भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मकोशभाष्य · भाग 141160

[083।14-083।16]
तेन ह्यालम्बनात् मनोविज्ञानमुत्पद्यते कुशलाकुशालं यतः क्रमेण पश्चाच्चक्षुर्विज्ञानमिति कारणपरपरया तस्यापि प्रत्ययीभावादस्ति सामर्थ्यम् ।
[083।16]
एवमन्यस्यापि प्रतिपत्तव्यम् ।
एषा हि दिक् ।
[083।16-083।17]
उक्तः कारणहेतुः ।
[083।18]
सहभूर्ये मिथःफलाः ।
[083।19]
मिथः पारंपर्येण ये धर्माः परस्परफलास्ते परस्परः सहभूहेतुर्यथा ।
कथम् ।
[083।20]
भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत्
[083।21]
चत्वारि महाभूतान्यन्योन्यं सहभूहेतुः ।
चित्तं चित्तानुवर्त्तिनां धर्माणां ते ऽपि तस्य ।
[083।22]
संस्कृतलक्षणानि लक्ष्यस्य सो ऽपि तषाम् ।
[083।22-083।23]
एवं च कृत्वा सर्वमेव संस्कृतं सहभूहेतुर्यथायोगम् ।
[083।23-083।24]
विनापि चान्योन्यफलत्वेन धर्मो ऽनुलक्षणानां सहभूहेतुर्न तानि तस्येत्युपसंख्यातव्यम् ॥
[083।25]
के पुनरेते चित्तानुवर्त्तिनो धर्माः ।
[083।26]
चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च ।
[083।27]
चित्तानुवर्त्तिनः
[083।28]
सर्वेचित्तसंप्रयुक्ताः ।
ध्यानसंवरो ऽनास्रवसंवरस्तेषां च ये जात्यादयश्चित्तस्य च ।
[083।28-084।01]
एते धर्माश्चित्तानुवर्त्तिन उच्यन्ते ।
[084।01]
कथमेते चित्तमनुपरिवर्त्तन्ते ।
समासतः
[084।02]
कालफलादिशुभतादिभिः
[084।03]

कालस्तावच्चितेनैकोत्पादस्थितिनिरोधतया एकाध्वपतितत्वेन च ।
[084।03-084।04]
फलादिभिरेकफलविपाकनिःष्यन्दतया ।
[084।04]
पूर्वकस्त्वेकशब्दः सहार्थे वेदितव्यः ।
[084।05]
शुभतादिभिः कुशलाकुशलाव्याकृतचित्ते कुशलाकुशलाव्याकृततया ।
[084।05-084।06]
एवं दशभिः कारणैश्चित्तानुपरिवर्त्तिन उच्यन्ते ।
[084।06-084।07]
तत्र सर्वाल्प चित्तमष्टपञ्चाशतो धर्माणां सहभूहेतुः ।
[084।07-084।08]
दशानां महाभूमिकानां चत्त्वारिंशतस्तल्लक्षणानामष्टानां च स्वलक्षणानुलक्षाणानाम् ।
[084।08]
तस्य पुनश्चतुःपञ्चाशद्धर्माः सहभूहेतुः ।
[084।08-084।09]
स्वान्यनुलक्षणानि स्थापयित्वा ।
[084।09]
चतुर्दशेत्यपरे ।
दश महभूमिकाः स्वान्येव च लक्षणानीति ।
[084।09-084।10]
तदेतन्न वर्णयन्ति ।
[084।10]
प्रकरणग्रन्थो ह्येवं विरुध्येत ।
[084।10-084।11]
"स्याद्दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः ।
[084।11-084।13]
सत्कायदृष्टेस्तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः ।
[084।13]
सत्कायदृष्टेक्श्च हेतुर्यदेतत् स्थापितमि" ति ।
[084।13-084।15]
ये तर्हि "तत्संप्रयुक्तानां च धर्माणा मि" त्येतन्न पथन्ति तैरप्येतत् पथितव्यम् अर्थतो वैवं बोद्धव्यमिति काश्मीराः ।
[084।15]
यक्तावत् सहभूहेतुना हेतुः सहभ्वपि तत् ।
[084।15-084।16]
स्यात्तु सहाभूर्न सहभूहेतुना हेतुः ।
[084।16]
धर्मस्यानुलक्षणानि ।
तानि चान्योन्यम् ।
[084।16-084।19]

अनुपरिवर्त्त्यनुलक्षनानि चैवं चित्तस्य तानि चान्योन्यं सप्रतिघं चोपादायरूपमन्योन्यमप्रतिघं च किञ्चित् सर्वं च भूतैः प्राप्तयश्च सहजाः प्राप्तिमतः सहभुवो न सहभूहेतुरनेकफलविपाक निष्यन्दत्वात् ।
[084।19-084।20]
न चैताः सहचरिष्णवः पूर्वमप्युत्पत्तेः पश्चादपीति ।
[084।20]
सर्वमप्येतत् स्यात् ।
[084।20-084।21]
किं तु प्रसिद्धहेतुफलभावानां बीजादीनामेष न्यायो न दृष्ट इति वक्तव्यमेतत् कथं सहोत्पन्नानां धर्माणां हेतुफलभाव इति ।
[084।22]
तद्यथा प्रदीपप्रभयोरङ्कुरच्छाययोश्च ।
[084।22-084।24]
संप्रधार्यं तावदेतत्किं प्रभायाः प्रदीपो हेतुराहोस्वित् पूर्वोत्पन्नैव सामग्री सप्रभस्य प्रदीपस्य सच्छायस्याङ्दुरस्योत्पत्तौ हेतुरिति ।
[084।24]
इतस्तर्हि भावाभावयोस्तद्वत्त्वात् ।
[084।24-084।25]
एतद्धि हेतुहेतुमतो लक्षणमाचक्षतेर् हेतुकाः ।
[084।25-084।26
यस्य भावाभावयोः यस्य भावाभावौ नियमतः स हेतुरितरो हेतुमानिति ।
[084।26-085।01]
सहभुवाम् च धर्माणामेकस्य भावे सर्वेषां भाव एकस्याभावे सर्वेषामभाव इति युक्तो हेतुफलभावः ।
[085।01]
स्यात्तावत्सहोत्पन्नानां परस्परं तु कथम् ।
[085।02-085।03]
अथ एवाह एवं तर्ह्यविनिर्भाविणो ऽप्युपादायरूपस्यान्योन्यमेष प्रसङ्गः भूतैश्च सार्धं चित्तानुलक्षणादीनां चे चित्तादिभिः ।
[085।03-085।04]
त्रिदण्डान्योन्यबलावस्थानवत्तर्हि सहभुवां हेतुफलभावः सिध्यति ।
[085।04]
मीमांस्यं तावदेतत् ।
[085।04-085।06]
किमेषां सहोत्पन्नबलेनावस्थानमाहोस्वित् पूर्वसामग्रीवशात्तथैवोत्पाद इति अन्न्यदपि च तत्र किञ्चिद्भवति सूत्रकं शङ्कुको वा पृथिवी वा धारिका ।
[085।06-085।07]
एषामपि नामान्ये ऽपि सभागहेतुत्वादयो भवन्तीति सिद्धः सहभूहेतुः ।
[085।08]
सभागहेतुः कतमः ।
[085।09]
सभागहेतुः सदृशाः
[085।10-085।11]
सदृशा धर्माः सदृशानां धर्माणां सभागहेतुस्तद्यथा कुशलाः पञ्च स्कन्धाः कुशलानामन्योय्यं क्लिष्टाः क्लिष्टानामव्याकृता अव्याकृतानां रूपमव्याकृतं पञ्चानाम् ।
[085।12]
चत्वारस्तु न रूपस्येत्यपरे ।
न्यूनत्वात् ।

