अभिधर्मकोशभाष्य · भाग 121140
अत उभे अप्येते कामरूपाश्रये ।
[071।22-071।23]
तत्रापि त्वयं विशेषः ।
[071।24]
निरोधाख्यादितो नृषु
[071।25]
निरोधसमापत्तिः प्रथमतो मनुष्येपूत्पाद्यते पश्चाद्रूपधातौ परिहीणपूर्वैः ।
[071।26]
किमतो ऽप्यस्ति परिहाणिः ।
अस्तीत्याह ।
[071।26-072।01]
अन्यथा हि न्दायि सूत्रं विरुध्येत ।
[072।01-072।02]
"इहायुष्मन्तो भिक्षुः शीलसंपन्नश्च भवति समाधिसंपन्नश्च प्रज्ञासंपन्नश्च ।
[072।02-072।05]
सो ऽभीक्ष्णं संज्ञावेदयित निरोधं समापद्यते च व्युत्तिष्ठते चास्ति चैतत् स्थानमिति यथाभूतं प्रजानाति स न हैव दृष्ट एव धर्मे प्रतिपत्त्ये वाज्ञामारागयति नापि मरणकालसमये भेदाच्च कायस्यातिक्रम्य देवान् कवडीकाराहार भक्षानन्यतरस्मिन् दिव्ये मनोमये काय उपपद्यते ।
[072।05-072।06]
स तत्रोपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्टहते चास्ति चैतत् स्थानमिति यथाभूतं प्रजानाती"ति ।
[072।06-072।07]
अत्र हि दिव्यो मनोमयः कायो रूपावचर उक्तो भगवता ।
[072।07]
इयं च समापत्तिर्भावाग्रिकी ।
[072।08]
तत्कथमपरिहीणस्य तल्लाभिनो रूपधातौ स्यादुपपत्तिः ।
[072।08-072।09]
चतुर्थध्यानभूमिकामपि निरोधसभापतिं निकायान्तरीया इच्छन्ति ।
[072।09]
तेषां विनापि परिहाण्या सिध्यत्येतत् ।
[072।10]
एतदेव तु न सिध्यति ।
चतुर्थध्यानभूमिका ऽप्यसावस्तीति ।
किं कारणम् ।
[072।11]
"नवानुपूर्वसमापत्तय" इति सूत्रे वचनात् ।
[072।11-072।12]
यद्येष नियमः कथं व्युत्क्रान्तसमापत्तयो भवन्ति ।
[072।12]
प्राथमकल्पिकं प्रत्येष नियमः ।
[072।12-072।13]
प्रप्तप्रकामवाशित्वास्तु सन्तो विलङ्घ्यापि समापद्यन्ते ।
[072।13]
एवमनयोः समापत्त्योर्भूमितो ऽपि विशेषः ।
[072।14]
चतुर्थध्यानतया ऽग्राभूमिकत्वात् ।
[072।14-072।15]
प्रयोगतो ऽपि निःसरणविहारसंज्ञापूर्वकमनसिकारप्रयोगात् ।
[072।15]
संतानतो ऽपि पृथग्जनार्यसंतानत्वात् ।
[072।15-072।16]
फलतो ऽप्यासंज्ञिकभवाग्रफलत्वात् ।
[072।16-072।17]
वेदनीयतो ऽपि नियतानियतोपपद्योभयथावेदनीयत्वात् ।
[072।17]
प्रथमोत्पादनतो ऽपि द्विधातुमनुष्योत्पादनात् ।
[072।17-072।18]
कस्मात् पुनरेते चित्ततचैत्तनिरोधस्वभावे सत्यावसंज्ञिसमापत्तिः संज्ञावेदितनिरोधसमापत्तिश्चोच्यते ।
[072।18-072।19]
तत्प्रातिकूल्येन तत्समापत्तिप्रयोगात् ।
[072।19]
वेदनादिज्ञाने ऽपि परचित्तज्ञानवचनवत् ।
[072।19-072।20]
कथमिदानीं बहुकालं निरुद्धाच्चित्तात् पुनरपि चित्तं जायते ।
[072।20-072।21]
अतीतस्याप्यस्तित्वात् इष्यते वैभाषिकैः समनन्तरप्रत्ययत्वम् ।
[072।21]
अपरे पुनराहुः ।
[072।21-072।22]
कथं तावद् रूपोपपन्नानां चिरनिरुद्धे ऽपि रूपे पुनरपि रूपं जायते ।
[072।22]
चित्ताद् एव हि तज् जायते न रूपात् ।
[072।22-072।23]
एवं चित्तम् अप्य् अस्माद् एव सेन्द्रियात् कायाज् जायते न चित्तात् ।
[072।23-072।24]
अन्योन्यबीजकं ह्य् एतदुभयं यदुत चित्तं च सेन्द्रियश्च काय इति पूर्वाचार्याः ।
[072।24-072।25]
भदन्तवसुमित्रस्त्वाह परिपृच्छायां "यस्याचित्तिका निरोधसमापत्तिस्तस्यैष दोषो मम तु सचित्तिका समापत्तिरि"ति ।
[072।26]
ति ।
भदन्तघोषक आह तदिदं नोपपद्यते ।
[072।26-072।27]
"सति हि विज्ञाने त्रयाणां संनिपातः स्पर्शः ।
[072।27-072।28]
स्पर्शप्रत्यया च वेदना संज्ञा चेतन्ऽऽएत्युक्तं भगवता ।
[072।28]
अतः संज्ञावेदनयोरप्यत्र निरोधो न स्यात् ।
अथापि स्यात् ।
[073।01]
यथा वेदनाप्रत्यया तृष्णे"त्युक्तम् ।
[073।01-073।02]
सत्यामपि तु वेदनायामर्हतो न तृष्णोत्पत्तिरेवं सत्यपि स्पर्शे वेदन्नादयो न स्युरिति ।
[073।02]
तस्याविशेषितत्वात् ।
[073।02-073।03]
अविद्यासंस्पर्शजं हि वेदितं प्रतीत्योत्पन्ना तृष्णेत्युक्तं नतु वेदनोत्पत्तौ स्पर्शो विशेषित इत्यसमानमेतत् ।
[073।04]
तस्मादचित्तिका निरोधसमापत्तिरिति वैभाषिकाः ।
[073।04-073।05]
कथमचित्तिकायाः समापत्तित्वम् ।
[073।05]
महाभूतसमतापादनात् ।
[073।05-073।06]
समापत्तिचित्तेन च तां समापद्यन्ते समागच्छन्तीति समापत्तिः ।
[073।06]
किं पुनरेते समापत्ती द्रव्यतः स्त उताहो प्रज्ञप्तितः ।
