
[103।28]
शैक्षाशैक्षाभ्यां च व्युत्थानकाले ।
[104।01]
दशभ्यो ऽकुशलं
[104।02-104।03]
शैक्षाशैक्षे हित्वा कामधातौ हि प्रतिसन्धिमुखतः सर्वेभ्यो रूपारूप्यचित्तेभ्यः समनन्तरमकुशलं चित्तमुत्पद्यते ।
[104।04]
तस्माच्चत्वारि ।
[104।05]
अकुशलाच्चित्तात् समनन्तरं चित्तान्युत्पद्यन्ते स्वभूमिकान्येव ।
[104।05-104।06]
यथा ऽकुशलमुक्तं कामधातौ
[104।07]
निवृतं तथा
[104।08]
दशभ्य एव समनन्तरम् ।
तस्माच्च पुनश्चत्वार्येव ।
[104।09]
पञ्चभ्यो ऽनिवृतं
[104।10]
काम इति वर्त्तते ।
अनिवृताव्याकृतं चित्तं पञ्चभ्यः समनन्तरमुत्पद्यते ।
[104।10-104।11]
स्वभूमिकेभ्य श्चतुर्भ्यो रूपावचराच्च कुशलान्निर्माणचित्तम् ।
[104।12]
तस्मात्सप्त चित्तान्यनन्तरम् ।
[104।13]
अनिवृताव्याकृटात्कामावचरात्स्वभूमिकानि चत्वारि ।
रूपावचरे द्वे ।
[104।13-104।14]
कुशलं निर्माणचित्तादनन्तरम् ।
[104।14]
क्लिष्टम् प्रतिसन्धिकाले ।
[104।14-104।15]
आरूप्यावचरं च क्लिष्टम् प्रतिसन्धिकाल एव ।
[104।16]
रूपे दशैकं च शुभात्
[104।17]
रूपे धातौ यत्कुक्शलं चित्तं तस्मादनन्तरमेकादश चित्तान्युत्पद्यन्ते ।
[104।17-104।18]
आरुप्यावचरमनिवृताव्याकृतं वर्जयित्वा ।
[104।19]
नवभ्यस्तदनन्तरम्
[104।20]
रूपावचरं तु कुशलं चित्तं नवभ्यः समनन्तरमुत्पद्यते ।
[104।20-104।21]
कामावचरं क्लिष्टद्वयमारुप्यावचरं चानिवृताव्याकृतं हित्वा ।
[104।22]
अष्टाभ्यो निवृतं
[104।23]
निवृताव्याकृतं रूपावचरं चित्तमष्टभ्य उत्पद्यते ।
[104।23-104।24]
कामावचरं क्लिष्टद्वयं शैक्षाशैक्षे च स्थापयित्वा ।
[104।25]
तस्मात् षट्
[104।26]
रूपावचरान्निवृताव्याकृतादनन्तरं षट् ।
[104।26-104।27]
स्वभूमिकानि त्रीणि कामावचराणि चानिवृताव्याकृतं मुक्त्वा ।
[104।28]
त्रिभ्यो ऽनिवृतं पुनः ।
[104।29]
रूपावचरमनिवृताव्याकृतं त्रिभ्यः स्वभूमिकेभ्य एव ।
[105।01]
तस्मात् षट्
[105।02]
स्वभूमिकानि त्रीणि ।
कामावचरे च क्लिष्टे ।
आरूप्यावचरं च ।
[105।02-105।03]
यथा रूपधातावनिवृताव्याकृतमुक्तम् ।
[105।04]
एवमारूप्ये तस्य नीतिः ।
[105।05]
ततस्तदप्यनिवृताव्याकृतं त्रिभ्य एवोत्पद्यते स्वभूमिकेभ्यः ।
[105।05-105।06]
तस्मादपि च षडेवोत्पद्यन्ते ।
[105।06]
स्वभूमिकानि त्रीणि अधरधातुकानि च क्लिष्टानि ।
[105।07]
शुभात्पुनः
[105।08]
नव चित्तानि
[105।09]
आरूप्यावचरातृ कुक्शलान्नव चित्तान्युत्पद्यन्ते ।
[105।09-105।10]
कामावचरं कुक्शलं कामरूपावचरे चानिवृताव्याकृते हित्वा ।
[105।11]
तत् षण्णां
[105।12]
आरूप्यावचरं कुक्शलं स्वेभ्यस्त्रिभ्यो रूपावचरात् कुक्शलाच्छैक्षाशैक्षाभ्यां च ।
[105।13]
निवृतात्सप्त
[105।14-105।15]
आरूप्यावचरान्निवृतात्स्वभूमिकानि त्रीणि रूपावचरं कुशलं निवृतं च कामावचरं क्लिष्टद्वयम् ।
[105।16]
तत्तथा ।
[105।17]
तदपि सप्तभ्य एवोत्पद्यते ।
कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे च हित्वा ।
[105।18]
चतुर्भ्यः शैक्षम् ।
[105।19]
त्रैधातुकेभ्यः कुशलेभ्यः शैक्षाच्च ।
[105।20]
अस्मात्तु पञ्च
[105।21]
तान्येव चत्वार्यशैक्षं च ।
[105।22]
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0