[085।12-085।13]
कललं कललादीनां दशानामवस्थानाम् अर्वुदायो ऽर्वुदादीनामेकैकापर्हासेनैकस्मिन्निकायसभागे ।
[085।13-085।14]
अन्येषु तु समानजातीयेषु दशाप्यवस्था दशानाम् ।
[085।14-085।15]
बाह्येष्वपि यवो यवस्य शालिः शालेरिति विस्तरेण योज्यम् ।
[085।15-085।16]
ये तु रूपं रूपस्य नेच्छन्ति सभागहेतुं तेषामेष ग्रन्थः इच्छाविघातायसंप्रवर्त्तते "अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपति" रिति ।
[085।17]
किं पुनः सर्वे सदृशानां सभागहेतः ।
नेत्याह ।
किं तर्हि ।
[085।18]
स्वनिकायभुवः ।
[085।19]
स्वो निकायो भूश्चैषां त इमे स्वनिकायभुवः ।
[085।19-085।20]
पञ्च निकायाः दुःखदर्शनप्रहातव्यो यावत् भावनाप्रहातव्यः ।
[085।20]
नव भूमयः ।
[085।20-085।21]
कामधातुरष्टौ च ध्यानारूप्याः ।
[085।21]
तत्र दुःखदर्शनहेयाः दुःखदर्शनहेयानां सभागहेतुर्नान्येषाम् ।
[085।21-085।22]
एवं यावत् भावनाहेया भावनाहेयानाम् ।
[085।22-085।24]
ते ऽपि कामावचराः कामावचराणां प्रथमध्यानभूमिकाः प्रथमध्यानभूमिकानां यावत् भवाग्रभूमिकास्तद्भूमिकानामेवणान्यषाम् ।
[085।24]
ते ऽपि न सर्वे ।
किं तर्हि ।
[085।25]
अग्रजाः ।
[085।26]
पूर्वोत्पन्नाः पश्चिमानामुत्पन्नानुत्पन्नानां सभागहेतुः ।
अनागता नैव सभागहेतुः ।
[085।27]
एवमतीते कुत एतत् आह ।
शास्त्रात् ।
"सभागहेतुः कतमः ।

[085।27-086।02]
पूर्वोत्पन्नानि कुशलमूलानिपश्चादुत्पन्नानां कुशलमूलानां तत्संप्रयुक्तानां च धर्माणां स्वधातौ सभागहेतुना हेतुः ।
[086।02]
एवमतीतान्यतीतप्रत्युत्पन्नानाम् ।
[086।02-086।03]
अतीतप्रत्युत्पन्नान्यनागतानामिति वक्तव्यम्" ।
[086।03-086।04]
इदपि शास्त्रं "यो धर्मो यस्य धर्मस्य हेतुः कदाचित्स धर्मस्तस्य न हेतुः ।
[086।04]
आह ।
[086।04-086।05]
न कदाचिदिति सहभूसंप्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोषः एषः ।
[086।05-086।06]
यस्तु मन्यते अनागतो ऽपि स धर्म उत्पद्यमानावस्थायां सभागहेतुत्वे नियतीभूतो भवत्यतस्तां चरमावस्थामभिसंधायोक्तं "न कदाचिन्न हेतुरि"ति ।
[086।06-086।08]
तस्या यमपरिहारो यस्मात्स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चात् भवति ।
[086।08-086।10]
इहपि च प्रश्ने यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित् स धर्मस्तस्य धर्मस्य न समनन्तर इति शक्यमनया कल्पनया वक्तुं स्यान्न कदाचिदिति ।
[086।10]
कस्मादेवमाह ।
[086।10-086।11]
यदि स धर्मो नोत्पन्नो भवतीति द्विमुखसंदर्शनार्थं यथा तत्र तथेहापि कर्त्तव्यम् ।
[086।11]
यथा चेह तथा तत्रेति ।
[086।11-086।12]
एवं सति को गुणो लभ्यत इत्यकौशल मेवात्र शास्त्रकारस्यैव संभाव्येत ।
[086।12-086।13]
तस्मात् पूर्वक एवात्र परिहारः साधुः ।
[086।13-086।15]
यत्तर्हीदमुक्तम् "अनागतानां सत्कायदृष्टिं तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यं तत्सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुर्यत्तु स्थापितं तत्सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुरि"ति ।
[086।15-086।16]
अनागतसत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वेत्येवमेतत् कर्त्तव्यमर्थतो ऽपि चैवं बोद्धव्यमिति ।
[086।16-086।18]
इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते "सर्वधर्माश्चतुष्के नियता हेतौफले आश्रये आलम्वने नियता" इति ।
[086।18]
हेतुरत्र संप्रयुक्तकहेतुः सहभूहेतुश्च ।
[086।18-086।19]
फलं पुरुषकारफलमधिपतिफलं च ।
[086।19]
आश्रयश्चक्षुरादिरालम्बनं रूपादिकमिति द्रष्टव्यम् ।