[073।07]
द्रव्यत इत्याह ।
चित्तोत्पत्तिप्रतिबन्धनात् ।
न ।
समापत्तिचित्तेनैव तत्प्रतिबन्धनात् ।
[073।08-073।09]
समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते येन कालान्तरं चित्तस्या प्रवृत्तिमात्रं भवति ।
[073।09]
तद्विरुद्धाश्रयापादनात् ।
[073।09-073।11]
या ऽसौ समापत्तिरिति प्रज्ञप्यते तच्चाप्रवृत्तिमात्रं न पूर्वमासीन्न पश्चात् भवति व्युत्थितस्येति संस्कृता ऽसौ समापत्तिः प्रज्ञप्यते ।
[073।11]
अथवा आश्रयस्यैव तथा समापादनं समापत्तिः ।
[073।11-073।12]
एवमासंज्ञिकमपि द्रष्टव्यम् ।
[073।12-073।13]
चित्तमेवासौ तत्र चित्तप्रवृत्तिविरुद्धं लभते तच्चाप्रवृत्तिमात्रमासंज्ञिकं प्रज्ञप्यत इति तदेतन्न वर्णयन्ति ।
[073।13]
व्याख्याते समापत्ती ॥
[073।14]
जीवितं कतमत् ।
[073।15]
आयुर्जीवितम्
[073।16]
एवं ह्युक्तमभिधर्मे ऽजीवितेन्रियं कतमत् ।
त्रैधातुकमायुरि"ति ।
[073।16-073।17]
एतच्चैव न ज्ञायते आयुर्नाम क एष धर्म इति ।
[073।18]
आधार ऊष्मविज्ञानयोर्हि यः ।
[073।19]
इदमुक्तं भगवता
[073।20-073।21]
"आयुरूष्माथ विज्ञानं यदा कायं जहत्यमी ।
अपविद्धस्तदा शेते यथा काष्ठमचेतन" इति ॥
[073।22]
तद् य ऊष्मणो विज्ञानस्य चाधारभूतो धर्मः स्थितिहेतुस्तदायुः ।
[073।22-073।23]
तस्येदानीमायुषः क आधारभूतः ।
[073।23-073।24]
एवं तर्हि परस्परापेक्ष्यवृत्तित्वादेषां कः पूर्वं निवर्तिष्यते ।
[073।24]
यद्वशादिभवौ विवर्त्तिष्येते इति नित्यानिवृत्तिप्रसङ्गः ।
[073।25]
आयुषस्तर्हि कर्माधारभूतं यावदाक्षिप्तं कर्मणा तावदनुवर्त्तनात् ।
[073।25-073।26]
ऊष्मविज्ञानयोरपि किमर्थं कर्मैवाधारभूतं नेष्यते ।
[073।26]
मा भूत् सर्वं विज्ञानमामरणाद्विपाक इति ।
[073।27]
ऊष्मणस्तर्हि कर्माधार्भूतं भविष्यति ऊष्मा च विज्ञानस्य ।
[073।27-073।28]
एवमप्यारूप्येष्वनाधारं विज्ञानं स्यादूष्माभावात् ।
[073।28]
तस्य पुनः कर्माधारो भविष्यति ।
[073।28-074।01
न वै लभ्यते कामचारो यत् क्वचिदेवोष्मा विज्ञानस्याधारो भविष्यति क्वचिदेव कर्मेति ।
[074।02]
उक्तं चात्र ।
किमुक्तम् ।
[074।02-074।03]
"मा भूत्सर्वं विज्ञानमामरणाद्विपाक" इति ।
[074।03]
तस्मादस्त्येव तयोराधारभूतमायुः ।
[074।03-074।04]
नहि नास्तीति ब्रूमो नतु द्रव्यान्तरम् ।
[074।04]
किं तर्हि ।
त्रैधातुकेन कर्मणा निकायसभागस्य स्थितिकालावेधः ।
[074।05-074।06]
यावद्धि कर्मणा निकायसभागस्यावेधः कृतो भवत्येतावन्तं कालमवस्थातव्यमिति तावत् सो ऽवतिष्ठते तदायुरित्युच्यते ।
[074।06-074।07]
सस्यानां पाककालावेधवत् क्षिप्तेषुस्थितिकालावेधवच्च ।
[074।07-074।08]
यस्तु मन्यते संस्कारो नाम कश्चिन् गुणविशेष इषौ जायते यद्वशाद्गमनमापतनाद् भवतीति ।
[074।08-074।09]
तस्य तदेकत्वात् प्रतिपन्नाभावाच्च देशान्तरैः शीघ्र तरतमप्राप्तिकालभेदा नुपपत्तिः पतनानुपपत्तिश्च ।
[074।09-074।10]
वायुना तत्प्रतिबन्ध इति चेत् ।
[074।10]
अर्वाक्पतनप्रसङ्गो न वा कदाचिद्वायोरविशेषात् ।
[074।10-074।11]
एवं तु वर्णयन्ति द्रव्यान्तरमेवायुरस्तीति ।
[074।12]
अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथापि ।
[074।12-074।13]
प्रज्ञप्तावुक्तम् "आयुःक्षयान्मरणं न पुण्यक्षयादि"ति ।
[074।13]
चतुष्कोटिः ।
[074।13-074।14]
प्रथमा कोटिरायुर्विपाकस्य कर्मणः पर्यादानात् ।
[074।14]
द्वितीया भोगविपाकस्य ।
तृतीयोभयोः ।
[074।14-074।15]
चतुर्थी विषमापरिहारेण ।
[074।15]
आयुरुत्सर्गाच्चेति वक्तव्यक्म् ।
न वक्तव्यम् ।
आयुःक्षयादेव तन्मरणम् ।
[074।16]
प्रथमकोट्यन्तर्गमात् ।
[074।16-074।17]
क्षीणे त्वायुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् ।
[074।17]
तस्मादुभयक्षये सति मरणमायुःक्षयादित्युक्तम् ।
[074।17-074।18]
ज्ञानप्रस्थाने ऽप्युक्तम् "आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ।
[074।18]
सकृदुत्पन्नं तिष्ठनीति वक्तव्यम् ।
[074।19]
आह ।
[074।19-074।20]
कामावचराणां सत्त्वानामसंज्ञिसमापर्त्तिं निरोधसमापर्त्तिं च समापन्नानां सन्तत्युपनिबद्धं वर्त्तत इति वक्तव्यम् ।
[074।20-074।21]