[086।19-086।20]
ननु चैवं सति सभाग हेतुरभूत्वा हेतुर्भवतीति प्राप्तम् ।
[086।20-086।21]
इष्यत एवावस्थां प्रति न द्रव्यम् ।
[086।21]
अवस्थाफलल्ं हि सामर्ग्यं न द्रव्यफलम् ।
[086।21-086।22]
किं पुनः स्याद्यदि विपाकहेतुवदनागतो ऽपि सभागहेतुः स्यात् ।
[086।22]
शास्त्रे तस्य ग्रहणं स्यात् ।
[086।22-086।23]
स एव हि फलदानग्रहणक्रियासमर्थस्तस्यैव ग्रहणाददोषः ।
[086।23]
नैतदस्ति ।
[086।23-086।24]
निःष्यन्दफलेन हि सफलः सभागहेतुः ।
[086।24]
तच्चानागतस्यायुक्तं पूर्वपश्चिमता ऽभावात् ।
[086।24-086।25]
न चोत्पन्नमनागतस्य निष्यन्दो युज्यते ।
[086।25]
यथा ऽतीतं वर्त्तमानस्य ।
मा भूद्धेतोः पूर्वं फलमिति ।
[086।26]
नास्त्यनागतः सभागहेतुः ।
विपाकहेतुरपि एवमनागतो न प्रप्नोति ।
[086।26-086।27]
वीपाकफलस्य पूर्वं सह चायोगादनागते चाध्वति पूर्वपश्चिमता ऽभावात् ।
[086।27]
नैतदस्ति ।
[086।28-086।29]
सभागहेतोर्विना पौर्वापर्येण सदृशः सदृशस्य सभागहेतुरित्यन्योन्यहेतुत्वादन्योन्यनिःष्यन्दता संप्रसज्येत ।
[086।29]
नचान्योन्यनिःष्यन्दता युक्तिमतीति ।
[087।01]
नत्वेव विपाकहेतोर्विना पौर्वापर्येणान्योन्यहेतुफलता संप्रसज्यते ।
[087।01-087।02]
भिन्नलक्षणात्वाद्धेतुफलयोः ।
[087।02-087।03]
तस्मादवस्थाव्यव्स्थितं एव सभागहेतुर्लक्षणव्यवस्थितस्तुपाकहेतुरित्यनागतो ऽपि न वार्यते ।

[087।04]
यदुक्तं स्वभूमिकः सभागहेतुर्भवतीति किमेष नियमः सर्वस्य सास्रवस्यैष नियमः ।
[087।05]
अन्यो ऽन्यं नवभूमिस्तु मार्गः
[087।06]
सभागहेतुरित्यधिकारः ।
[087।06-087।07]
अनागम्ये ध्यानान्तरिकायां चतुर्षुरनेषु त्रिषु चारूप्येषु मार्गसत्यमन्यो ऽन्यं सभागहेतुः ।
[087।07]
किं कारणम् ।
[087।07-087।08]
आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितस्तद्भमि काभिस्तृष्णाभिरस्वीकृतत्वात् ।
[087।08-087।09]
अतः मानजातीयस्यान्यभूमिकस्यापि सभागहेतुर्भवति ।
[087।09]
स पुनः ।
[087।10]
समविशिष्टयोः
[087।11]
न्यूनस्य हेतुर्भवति ।
[087।11-087।12]
तद्यथा दुःखे धर्मज्ञानक्षान्तिस्तस्या एवानागतायाः सभागहेतुविशिष्टस्यच यावदनुत्पादज्ञानस्य ।
[087।12-087।13]
अनुत्पादज्ञानमनुत्पादज्ञानस्यैवान्यविशिष्टभावात् ।
[087।13]
दर्शनभावना ऽशैक्ष्यमार्गास्त्रिध्येकेषाम् ।
[087।13-087।14]
तत्रापि मृद्विन्द्रियमार्गो मृदुतीक्ष्णेन्द्रियमार्गस्य हेतुः ।
[087।14]
तीक्ष्णेन्द्रियमार्गस्तीक्ष्णेन्द्रियमार्गस्यैव ।
[087।14-087।15]
तद्यथा श्रद्धानुसारिश्रद्धाधिमुक्तसमयविमुक्त्तमार्गाः षण्णां चतुर्णां द्वयोश्च ।
[087।15-087।16]
धर्मानुसारिष्टप्राप्तासमयविमुक्तमार्गाः त्रयाणां द्वयोरेकस्य ।
[087।16-087।17]
कथं पुनरूर्ध्वंभूमिकस्याधोभूम्मिकोमार्गः समो वा भवति विशिष्टो वा ।
[087।17]
इन्द्रियतो हेतूपचयतश्च ।
[087।17-087।18]
तत्र दर्शनादिमार्गाणां मृदुमृद्वादीनां चोत्तरोत्तर हेतूपचिततराः ।

[087।18-087।19]
यद्यप्येकसन्ताने श्रद्धार्नुसारिमार्गयोरसंभवः उत्पन्नस्त्वनागतस्य हेतुः ।
[087।20]
किं पुनः मार्ग एव समविशिष्टयोः सभागहेतुर्भवति ।
नेत्याह ।
[087।20-087।21]
लौकिका अपि हि
[087।22]
प्रयोगजास्तयोरेव
[087।23]
समविशिष्टयोः सभागहेतुर्भवन्ति न न्यूनस्य ।
यथा कतमे इत्याह
[087।24]
श्रुतचिन्तामयादिकाः ।
[087।25-087।26]
एते हि प्रायोगिकाः श्रुतचिन्ताभावनामया गुणाः समविशिष्टयोरेव हेतुर्नन्यूनानाम् ।
[087।26-087।27]
तद्यथा कामावचराः श्रुतमयाः श्रुतचिन्तामयानां चिन्तामयाचिन्तामयानाम् ।
[087।27]
भावनामयाभावात् ।
[087।27-087।28]
रूपावचराः श्रुतमयाः श्रुतभावनामयानां चिन्तामयाभावात् ।
[087।28]
भावनामया भावनामयानामेव ।
[087।28-087।29]
आरूप्यावचराभावनामया भावनामयानामेव ।
[087।29-088।01]
तेषामपि नवप्रकारभेदात् मृदुमृदवः सर्वेषां मृदुमध्या अष्टानामित्येषानीतिः ।
[088।01-088।02]
उपपत्तिप्रतिलम्भिकास्तु कुशला धर्माः सर्वे नवप्रकाराः परस्पर सभागहेतुः ।
[088।02]
क्लिष्टा अप्येवम् ।
[088।02-088।03]
अनिवृताव्याकृतास्तु चतुर्विधाः ।
[088।03]
विपाकजा ऐर्यपथिकाः शैल्पस्थानिकाः निर्माणचित्तसहजाश्च ।
[088।03-088।04]
ते यथाक्रमं चतुस्त्रीद्वेकेषां सभागहेतुः निर्माणचित्तमपोइ कामावचर चतुर्ध्यनफलम् ।
[088।05]
तत्र नोत्तरध्यानफलमधरध्यानफलस्य ।

[088।05-088।06]
नह्याभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं भवति ।
[088।06-088।07]
तद्यथा शालिर्यवादीनां मा भून्निष्फलः प्रयत्न इति ।
[088।07-088।08]
अत एव चाहुः स्यादुत्पन्नो ऽनास्रवो ऽनुत्पन्नस्यास्रवस्य न हेतुः स्यात्तद्यथा दुःखे धर्मज्ञानमुत्पनामनुत्पन्नानां दुःखे धर्मज्ञानक्षान्तीनाम्।
[088।08-088।09]
सर्वं च विशिष्टं न्यूनस्य न हेतुः ।
[088।09-088।10]
स्यादेकसन्ताननियतः पूर्वप्रतिलब्धो ऽनास्रवो धर्मः पश्चादुत्पन्नस्य नहेतुः ।
[088।10-088।11]
स्यादनागताः दुःखे धर्मज्ञानक्षान्तयो दुःखे धर्मज्ञानस्ययस्मान्न पूर्वतरं फलमस्त्यनागतो वा सभागहेतुः ।
[088।11-088।12]
स्यात् पूर्वोत्पन्नो ऽनास्रवो धर्मः पश्चादुत्पन्नस्यानास्रवस्य न हेतुः ।
[088।12]
स्यादविमात्रो न्यूनस्य ।
[088।12-088।14]
तद्यथोत्तरफलपरिहीणस्यावर फलसंमुखीभावे दुःखे धर्मज्ञानप्राप्तिश्चोत्तरोत्तर क्षण सहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां न्यूनत्वादिति ।
[088।14]
उक्तः सभागहेतुः ।
[088।15]
संप्रयुक्तकहेतुस्तु चित्तचैत्ताः ।
[088।16]
एवं सति भिन्नकालसन्तानजानाम प्यन्योन्यसंप्रयुक्तकहेतुत्वप्रसङ्गः ।
[088।16-088।17]
एकाकारा लम्बनास्तर्हि ।
[088।17]
एवमपि स एव प्रसङ्गः ।
एककालास्तर्हि ।
[088।17-088।18]
एवं तर्हि सति भिन्नसन्तानजानामपि प्रसङ्गो नवचन्द्रादीनि पश्यताम् ।
[088।18]
तस्मात्तर्हि
[088।19]
समाश्रयाः
[088।20]
समान आश्रयो येषां ते चित्तचैत्ताः अन्योन्यं संप्रयुक्तकहेतुः ।
[088।20-088।22]
समान इत्यभिन्नस्ततद्यथा य एव चक्षुरिन्द्रियक्षणश्चक्षुर्विज्ञानस्याश्रयः स एव तत्संप्रयुक्तानां वेदनादीनामेव यावन्मनः ।
[088।22]

इन्द्रियक्षणो मनोविज्ञानत्संप्रयुक्टानां वेदितव्यः ।
[088।22-088।23]
यः संप्रयुक्तकहेतुः सहभूहेतुरपि सः ।
[088।23]
अथ केनार्थेन सहभूहेतुः केन संप्रयुक्तकहेतुः ।
[088।24]
अन्योन्यफलार्थेन सहभूहेतुः ।
सहसार्थिकान्योन्यबलमार्गप्रयाणवत् ।
[088।24-088।25]
पञ्चभिः समताभिः संप्रयोगार्थेन संप्रयुक्तकहेतुः ।
[088।25-088।26]
तेषामेव सार्थिकानां समानान्नपानादिपरिभोगक्रियाप्रयोगवत् ।
[088।26-088।27]
एकेनापि हि विना सर्वेण न संप्रयुज्यन्त इत्ययमेषां हेतुभावः ।
[088।27]
उक्तः संप्रयुक्तकहेतुः ।
[089।01]
सर्वत्रगहेतुः कतमः ।
[089।02]
सर्वत्रगाख्यः क्लिल्ष्टानां स्वभूमौ पूर्वसर्वगाः ।
[089।03]
स्वभूमिकाः पूर्वोत्पन्नाः सर्वत्रगा धर्माः पश्चिमानां क्लिष्टानां धर्माणां सर्वत्रगहेतुः ।
[089।04]
तान् पुनः पश्चादनुशयनिर्देशकोशस्थान एव व्याख्यास्यामः ।
[089।04-089।05]
क्लिष्टधर्मसामान्यकारणत्वेनायं सभागहेतोः पृथक् व्यवस्थाप्यते ।
[089।05-089।06]
निकायान्तरीयाणामपि हेतुत्वादेषां हि प्रभावेणान्यनैकायिका अपि क्लेशा उपजायन्ते ।
[089।06-089।07]
किमार्यपुद्गलस्यापि क्लिष्टा धर्माः सर्वत्रगहेतुकाः ।
[089।07-089।08]
सर्व एव क्लिष्टा धर्मा दर्शनप्रहातव्यहेतुका इति काश्मीराः ।
[089।08-089।09]
तथा प्रकारणेषूक्तं "दर्शनप्रहातव्यहेतुकाः धर्माः कतमे ।
[089।09]
क्लिष्टा धर्माः यश्च दर्शनप्रहातव्यानां धर्माणां विपाक इति ।
[089।09-089।10]
अव्याकृतहेतुका धर्माः कतमे ।
[089।10]
अव्याकृताः संस्कृता धर्मा अकुशलाश्चेति ।