समापन्नानां रूपारूप्यावचराणां च सत्त्वानां सक्र्दुत्पन्नं तिष्ठतीति वक्तव्यम्" ।
[074।21]
को ऽस्य भाषितस्यार्थः ।
[074।21-074।22]
यस्याश्रयोपघातादुपाघतस्तत्सन्तत्यधीनत्वात् प्रथमम् ।
[074।22-074।23]
यस्य त्वाश्रयोपघात एव नास्ति तद्यथो त्पन्नावस्थानात् द्वितीयम् ।
[074।23-074।24]
सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः ।
[074।24]
तस्मादस्त्यकालमृत्युः ।
[074।24-074।25]
सूत्र उक्तम् "चत्वार आत्मभावप्रतिलम्भाः ।
[074।25]
अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रमते न परसंचेतने"ति ।
[074।26]
चतुष्कोटिकः ।
[074।26-074।27]
आत्मसंचेतनैव क्रमते कामधातौ क्रीडाप्रमोष्काणां देवानां मनःप्रदूषकाणां च ।
[074।27-074।28]
तेषां हि प्रहर्षमनःओप्रदोषाभ्यां तस्मात् स्थानाच्च्युतिर्भवति नान्यथा।
[074।28]
दुद्धानां चेति वक्तव्यम् ।
[075।01]
स्वयंमृत्युत्वात् ।
परसंचेतनैव क्रमते गर्भाण्डगतानाम् ।
[075।01-075।02]
उभयमप्येषां कामावचराणां प्रायेण ।
[075।02-075।06]
नोभयं सर्वेषा मन्तराभविकाणां रूपारूप्यावचराणामनेकजातीयानां कामावचराणां तद्यथा नारकाणा मुत्तरकौरवाणां दर्शनमार्गमैत्रीनिरोधासंज्ञि समापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्ट धर्मिलो त्तरगङ्गिल श्रेष्ठिपुत्रयशः दुमारजीवकादीनां सर्वेषा चरमभविकानांवोधिसत्त्व मातुस्तद्गर्भायाः चक्रवर्त्तिनश्चक्रवर्त्तिमातुश्च तद्गर्भायाः।
[075।06-075।07]
अथ कस्मात्सूत्र उक्तं कतमे ते भदन्त सत्त्वा येषां नात्मसंचेतना क्रमते न परसंअचेतना ।
[075।07-075।08]
नैवसंज्ञानासंज्ञायतनोपगाः शारिपुत्रे"ति ।
[075।08-075।09]
अन्येषु किल ध्यानरूप्येध्वात्मसंचेतनास्वभूमिक आर्यमार्गः परसंचेतना उत्तरभूमिसामन्तकस्तत्र चोभयं नास्तीति ।
[075।09-075।10]
ननु चैवं तत्रापि परभूमिक आर्यमार्गः परसंचेतना प्राप्नोति ।
[075।10]
पर्यन्तग्रहणात्तर्हि तदादिसंप्रत्ययः ।
[075।11]
क्वचिदादिसंप्रत्ययः क्वचिदादिना पर्यन्तो ऽपि प्रतीयते ।
यदाह ।
[075।11-075।12]
"तद्यथा देवा ब्रह्मकायिकाः ।
[075।12]
इयं प्रथमा सुखोपपत्तिरिति ।
क्वचित् पर्यन्तेनादिरपि प्रतीयते ।
[075।13]
यदाह ।
तद्यथा देवा आभास्वराः ।
इयं द्वितीया सुखोपपत्तिरि"ति
[075।13-075।14]
अयमत्र तद्यथाशब्दो दृष्टान्तवाचक इति युक्त एतस्माच्छेषसं प्रत्ययः ।
[075।14-074।15]
एष हि दृष्टान्तधर्मो यदेकमपि तज्जातीयकं दृश्यते ।
[075।15-075।16]
स चेह तद्यथाशब्दो नास्तीत्यनुपसंहार एषः ।
[075।16]
यद्ययं तद्यथाशब्दो दृष्टान्तवाचकः स्यादिह न प्राप्नुयात् ।
[075।16-075।17]
सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथा मनुष्यस्तदेकत्याश्चदेवा इति ।
[075।17-075।18]
तस्मादुपदर्शनार्थ एवायं द्रष्टव्य इत्यलमतिप्रसङ्गेन ।
[075।18]
उक्तं जीवितम् ॥
[075।19]
लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता
[075।20]
एतानि हि संस्कृतस्य चत्वारि लक्षणानि ।
[075।20-075।21]
यत्रैतानि भवन्ति स धर्मः संस्कृतो लक्ष्यते ।
[075।21]
विपर्ययादसंस्कृतः ।
[075।21-075।22]
तत्र जातिस्तं धर्मं जनयति स्थितिः स्थपयति जरा जरयति अनित्यता विनाशयति ।
[075।22-075।23]
ननु "त्रीणिमानि संस्कृत लक्षणानी"ति सूत्र उक्तम् ।
[075।23]
चतुर्थमप्यत्र वक्तव्यं स्यात् ।
किं चात्र नोक्तम् ।
आह ।
[075।24]
स्थितिः ।
यत्तर्हि "इदं स्थित्यन्यथात्वमि"ति ।
[075।24-075।25]
जराया एष पर्यायस्तद्यथा जातेरुत्पाद इत्यनित्यतायाश्च व्यय इति ।
[075।25-076।01]
ये हि धर्माः संस्काराणामध्वसंचाराय प्रवृत्तास्त एव सूत्रे लक्षणान्युक्तान्युद्वेजनार्थम् ।
[076।01-076।02]
जातिर्हि या संस्काराननागतादध्वनः प्रत्युत्पन्नमध्वानं संचारयति ।
[076।02-076।03]
जरा ऽनित्यते पुनः प्रत्युत्पन्नादतीतं दुर्बलीकृत्य प्रतिघातात् ।
[076।03]
तद्यथा किल गहनप्रविष्टस्य पुरुषस्य त्रयः शत्रवः ।
[076।03-076।04]
तत एक एनं गहनादाकर्षेत् द्वौ पुनर्जीविताद्वच्यपरोपयेतां तद्वदिति ।
[076।04-076।05]
स्थितिस्तु तान् संस्कारानुपगुह्य तिष्ठत्यवियोगमिवेच्छन्ती ।
[076।05-076।06]