[089।10-089।13]
दुःखसत्यं स्यात् सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरिति विस्तरो यावन्न सत्कायदृष्टेः तेषां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत् क्लिष्टम् दुःखसत्य"मिति ।
[089।13]
इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते "स्याद्धर्मो ऽकुशलो ऽकुशलहेतुक एव ।
[089।14-089।15]
स्यादार्यपुद्गलः कामवैराग्यात् परिहीयमाणो यां तत्प्रथमतः क्लिल्ष्टाञ्चेतनां संमुखीकरोती"ति ।
[089।15]
अप्रहीणहेतुमेतत् संधायोक्तम् ।
[089।15-089।16]
दर्शनप्रहातव्यो हि तस्या हेतुः प्रहीणत्वान्नोक्तः ।
[089।16]
उक्तः सर्वदगहेतुः ।
[089।17]
विपाकहेतुः कतमः ।
[089।18]
विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः
[089।19]
अकुशलाः कुशलसास्रवाश्च धर्मा विपाकहेतुः ।
विपाकधर्मत्वात् ।
[089।19-089।20]
कस्मादव्याकृता धर्माः विपाकं न निर्वर्त्तयन्ति ।
[089।20]
दुर्बलत्वात् ।
पूति बीजवत् ।
[089।21]
कस्मान्नानास्रवाः ।
तृष्णानभिष्यन्दितत्वात् ।
अनभिष्यन्दितसारबीजवत् ।
[089।21-089।22]
अप्रतिसंयुक्ता हि किंप्रतिसंयुक्तं विपाकमभिनिर्वर्त्तयेयुः ।
[089।22]
शेषास्तूभयविधत्वान्निर्वर्त्तयन्ति ।
[089।23]
साराभिष्यन्दितबीजवत् ।
[089।23-089।24]
कथमिदं विज्ञातव्यं विपाकस्य हेतुर्विपाकहेतुराहोस्विद्विपाक एव हेतुर्विपाकहेतुः ।
[089।24]
किं चातः ।
[089।24-089।25]
यदि विपाकस्य हेतुर्विपाकहेतुः "वीपाकजं चक्षुरि"ति एतन्न प्राप्नोति ।

[089।25-089।26]
अथ विपाक एव हेतुर्विपाकहेतुः "कर्मणो विपाक" इत्येतन्न प्राप्नोति ।
[089।26]
नैष दोषः ।
"उभयथापि योग" इत्युक्तं प्राक् ॥
[089।26-089।27]
अथ विपाक इति को ऽर्थः ।
[089।27]
विसदृशः पाको विपाकः ।
अन्येषां तु हेतूनां सदृशः पाकः ।
[089।27-090।01]
एकस्योभयथेति वैभाषिकाः ।
[090।01]
नैव तु तेषां पाको युक्तः ।
[090।01-090।02]
पाको हि नाम सन्ततिपरिणामविशेषजः फलपर्यन्तः ।
[090।02-090।03]
न च सहाभूसंप्रयुक्तहेत्वोः सन्ततिपरिणामविशेषजं फलमस्ति ।
[090।03]
न चापि सभागहेत्वादीनां फलपर्यन्तो ऽस्ति ।
[090।03-090।04]
पुनः पुनः कुशलाद्यासंसारफलत्वात् ।
[090।04]
कामधातावेकस्कन्धको विपाकहेतुरेकफलः प्रत्ययस्तज्जात्यादयश्च ।
[090।05]
द्विस्कन्धक एकफलः कायवाक्कर्म तज्जात्यादयश्च ।
[090।05-090।06]
चतुस्कन्धक एकफलः कुशलाकुशलाश्चित्तचैत्ताः सह जात्यादिभिः ॥
[090।06-090।07]
रूपधातावेकस्कन्धको वीपाकहेतुरेकफलः प्राप्तिरसंज्ञिसमापत्तिश्च सह जात्यादिभिः ।
[090।07-090।08]
द्विस्कन्धक एकफलः प्रथमे ध्याने विज्ञप्तिः सह जात्यादिभिः ।
[090।08-090।09]
चतुस्कन्धक एकफलः कुशले चेतस्यसमाहिते ।
[090।09]
पञ्चस्कन्धक एकफलः समाहिते ॥
[090।09-090।10]
आरूप्यधातावेकस्कन्धको विपाकहेतुरेकफलः प्राप्तिर्निरोधसमापतिश्च सह जात्यादिभिः ।
[090।10-090।11]
चतुस्कन्धकः कुशलाश्चित्तचैत्ताः तज्जात्यादयश्च ।

[090।11-090।12]
अस्ति कर्म यस्यैकमेव धर्मायतनं वीपाको विपच्यते जीवितेन्द्रियम् ।
[090।12]
यस्य मन आयतनं तस्य द्वे मनोधर्मायतने ।
[090।12-090।13]
एवं यस्य स्प्रष्टव्यायतनं यस्य कायायतनं तस्य त्रीणि कायस्प्रष्टव्यधर्मायतनानि ।
[090।13-090।14]
एवं यस्य रूपगन्धरसायतनानि ।
[090।14]
यस्य चक्षुरायतनं तस्य चत्वारि चक्षुःकायस्प्रष्टव्यधर्मायतनानि ।
[090।15]
एवं यस्य श्रोत्रग्राणजिह्वायतनानि ।
[090।15-090।16]
अस्ति तत् कर्म यस्य पञ्च षट् सप्ताष्टौ नव दशैकादशायतनानि विपाको विपच्यते ।
[090।16-090।17]
विचित्राविचित्रफलत्वात् कर्मणो बाह्यबीजवत् ।
[090।17]
तद्यथा बाह्यानि वीजानि कानिचिद्विचित्रफलानि भवन्ति ।
[090।17-090।18]
तद्यथा पद्मदाडिमन्यग्रोधादीनाम् ।
[090।18]
कानिचिदविचित्रफालानि तद्यथा यवगोदूमादीनाम् ।
[090।19]
एकाध्विकस्य कर्मणस्त्रैयध्विको विपाको विपच्यते ।
[090।19-090।20]
न तु द्वैयध्विकस्याप्येकाध्विको मा भूदतिन्यूनं हेतोः फलमिति ।
[090।20-090।21]
एकमेकक्षनिकस्य बहुक्षाणिको ननु विपर्ययात् ।
[090।21-090।22]
न च कर्मणा सह विपाको विपच्यते नाप्यनन्तरं समनन्तरप्रत्ययाकृष्टत्वात् समनन्तरक्षणस्य ।
[090।22]
प्रवाहापेक्षो हि विपाकहेतुः ।
[090।23]
अथ क एषां हेतूनामध्वनियमः ।
[090।23-090।24]
उक्त एषामर्थतो ऽध्वनियमः नतु सूत्रित इत्यतः सूत्र्यते ।
[090।25]
सर्वत्रगः सभागश्च द्वयध्वगौ
[090।26]
अतीतप्रत्युत्पन्नावेव अनागतौ न स्तः ।