अतो ऽसौ संस्कृतलक्षणं न व्यवस्थापिता ।
[076।06]
असंस्कृतस्यापि च स्वलक्षणे स्थितिभावात् ।
[076।06-076।07]
अन्ये पुनः कल्पयन्ति स्थितिं जरां चाभिसमस्य स्थित्यन्यथात्वमित्येकं लक्षणमुक्तं सूत्रे ।
[076।07]
किं प्रयोजनम् ।
[076।08-076।09]
एषा ह्येषु सङ्गास्पदमतः श्रियमिवैनां कालकर्णीसहितां दर्शयामास तस्यामनासङ्गार्थमिति ।
[076।09]
अतश्चत्वार्येव संस्कृत लक्षणानि ।
[076।09-076।10]
तेषामपि नाम जात्यादीनां संस्कृतत्वादन्यैर्जात्यादिभिर्भवितव्यम् ।
[076।10]
भवन्त्येव ।
[076।11]
जातिजात्यादयस्तेषां
[076।12]
तेषामपि चत्वार्यनुलक्षणानि भवन्ति ।
[076।12-076।13]
जातिजातिः स्थितिस्थितिः जराजरा अनित्यता ऽनित्यता इति ।
[076।13]
ननु चैकस्यैकस्य चतुर्लक्षणी प्राप्नोति अपर्यवसानदोषश्च ।
[076।14]
तेषां पुनरन्यजात्यादिप्रसङ्गात् ।
न प्राप्नोति ।
यस्मात् ।
[076।15]
ते ऽष्टधर्मैकवृत्तयः ।
[076।16]
तेषां जात्यादीनामष्टासु धर्मेषु वृत्तिः ।
किमिदं वृत्तिरिति ।
कारित्रं पुरुषकारः ।
[076।17]
जातिजात्यादीनां चैकत्र धर्मे कथं कृत्वा आत्मना नवमो हि धर्म उत्पद्यते ।
[076।18]
सार्धं लक्षणानुलक्षणैरष्टाभिः ।
[076।18-076।19]
तत्र जातिरात्मानं विरहय्यान्यानष्टौ धर्मान् जनयति ।
[076।19]
जातिजातिः पुन स्तामेव जातिम् ।
[076।19-076।20]
तद्यथा किल काचित् कुक्कुटी बहून्य पत्यानि प्रजायते काचिदल्पानि ।
[076।20-076।21]
तद्वत् स्थितिरप्यात्मानं वर्जयित्वा ऽन्यानष्टौ धर्मान् स्थापयति स्थितिस्थितिस्तु तामेव स्थितिम् ।
[076।21-076।22]
एवं जरा ऽनित्यते अपि यथायोग्यं यज्ये ।
[076।22]
तस्माना भवत्यनवस्थाप्रसङ्गः ।
[076।22-076।23]
तदेतदाकाशं पाट्यत इति सौत्रान्तिकाः ।
[076।23-076।24]
नह्येते जात्यादयो धर्मा द्रव्यतः संविद्यन्ते यथा ऽभिव्यज्यन्ते ।
[076।24]
किं कारणम् ।
प्रमाणाभावात् ।
[076।24-076।25]
नह्येषां द्रव्यतो ऽस्तित्वे किञ्चिदपि प्रमाणमस्ति प्रत्यक्षमनुमानमाप्तागमो वा यथा रूपादीनां धर्माणामिति ।
[076।26-076।27]
यत्तर्हि सूत्र उक्तं "संस्कृतस्योत्पादो ऽपि प्रज्ञायते व्ययो ऽपि स्थित्यन्यथात्वमपी" ति ।
[076।27]
ग्रन्थज्ञो देवानां प्रियो नत्वर्थज्ञः ।
अर्थश्च प्रतिशरण मुक्तं भगवता ।
[076।28]
कः पुनरस्यार्थः ।
[076।28-076।29]
अविद्यान्धा हि बालाः संस्कारप्रवाहमात्मात आत्मीयतश्चाधिमुक्ता अभिष्वजन्ते ।
[076।29-077।02]
तस्य मिथ्याधिमोक्षस्य व्यावर्त्तनार्थं भगवांस्तस्य संस्कारप्रवाहस्यसंस्कृतत्वं प्रतीत्यसमुत्पन्नतां द्योतयितुकाम इदमाह "त्रिणीमानि संस्कृतस्य संस्कृतलक्षणानि" ।
[077।02]
न तु क्षणस्य ।
नहि क्षणस्योत्पादादयः प्रज्ञायन्ते ।
[077।03]
नचाप्रज्ञायमाना एते लक्षणं भवितुमर्हन्ति ।
[077।03-077।04]
अथ एवात्र सूत्रे "संस्कृतस्योत्पादो ऽपि प्रज्ञायत" इत्युक्तम् ।
[077।04-077।05]
पुनः संस्कृतग्रहणं संस्कृतत्वे लक्षणानीति यथा विज्ञाये त ।
[077।05-077।06]
मैवं विज्ञायि संस्कृतस्य वस्तुनो ऽस्तित्वे लक्षणानि जलवलाकावत् साध्वसादुत्वे वा कन्यालक्षणवदिति ।
[077।06-077।07]
तत्र प्रवाहस्यादिरुत्पादो निवृत्तिर्व्ययः ।
[077।07]
स एव प्रवाहो ऽनुवर्त्तमानः स्थितिः ।
[077।07-077।08]
तस्य पूर्वापरविशेषः स्थित्यन्यथात्वम् ।
[077।08-077।09]
एवं च कृत्वोक्तं "विदिता एव नन्दस्य कुलपुत्रस्य वेदना उत्पद्यन्ते विदिता अव तिष्ठन्ते विदिता अस्तं परिक्षयं पर्यादानं गच्छन्ती"ति ।
[077।10]
आह चात्र
[077।11-077।12]
"जातिरादिः प्रवाहस्य व्ययश्छेदः स्थितिस्तु सः ।
स्थित्यन्यथात्वं तस्यैव पूर्वापरविशिष्टता ॥"
[077।13-077।14]
"जातिरपूर्वो भावं स्थितिः प्रबन्धो व्ययस्तदुच्छेदः ।
स्थित्यन्यथात्वमिष्टं प्रबन्धपूर्वापरविशेष" इति ॥
[077।15-077।16]
"क्षणिकस्य हि धर्मस्य विना स्थित्या व्ययो भवेत् ।
न च व्येत्येव तेनास्य वृथा तत्परिकल्पना ॥"
[077।17]
तस्मात् प्रवाह एव स्थितिः ।
एवं च कृत्वा ऽयमप्यभिधर्मनिर्देश उपपन्न्नो भवति ।
[077।18]
"स्थितिः कतमा ।
उत्पन्नानां संस्काराणामविनाश" इति ।
[077।18-077।19]
नहि क्षणस्योत्पन्नस्याविनाशो ऽस्तीति ।
[077।19]
यदपि च ज्ञानप्रस्थान उक्तम् "एकस्मिंश्चित्ते क उत्पादः ।
[077।20]
आह ।
जातिः ।
को व्ययो मरणम् ।
किं स्थित्यन्यथात्वं जरे"ति ।
[077।20-077।21]
तत्रापि निकायसभागचित्तं युज्यते ।
[077।21-077।22]
प्रतिक्षणं चापि संस्कृतस्यैतानि लक्षणानि युज्यन्ते विना ऽपि द्रव्यान्तरकल्पनया ।
[077।22]
कथमिति ।
[077।23]
प्रतिक्षणमभूत्वाभाव उत्पादः ।
भूत्वा ऽभावो व्ययः ।
[077।23-077।24]
पूर्वस्य पूर्वस्योत्तरक्षणानुवन्धः स्थितिः ।
[077।24]
तस्याविस्दृशत्वं स्थित्यन्यथात्वमिति ।
यदा तर्हि सदृशा उत्पद्यन्ते ।
[077।24-077।25]
न ते निर्विशेषा भवन्ति ।
[077।25]
कथमिदं ज्ञायते ।
[077।25-077।26]
क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्य वज्रादेश्चिराशुतरपातकालभेदात्तन्महाभूतानां परिणामविशेषसिद्धेः ।
[077।26-077।27]
नातिवहुविशेषभिन्नास्तु संस्काराः सत्यप्यन्यथात्वे सदृशा एव दृश्यन्ते ।
[077।27-077।29]
अन्तिमस्य तर्हि शब्दार्चिःक्षणस्य परिनिर्वाणकाले च षडायतनस्योत्तरक्षणाभावात् स्थित्यह्न्यन्यथात्वं नास्तीत्यव्यापिनी लक्षणव्यवस्था प्राप्नोति ।
[077।29]
न वै संस्कृतस्य स्थितिरेवोच्यते ।
[078।01]
लक्षणमपि तु स्थित्यन्यथात्वम् ।
[078।01-078।02]
अतो यस्यास्ति स्थितिस्तस्यावश्यमन्यथात्वं भवतीति नास्ति लक्षणव्यवस्थाभेदः ।
[078।02-078।04]
समासतस्त्वत्र सूत्रे संस्कृतस्येदं लक्षणमिति द्योतितं भगवता "संस्कृतं नाम यद्भूतवा भवति भूत्वा च पुनर्न भवति यश्चास्य स्थितिसंज्ञकः प्रबन्धः सो ऽन्यथा चान्यथा च भवती"ति ।
[078।04-078।05]
किम् अत्र द्रव्यान्तरैर् जात्यादिभिः कथम् इदानीं स एव धर्मो लक्ष्यस् तस्यैव लक्षणं योक्ष्यते ।
[078।05-078।08]
कथं तावन् महापुरुषलक्षणानि महापुरुषान् नान्यानि सास्ना-लाङ्गूल-ककुद-शफ-विषाणादीनि च गोत्वलक्षणानि गोर् नान्यानि काठिन्यादीनि च पृथिवीधात्वादीनां लक्षणानि तेभ्यो नान्यानि ।
[078।08-078।09]
यथा चोध्र्वगमनेन दूराद्धूमस्य धूमत्वं लक्ष्यते नच तत्तस्मादन्यत् ।
[078।09]
स एवात्र न्यायः स्यात् ।
[078।09-078।10]
नच संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते ।
[078।10-078।11]
गृह्णतापि स्वभावं यावत् प्रागभावो न ज्ञायते पश्चाच्च सन्ततेश्च विशेषः ।
[078।11-078।12]
तस्मान्न तेनैव तल्लक्षितं भवति नच तेभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते ।
[078।12]
अथापि नाम द्रव्यान्तराण्येव जात्यादीनि भवेयुः ।
[078।12-078।13]
किमयुक्तं स्यात् ।
[078।13-078।14]
एको धर्मः एकस्मिन्नेव काले जातः स्थितो जीर्णो नष्टः स्यादेषां सहभूत्वात् ।
[078।14]
कारित्रकालभेदात् ।
अनागता हि जातिः कारित्रं हि करोति ।
[078।14-078।16]
यस्मान्न जातं जन्यते जनिते तु धर्मे वर्त्तमानाः क्षित्यादयः कारित्रं कुर्वन्तीति न यदा जायते तदा तिष्टति जीर्यति विनश्यति वा ।
[078।16]
इदं तावदिह संप्रधार्यं भवेत् ।
[078।16-078।17]
किमनागतं द्रव्यतो ऽस्ति नास्तीति पश्चाज्जनयति वा नवेति सिध्येत् ।
[078।17-078।18]
सत्यपि तु तस्मिन् जातिः कारितरं कुर्वती कथमनागता सिध्यतीत्यनागत लक्षणं वक्तव्यम् ।
[078।18-078।20]
उपरतकारित्रा चोत्पन्ना कथं वर्त्तमाना सिध्यतीति वर्त्तमानलक्षाणं वक्तव्यम् ।
[078।20-078।21]
स्थित्यादयो ऽपि च युगपत् कारित्रे वर्त्तमाना एकक्षण एव धर्मस्य स्थितजीर्णविनष्टतां प्रसञ्जेयुः ।
[078।21-078।22]
यदैव ह्येनं स्थितिः स्थापयति तदैव ज्रा जरयति अनित्यता विनाशयतीति ।
[078।22-078।24]
किमयं तत्र काले तिष्टत्वाहोस्विज्जीर्यतु विनश्यतु वा यो ऽपि हि ब्रूयात् स्थित्यादीनामपि कारित्रं क्रमेणेति तस्य क्षणिकत्वं बाध्यते ।
[078।24]
अथाप्येवं ब्रूयात् एष एव हि नः क्षणो यावतैतत् सर्वं समाप्यत इति ।
[078।25-078।26]
एवमपोइ ताभ्यां सहोत्पन्ना स्थितिस्तावत् स्थापयति न ज्रा जरयति अनित्यता वा विनाश्यतीति ।
[078।26]
कुत एतत् ।
स्थितेर्बलीयस्त्वात् ।
पुनः केनावलीयस्त्वम् ।
[078।26-078।27]
यदैनां सह धर्मेणानित्यता हन्ति ।
[078।27]
कृतकृत्या पुनः कर्त्तुं नोत्सहते जातिवत् ।