उक्तं चात्र कारणम् ।
[090।27]
त्र्यध्वगा स्त्रयः ।
[090।28]
सहभूसंप्रयुक्तकविपाकहेतव स्त्रिकालाः ।
कारणहेतुस्तु कालनियमानुपदर्शनात् ।
[090।29]
सर्वाध्वक श्चाध्वविप्रयुक्तश्च वेदितव्यः ।
उक्ता हेतवः ।
[090।30]
किं पुनस्तत्फलं यस्यैते हेतवः ।
[091।01]
संस्कृतं सविसंयोग फलं
[091।02]
फलं धर्माः ।
कतमे ।
"संस्कृता धर्माः प्रतिसंख्यानिरोधश्चे"ति शास्त्रम् ।
[091।02-091।04]
एवं तर्हि फलत्वादसंस्कृतस्य हेतुना भवितव्यं यस्य तत् फलं हेतुत्वाच्च फलेन भवितव्यं यस्य तद्धेतुः ।
[091।04]
संस्कृतस्यैव धर्मस्य हेतुफले भवतः ।
[091।05]
नासंस्कृतस्य ते
[091।06]
किं कारणम् ।
षड्विधहेत्वसंभवात् पञ्चविधफलासंभवाच्च ।
[091।06-091।07]
कस्मात् मार्गो विसंयोगस्य कारणहेतुर्नेष्यते ।
[091।07-091।08]
यास्मात् स उत्पादाविघ्नभावेन व्यवस्थापितो न चासंस्कृतमुत्पत्तिमत् ।
[091।08]
कस्येदानीं तत्फलं कथं वा मार्गस्य फलम् ।
[091।09]
तद्बलेन प्राप्तेः ।
प्राप्तिरेव तर्हि मार्गस्य फलं प्राप्नोति ।
[091।09-091।10]
तस्यामेव तस्य सामर्थ्यान्न विसंयोगः ।
[091।10]
अन्यथा ह्य्स्य प्राप्तौ सामर्थ्यमन्यथा विसंयोगे ।
[091।10-091।11]

कथमस्य प्राप्तौ सामर्थ्यम् ।
[091।11]
उत्पादनात् ।
कथं विसंयोगे ।
प्रपणात् ।
[091।11-091।12]
तस्मान्न तावदस्य मार्गः कथञ्चिदपि हेतुः ।
[091।12]
फलं चास्य विसंयोगः ।
[091।12-091।13]
अथासत्यधिपतिफले कथमसंस्कृतं कारणहेतुः ।
[091।13]
उत्पत्त्यनावरणभावेन कारणहेतुः ।
[091।13-091।14]
न चास्य फलमस्त्यध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात् ।
[091।14]
नैव हि क्वचिदसंस्कृतं भगवता हेतुरित्युक्तम् ।
[091।15]
उक्तं तु पर्यायेण हेतुरिति सौत्रान्तिकाः ।
कथमुक्तम् ।
[091।16]
"ये हेतवो ये प्रत्यया रूपस्योत्पादाय ते ऽप्यनित्याः ।
[091।17]
अनित्यान् खलु हेतुप्रत्ययान् प्रतीत्योत्पन्नं रूपं कुतो नित्यम् भविष्यति"
[091।18]
एवं यावद्धि विज्ञानमिति ।
[091।18-091।19]
एवं तर्हि विज्ञानस्यालमबनप्रत्ययो ऽप्यसंस्कृतं न प्राप्नोति ।
[091।19]
उत्पादायेत्यवधारणात् ।
प्राप्नोति ।
[091।20]
"ये हेतवो ये प्रत्यया विज्ञानस्योत्पादाय ते ऽप्यनित्या"
[091।21]
इत्युक्तं नतूक्तं ये विज्ञानस्य प्रत्ययाः तेप्यनित्या इति ।
[091।21-091।23]
ननु च हेतवो ऽपि य उत्पादाय त एवानित्या इति वचनादसंस्कृतस्यानावरणभावमात्रेण कारणहेतुत्वाप्रतिषेधः ।
[091।23-091।24]
उक्त आलम्बनप्रत्ययः सूत्रे न त्वनावरणहेतुरिति न सूत्रे सिध्यत्यसंस्कृतस्य हेतुभावः ।
[091।24]