[078।28]
स्थतुर्युक्तमनुत्सोढुम् ।
[078।28-078।29]
नहि शक्यं जात्यादिजन्यं वर्तमानतामानीतं पुनरानेतुम् ।
[078।29]
शक्यं तु खलु स्थित्या स्थाप्यमत्यन्तमपि स्थापयितुम् ।
[078।29-079।01]
अतो न युक्तं यन्नोत्सहते ।
[079।01]
को वा ऽत्र प्रतिबन्धः ।
ते एव जरा ऽनित्यते ।
[079।01-079।02]
यदि हि ते बलीयस्यौ स्यातां पूर्वमेव स्याताम् ।
[079।02-078।04]
निवृत्तकारित्रायां खल्वपि स्थितौ त चापि न तिष्टतः स चापि धर्म इति कथं कुत्र वा कारित्रं कर्त्तुमुत्सहिष्येते किं वा पुनस्ताभ्यां कर्त्तव्यम् ।
[079।04-079।05]
स्थितिपरिग्रहाद्धि स धर्म उत्पन्नमात्रो न व्यनश्यत् ।
[079।05-079।06]
स तु तया व्युपेक्ष्यमाणो नियतं न स्थास्यत्ययमेवास्य विनाशः ।
[079।06]
स्याच्च तावदेकस्य धर्मस्योत्पन्नस्याविनाशः स्थितिः विनाशो ऽनित्यता ।
[079।07]
जरा तु खलु सर्वथात्वेन न तथा ।
पूर्वापरविशेषात् विपरिणामाच्च ।
[079।07-079।08]
अतस्तदन्यथात्वे ऽन्य एव ।
[079।08]
उक्तं हि
[079।09-079।10]
"तथात्वेन जरा ऽसिद्धिरन्यथात्वे ऽन्य एव सः ।
तस्मानैकस्य भावस्य जरा नामोपपद्यते"॥
[079।11-079।12]
यो ऽप्याह निकायान्तरीयो "विनाश कारणं प्राप्यानित्यता विनाशायती"ति तस्य हरीतकीं प्राप्य देवता विरेचयतीत्यापन्नं भवति किं पुनस्तां कल्पयित्वा ।
[079।12-079।15]
तत् एवास्तु विनाशकारणाद्विनाशः चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात्तदनित्यताया विनाशकारणानपेक्षत्वात् स्थित्यनित्यते कारित्रमभिन्नकालं कुर्यातामित्येकस्यैकत्र काले स्थित विनष्टता संप्रसज्येत ।
[079।15-070।16]
तस्मात् प्रवाहं प्रत्येतानि संस्कृतलक्षणान्युक्तानीत्येवमेतत्सूत्रं सूनीतं भवति ।
[079।17]
अपिच यद्यनागता जातिर्जन्यस्य जनिका किमर्थं सर्वमनागतं युगपन्नोत्पद्यते ।
यस्मात्
[079।18]
जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्वेना
[079।19]
नहि विना हेतुप्रत्ययसामग्रया जातिर्जनिका भवति ।
[079।19-079।20]
हेतुप्रत्ययानामेव तर्हि सामर्थ्यं पश्यामः ।
[079।20-079।21]
सति सामर्ग्य भावादसति चाभावान्न जातेरिति हेतुप्रत्यया एव जन काःसन्तः ।
[079।21]
किं च भोः सर्वं विद्यमानमुपलभ्यते ।
[079।22]
सूक्ष्मा अपि धर्मप्रकृतयः संविद्यन्ते ।
[079।22-079।23]
जातमित्येव तु न स्यादसत्यां जातौ षष्ठिवचनं च रूपस्योत्पादः इति यथा रूपस्य रूपमिति ।
[079।23-079।24]
एवं यावदनित्यता यथायोगं वक्तव्या ।
[079।24]
तेन तर्ह्य् अनात्मत्वम् अप्य् एष्टव्यम् अनात्मबुद्धि-सिद्ध्यर्थम् ।
[079।24-079।26]
संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-सत्तादयो ऽपि तीर्थकर-परिकल्पिता अभ्युपगन्तव्या एक-द्वि-महदणु-पृथक्-संयुक्त-वियुक्त-परापर-सदादि-बुद्धि-सिद्ध्यर्थम् ।
[079।26-079।27]
षष्टीविधानार्थं च रूपस्य संयोग इति ।
[079।27]
एषा च षष्टो कथं कल्प्यते ।
[079।27-079।28]
रूपस्य स्वभाव इति ।
[079।28]
तस्मात् प्रज्ञप्तिमात्रमेवैतदभूत्वाभावज्ञापनार्थं क्रियते जातमिति ।
[079।28-080।01]
स चाभूत्वाभावलक्षाण उत्पादो बहुविकल्पः ।
[080।01-080।02]
तस्य विशेषणार्थं रूपस्योत्पाद इति षष्टीं कुर्वन्ति यथा रुपसंज्ञक एवोत्पादः प्रतीयेत मा ऽन्यः प्रत्यायीति ।
[080।02-080।03]
तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरमिति ।
[080।03-080।04]
एवं स्थित्यादयो ऽपि यथायोगं वेदितव्याः ।
[080।04]
यदि जात्या विना जायते कस्मादसंस्कृतमप्याकाशादिकं न जायते ।
[080।05]
जायत् इत्यभूत्वा भवति ।
असंस्कृतं च नित्यमस्तीति न जायते ।
[080।05-080।06]
यथा च धर्मतया न सर्वं जातिमदिष्यते तथा न सर्वं जायत इत्येष्टव्यम् ।
[080।06-080।08]
यथा च तुल्ये जातिमत्त्वे तदन्ये प्रत्ययास्तदन्यस्योत्पादने न समर्था भवन्त्येवमेवासंस्कृतस्योत्पादने सर्वे ऽप्यसमर्थाः स्युः ।
[080।08]
सिद्धा एव तु द्रव्यभावेन जात्यादय इति वैभाषिकाः ।
[080।09-080।10]
नहि दूषकाः सन्तीत्यागमा अपास्यन्ते नहि मृगाः सन्तीति यवा नोष्यन्ते नहि मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते ।
[080।10-080।11]
तस्माद्दोषेषु प्रतिविधातव्यं सिद्धान्तश्चानुवर्त्तितव्यः ।
[080।11]
उक्तानि लक्षणानि ॥
[080।12]
नामकायादयः कतमे ।
[080।13]
नामकायादयः संज्ञावाक्याक्षरसमुक्तयः ।
[080।14]
आदिग्रहणेन पदव्यञ्जनकायग्रहणम् ।
तत्र संज्ञाकरणं नाम ।
[080।14-080।15]
तद्यथा रूपं शब्द इत्येवमादिः ।
[080।15-080।16]
वाक्यं पदं यावता ऽर्थपरिसमाप्तिस्तद्यथा "अनित्या वत संस्कारा" इत्येवमादि येन क्रियागुणकालसंबन्धविशेषा गम्यन्ते ।
[080।16-080।17]
व्यञ्जनमक्षरं तद्यथा अ आ इत्येवमादि ।
[080।17]
ननु चाक्षराण्यपि लिप्यवयवानां नामानि ।
[080।17-080।18]
न वै लिप्यवयवानां प्रत्यायनार्थमक्षाराणि प्रणीतान्यक्षराणामेव तु प्रत्यायनार्थं लिप्यवयवाः प्रणीताः ।
[080।19]
कथमश्रूयमाणानि लेख्येन प्रतीयेरन्निति नाक्षराण्येषां नामानि ।
[080।19-080।20]
एषां च संज्ञादीनां समुक्तयो नामादिकायाः ।
[080।20]
उच समवाये पठन्ति ।
तस्य समुक्तिरित्येतद् रूपं भवति ।
[080।21]
यो ऽर्थः समवाय इति सो ऽर्थः समुक्तिरिति ।
[080।21-080।22]
तत्र नामकायस्तद्यथा रूपशब्दगन्धरसस्प्रष्टव्यानीत्येवमादि ।
[080।22-080।23]
पदकायः तद्यथा "सर्वसंस्कारा अनित्याः सर्वधर्म अनात्मानः शान्तं निर्वाणमि" त्येवमादि ।
[080।23-080।24]
व्यञ्जनकायस्तद्यथा क ख ग घ ञेत्येवमादि ।
[080।24-080।25]
ननु चैते वाक्स्वभावत्वाच्छब्दात्मका इति रूपस्वभावा भवन्ति ।
[080।25]
कस्माच्चित्तविप्रयुक्ता इत्युच्यन्ते ।
नैते वाक्स्वभावाः ।
[080।25-080।26]
घोषो हि वाक् नच घोषामात्रेनार्थाः प्रतीयन्ते ।
[080।26]
किं तर्हि ।
[080।26-080।28]
वाङ्नाम्नि प्रव्र्त्तते नामार्थं द्योतयति नैव घोषमात्रं वाग् येन तु घोषेणार्थः प्रतीयते स घोषो वाक् ।
[080।28]
केन पुनर्घोषेणार्थः प्रतीयते ।
[080।28-081।01]
यो ऽर्थेषु कृतावधिर्वक्तृभिस्तद्यथागौरित्येष शब्दो नवस्वर्थेषु कृतावधिः ।
[081।02-081।03]
"वाग्दिग्भूरश्मिवज्रेषु पश्वक्षिस्वर्गवारिषु ।
नवस्वर्थेषु मेधावी गोशब्दमुपधारयेदि"ति ॥
[081।04-081।05]
यो ऽपि हि मन्यते नामार्थं द्योतयतीति तेनाप्येतदवश्यमभ्युपगन्तव्यं यदि प्रतीपदार्थकं भवतीति ।
[081।05-081।06]
तच्चैत च्छब्दमात्रादेव प्रतीतपदार्थकात् सिध्यतीति किमर्थरं नाम कल्पयित्वा ।
[081।06]
इदं चापि न ज्ञायते कथं वाङ्नाम्नि प्रवर्त्तत इति ।
[081।06-081।07]
किं तावदुत्पादयत्याहोस्वित् प्रकाशयति ।
[081।07]
यद्युत्पाद यति ।
[081।07-081।09]
घोषस्ववत्वाद्वाचः सर्वं घोषमात्रं नामोत्पादयिष्यति यादृशो वा घोषविआशेष इष्यते नाम्न उत्पादकः स एवार्थस्य द्योतको भविष्यति ।
[081।09]
अथ प्रकाशयति ।
[081।09-081।11]
घोषस्वभावत्वाद्वाचः सर्वं घोषमात्रं नाम प्रकशयिष्यति यादृशो वा घोषविशेष इष्यते नाम्नः परकाशकः स एवार्थस्य द्योतको भविष्यति ।
[081।11]
न खल्वपि शब्दानां सामर्ग्यमस्ति क्षणैकमिलनम् ।
[081।12]
न चैकस्य भागश उत्पादो युक्त इति कथमुत्पादयन्ती वाङ्नामोत्पादयेत् ।
[081।12-081।13]
कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिम् ।
[081।13-081।14]
एवं तर्हि पश्चिम एव दे नाम्न उत्पादाद्यो ऽपि तमेवैकम् शृणोति सो ऽप्यर्थं प्रतिपद्येत ।
[081।14-081।15]
अथाप्येवं कल्प्येत वाग्व्यञ्जनं जनयति व्यञ्जनं तु नामेति ।
[081।15-081।16]
अत्रापि स एव प्रसङ्गो व्यञ्जनां सामर्ग्याभावात् ।
[081।16]
एष एव च प्रसङ्गो नाम्नः प्रकाशकत्वे वाचः ।
[081।16-081।18]
व्यञ्जनां पि वाग्विशिष्टप्रज्ञा अप्यवहितचेतस्का लक्षणतः परिच्छेत्तुम् नोत्सहन्त इति व्यञ्जयापि वाक् नैवोत्पादिका न प्रकाशिका युज्यते ।
[081।18-081।19]
अथाप्यर्थसहजं नाम जात्यादिवदिष्यते ।
[081।19]
एवं सत्यतीतानागतस्यार्थस्य वर्त्तमानं नाम न स्याद् ।
[081।19-081।21]
अपत्यानां पितृभिर्यथेष्टं नामानि कल्प्यन्त इति कतमन्नाम तत्सहजं स्यात् असंस्कृतानां च धर्माणां केन सहजं नाम स्यादित्यनिष्टिरेवेयम् ।
[081।21-081।22]
यदप्युक्तं भगवता
[081।23]
"नामसंनिशारिता गाथा गाथानां कविराश्रयः" इति
[081।24-081।25]
अत्रार्थेषु कृतावधिः शब्दो नाम नाम्ना च रचनाविशेषो गाथेति नामसंनिताभवति रचनाविशेषाश्च द्रव्यान्तरं नोपपद्यते ।