यद्यपि नोक्तो नतु प्रतिषिद्धः ।
[091।24-091।25]
सूत्राणि च बहून्यन्तर्हितानीति कथमेतन्निर्धार्यते नोक्त इति ।
[091।26]
अथ को ऽयं विसंयोगो नाम ।
ननु चोक्तं प्राक् "प्रतिसंख्यानिरोध" इति ।
[091।27-092।01]
तदानीं "प्रतिसंख्यानिरोधः कतमो यो विसंयोग" इत्युक्तमिदानीं इसंयोगःकथमः ।
[092।01]
यः प्रतिसंख्यानिरोध इत्युच्यते ।
[092।01-092।02]
तदिदमितरेतराश्रयं व्याख्यानमसमर्थं तत्स्वभावद्योतने ।
[092।02]
तस्मादन्यथा तत्स्वभावो यक्तव्यः ।
[092।02-092।03]
आर्यैरेव तत्स्वभावः प्रत्यात्मवेद्यः ।
[092।03]
एतावक्तु शक्यते वक्तुम् नित्यं कुशलं चास्ति द्रव्यान्तरम् ।
[092।03-092।04]
तद्विसंयोगश्चोच्यते प्रतिसंख्यानिरोधश्चेति ।
[092।04]
सर्वमेवासंस्कृतमद्रव्यमिति सौत्रान्तिकाः ।
[092।05]
नहि तद्रूपवेदनादियत् भावान्तरमस्ति ।
किं तर्हि ।
स्प्रष्टव्याभावमात्रमाकाशम् ।
[092।06]
तद्यथा ह्यन्धकारे प्रतिधातमविन्दन्त आकाशमित्याहुः ।
[092।06-092।07]
उत्पन्नानुशयजन्मनिरोधः प्रतिसंख्यावलेनान्यस्यानुत्पादः प्रतिसंख्यानिरोधः ।
[092।07-092।08]
विनैव प्रतिसंख्यया प्रत्ययवैकलयादनुत्पादो यः सो ।प्रतिसंख्यानिरोधः ।
[092।08-092।09]
तद्यथा निकायसभागशेषस्यान्तरामरणे ।
[092।09]
निकायान्तरीयाः पुनराहुः ।
[092।09-092।10]
अनुशयानामुत्पत्तौ प्रज्ञायाः सामर्थ्यमतो ऽसौ प्रतिसंख्यानिरोधः ।
[092।10-092।11]
यस्तु पुनः दुःखस्यानुत्पादः सः उत्पादकारणानुशयवैकल्यादेवेति न तस्मिन्प्रज्ञायाः सामर्थ्यमस्त्यतो ऽसावप्रतिसंख्यानिरोध इति ।

[092।12]
सो ऽपि तु नान्तरेण प्रतिसंख्यां सिध्यतीति प्रतिसम्ख्यानिरोध एवासौ ।
[092।12-092।13]
य एवोत्पन्नस्य पश्चादभावः स एव स्वरस निरोधादप्रतिसंख्यानिरोध इत्यपरे ।
[092।13-092।14]
अस्यां तु कल्पनायामनित्यो ऽप्रतिसंख्यानिरोधः प्राप्नोत्यविनष्टे तदभावात् ।
[092।14-092।15]
ननु च प्रतिसंख्यानिरोधो ऽप्यनित्यः प्राप्नोति ।
[092।15]
प्रतिसंख्यापूर्वकत्वात् ।
[092।15-092।16]
न वै स प्रतिसंख्यापूर्वको नहि पोऊर्वं प्रतिसंख्या पश्चादनुत्पन्नानामनुत्पादः ।
[092।16]
किं तर्हि ।
[092।16-092।17]
पूर्वमेव स तेषामनुत्पादो ऽस्ति ।
[092।17-092।18]
विना तु प्रतिसंख्यया ये धर्मा उत्पत्स्यन्ते तदुत्पन्नायां प्रतिसंख्यायां पुनर्नोपपद्यन्त इति ।
[092।18-092।19]
एतदत्र प्रतिसंख्याया समर्थ्यं यदुताकृतोत्पत्तिप्रतिबन्धानामुत्पत्तिप्रतिबन्धभावः ।
[092।19-092।21]
यदि नर्हि अनुत्पाद एव निर्वाणमिदं सूत्रपदं कथं नीयते "पञ्चेमानीन्द्रियाणि आसेवितानि भावितानि बहुलीकृतान्यतीतानागतप्रत्यूत्पन्नस्य दुःखस्य प्रहाणाय संवर्त्तन्त" इति ।
[092।21-092।22]
प्रहाणं हि निर्वाणमनागतस्यैव चानुत्पादो नातीतप्रत्युत्पन्नस्येते ।
[092।22]
अस्त्येतदेवम् ।
[092।22-092।24]
किं तु तदालम्बनक्लेशप्रहाणात् दुःखस्य प्रहाणमुक्तं भगवता "यो रूपे च्छन्दरागस्तं प्रजहीत ।
[092।24-092।25]
च्छन्दरागे प्रहीणे एवं वस्तद्रूपं प्रहीणं भविष्यति पारिज्ञातं विस्तरेण यावद् विज्ञानमि"ति ।
[092।25]
एवं त्रैयध्विकस्यापि दुःखस्य प्रहाणं युज्यते ।
[092।26]
अथाप्यतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेत्युच्येत ।
अत्राप्येष नयः ।
[092।27-092।29]
अथवा ऽयमभिप्रायो भवेदतीतः क्लेशः पौर्वजन्मिकः प्रत्युत्पन्नः क्लेश ऐहजन्मिको यथा तृष्णा विचरितेष्वष्टादश तृष्णाविचरितान्यतीतमध्वानमुपादायेत्यतीतं जन्माधिकृत्योक्तमेवं यावत् प्रत्युत्पन्नम् ।
[092।29-093।01]
तेना च क्लेशद्वयेनास्यां सन्ततौ बीजभाव आहितो ऽनागतस्योत्पत्तये ।
[093।01]