[081।25]
पङ्क्तिवच्चित्तानुपूर्व्यवच्च ।
[081।26]
अस्तु वा व्यञ्जनमात्रस्य द्रव्यान्तरभावपरिकल्पना ।
[081।26-081।27]
तत्समूहा एव नामकायादयो भविष्यन्तीत्यपार्थिका तत्प्रज्ञप्तिः ।
[081।27-081।28]
सन्त्येव तु विप्रयुक्तसंस्कारभावना नामकाया द्रव्यत इति वैभाषिकाः ।
[081।28]
नहि सर्व धर्मास्तर्कगम्या भवन्तीति ।
[082।01-082।02]
अथ किंप्रतिसंयुक्ता एते नामकायादयः सत्त्वाख्या असत्त्वाख्या विपाकजा औपचयिका नैःष्यन्दिकाः कुशला अकुशला अव्याकृता इति वक्तव्यम् ।
[082।02]
आह
[082।03]
कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः ।
[082।04]
कामाप्ता रूपाप्ताश्चेति ।
आरुप्याप्ता अपि सन्ति ते त्वनभिलाप्या इत्यपरे ।
[082।05]
सत्त्वाख्या एते ।
यश्च द्योतयति स तैः समन्वागतो न यो द्योत्यते ।
[082।05-082।06]
नैःष्यन्दिका अनिवृताव्याकृताश्च ।
[082।06-082।07]
यथा चैते नामकायादयः सत्त्वाख्या नैःष्यन्दिका अनिवृताव्याकृताश्च ।
[082।08]
तथा
[082।09]
सभागता सा तु पुनर्विपाको ऽपि
[082।10]
न केवलं नैःष्यन्दिकी कामरूपारूप्यावचरी ।
[082।11]
आप्तयो द्विधा ।
[082।12]
प्राप्तयो नैःष्यन्दिक्यो विपाकजाश्च ।
[081।13]
लक्षणानि च ।
[081।14]
द्विधेति वर्त्तते प्राप्तिवत् ।
[082।15]
निःष्यन्दाः समापत्त्य समन्वयाः
[082।16]
द्वे अचित्तसमापत्ती असमन्वागमश्च नैःष्यन्दिका एव ।
शेषमेषां वक्तव्यमुक्तम् ।
[082।17]
शेषयोश्चासंज्ञिकजीवितयोरतो न पुनर्ब्रुमः ।
कथं प्राप्त्यादीनां सत्त्वाख्यतोक्ता समन्वागमवचनात् ।
[082।18]
कथं लक्षणानां सत्त्वासत्त्वाख्यतोक्ता ।
सर्वसंस्कृटसहभूत्वात् ॥
उक्ता विप्रयुक्ताः ॥
[082।19-082।20]
यक्तूक्तं "जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना" इति क इमे हेतवः केच प्रत्ययाः ।
[082।21-082।22]
कारणं सहभूश्चैव सभागः संप्रयुक्तकः ।
सर्वत्रगो विपाकाख्यः षड्विधो हेतुरिष्यते
[082।23]
षडिमे हेतवः ।
[082।23-082।24]
कारणहेतुः सहभूहेतुः सभागहेतुः संप्रयुक्तकहेतुः सर्वत्रगहेतुः विपाकहेतुरिति ।
[082।24]
तत्र
[082।25]
स्वतो ऽन्ये कारणं हेतुः
[082।26]
संस्कृतस्य हि धर्मस्य स्वभावव्र्ज्याः सर्वधर्माः कारणहेतुरुत्पादयति ।
[082।27]
अविघ्नभावावस्थानात् ।
[082।27-083।02]
ननु च ये ऽस्याजानत उदपत्स्यन्तास्रवा जानतो ऽस्य ते नोत्पद्यन्त इति ज्ञानमेषां विघ्नमुअत्पत्तौ करोति सूर्यप्रभावज्ज्योतिषां दर्शनस्येति कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति ।
[083।02]
उत्पद्यमानस्याविध्नभावेनावस्थानादिति ज्ञातव्यम् ।
[083।03]
भवेत्तावदुत्पत्तौ विध्नकारणे समर्थानामविघ्नकारणाद्धेतुत्वम् ।
[083।03-083।04]
तद्यथा अनुपद्रोतारं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः स्वामिना स्मः सुखिता इति ।
[083।04-083।06]
यस्य पुनर्नास्त्येव शक्तिर्विघ्नयितुं तस्य कथं हेतुभावस्तद्यथा निर्वाणस्यानुत्पत्तिधर्मकाणां च सर्वोत्पत्तौ नारकादीनां चरूप्यसत्त्व स्कन्धोत्पत्तौ ।
[083।06-083।07]
असन्तो ऽपि ह्येते तथैव विध्नं कर्त्तुमसमर्थः स्युः ।
[083।07-083।08]
असमर्थे ऽपि हि भोजके तथा वक्तारो भवन्तीति स एवात्र दृष्टान्तः सामान्येनैव निर्देशः ।
[083।08-083।09]
यस्तु प्रधानः कारणहेतुः स उत्पादने ऽपि समर्थो यथा चक्षूरूपे चक्षुर्विज्ञानस्य आहारः शरीरस्य वीजादयो ऽङ्कुरादीनामिति ।
[083।10-083।11]
यस्त्वेवं चोदयति अनावरणभावेन चेत्सर्व धर्महेतवो भवन्ति कस्माना सर्वस्योत्पादो युगपद्भवति प्राणातिपातेन च घातकवत् सर्वे तद्भाजो भवन्तीति ।
[083।11-083।12]
तस्येदमचोद्यम् ।
[083।12]
यस्मादनावरणभावेन सर्वधर्माः हेतुः प्रतिज्ञायन्ते न कारकभावेनेति ।
[083।13]
सर्वस्यैव कारणहेतोः सर्वोत्पत्तौ सामर्थ्यमित्यपरे ।
[083।13-083।14]
तद्यथा निर्वाणस्यापि चक्षुर्विज्ञानम् ।
[083।14]
कथं कृत्वा ।
मूल पाठ: Abhidharmakośabhāṣya · Edition: s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. · Data entry Dan Lusthaus Paul Hackett · GRETIL (Göttingen) · CC BY-NC-SA 4.0