तस्य प्रहाणात्तदपि प्रहीणं भवति ।
[093।01-093।02]
यथा विपाकक्षयात्कर्मं क्षीणं भवति ।
[093।02-093।03]
अनागतस्य पुनर्दुःखस्य क्लेशस्य वा बीजाभावात् अत्यन्तमनुत्पादः प्रहाणम् ।
[093।03-093।04]
अन्यथा ह्यतीतप्रत्युत्पन्नस्य किं प्रहातव्यम् ।
[093।04]
नहि निरुद्धे निरोधाभिमुखे च यत्नः सार्थको भवतीति ।
[093।04-093।06]
यद्यसंस्कृटं नास्त्येव, यदुक्तं भगवता "ये केचिद्धर्माः संस्कृता वा ऽसंस्कृता वा विरागस्तेषामग्र आख्यायते" इति कथमसतामसन्नग्रो भवितुमर्हति ।
[093।06-093।07]
न वै नास्त्येवासंस्कृतमिति ब्रूमः ।
[093।07]
एतत्तु तदीदृशं यथा ऽस्माभिरुक्तम् ।
[093।07-093।08]
तद्यथा अस्ति शब्दस्य प्रागभावो ऽस्ति पश्चादभाव इत्युच्यते ।
[093।08]
अथ च पुनर्नाभावो भावः सिध्यति ।
[093।08-093।09]
एवमसंस्कृतमपि द्रष्टव्यम् ।
[093।09-093।10]
अभावो ऽपि च कश्चित् प्रशस्यतमो भवति यः सकलस्योपद्रवस्यात्यन्तमभाव इत्यन्येषां सो ऽग्र इति प्रशंसां लब्धुमर्हति ।
[093।10]
विनेयानां तस्मिन्नुपच्छन्दनार्थम् ।
[093।11]
यद्यप्यसंस्कृतमभावमात्रं स्यान्निरोध आर्यसत्यं न स्यात् ।
नहि ततु किञ्चिदस्तीति ।
[093।12]
कस्तावदयं सत्यार्थः ।
ननु चाविपरीतार्थः ।
[093।12-093।14]
उभयमपि चैतदविपरीतं दृष्टमार्यैर्यदुत दुःखं च दुःखमेवेति दुःखाभावश्चाभाव एवेति को ऽस्यार्यसत्यत्वे विरोधः कथमभावश्च नाम तृतीयं चार्यसत्यं स्यात् ।
[093।14-093।15]
उस्तं यथार्यसत्यं द्वितीयस्यानन्तरं दृष्टमुद्दृष्टं चेति तृतीयं भवति ।
[093।15-093।16]
यद्यसंस्कृतमभावमात्रं स्यादाकाशनिर्वाणालम्बनविज्ञानमसदालम्बनं स्यात् ।
[093।16-093।17]
एतदतीतानागतस्यास्तित्वचिन्तायां चिन्तयिष्यामः ।
[093।17]

यदि पुनर्द्रव्यमेवासंस्कृतमिष्येत किं स्यात् ।
[093।17-093।18]
किं च पुनः स्यात् ।
[093।18]
वैभाषिकपक्षः पालितः स्यात् ।
[093।18-093।19]
देवता एनं पालयिष्यन्ति पालनीयं चेत् मंस्यते ।
[093।19]
अभूतं तु परिकल्पितं स्यात् ।
किं कारणम् ।
[093।19-093।20]
नहि तस्य रूपवेदनादिवत् स्वभाव उपलभ्यते नचापि चक्षुरादिवत्कर्म ।
[093।20-093।21]
अमुष्य च वस्तुनो ऽयं निरोघ इति षष्ठीव्यवस्था कथं प्रकल्प्यते ।
[093।21-093।22]
नहि तस्य तेन सार्धं कश्चित्संबन्धो हेतुफलादिभावासंभवात् ।
[093।22]
प्रतिषेधमात्रं तु युज्यते अमुष्याभाव इति ।
[093।22-093।23]
भावान्तरत्वे ऽपि यस्य क्लेशस्य प्राप्तिविच्छेदाय्द्यो निरोधः प्राप्यते स तस्येति व्यवदिश्यते ।
[093।24]
तस्य तर्हि प्राप्तिनियमे को हेतुः ।
[093।24-093।25]
"दृष्टधर्मनिर्वाणप्राप्तो भिक्षुरि"त्युक्तं सूत्रे ।
[093।25]
तत्र कथमभावस्य प्राप्तिः स्यात् ।
[093।25-093।26]
प्रतिपक्षलाभेन क्लेशपुनर्भवोत्पादात्यन्तविरुद्धाश्रय लाभात् प्राप्तं निर्वाणमित्युच्यते ।
[093।26-093।27]
आगमश्चाप्यभावमात्रं द्योतयति ।
[093।27]
एवं ह्याह ।
[093।27-094।01]
"यत् स्वल्पस्य दुःखस्याशेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपक्षमो ऽस्तङ्गमः अन्यस्य च दुःखस्याप्रति सन्धिरनुत्पादो ऽप्रादुर्भावः ।
[094।01-094।02]
एतत्कान्तमेतत्प्रणीतं यदुत स्र्वोपाधिप्रनिनिः सर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाण" मिति ।
[094।02-094।03]
किमेवं नेष्यते नास्मिन् प्रादुर्भव्बतीत्यतो ऽप्रादुर्भाव इति ।
[094।03]
असमर्थामेतां सप्तमीं पश्यामः ।

किमुक्तं भवति ।
[094।04-094।05]
नास्मिन्प्रादुर्भवतीति यदि सतीत्यभिसंबध्यते नित्यमेवाप्रादुर्भावप्रसङ्गो निर्वाणस्य नित्यत्वात् ।
[094।05-094।06]
अथ प्राप्त इत्यभिसंबध्यते यत एव तत्प्राप्तिः परिकल्प्यते तस्मिन्नेव संमुखीभूते प्राप्ते वा दुःखस्येष्यतामप्रादुर्भावः ।
[094।06-094।07]
अयं च दृष्टान्त एवं सूपनीतो भवति ।
[094।08]
"प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतस" इति ।
[094।09]
यथा प्रद्योतस्य निर्वाणमभाव एवं भगवतो ऽपि चेतसो विमोक्ष इति ।
[094।09-094।10]
अभिधर्मे ऽपि चोक्तम् "अवस्तुका धर्माः कतमे ।
[094।10]
असंस्कृता धर्मा" इति ।
[094।10-094।11]
अवस्तुका अशरीरा अस्वभावा इत्युक्तं भवति ।
[094।11]
नास्यायमर्थः ।
[089।411-09411]
कस्तर्हि ।
[094।11]
पञ्चविधवस्तु ।
[094।11-094।12]
स्वभाववस्तु यथोक्तं "यद्वस्तु प्रतिलब्धं समन्वागतः स तेन वस्तुने"ति ।
[094।12]
आलम्बनवस्तु ।
[094।12-094।13]
यथोक्तं "सर्वधर्मज्ञेया ज्ञानेन यथावस्त्वे"ति ।
[094।13]
संयोगवस्तु ।
[094।13-094।14]
यथोक्तं "यस्मिन् वस्तुनि अनुनयः संयोजनेन संप्रयुक्तः प्रतिघसंयोजनेनापि तस्मिन्नि"ति ।
[094।14-094।15]
हेतुवस्तु यथोक्तं "सवस्तुका धर्माः कतमे ।
[094।15]
संस्कृता धर्मा" इति ॥
परिग्रहवस्तु ।
[094।15-094।16]
यथोक्तं "क्षत्रवस्तु गृहवस्त्वि"ति ।

मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc